सामग्री पर जाएँ

गृहस्थाश्रमः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


द्वितीयो गृहस्थाश्रमः सर्वेषु आश्रमेषु श्रेष्ठः इति प्रतिपादितं शास्त्रकारैः । यतः अस्मिन् एव आश्रमे धनम् अर्जयित्वा अन्यान् त्रीन् आश्रमान् पोषयित्वा समाजधारणायाः कार्यं सम्पादयति गृहस्थः । यावन्तश्च सुखोपभोगाः अभिलषिता मनुष्यस्य तेषां सर्वेषां यथावद् अनुभवः अनुमतः अस्मिन्नेव आश्रमे । अत्रैव विवाहबन्धने प्रविश्य स्त्रीसुखम् आस्वाद्य पुत्रादीन् उत्पाद्य तांस्तान् इन्द्रियविषयान् उपभुज्य आत्मा संतोषयितव्यः किन्तु एतत् सर्वं न अनिर्बन्धम् उपभोक्तव्यम् । अपि तु समाजहितस्य अविरोधेन साधयितव्यम् इति उपदिष्टं शास्त्रकारैः । तदर्थम् एतादृशानि कर्तव्यानि विहितानि येन तादृशं समाजहितसाधनम् अनायासेन सम्पद्येत । महाभारते गृहस्थस्य कर्तव्यानि एवम् उपवर्णितानि –

धर्मागतं प्राप्य धनं यजेत् दद्यात् सदैवातिथीन् भोजयेच्च ।
अनाददानश्च परैरदत्तं सैषा गृहस्थोपनिषद् पुराणी ॥ आदि.९१३ ॥

गृहस्थधर्मः

[सम्पादयतु]

पाणिग्रहणसंस्कारसमनन्तरं गृहस्थः गृहस्थधर्मान् अनुसरति । गृहे तिष्ठतीति गृहस्थः । स च तावत् द्वे यज्ञोपवीते धृत्वा वैष्णवं दण्डं कमण्डलं च धारयति । स्नानादिनियमाचारस्सन् नित्यमौपासनं च कुर्वन् पाकयज्ञायाजी भूत्वा मनुष्ययज्ञेन अतिथीन्, दयासत्यादिगुणैः ऋषीन्, पुत्रैश्च पितॄन्, जलैःपुष्पाद्यैश्च देवान् च अर्चयति इति वैखानसधर्मसूत्रे विशेषतया गृहस्थधर्माः उपदिश्यन्ते ।

गृहस्थः गृह्याग्नौ गार्ह्याणि कर्माणि, श्रोताग्रिषु श्रोतानि च करोति ।
ऋतुरात्रिषु स्वभार्यामुपगच्छति ।
भार्यया सह न अश्नाति ।
असत्यवादं वर्जयति च ।
गृहस्थस्तावत् सर्वप्राणिहितस्सन् अद्रोहेणैव जीवति इति वैखानसधर्मसूत्रे विशेषतया प्रतिपाद्यन्ते ।

समाजधारणार्थं विशेषोपयुक्तः गृहस्थाश्रमः

[सम्पादयतु]

अथ चतुर्षु आश्रमेषु गृहस्थाश्रमः सर्वश्रेष्ठः इत्युक्तं सर्वैः शास्त्रकारैः । धर्मस्य उद्देशः समाजधारणम् । तथा समाजधारणार्थं गृहस्थः एव अधिकाधिकं परिश्रमं कुरुते । कालिदासकृते रघुवंशे रघुः कौत्सं कुशलं पृच्छन् ब्रूते –

कालो ह्ययं संक्रमितुं द्वितीयं सर्वोपकारक्षममाश्रमं ते ॥५-१० ॥

इत्यतः केवलं गृहस्थाश्रमे वर्तमानस्य केषांचित् प्रमुखानां कर्तव्यानां विवेचनमत्र क्रियते ।

चतुर्विधानाम् ऋणानां संशुध्दिः

[सम्पादयतु]

तत्र कृतज्ञताज्ञापनं भवति भारतीयानां वैशिष्ट्यपूर्णं जीवनमूल्यम् । तच्च ऋणशोधपरिकल्पनायां तथा गृहस्थेन कर्तव्येषु पञ्चमहायज्ञेषु अनुस्यूतं वर्तते । ऋणशोधपरिकल्पनायाः मूलं तु वेदे एव उपलभ्यते । तत्र तैत्तिरीयसंहितायां श्रूयते- 'जायमानो वै ब्राह्मणस्त्रिभिः ऋणैः ऋणवान् जायते । ब्रह्मचर्येण ऋषिभ्यो यज्ञेन देवेभ्यः प्रजया पितृभ्यः । एष वा अनृणी यः पुत्री यज्वा ब्रह्मचर्यवासी ।’ तै.सं. ८-३-१०-५ मनुरप्याह –ऋणानि त्रीण्यपाकृत्य मनो मोक्षे निवेशयेत् ॥ ६-३५

  1. देवऋणम्
  2. ऋषि - ऋणम्
  3. पितृ-ऋणम्
  4. मनुष्य–ऋणम्
  5. नित्यसंस्कारार्थं पञ्चमहायज्ञाः
  6. पञ्चसूनादोषपरिहारः

बाह्यसम्पर्कतन्तुः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=गृहस्थाश्रमः&oldid=395331" इत्यस्माद् प्रतिप्राप्तम्