ब्राह्मणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
हिन्दुधर्मःOm symbol.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

ब्राह्मणपदं तु ग्रन्थविशेषवाचकमस्ति। बृहि वृद्धौ इति धातोः निष्पन्नं पदं ब्राह्मणम् इति।यज्ञानां विविधक्रियाकलापप्रतिपादकग्रन्था 'ब्राह्मणम्' इत्येतां संज्ञां भजन्ते। वेदो द्विविधो मन्त्ररुपो ब्राह्मणरुपश्चेत्युक्तं तदयं ब्राह्मणाभागोऽपि वेद एव। ब्रह्म वेदस्तद्वयाख्या ब्राह्मण इति केचित्। वेदशेषभूता इमे ब्राह्मणग्रन्था यज्ञानुष्ठानस्य विस्तृतं वर्णनं कुर्वन्ति। कतिचन कथा अपि ब्राह्मणेषु प्राप्यन्ते। प्रत्येकवेदशाखानुसारेण ब्राह्मणा आरण्यकग्रन्थाश्च भिन्नाः सन्ति। वेदार्थानां विवरणं स्पष्टीकरणं विशदीकरणं च उद्दिश्य एतानि ब्राह्मणानि रचितानि।

अर्थः[सम्पादयतु]

'ब्राह्मणम्' इत्येतस्य पदस्यार्थोऽस्ति - 'वर्धनं विस्तारो वा वितानो वा यज्ञ' इति। मेदिनीकोशानुसारं वेदभागसूचकोऽयं ब्राह्मणशब्दः नपुंसकलिंगे प्रयुज्यते। यथोक्तं –“ ब्राह्मणं ब्रह्मसंघाते वेदभागे नपुंसकम्” इति। भट्टभास्करमतानुसारं- “ ब्राह्मणं नाम कर्मणस्तन्मन्त्राणां च व्याख्यानग्रन्थः” इति। वाचस्पतिमिश्रः लिखति-

नैरुक्त्यं यस्य मन्त्रस्य विनियोगः प्रयोजनम्।
प्रतिष्ठानं विधिश्चैव ब्राह्मणं तदिहोच्यते ॥

यज्ञकर्मकाण्डस्य विस्तृतव्याख्या येन क्रियते सः ब्राह्मणग्रन्थ इत्युच्यते। ब्राह्मणग्रन्थः यज्ञानां, वैज्ञानिकाध्यात्मिकाधिभौतिकमीमांसानां प्रतिपादकः विश्वकोश इति वलदेवोपाध्यायेनोक्तम्। सायणमतानुसारं यः परम्परानुसारं मन्त्रः न भवति स ब्राह्मणः। शतपथब्राह्मणानुसारं – ब्रह्म वै मन्त्रः।

स्वरूपम्[सम्पादयतु]

आख्यानानि उपाख्यानानि च विवरणं विशदं सरसं च कुर्वन्ति। ब्राह्मणानि छन्दोबद्धानि न भवन्ति। एतानि गद्यमयानि। अन्तरान्तरा छन्दोबद्धानि वाक्यानि च सन्ति।

कालः[सम्पादयतु]

ब्राह्मणानां निर्माणकालः क्रिस्तोः पूर्वम् अष्टमशतकं - पञ्चमशतकयोः मध्यो कालः इति चरित्रकाराः अभिप्रयन्ति। एतेषां ब्राह्मणानां निर्माणकालं पौर्वापर्यं चाधिकृत्य गवेषकाः नैकमतयः। भाषा, शैली, प्रतिपाद्यं चेति त्रितयपरिशोधने तैत्तिरीयं पञ्चविंशतिकं च प्राचीनतमे इति निरुच्यते।

विभागाः[सम्पादयतु]

ब्राह्मणमपि भागत्रये विभक्तमस्ति। प्रथमो भागः ब्राह्मणमिति, द्वितीयो भागः आरण्यकम् इति, तृतीयो भागस्तु 'उपनिषदि'ति कथ्यते।

ब्राह्मणा यथा –

ऋग्वेदस्य ऐतरेयब्राह्मण कौषीतकिब्राह्मणञ्चेति ब्राह्मणद्वयम्। अनयोरैतरेयब्राह्मणमति प्रथितम्। अत्र अष्टौ पञ्चिकाः, प्रतिपञ्चिकं पञ्चाध्याया इति मिलित्वा ४० अध्यायाः सन्ति। कौषीतकिब्राह्मणे केवलं त्रिंशदध्यायाः।

सामवेदस्य बहवो ब्राह्मणभागाः सन्तिः येषु ताण्ड्यब्राह्मणं प्रसिध्दतरम्। अयं ग्रन्थः पञ्चविशत्यध्यायशाली, अत एव पञ्चविशब्राह्मण संज्ञयाऽपि प्रसिदध्यति। कृष्णयजुर्वेदस्य तैत्तिरीयब्राह्मणनामा ब्राह्मणभागो विद्यते। शुक्ल

यजुर्वेदस्य शतपठब्राह्मणं नितान्तप्रसिध्दम्, अत्र शतमध्याया विद्यन्ते।

अथर्ववेदस्य गोपथब्राह्मणम्। अत्र खण्डद्वयमेव, प्रथमखण्डे पञ्चाध्यायाः द्वितीये च षट्। ब्राह्मणग्रन्थेषु सर्वतो नवोऽयं ग्रन्थः कथ्यते।

आरण्यकानि यथा -

एवमेव ऋग्वेदस्य आरण्यकद्वयम्, ऐतरेयमारण्यकम् शाङ्खायनारण्यकञ्च। कृष्णयजुर्वेदस्य तैत्तिरीयमारण्यकम्। सामवेदस्य जैमिनीयशाखायाः जैमिनीयोपनिषदब्राह्मणमेव तवलकाराण्यकमिति नाम्ना प्रसिध्दम्। अस्मिन् सममन्त्राणां शोभना व्याख्या कृता। इयं सामवेदारण्यसंहिता सत्यव्रतसामश्रमिणा १८७८ ई. वर्षे मुद्रयित्वा प्रकाशिता।

ब्राह्मणस्य विषयवस्तुनि[सम्पादयतु]

ब्राह्मणस्य प्रतिपाद्याः विषयाः शावरभाष्ये लिखिताः यथा –

हेतुर्निर्वचनं निन्दा प्रशंसा संशयो विधिः।
परक्रिया पुराकल्पो व्यवघारणकल्पना ॥
उपमानं दशैते तु विधयो ब्राह्मणस्य तु ॥

परन्त्वेतेषु विधि- विनियोग- हेतु – अर्थवाद- निरुक्ति – आख्यानादीनामेव प्रधानता विद्यते। विधि च सर्वप्रमुखोऽस्ति।

प्रमुखब्राह्मणग्रन्थाः[सम्पादयतु]

ऋग्वेदस्य ब्राह्मणेषु ऐतरेयब्राह्मणं, शाङ्खायनब्राह्मणञ्च प्रसिद्धे। यजुर्वेदस्य ब्राह्मणेषु शतपथब्राह्मणं सुप्रसिद्धम्। सामवेदीयब्राह्मणेषु ताण्ड्यब्राह्मणं, षड्विशब्राह्मणं, सामविधानब्राह्मणं, आर्षेयब्राह्मणं, देवताध्यायब्राह्मणं , छान्दोग्यब्राह्मणं, संहितोपनिषद् ब्राह्मणं, वंशब्राह्मणं, जैमिनीयतवल्कारब्राह्मणं च सुप्रसिद्धानि भवन्ति। अथर्ववेदीयमेकएव गोपथब्राह्मणं समुपलभ्यते।

भाष्याणि[सम्पादयतु]

शतपथब्राह्मणस्य उभयोः शाखयोः भाष्यानि उपलब्धानि सन्ति -

(१) काण्वशतपथब्राह्मणस्य भाष्यं महाभारतस्य टीकाकर्त्रा नीलकण्ठेन कृतम्। भाष्यं त्वनुपलब्धमेवाऽस्ति, किञ्च तस्य निर्देशः महाभारत-वनपर्वस्य द्वाषष्ट्यधिकशतमध्यायस्य एकादशश्लोकस्य टीकायां तेनैव स्वयं कृतः।

(२) माध्यन्दिनशतपथस्य टीका उव्वटेन लिखिता इति श्रूयते। ऐतरेयब्राह्मणस्य भाष्याण्युपलब्धानि सन्ति। 

ऐतरेयब्राह्मणस्य भाष्याणि[सम्पादयतु]

गोविन्दस्वामी ऐतरेयब्राह्मणस्य भाष्यम् अरचयत्। षड्गुरुशिष्यः ऐतरेयब्राह्मणस्य भाष्यम् अरचयत्।

तैत्तिरीयब्राह्मणभाष्यम्[सम्पादयतु]

भवस्वामी भट्टभास्करस्य कथनानुसारेणास्य भाष्यं वाक्यार्थपरकम् आसीत् । केशवस्वामी बौधायनप्रयोगसारनामकग्रन्थे भवस्वामिनं स्मरति । एकादशशतके निर्मिते त्रिकाण्डमण्डने केशवस्वामिनः उल्लेखो वर्त्तते । अतोऽस्य समयः दशमशतकस्य पूर्वार्द्धे वक्तुं शक्यते । तैत्तिरीयसंहितायाः, तैत्तिरीयब्राह्मणस्य च भाष्यं केवलं निर्दिष्टमेव अस्ति न तूपलब्धम् अस्ति। भट्टमास्करः तैतिरीयसंहितायाः भाष्यं लिखित्वा तैतिरीयभाष्यमपि लिखितवान्। अाचार्यसायणः अाचार्यसायणोऽपि तैत्तिरीयब्राह्मणस्य भाष्यं प्रणीतवान् ।

सामवेदीयब्राह्मणभाष्यम्[सम्पादयतु]

सामवेदस्य ब्राह्मणेषु सायणात् पूर्ववर्तिनः कतिपया आचार्या: टीकां कृतवन्तः । हरिस्वामिनः पुत्रेण जयस्वामिना ताण्ड्यब्राह्मस्योपरि, गुणविष्णुना मन्त्रब्राह्मणोपरि, भास्करमिश्रेण आर्षयब्राह्मणोपरि तथा भरतस्वामिना सामविधानब्राह्मणोपरि भाष्यं रचितम्। आचार्यसायणस्तु निजपद्धत्यानुसारेण समग्रसामवेदीयब्राह्मणेषुपरि भाष्याणि प्रणीतवान् । गोपथब्राह्मणस्य न काऽपि व्याख्या समुपलब्धाऽस्ति । 

"https://sa.wikipedia.org/w/index.php?title=ब्राह्मणम्&oldid=422799" इत्यस्माद् पुनः प्राप्तिः