मीमांसादर्शनस्य द्वैतोपयोगित्वम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


द्वैतदर्शने पूर्वमीमांसायाः स्थानम्[सम्पादयतु]

‘सुखमेव मे स्याद् दुःखं मनागपि माभूत्’ इति प्राणिमात्रस्य सुखानुबुभूषा सर्वानुभवसिध्दा । सुखप्राप्तिर्दुःखनिवृत्तिश्च धर्मानुष्ठानादेवेति वेदशास्त्राणां निर्गलितः पन्थाः । तदुक्तम् –धर्मो विश्वस्य जगतः प्रतिष्ठा’ इति । तत्र धर्माधर्मस्वरुपविज्ञानं च न वेदमन्तरा सम्भवति । ‘वेदप्रणिहितो धर्मः अधर्मस्तद्विपर्ययः’ इति बादरायणोक्तेः । स च वेदः मीमांसापरपर्यायविचारशास्त्रोपकृत एव धर्मज्ञानजननायेष्टे । नान्यथा । तदुक्तम् –

धर्मे प्रमीयमाणे हि वेदेन करणात्मना ।
इतिकर्तव्यताभागं मीमांसा पूरयिष्यति ॥ इति ।

तत्र सर्वज्ञभगवद्बादरायणान्तेवासिना जैमिनिना कर्म –देवता –यज्ञस्वरुप –फल- साधनादिविमर्शः द्वादशलक्षण्यां मीमांसायां सुष्ठूपवर्णिता । किमथोत्तरमीमांसाप्रणयनप्रयोजनमिति चेत्, अत्र ब्रूमः यद्यपि कर्मानुष्ठानं भगवता जैमिनिना प्रतिपादितम् । तथापि तत्सहकारितया विषयवैराग्यभागवद्भक्तिज्ञानादीनां कर्मसहकारित्वं न प्रतिपादितम् । नाऽपि तदङ्गभूतानां मन्त्राणां भगवत्परत्वमुक्तम् । निष्कामकर्मणां ज्ञानद्वारा मोक्षजनकत्वं न प्रतिपादितम् । कर्मणा शुध्दान्तः करणस्यैव ब्रह्मजिज्ञासाध्यानादिना अप्राकृतसुखानुभवरुपा मुक्तिरपि नोक्ता । तत्प्रतिपादनार्थमुत्तरमीमांसारम्भ इति ।

तदुक्तं टीकाकृत्पादैः खण्डार्थनिर्णये – ननु कर्मनिर्णयो जैमिनिना पूर्वमीमांसायामेव कृतः । तत्किमनेन ? सत्यम् । कर्मस्वरुपमात्रं जैमिनिना निर्णीतम् । न तु तदितिकर्तव्यताविषयवैराग्येश्वरज्ञानभक्तिसमर्पणादिलक्षणा । न च तदङ्गभूतानां मन्त्राणां भगवत्परत्वम् । नाप्यन्तः करणशुध्दिद्वारकमीश्वरसाक्षात्काररुपं मुख्यं फलम् । अतस्तत्प्रदर्शनार्थोऽयमारम्भः । न चैतत् निर्मूलम् । उत्तरमीमांसासिध्दत्वात् । उक्तं हि ‘अन्यार्थं तु जैमिनिः’ इत्यादि । (पुट-२)

एवञ्च पूर्वमीमांसानुक्तबहुप्रमेयप्रतिपादकत्वेन अपूर्वतासद्भावेन वेदान्तानामारम्भणीयत्वं, ज्ञानाङ्गतया कर्मविधायकपूर्व मीमांसादर्शनस्य सहकारित्वेन प्राधान्यमपि प्रतिपादित्ं भवति । प्रकृते च पूर्वमीमांसाप्रतिपादिताः विषयाः द्वैतसिध्दान्तप्रतिपादितप्रमेयाणामुपकारकाः इति प्रतिपादनार्थं द्वैतसिध्दान्तगतः कश्चन विषयः निरुप्यते ।

जीवब्रह्मणोः जीवानां परस्परं जडानां च भेदः द्वैतनयेऽभ्युपेयते । सम्मतश्चायं भेदाभ्युपगमः मीमांसकानामपि । वेदः किं जीवब्रह्मणोरभेदं प्रतिपादयति आहोस्वित भेदमित्यस्यां विप्रतिपत्तौ भेदप्रतिपादनस्य उपकारकतन्त्रानरसिध्दत्वे द्वैतसिध्दान्तप्रतिपादितप्रमेयाणामुपकारकाः इति प्रतिपादनार्थं द्वैतसिध्दान्तगतः कश्चन विषयः निरुप्यते ।

जीवब्रह्मणोः जीवानां परस्परं जडानां च भेदः द्वैतनयेऽभ्युपेयते । सम्मतश्चायं भेदाभ्युपगमः मीमांसकानामपि । वेदः किं जीवब्रह्मणोरभेदं प्रतिपादयति आहोस्वित् भेदमित्यस्यां विप्रतिपत्तौ भेदप्रतिपादनस्य उपकारकतन्त्रान्तरसिध्दत्वे द्वैतवादिनां प्राबल्यं जात्या सम्भवतीति निरुपयितुं मीमांसादर्शनोपयोगः चिकीर्षितः । यदि वेदे उपनिषत्सु च भेदावेदकानि बहूनि वाक्यानि, आपात्तोऽभेदप्रतिपादकानि कानिचन वाक्यानि समुल्लसन्ति । तर्हि तेषां विरोधः कथं परिहरणीय इति शङ्का समुन्मिषति । अत्र भेदवादिनां एवं विमर्शप्रणाली चकास्ति । निरवकाशबहुवाक्यबाधस्याऽन्याय्यत्वात् भेदस्य बहुप्रमाणासिध्दत्वाच्च् अभेदप्रतिपादकागमानां भेदाविरोद्ध्यर्थः गौणः कथनीयः इति । अत्र मीमांसादर्शनसम्मतिकथने सिध्दमस्माकमभिलषितम् । अतोऽत्र पूर्वं द्वैतदर्शनरीत्या अभेदवाक्यविमर्शक्रमः ततः पूर्वमीमांसाशास्त्रसम्मतिश्च प्रतिपाद्यते । अभेदश्रुतयः भेदाविरोधिन्यः (भेदपोषकाः) ‘तत्त्वमसि’ (छा. ६.३.१०) ‘अहं ब्रह्मास्मि’ (बृ. १.४.१०) ‘अयमात्मा ब्रह्म’ (बृ.२.५.१९) ‘प्रज्ञानं ब्रह्म’ इति अद्वैतप्रतिपाद्कत्वेनाभिलषिताः श्रुतयः प्रत्यक्ष –अनुमानागमविरोधेन सादृश्याभेदपरा इति भेद एवैदम्पर्यं श्रुतीनां द्वैतनये प्रसाधितम् । तथाहि –श्रुतिः जीवब्रह्मणोरभेदं प्रतिपादयन्ति आपाततः दृश्यते । तथापि प्रत्यक्षविरुध्दमर्थं कथं वा श्रुतिः प्रतिपादयेत् । सार्वज्ज्ञादिगुणविशिष्टः परमात्मा अल्पगुणको हि जीवः । नानन्योः अभेदः शक्यते वक्तुं जलानलयोरिव विरुध्दधर्माधिकरणयोः । अतोऽत्र प्रत्यक्षविरोधपरिहाराय श्रुतेः गौणोऽर्थः कथनीयः । तदुक्तमानन्दतीर्थभगवत्पादाचार्यैः ब्रह्मसूत्रानुव्याख्याने –

यजमानप्रस्तरत्वं यथानार्थः श्रुतेर्भवेत् ।
ब्रह्मत्वमपि जीवस्य प्रत्यक्षस्याविशेषतः ॥
स्वातन्त्र्ये च विशिष्टत्वे स्थानमत्यैक्ययोरपि ।
सादृश्ये चैक्यवाक् सम्यक् सावकाशा यथेष्टतः ॥ इति (पुट- ७६१-७६९)

१.स्वातन्त्र्येऽभेदव्यपदेशो यथा – वशीकृतग्रामं देवदत्तमभिवीक्ष्य ‘देवदत्तोऽयं ग्रामः’ इत्युच्यते । अत्र सर्वोप्ययं जनपदः देवदत्ताधीन इत्येवार्थः । तथैव जीवजडात्मकं सर्वमपीदं विश्वं ब्रह्माधीनमिति तस्य स्वातन्त्र्यबोधनाय सर्वात्मकत्वमुच्यते – ‘सर्वं खल्विदं ब्रह्म’ ब्रह्मैवेदं सर्वं’ ‘तत्त्वमसि’ इत्यादि ।

२.विशिष्टत्वेऽभेदव्यपदेशो यथा – ‘वसिष्ठोऽयम् वामदेवोऽयम्’ इति । अत्र कस्मिंश्चन कर्मानुष्ठानचतुरे विप्रे क्रियमाणः वशिष्ठशाब्दव्यपदेशः यथा गौणः तथैव जीवे क्रियमाणोऽपि ब्रह्मत्वव्यपदेशः यथायोग्यानन्दपूर्णतादिवैशिष्ट्यप्रज्ज्ञापक एव ।

३.स्थानैक्येऽभेदव्यपदेशो यथा – ‘गोष्ठे गावः एकीभवन्ति’ इत्यत्र एकस्थानस्थित्वनिमित्तेन यथा अभेदव्यपदेशः तथैव वैकुण्ठादिरुपमुक्तस्थानस्थितत्वरुपस्थानैक्यमादायायमभेदोपदेशः ।

४.मत्यैक्येऽभेदव्यपदेशो यथा – ‘अस्मिन् ग्रामे ब्राह्मणा एकीभूताः’ इति । मत्यैक्यनिमित्तोऽयमभेदव्यपदेश इति स्फुटः ।

५.सादृश्येऽभेदव्यपदेशो यथा – ‘अग्निर्माणवक’ इत्यादि । अत्र पावनत्वादिधर्ममनुलक्ष्य अग्न्यभेदः उक्तः । एवं च प्रकृते उपजीव्यप्रत्यक्षविरोधेन अभेदश्रुतिः गौणाभेद पर इति निर्गलितोऽर्थः ।

श्रुतेः गौणार्थवर्णनं पूर्वमीमांसानयसम्मतम्[सम्पादयतु]

उपजीव्यप्रत्यक्षविरोधे श्रुतिवाक्यस्यार्थान्तरोपवर्णनं पूर्वमीमांसाशास्रसम्मतमेव । तथा हि –प्रथमे चतुर्थपादे प्रस्तरादिस्तुत्यर्थत्वाधिकरणे ‘तत्सिध्दिजातिसारुप्यप्रशंसाभूमलिङ्गसमवायागुणाश्रयाः ’ (१.४.२३) इति सूत्रे एवं विमर्शः कृतः । ‘यजमानः प्रस्तरः’ ‘ अग्निर्वै ब्राह्मणः ‘आदित्यो यूपः’ ‘अपशवो वा अन्ये गो अश्वेभ्यः’ इत्यत्र श्रुतौ अग्निब्राह्मणयोः आदित्ययूपयोः यजमानप्रस्तरयोस्तादात्म्यं श्रुतौ प्रतीयते । न ह्यापातप्रतीत् एव वाक्यार्थः अपि तु उपक्रमाद्यविरुध्दः सङ्गतश्च । प्रकृते च यजमानप्रस्तरयोरभेदे ‘प्रस्तरं प्रहरति’ इत्युक्तस्याग्नौ प्रहरणस्यापि प्राप्तत्वेन यज्ञविलोपप्रसङ्गः । यजमानप्रस्तरयोरभेदस्य प्रत्यक्षबाधितत्वाच्च । अतोऽत्र प्रत्यक्षाविरोधाय यज्ञसाधनत्वरुपगुणयोगेन विधेयः प्रस्तरः यजमानपदेन स्तूयते इति श्रुतेर्गौणार्थः स्वीकृतः । विवृतोऽयमर्थः जैमिनीयन्यायमालायां विजयीन्द्रतीर्थश्रीमच्चरणैः - तत्र् यजमानशाब्दस्य प्रस्तरे प्रवृत्तौ तत्सिध्दिः तत्कार्य करत्वं गुणः । उभयोरपि यज्ञसाधनत्वेन एककार्यकरत्वात् । ब्राह्मणे अग्निशाब्दस्य प्रवृत्तौ जातिर्जन्म एकप्रभवत्त्वं गुणः । ‘ब्राह्मणोऽस्य मुखमासीत्’ ‘मुखादग्निश्चेन्द्रशेति’ तयोः मुखजत्वश्रवणात् । यूपे आदित्यशब्दप्रवृत्तौ ऊर्ध्वत्वमाज्यांजननिमित्तमौज्वल्यमिति गुणः । तदेव सारुप्यमित्युक्तम् । सूत्रे यद्यपि तत्सिद्ध्यादिकमिति सारुप्यमेव तथापीदं चाक्षुर्ग्राह्यं सारुप्यमिति विशेषात् तथोक्तम । अपशुशब्दस्य अजादिषु प्रशंसा निमित्तम् । पशुशब्देन गवाश्वगतेन उपकारातिशयेन प्रशस्तत्वे लक्षिते तदभावः पश्चन्तरेषु बोध्यते इति । (पुट्- ९-१०) अयमेव न्यायः ‘तत्त्वमसि’ ‘अहं ब्रह्मास्मि’ इत्यादि श्रुतावपि द्वैतिभिरनुसृतः । एवञ्च भेदप्रतिपादकानन्तश्रुत्यनुरोधेन आपाततः अभेदप्रतिपादकतया प्रतियमानानां श्रुतीनां पूर्वमीमांसोपदर्शितमार्गेण भेदाविरोध्यभेदार्थोपवर्णने (गौणार्थवर्णने) सर्वश्रुतिव्याख्यानं समीचीनं भवति । तदुक्तं भाटटसङ्ग्रहे – यज्ञसाधनत्वरुपयजमानगुणयोगेन विधेयः प्रस्तरो यजमानपदेन स्तूयत इत्यर्थवाद इति सिध्दान्तः । (पुट् ३१)

टिप्पणी[सम्पादयतु]

१. भाट्टसङ्ग्रहः – श्रीराघवेन्द्रतीर्थविरचितः बृन्दावनं आफीस्, मन्त्रालयम्, सं.पि.पि. उपाध्यायः, १९७४.

२. न्यायामृतोदाहृतजैमिनियन्यायमाला –गुरुसार्वभौमसंस्कृतविद्यापीठम्, मन्त्रालयः सं.के.टि पाण्डुरङ्गि, १९९२.
३. ब्रह्मसूत्रानुव्याख्यानम् – श्रीमदुत्तरादिमठः, बेङ्गलूरु, १९८०.

सम्बद्धाः लेखाः[सम्पादयतु]