सामग्री पर जाएँ

मनुष्य–ऋणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः



हिन्दुधर्मः

हिन्दुधर्मःइतिहासः

Portal:Hinduism

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

आदौ उपरिनिर्दिष्टानि त्रीणि एव ऋणानि परिगणितानि आसन् । तत्र कैश्चित् शास्रकारैः अनुभूतं यत् चतुर्थं समष्टेः समाजस्य वा ऋणम् अपि वर्तते । यतः मानवस्य एकाकिनः अस्तित्वमेव कल्पनां नाधिरोहति । मानवस्य समन्ततः कृषिगोरक्ष्यवाणिज्यादिषु विविधशिल्पेषु वा जनाः कार्यरताः सन्ति इत्यत् एव तस्य जीवनं सुशकं भवति इति स्पष्टमेव ।

चतुर्थस्य मनुष्य –ऋणस्यापि उल्लेखः श्रुतिषु उपलभ्यते । शतपथब्राह्मणे उक्तम् (श.ब्रा. १.७.२. १-५) –ऋणं ह वै जायते योऽस्ति । स जायमानः एव देवेभ्यः ऋषिभ्यः पितृभ्यो मनुष्येभ्यः ॥१॥….

अथ यदेव वासयेत् । तेन मनुष्येभ्यः ऋणं जायते ॥५॥

महाभारतेऽपि स्पष्टतया चतुर्णाम् ऋणानां निर्देशः प्राप्यते । तत्रोक्तम् –

ऋणैश्चतुर्भिः संयुक्ता जायन्ते भुवि मानवाः ।
पितृदेवर्षिमनुजैर्देयं तेभ्यश्च धर्मतः ॥ आदि १२०-१७ ॥

सर्वेऽपि मानवाः परमात्मनः अंशभूतत्वात् परस्परं भ्रातृभावेन बध्दाः । तं भावं मनसि कृत्वा सर्वैः स्नेहदयाक्षमादिभिः मुदुभावैः समन्वितैः एव वर्तितव्यम् । तेन आनृशंस्येन अतिथिसत्काररुपेण मनुष्य-ऋणस्य निष्कृतिः भवतीति आदिष्टं शास्त्रकारैः ।

ऋणशोधकल्पनायाः अयं विशेषः यत् तस्याः स्वरुपादेव प्रतिफलस्य आशा अपेक्षा वा न क्रियते । ऋणनिर्यातने व्ययः तु भवत्येव । किन्तु तेन व्ययेन न किमपि प्रतिफलं प्राप्यते अधमर्णेन । ऋणशोधः एव तस्य फलम् । एवम् उपरिनिर्दिष्टानि कर्मजातानि निरपेक्षतया कर्तव्यानि । केवलं जन्मनः प्रभृति यद् ऋणं शिरसि वर्तते तस्य निष्कृतिः भवति इत्येव तस्य फलम् । यद्यपि एभिः कर्मभिः पुण्यं न लभ्यते तथापि ऋणशोधे अकृते यत् पापं स्यात् तस्य अवरोधः तु भवत्येव ।

"https://sa.wikipedia.org/w/index.php?title=मनुष्य–ऋणम्&oldid=408457" इत्यस्माद् प्रतिप्राप्तम्