सामग्री पर जाएँ

संहितोपनिषद्ब्राह्मणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

संहितोपनिषद्ब्राह्मणं सामगायनस्य विवरणप्रदाने स्वकीयगौरवमावहति । संहितायाः उपनिषद् अर्थात् संहितायाः रहस्यप्रतिपादकब्राह्मणमिदं सामवेदीयब्राह्मणेषु वैशिष्ट्यं स्थापयति । संहितायाः सामान्यार्थो भवति ‘मन्त्राणां समुदायः' । किञ्चात्र अस्य तात्पर्यमस्ति- ‘साम्नः गायनानां संहिता' इति। यतः अत्राऽपि सातत्यं विद्यमानमस्ति । अस्मिन्नेवाऽर्थो शब्दोऽयमत्र व्यवहृतोऽस्ति ।

स्वरूपम्

[सम्पादयतु]

ब्राह्मणेऽस्मिन् पञ्चखण्डानि सन्ति । प्रतिखण्डं सूत्रेषु विभक्तमस्ति । प्रथमखण्डे त्रिविधगानसंहितायाः स्वरूपस्य फलस्य च विवरणमस्ति । द्वितीये तृतीये च खण्डे गानसंहितायाः विधि-स्तोमअनुलोम-प्रतिलोमादिस्वराणां व्यापकं प्रतिपादनमस्ति । विषयोऽयं सातिशयः वैज्ञानिकोऽस्ति । सामगायनमर्मस्य उद्घाटनमत्र विस्तृतेन सह कृतमस्ति । एतेषां खण्डानामभिज्ञता सामगायनविधानाय नितान्तमावश्यकमुपादेयश्चास्ति । तृतीयखण्डस्यान्तिमे भागे गुरु-शिष्ययोर्योग्यतायाः विवेचनं तथा पात्रे दानस्य भूयसी प्रशंसा कृताऽस्ति । चतुर्थ-पञ्चमखण्डयोविषयः पूर्वोक्तातथ्यस्य पूरकोऽस्ति । अतः सामगायनरहस्यस्य परिचयार्थमिदं ब्राह्मणमद्वितीयमस्ति । अस्य ग्रन्थस्य टीकाकर्त्तुः द्विजराजभट्टस्येयं संस्तुतिः अस्ति - ‘सामब्रह्मरसज्ञानां विशुद्धज्ञानहेतवे।

अस्य ग्रन्थस्य टीकाद्वयस्य प्रकाशनमभवत् ।

(क) सायणभाष्यं प्रथमखण्डपर्यन्तमेवोपलब्धमस्ति ।

(ख) विष्णुभट्टात्मजद्विजराजभट्टेन रचितं भाष्यम् ।

सायणाचार्यस्य भाष्यं संक्षिप्तमस्ति किञ्च द्विजराजभाष्यं तु सविशेषेण विस्तृतमस्ति। टीकाभिराभिः सहास्यैकं विशुद्धसमीक्षणात्मकं संस्करणं तिरुपतिनगरात्प्रकाशितमभवत् (१९६५ ई०) । अस्य विद्वान् सम्पादकः डा० के० रा० शर्मा ग्रन्थस्यास्य भूमिकायां समालोचनात्मकटिप्पणीषु अनेकेषां प्रमेयाणां महत्त्वपूर्णां व्याख्यां कृतवान् । ब्राह्मणमिदमतीतकाले अतीवप्रसिद्धमासीत् । निरुक्तकारः स्वग्रन्थे ( २॥४ ) ‘विद्या ह वै ब्राह्मणमाजगाम ॥' इति मन्त्रस्य भावानुवादः मनुस्मृतौ (२॥११४) मनुना कृतः । अनेन ज्ञातो भवति यद्ब्राह्मणमिदं निरुक्तात् मनुस्मृतेश्च प्राचीनतममस्ति।

सम्बद्धाः लेखाः

[सम्पादयतु]

सन्दर्भः

[सम्पादयतु]