ज्ञानम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


ज्ञानम् इत्येतस्य शब्दस्य विविधाः अर्थाः विद्यन्ते -

१ ज्ञा (अवबोधने) भावे ल्युट् (३-३-११५) । ज्ञाने मौनं क्षमा शक्तौ त्यागे श्लाघाविपर्ययः । (रघुवंश-१-२२)
२ मोक्षविषयिणी बुद्धिः
३ परमात्मनः स्वरूपं यत् ज्ञापयति तत् । ज्ञायतेऽनेनात्मा-ज्ञा कर ल्युट् (३-३-११७) । इदं ज्ञानम् आत्मज्ञानसाधकम् ।
आत्मज्ञानसाधकाः गुणाः
अमानित्वम् - ज्येष्ठानां विषये तिरस्कारदर्शनसदृशस्य अभिमानस्य (अहङ्कारस्य) राहित्यम् ।
अदम्भित्वम् - कीर्तेः प्राप्त्यर्थं धर्मकार्याचरणरूपस्य दम्भस्य अभावः ।
अहिंसा त्रिकरणैः (कायेन वाचा मनसा) अन्येषाम् अपीडनम् ।
क्षान्तिः - अन्यैः पीड्यमानः अस्ति चेदपि तेषां विषये अप्रतीकारभावः ।
आर्जवम् - त्रिकरणैः क्रियमाणेषु कार्येषु कौटिल्यराहित्यम् ।
आचार्योपासनम् - आत्मज्ञानप्रादातॄणाम् आचार्याणां सेवा ।
शौचम् - लोभः, अनृतम्, निषिद्धाहारसेवनम् इत्येतादृशीनाम् अशुचीनां राहित्यम् ।
स्थैर्यम् - शास्त्रेषु उक्तेषु विषयेषु श्रद्धा, अन्येषाम् उपदेशतः मनोचाञ्चल्यस्य अप्राप्तिः ।
आत्मविनिग्रहः - आत्मस्वरूपात् अतिरिक्तेषु विषयेषु मनसः प्रवृत्तेः निग्रहणम् ।
इन्द्रियार्थेषु वैराग्यम् - आत्मव्यतिरिक्तेषु विषयेषु दोषबुद्ध्या विरक्तिः ।
अनहङ्कारः - आत्मभिन्नस्य शरीरस्य विषये निरभिमानः । आत्मसम्बन्धरहितेषु वस्तुषु ममकारत्यागः ।
जन्ममृत्युजराव्याधिदुःखदोषानुदर्शनम् - जन्म-मृत्यु-जरा-व्याधिभिः प्राप्यमाणाः दुःखरूपाः दोषाः शरीरसहजम् अपरिहार्यञ्च इति अवगमनम् ।
असक्तिः - आत्मव्यतिरिक्तेषु विषयेषु आशायाः परित्यागः, तेषां सम्बन्धस्य परित्यागः च ।
पुत्रदारगृहादिषु अनभिष्वङ्गः - पुत्राः, पत्नी, गृहम् इत्येतेषु विषयेषु मोहस्य त्यागः, सम्बन्धत्यागः च ।
इष्टानिष्टोपपत्तिषु समचित्तत्वम् - इष्टवस्तुनः प्राप्तितः अति हर्षः, अनिष्टवस्तुनः प्राप्तितः दुःखम् इत्येतादृशं चित्तविकारराहित्यम् ।
अनन्ययोगेन अव्यभिचारिणी भक्तिः - परमात्मनि अनन्यचित्तेन स्थिरा भक्तिः ।
विविक्तदेशसेवित्वम् - निर्जने प्रदेशे एकान्तवासः ।
अरतिर्जनसंसदि - पामरजनानां समूहे सम्मिलने अनासक्तिः ।
अध्यात्मज्ञाननित्यत्वम् - अनवरतं ब्रह्मज्ञाने स्थितिः ।
तत्त्वज्ञानार्थचिन्तनम् - तत्त्वज्ञानस्य फलरूपस्य मोक्षस्य चिन्तने मग्नता ।
एतैः गुणैः आत्मज्ञानं प्राप्यते इत्यतः इदमेव ज्ञानम् । एतस्य व्यतिरिक्तं सर्वम् अज्ञानम् इति मन्तव्यम् ।
एतज्ज्ञानमिति प्रोक्तमज्ञानं यदतोऽन्यथा गीता १३-११
४ कर्तव्य-कार्यविषयकं ज्ञानम् - अनुष्ठातव्यस्य कार्यस्य विषये अवगमनम् ।
ज्ञानं ज्ञेयं परिज्ञाता त्रिविधा कर्मचोदना । करणं कर्म कर्तेति त्रिविधः कर्मसङ्ग्रहः गीता १८-१८ इदं ज्ञानं त्रिविधम् - सात्त्विकं, राजसं, तामसं चेति ।
ज्ञानं कर्म च कर्ता च त्रिधैव गुनभेदतः । प्रोच्यते गुणसङ्ख्याने यथावत् शृणु तान्यपि - गीता १८-१९
ब्राह्मण-क्षत्रिय-ब्रह्मचारी-गृहस्थादिषु विभिन्नेषु रूपेषु विद्यमानः आत्मा ज्ञानैककारः, अविनाशी, विकाररहितः, फलादिसम्बन्धविहीनः इति अवगमनात् सर्वेषु वस्तुषु समदृष्टिः एव सात्त्विकं ज्ञानम्
ब्राह्मण-क्षत्रिय-ब्रह्मचारी-गृहस्थादिषु विभिन्नेषु रूपेषु विद्यमानानि आत्मवस्तूनि भिन्नानि इति अवगमनम् राजसं ज्ञानम्
कस्मिंश्चित् कार्ये इदं सम्पूर्णफलप्रदम् इति धिया आसक्तिः या भवेत् सा मिथ्याभूतार्थविषयिणी अल्पफलविषयिणी च । इदं तामसं ज्ञानम्
सर्वभूतेषु येनैकं भावमव्ययमीक्षते । अविभक्तं विभक्तेषु तज्ज्ञानं विद्धि सात्त्विकम् ॥
पृथक्त्वेन तु यज्ज्ञानं नानाभावान् पृथग्विधान् । वेत्ति सर्वेषु भूतेषु तज्ज्ञानं विद्धि राजसम् ॥
यत्तु कृत्स्नवदेकस्मिन् कार्ये सक्तमहेतुकम् । अतत्त्वार्थवदल्पं च तत्तामसमुदाहृतम् ॥ - गीता १८-२०, २१,२२
५ चित्तवृत्तिनिरोधरूपः योगः
एकत्वं बुद्धिमनसोरिन्द्रियाणां च सर्वशः । आत्मनो व्यापिनस्तात ज्ञानमेतदनुत्तमम् ॥
६ (अद्वैतमते) अहं ब्रह्म इति उपासना ।
ब्रह्मैवाहं समः शान्तः सच्चिदानन्दलक्षणः । नाहं देहोह्यसद्रूपो ज्ञानमित्युच्यते बुधैः ।
७ जीव-ईश्वर-जगत्-इत्येतस्याः भ्रान्तेः अधिष्ठानभूतं स्वयंप्रकाशं चैतन्यम् ।
८ साङ्गवेदाध्ययनम् अर्थावगमनञ्च ।
वेदः - ज्ञा कर ल्युट् (३-३-११७)
१० शास्त्रम्
११ इन्द्रियम् - ज्ञायतेऽनेन ज्ञा कर ल्युट्
"https://sa.wikipedia.org/w/index.php?title=ज्ञानम्&oldid=408317" इत्यस्माद् पुनः प्राप्तिः