शाङ्ख्यायनब्राह्मणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

शाङ्खायने किञ्च कौषीतकिब्राह्मणे केवलं त्रिंशदध्यायाः सन्ति । अध्यायः खण्डेषु विभक्तोऽस्ति । सम्पूर्णखण्डानां सङ्ख्या २२६ अस्ति । खण्डाभ्यन्तरे दीर्घगद्यमस्ति । अस्मिन् ब्राह्मणे कौषीतकिनाम्नः आचार्यस्य उल्लेखः पैग्यनाम्नः आचार्यस्य विरोधे प्रदर्शितः । कौषीतकिमतस्य यथार्थता प्रमाणिता अस्ति।[१] कौषीतकिमतस्य निर्देशः अन्यस्थलेऽप्यस्ति।[२]

विषयवस्तु[सम्पादयतु]

विषयदृष्ट्या इदमपि ऐतरेयस्यानुगामि वर्तते । अस्य महत्ता निम्नप्रकारेण ज्ञातव्येति

(1) उदीच्यजनानां संस्कृतज्ञानं प्रशंसनीयमासीत्। तदा भाषां शिक्षयितुं जनाः उदीच्यप्रान्तं प्रति गच्छन्ति स्म । शिक्षां समाप्य समागते सति ते समाजे समादरणीया अभवन्।

‘उदञ्च एव यान्ति वाचं शिक्षितुम्, यो वै तत आगति ? तं सुश्रूषन्ते'[३]

भाषाशास्त्रदृष्ट्या बहुमूल्यमिदं कथनमस्ति । पाणिनिरपि उदीच्य एवासीत् । तस्य जन्मस्थानं शालापुरं तक्षशिलायाः पार्श्वे एवाऽसीत् । अनेन सङ्केतेन पाणिनेः भाषाज्ञानं श्लाघ्यमासीत्।

(२) रुद्रस्य विशिष्टो महिमा वर्णितोऽस्ति । सः देवेषु ज्येष्ठः श्रेष्ठश्च अमन्यत। 'रुद्रो वै जेष्ठश्च श्रेष्ठश्च देवानाम्' इति।[४] षष्ठाध्याये भवशिव-पशुपति-उग्र-महादेव-रुद्र-ईशान-अशनिप्रभृतयः शिवस्य नामानि सन्ति । एतेषां नाम्नाम् उत्पत्तिविचित्ररूपेण प्रदर्शिता भवति । शिवव्रतस्य अप्यत्र विशिष्टरूपेण निर्देशो लभते।

(३) सप्तमाध्याये अग्निः निम्नस्तरीयो देवस्तथा विष्णुरुच्चस्तरीयो देवश्च मन्यते । ‘अग्निरवराध्यैः विष्णुः परार्ध्यः इति उक्तम्। इयमस्य युगस्य धार्मिकमान्यता आसीत्।अस्याः सम्पुष्टिः ऐतरेयब्राह्मणे अपि भवति । तस्य युगस्य उदात्तभावनायाः प्रतीको यज्ञः आसीत्। तथा यज्ञस्य प्रतीको विष्णुरासीत् (‘यज्ञो वै विष्णुः')

(४) यज्ञे हिंसितपशूनां विषये कथितमस्ति यत्ते पशवः अपरस्मिन् लोके गत्वा यज्ञकतुनेव खादन्ति। येन ज्ञातो भवति पशुयागं प्रति तथा मांसभक्षणं प्रति सामान्यजनेषु घृणायाः भावः आसीदिति। जनाः अस्मात् कर्मणः पराङ्गमुखाः भवितुं चेष्टाम् अकुर्वन्। ‘अमुष्मिन् लोके पशवो मनुष्यानश्नन्ति'।[५]

(५) अत्र शक्वरीछन्दसो नाम्नः ऐतिहासिकनिरुक्तिरस्ति।[६] एभिः छन्दोभिः इन्द्रः वृत्रं हन्तुं समर्थोऽभवत् । इदमेव शक्वरेः शक्वरीत्वमस्ति। ‘इन्द्रो वृत्रमशकद् हन्तुमाभिस्तस्मात् शक्वर्यः'। मशनाम्नी सामे शक्वर्यः ऋचः सन्ति, तथेयमृच् मुख्यतया इन्द्रं प्रति कथितमस्ति।

(६) अस्मिन् काले गोत्रस्य प्रचलनं तथा प्रभावः सुदृढोऽभवत् । एकस्मिन् स्थाने ब्राह्मणं प्रति कथनमेकमस्ति समानगोत्रेण सहैव ब्राह्मण-क्षत्रियवैश्याः स्थातव्याः नेतरेण सहेति। 'ब्राह्मणे समानगोत्रे वसेत्, यत् समाने गोत्रेऽन्नाद्यं तस्योपाप्त्यै'।[७]

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. ८।।९; २६। ३
  2. ११॥५; २५।१५
  3. ८॥६
  4. २५॥१३
  5. ११॥३
  6. २३/२
  7. २५॥१५