प्रभाकरः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


प्रभाकरस्यैव मतमनुसृत्य प्राभाकरसम्प्रदायं प्रवृत्तमिति सर्वविदितम् । शबरस्वामिनामनन्तरं शबरभाष्य विवेचनरतानां वार्तिकटीकादिग्रन्थानां प्राधान्येन द्वे शाखे प्रसृते, ययोरेका भाट्टमतमिति नाम्ना ख्यातिमगात् अपरा च प्राभाकरमतं गुरुमतं वेति नाम्ना प्रसिद्धिमुपागता। यद्यपि ‘मुरारेस्तृतीयपन्थाः’ इति तृतीयसम्प्रदायो विद्यते तथापि प्राधान्यात् द्वे एव। महाभागोऽयं कुमारिलभट्टात् मतान्तरं प्रदर्श्य शाबरभाष्यं व्याचख्यौ। अयं मीमांसकश्रेष्ठः गुरुपदवीभाक् आसीत्।

देशः[सम्पादयतु]

प्रयागस्य प्रतिष्ठानपुरनिवासी अयमिति गजाननमहाभागः।

कालः[सम्पादयतु]

गंगानाथझाप्रभृतयः कुमारिलभट्टात् पूर्वतनोऽयमित्यभिप्रयन्ति। यतो हि प्रभाकरस्य शैली सरला स्वाभाविकी चासीत्, किन्तु कुमारिलस्य शैली तु यत्नपूर्विका प्रौढा च इति। किञ्च गुरुपदवी अपि तत्र समर्थिका। कुप्पुस्वाम्यादयस्तु कुमारिलभट्टपादानामेव समकालिकः युवा विद्वान् प्रभाकरः इति अभिप्रैति। मतमिदं साम्प्रदायिका[१] अपि स्वीकुर्वन्ति। ‘पूर्वन्तुनोक्तमधुनापिनोक्तमतः पौनरुक्त्यम्’ इत्यस्याः पङ्क्तेः पूर्वं तु न उक्तम्, अधुनापि न उक्तमित्येवंरूपं पदच्छेदं विधाय पौनरुक्त्यस्यासंभव इति संभ्रान्तमनस्को गुरुः सकृद् बहिर्गतस्तदा प्रभाकरेण गुरोः पुस्तिकायां ‘पूर्वं तुना उक्तम्, अधुना अपिना उक्तम् अतः पौनरुक्त्यम्’ इत्येवं पदच्छेदो व्यलेखि, प्रत्यागतो गुरुश्च पदच्छेदावलोकनेन प्रमुदितमना नूनमस्माकं प्रभाकरो ‘गुरुः’ इति निजगाद। तदनन्तरं चापरे शिष्याः प्रभाकरं गुरुनाम्ना सम्बोधयाञ्चक्रुरिति कथा परम्परया श्रूयते। अतः सप्तमाष्टमशतकोत्पन्नत्वमस्य स्वीकर्तुं युक्तम्।

कृतिः[सम्पादयतु]

प्रभाकरेण शाबरभाष्यमधिकृत्य ‘लघ्वी’, ‘बृहती’ इति ग्रन्थद्वयं निर्मितम्। निबन्धनमिति ‘बृहती’ इत्यस्य नामान्तरम्। विवरणमिति ‘लघ्वी’ इत्यस्य नामान्तरम्। ‘लघ्वी’ इति ग्रन्थमादौ लिलेख, ततः ‘बृहती’ इति ग्रन्थमिति ऐतिह्यविदः।

तत्र तत्र प्रभाकरकुमारिलयोर्मतभेदः दृश्यते। तादृशानि कानिचित् स्थलानि अत्र प्रस्तूयन्ते−

१) कुमारिलः अभिहितान्वयवादमभ्युपगच्छति, परन्तु प्रभाकरः अन्विताभिधानवादमभ्युपैति।

२) अभाववादिकुमारिलः ‘अनुपलब्धिः’ इति षष्ठं प्रमाणं स्वीकरोति। अभावाभाववादिप्रभाकरः अनुपलब्धिव्यतिरिक्तानि पञ्च प्रमाणानि अङ्गीकरोति।

३) कुमारिलः विपरीतख्यातिवादी, प्रभाकरस्तु अख्यातिवादी।

४) आत्मा जडाजडस्वरूपः इति भट्टपादः। आत्मा जडस्वरूपः इति प्रभाकरगुरुः।

उद्धरणम्[सम्पादयतु]

  1. ‘मीमांसावार्तिकं भाट्टं भट्टाचार्यकृतं हि तत्। तच्छिष्योऽप्यल्पभेदेन शबरस्य मतान्तरम्। प्रभाकरगुरुश्चक्रे तद्धि प्राभाकरं मतम्॥’ इति। (साम्प्रदायिकः श्लोकः)

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=प्रभाकरः&oldid=395595" इत्यस्माद् पुनः प्राप्तिः