कुमारिलभट्टः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
कुमारिलभट्टः
कुमारिलभट्टः
कुमारिलभट्टः

कुमारिलभट्टः मीमांसकशिरोमणिः आसीदयं भाट्टसम्प्रदायस्य प्रवर्तकः । अस्य पिता आसीद् ‘यज्ञेश्वरभट्टः’, मातासीत् ‘चांगुणा’ इति । शबरस्वामिनामनन्तरं शबरभाष्य विवेचनरतानां वार्तिकटीकादिग्रन्थानां प्राधान्येन द्वे शाखे प्रसृते, ययोरेका भाट्टमतमिति नाम्ना ख्यातिमगात् अपरा च प्राभाकरमतं गुरुमतं वेति नाम्ना प्रसिद्धिमुपागता। यद्यपि ‘मुरारेस्तृतीयपन्थाः’ इति तृतीयसम्प्रदायो विद्यते तथापि प्राधान्यात् द्वे एव। श्रूयते यत् बौद्धमतखण्डनार्थं प्रायेण धर्मपालात् बौद्धतत्त्वस्य गभीरमध्ययनं कुमारिलः कृतवान्। स्पष्टञ्चैतत् माधवकृतशङ्करदिग्विजये−

‘अवादिषं वेदविघातदक्षैस्तन्नाशकं जेतुमबुध्यमानः।
तदीयसिद्धान्तरहस्यवार्धीन् निषेध्यबोधाद्धि निषेध्यबाधः॥’ [१] इति।

देशः[सम्पादयतु]

केचन भट्टेत्युपाधिमाश्रित्य दाक्षिणात्योऽयमिति वदन्ति। तन्न चारु। श्रूयते यत् भट्टाः आदौ उत्तरभारते आसीत्, ते च परं दक्षिणदेशमानीताः। अतः तस्य उत्तरभारतीयत्वमेव स्वीकर्तुं युक्तम्। आनन्दगिरिणाप्युदितं− ‘भट्टाचार्याख्यो द्विजवरः कश्चित् उदग्देशात् समागत्य दुष्टमतावलम्बिनो बौद्धान् जैनान् असंख्यातान्निर्जित्यनिर्भयो वर्तते।’ इति। एतेनापि तस्य उत्तरदेशीयत्वं समर्थितं भवति।

कालः[सम्पादयतु]

शङ्कराचार्येण सह कुमारिलभट्टस्य साक्षात्कारः कुमारिलभट्टस्य अन्तिमसमये त्रिवेणीतटे जातः इति इतिहासप्रसिद्धः। अतः अष्टमनवमशतकोत्पन्नात् शङ्करात्‌ प्राचीनस्यास्य सप्तमशतकोत्पन्नत्वं स्वीकर्तुं युक्तम्। गजाननमहोदयः अपि ६२०-७०० ख्रीष्टाब्दः कुमारिलस्य कालः इति वक्ति। डा. गंगासागररायमहोदयोऽपि ‘श्लोकवार्तिकम्’ इति ग्रन्थस्य प्रास्ताविके मीमांसकशिरोमणेरस्य सप्तमशतकोत्पन्नत्वमुद्घोषयति− ‘श्रीकुमारिलभट्टपादाः सप्तमशताब्द्यां शङ्कराचार्यसमकालिकाः स्कन्दावतारत्वेन प्रसिद्धा अभूवन्।’[२]

कृतिः[सम्पादयतु]

भट्टकुमारिलेन शाबरभाष्यस्य व्याख्यानं चक्रे। तच्च ‘वार्तिकम्’ इति नाम्ना प्रसिद्धिमगात्। शाबरभाष्योपरि ग्रन्थत्रयं तेन व्यरचि−

१) श्लोकवार्तिकम्[सम्पादयतु]

अनुष्टुप्छन्दसा प्रथमाध्यायस्य प्रथमपादस्थभाष्यमर्थात् तर्कपादस्थभाष्यमाश्रित्य श्लोकाकारेण ग्रन्थोऽयं निरमायि। श्लोकाकारेण निबन्धनात् ‘श्लोकवार्तिकम्’ इति शीर्षकमिति सुधियः। ग्रन्थेऽस्मिन् ३०९९ श्लोका विलसन्ति।

२) तन्त्रवार्तिकम्[सम्पादयतु]

प्रथमाध्यायस्य द्वितीयपादमारभ्य तृतीयाध्यायान्तं यावत् विरचितं मीमांसाभाष्यमधिकृत्य गद्यपद्यमयमिमं ग्रन्थं विरचयामास कुमारिलः। केचन कथयन्ति यत् द्वितीयपादमारभ्य तृतीयाध्यायस्य तृतीयपादं यावत् स्थितं भाष्यमादाय ग्रन्थमिमं निर्मितवान्।

३) टुप्टीका[सम्पादयतु]

तृतीयाध्यायात् द्वादशाध्यायपर्यन्तं रचितस्य भाष्यस्य गद्यपद्यात्मिकेयं टिप्पणी। ग्रन्थस्यास्य अनुष्टुप्छन्दोवद् अतिसंक्षिप्ताक्षरतया तादृशार्थसूचकम् ‘अनुष्टुप्टीका’ इति नाम वदन्तो जना अनुष्टुप्टीकेति नाम्नोऽपि संक्षिप्ताक्षरतां सम्पादयितुमिव ‘टुप्टीका’ इति व्यवहर्तुं प्रारब्धवन्तः इति तत्त्वविदो वदन्ति। एषैव च ‘लघुवार्तिकम्’ इति नाम्नापि सम्प्रदाये प्रसिद्धम्।

बृहट्टीकामध्यमटीके कुमारिलकृती इति तन्त्रचूडामणौ कृष्णदेवः। परन्तु त इदानीं नोपलभ्येते। ‘तन्त्रवार्तिकम्’ बृहट्टीकायाः सङ्क्षेपः इति मीमांसाशास्त्रतत्त्वज्ञाः।

वार्तिकत्रयेऽस्मिन् नैकेषु स्थलेषु भाष्यस्पष्टीकरणाद् इतरदपि मतान्तरखण्डनात्मकं स्वमतमण्डनात्मकं वैदिककर्मणामावश्यकत्वपरं स्मृत्यर्थपरिपोषकं विचारजातमेतैः भट्टपादैः प्रादर्शि। किञ्च लोकायतीकृतस्य मीमांसकशास्त्रस्य आस्तिकीकरणमपि भट्टेनैव व्यधायि−

‘प्रायेणैव हि मीमांसा लोके लोकायतीकृता।
तामास्तिकपथे कर्तुमयं यत्नः कृतो मया॥’[३] (श्लोकवार्तिकम्- १.१०) इति।

किञ्च प्रमातृप्रमेयप्रमितिप्रमाणफलादीनां जीवादिपदार्थानां मीमांसामूर्तिभिर्भट्टपादैः तथा विस्तरेण विवेचितं यथा जैमिनिसूत्रोपज्ञं मीमांसाशास्त्रं मीमांसादर्शनपदवीमलभत इति उद्यते चेदपि न अतिशयोक्तिर्भवतीति विदुषां विचारः।

उद्धरणम्[सम्पादयतु]

  1. शङ्करदिग्विजये, ७.९३।
  2. गंगासागररायसम्पादितं श्लोकवार्तिकम्(प्रास्ताविकम्), पृष्ठम्- १०।
  3. श्लोकवार्तिकम्, पृष्ठम्- ५।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कुमारिलभट्टः&oldid=395286" इत्यस्माद् पुनः प्राप्तिः