आयुर्वेदः

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणं, अन्वेषणम्
'भगवान् धन्वन्तरिः



भूमण्डलेस्मिन् अन्यदेशेभ्यः प्रागेव भारतवर्षं चिकित्साविज्ञानक्षेत्रे समुन्नतपदमारूढम् आसीदिति इतिहासविदां मतम्। मानवस्य ऐहिक-आमुष्मिकफलसाधनार्थम् आरोग्यमेव प्रधानम्। आरोग्यसाधनं तु आयुर्वेदाध्ययनादेव इति कारणात् मूलभूतमिदम् आयुर्वेदविज्ञानम्।

धर्मार्थकाममोक्षाणाम् आरोग्यं मूलमुत्तमम् ।
रोगास्तस्यापहर्तारः श्रेयसो जीवितस्य च ॥
-चरकसंहिता सूत्रस्थानम् - १.१४

अतः आयुर्वेदोपदेशेषु विधेयः परमादरः

इतिहासः[सम्पादयतु]

आयुर्वेदस्य इतिहासः वेदिककालादेव आरभ्यते। अतः पश्चात्सहस्रवर्षेभ्योऽपि प्राचीनोऽयं इतिहासः। विशेषतः क्रिस्तपूर्वचतुर्थशतकादारभ्य क्रिस्तशकस्य ११ शतकपर्यन्तम् आयुर्वेदस्य उत्कृष्टपरम्पराः न केवलं प्रचारे आसन् अपि तु तत्कालीनेषु प्रख्यातेषु नालन्दा, विक्रमशीला, वलभी इत्यादिषु विश्वविद्यालयेषु प्रमुखविषयत्वेन पाठ्यन्ते स्म। भारतीयेः सह विदेशीयच्छात्रा अपि अस्य प्रयोजनं प्राप्तवन्त आसन्।

धन्वन्तरिः

प्रमुखग्रन्थाः[सम्पादयतु]

चरकाचार्यविरचिता ’चरकसंहिता’, सुश्रुताचार्यप्रणीता ’सुश्रुतसंहिता’, वाग्भटग्रथितम् ’अष्टाङ्गहृदयम्’, माधवकरस्य ’माधवनिदानम्’, शार्ङ्गधरस्य 'शार्ङ्गधरपद्धति:’ इत्यादयः आयुर्वेदस्य प्रमुखग्रन्थाः। चरकसंहितायां ३४१ सस्यजन्यद्रव्याणां, १७७ प्राणिजन्यद्रव्याणां, ६४ खनिजद्रव्याणां च उल्लेखः कृतोऽस्ति। ग्रन्थस्यास्य महत्त्वमभिलक्ष्य अस्य नैकानि व्याख्यानानि रचितानि।चरकसंहितायां 8 स्थानानि सन्ति।मूलत: एषा अग्निवेशेन रचिता संहिता।तत्र चरकमहर्षिणा प्रतिसंस्कार: कृत:। तत: दृढबलनाम्ना अपरेण वैद्येन संपूरणं कृतम्। एवम् अद्य उपलब्धायां चरकसंहितायाम् एषां त्रयाणां कर्तृत्वं विद्यते।

अर्थः[सम्पादयतु]

स्वास्थ्यरक्षणे आयुर्वेदस्य प्राधान्यमभिलक्ष्य आयुर्वेदः अथर्ववेदस्य उपवेदत्वेन प्रथां भजते। मतमिदं चरकसुश्रुतवाग्भटादिभिः प्रमुखायुर्वेदाचार्येरेव प्रकशितम्। व्याख्यानकारः चक्रपाणिरपि एवं वदति -

’आयुर्वेदस्य आयुर्वेदत्वमुक्तं भवति, अथर्ववेदेकशेष एव आयुर्वेदः’ इति।

’आयुर्वेद’ - शब्दय व्यत्पुत्तिं साधयद्भिराचार्येः प्रकटीकृतम् -

’आयुरस्मिन् विद्यते, अनेन वा आयुर्विन्दति’ इति। ’भावप्रकाश’ - टीकाकारोपि ’आयुर्वेद’ शब्दम् एवं विशदीकरोति -

अनेन पुरुषो यस्माद् आयुर्विन्दति वेत्ति च ।
तस्मान्मुनिवरेरेष ’आयुर्वेद’ इति स्मृतः ॥
आयुर्वेदचिकित्सायन्त्रम्

महत्वम्[सम्पादयतु]

आयुर्वेदानुसारेण आयुः चतुर्विधम् - हितायुः, अहितायुः, सुखायुः, दुःखायुश्चेति।

हिताहितं सुखं दुःखं आयुस्तस्य हिताहितम् ।
मानं च तच्च यत्रोक्तं आयुर्वेदः स उच्यते ॥ च.सू.३.४१॥

मानसिकशारीरकरोगरहितस्य ज्ञानिनः सुदृढवतः मानवस्य आयुः सुखायुः। एतद्विपरीतं दुःखायुः। अरिषड्वर्गविजितस्य सर्वभूतहिते रतस्य आयुः हितायुः। तद्विरोधे अहितायुः भवति।

आयुश्च शरीरेन्द्रियसत्त्वात्मसंयोगः। इत्थं हि शरीरं तु नानाविध-आधि-व्याधिनाम् आगारमेव। अतः व्याध्युपसृष्टानां व्याधिपरिमोक्षः, स्वस्थस्य स्वास्थ्थरक्षणं च आयुर्वेदस्य द्वे प्रयोजने।

विभागाः[सम्पादयतु]

कृत्स्नोऽपि आयुर्वेदः अष्टधा विभक्तः। शल्य-शालाक्य-कायचिकित्सा-कौमारभृत्य-अगदतन्त्र-रसायनतन्त्र-वाजीकरणानीति। इदानीं प्रत्येकमङ्गं विवेचयामः।

शल्यतन्त्रम् (Surgery and Midwifery)[सम्पादयतु]

तन्त्रमिदं पाश्चात्यचिकित्सायां Surgery and Midwifery पदेन व्यपदिश्यते। मूत्रपुरीषयोः निरोधे चर्मशलाकया लोहशलाकया वा शल्यक्रिया, गण्डमालाभेषज्यप्रसङ्गे, दुष्करप्रसवप्रसङ्गेषु च क्रियमाणाः प्रभूताः शल्यक्रियाः (शस्त्रक्रिया) सुश्रुतसंहितायाम् उल्लिखिताः सन्ति।

शिरोधारायन्त्रम्

शालाक्यतन्त्रम् (Opthamology including ENT and Dentistry)[सम्पादयतु]

ग्रीवायाः उपरिभागस्य आन्तरिकचिकित्सा शालाक्यान्तर्भूता। चक्षुर्नासागलश्रोत्रमुखसम्बन्धिरोगोणां निवारणोपायाः भृशं वर्णितः। शिरोरोगकेशरोगाणां निवृत्तौ नानाविधोपचाराः समुपलभ्यन्ते। केशवर्धनं, तेषां कृष्णत्वं सौन्दर्यं च, खल्वाटानां चिकित्सनमपि सौषधनिर्देशनम् उपदिष्टम्।

कायचिकित्सा (General Medicine)[सम्पादयतु]

विविधशारीरकरोगाणां लक्षण-निदान-परिहारोपायाः विभागेऽस्मिन् विशदीकृताः। कायचिकित्सान्तर्गताः शरीरोदररोगाः ज्वरयक्ष्मपक्षाघातस्रावजलोदरोदरशूल-वातपित्तकफादयो नैकविधाः। अन्यदपि हृद्रोगपाण्डु-उदरशूल-तृषितत्वादिनां रोगाणां भैषज्यं कायचिकित्साविभागे वर्णितमस्ति। कायशब्दस्य अर्थ: अग्नि: । अग्निविकृतिजन्यानां रोगाणां चिन्तनम् अस्मिन् अङ्गे भवति । (सन्दर्भ: - सुश्रुतसंहिता, सूत्रस्थान १.७ - डह्लणटीका )

भूतविद्या (Psycho-therapy)[सम्पादयतु]

मानसरोगविज्ञानम् अपरं नाम अस्याः चिकित्सायाः। मनसि राजसतामसगुणेषु आवृतेषु सत्सु उन्माद-अपस्मार-अतत्त्वाभिनिवेशः इत्यादिरोगाः भवन्ति। सुप्तसम्मोहनादिविधानेन एषां रोगाणां चिकित्सा भवितुमर्हति। तथैव यक्षपिशाचासुरनागादिदुष्टसमाविष्ट-चित्तानां च व्यक्तीनां चिकित्सा भूतविद्यया भवति। विविधयन्त्रमन्त्रमणीनां प्रयोगः अत्र कार्यः भवति।

कौमारभृत्यम् (Pediatrics)[सम्पादयतु]

definition- kaumaarbhrityanaam kumarbharnnam dhatriksheerdosham dushtstanyagrih samutthananch vyaadhinaamupshamanaartham

अगदतन्त्रम् (Toxicology)[सम्पादयतु]

रसायनतन्त्रम् (Rejuvenation and Geriatrics)[सम्पादयतु]

वाजीकरणम् (Virilification, Science of Aphrodisiac and Sexology)[सम्पादयतु]

त्रिदोषाः[सम्पादयतु]

आयुर्वेदे त्रयः दोषाः सन्ति । एते वातः पित्तः कफः इति।

षड्रसाः[सम्पादयतु]

आयुर्वेदे षड्रसाः भवन्ति । एते मधुरः कटुः अम्लः तिक्तः कषायः लवणः इति।

तुवरस्तु कषायोऽस्त्री मधुरो लवणः कटुः ।
तिक्तोऽम्लश्च रसाः पुंसि तद्वत्सु षडमी त्रिषु ॥ (अमरकोशः १. ५. ३३४)
"http://sa.wikipedia.org/w/index.php?title=आयुर्वेदः&oldid=270089" इत्यस्माद् पुनः प्राप्तिः