ऐतरेयब्राह्मणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

ऐतरयब्राह्मणम् अस्ति ऋग्वेदान्तर्गतं ब्राह्मणम्। महिदास-ऐतरेयः एतस्य रचयिता मन्यते।

रचयिता[सम्पादयतु]

अस्य रचयिता ऋषिः महिदास ऐतरेय एव मन्यते । अस्य नाम्नः व्युत्पत्त्या अाधारोपरि सायणाचार्येण काचित् कथा कल्पिता । कथेयं सायणभाष्यस्यारम्भे एवास्ति ।

अनया कथयानुसारेण अस्य महिदासस्य माता शूद्रकुलोत्पन्नाऽऽसीत् । तस्याः नाम “इतरा' आसीत् । किञ्चास्यां कथायाम् ऐतिहासिकतथ्यानामभावः प्रतीतो भवति । अवेस्तायामृत्विजः अर्थो व्यवहृतः ‘एथ्रेय'-शब्दः उपलब्धो भवति । विदुषां मतानुसारेण ‘ऐतरेयशब्दोऽपि 'एथ्रेय'-शब्देन सह साम्यं स्थापयति ।

ऐतरेयस्य लेखनशैली विशुद्धब्राह्मणोचिता एवाऽस्ति। संहिताकालिकभाषातः सा नातिदूरे तिष्ठति । अस्यां रचनायां सर्वत्र समरूपता वर्त्तते । अस्मिन् विषये अवान्तरप्रक्षेपस्य कल्पना सर्वथा निराधारैवेति । अाश्वलायनस्य तर्पणविधौ कस्यापि महैतरेयस्य अपि नामोल्लेखो भवति, येनास्य ग्रन्थस्य कस्यापि विशालसंस्करणस्य कल्पना कर्त्तुं शक्यते । किञ्च एतादृशस्य ग्रन्थस्य स्थितिः सम्प्रति क्लिष्टकल्पनैवास्ति । चेदस्य नाम्नः कोऽपि ब्राह्मणग्रन्थः सुदूरातीते अभविष्यत्तथा अप्यधुनासौ विनष्टोऽभवत् ।

विषयः, स्वरूपं च[सम्पादयतु]

ऐतरेयब्राह्मणमतिप्रथितमस्ति । अत्र अष्टौ पञ्चिकाः सन्ति । प्रतिपञ्चिकं पञ्चाध्यायाः सन्ति । सर्वे आहत्य चत्वारिंशदध्यायाः सन्ति । ग्रन्थेऽस्मिन् पञ्चाशीत्यधिकद्विशततमाः कण्डिकाः सन्ति ।

ऋग्वेदेन सम्बद्धोऽयं ग्रन्थः यज्ञे होतृनाम्नः ऋत्विजः विशिष्टकार्यकलापानां विशेषविवरणं प्रस्तुतं करोति । प्रथम-द्वितीयपञ्चिकयोः अग्निष्टोमयागे होतुः विधिविधानस्य कर्त्तव्यस्य च विस्तृतवर्णनमस्ति । अयमेवाग्निष्टोमः समस्तसोमयागानां प्रकृतिरस्ति । अतोऽस्य विशेषविवरणमत्र प्रदत्तमस्ति । तृतीय-चतुर्थपञ्चिकयोः प्रातःसवनस्य, माध्यन्दिनसवनस्य, सायंसवनस्य प्रयुज्यमानशस्त्राणां वर्णनमस्ति । सहैवाग्निष्टोमस्य विकृतयः — उक्थ्य-अतिरात्र-षोडशीनाम्नां यागानामपि संक्षिप्तं विवेचनमस्ति । पञ्चमपञ्चिकायां द्वादशाहयागानां तथा षष्ठपञ्चिकायां सप्तदिवसात्मानां यागानां वर्णनमस्ति । तेषु यागेषु होतृणाम् ऋत्विजाञ्च कार्याणां विवेचनं पर्याप्तरूपेण वर्णितम्। सप्तमपञ्चिकायाः प्रधानविषयः राजसूययज्ञोऽस्ति । अस्मिन्नेव प्रसङ्गे शुनःशेपस्य प्रख्यातमाख्यानमपि विस्तरेण वर्णितमस्ति । अष्टमपञ्चिका ऐतिहासिकदृष्ट्या अतीवगरिमामयी अस्ति । अस्यां पञ्चिकायां प्रथमतः ऐन्द्रमहाभिषेकस्य तथा तदनन्तरं तस्यैवाधारोपरि चक्रवर्त्तिनः नृपस्य महाभिषेकस्यातीव रोचकं वर्णनमस्ति । अन्तिमाध्याये पुरोहितेभ्यः धार्मिकस्य राजनैतिकस्य च महत्त्वस्य प्रतिपादनं नितान्तमुपादेयमस्ति । अनेन प्रकारेणैतरेयब्राह्मणं सोमयागस्य बहुविधस्वरूपस्य तथा तस्येतिहासस्य प्रदर्शने अतीव गौरवमावहति ।

महत्त्वम्[सम्पादयतु]

धार्मिकदृष्ट्या ऐतरेयब्राह्मणस्य आलोचना नानाविधानां प्रामाणिकतथ्यानां ज्ञानं कारयति । अस्य युगे विष्णोः महिमा वैदिकसमाजे विशिष्टस्थानं ग्रहणमकरोत् । शुनःशेपस्य आख्यानेन ब्राह्मणमिदं वैदिकग्रन्थेषु चिरस्मरणीयोऽभवत् । शुनःशेपः ऋग्वेदस्य ऋषिः अस्ति तथा प्रथममण्डलस्य अनेकेषां सूक्तानां ( २४-२७ पर्यन्तम् ) द्रष्टाऽपि अस्ति । शुनःशेपस्य आख्यानमतीव करुणोत्पादकत्वेन साहित्यिकदृष्ट्याऽपि पठनीयमस्ति । राजा हरिश्चन्द्रः वरुणस्य दयया प्राप्तपुत्रस्य तस्मै बलिं दातुमिच्छति । समर्थो भूत्वा पुत्रो रोहितः वनं जगाम । पिताऽपि वरुणस्य कोपेन उदररोगपीडितोऽभवत् । इमं समाचारं श्रुत्वा पुत्रो रोहितः गृहाभिमुखं प्रस्थितः । किञ्च मार्गे देवेन्द्रस्तं गृहे परावर्तनात् रोद्धुमिच्छति । अन्ततः पितुः पीडया व्यथितो भूत्वा रोहितः गृहं समागतः अजीगर्तसौवयसि नाम्ना ब्राह्मणेन तस्य मध्यमं पुत्रं शुनःशेपं बलिदानाय गोमूल्येन क्रीत्वा अानीतः । वरुणस्य यज्ञे पिता एव स्वपुत्रं बलि दातुं दक्षिणां गृहीत्वा स्वीयेन एव तत्परोऽभवत् । बलिदानाय काष्ठस्थूणे संयतः शुनःशेपः देवान् सम्प्रार्थ्य केनाऽपि प्रकारेण आत्मरक्षणमकरोत् । यज्ञे समुपस्थितः विश्वामित्रस्तं शुनःशेपं स्वपोष्यपुत्रं कृतवान् । तेषां पञ्चाशत्पुत्राणां मध्ये येषां पुत्राणां घटनेयं मान्या न भवति, ते पितुः शापाद् अार्यदेशस्य प्रान्तभूमौ आन्ध्र-मूतिव-पुलिन्दादिम्लेच्छो भूत्वा निवसति ।

ऐतरेयस्य कथनानुसारेण ऋक-शतगाथोपरि आश्रितेदमाख्यानमस्ति ‘ऋक्-शतगाथं शौनःशेपमाख्यानम्'। किञ्च वस्तुतः एताः ऋचः संख्यायां सप्तनवतिरेव सन्ति। पाश्चात्यवेदज्ञाः आख्यानमिदं वैदिकयुगे मानवबलिदानस्य परिचायकं प्रमाणं मन्वते । किश्चास्य कथनस्य सप्रमाणखण्डनं कृतं कीथ-महोदयेन एतरेयस्य आङ्ग्लानुवादग्रन्थस्य भूमिकायाम् । भारतीयार्यधर्मे मानववलिदानस्य कुत्रापि विधानं नास्ति । शाङ्खायनश्रौतसूत्रे राजसूययज्ञस्य अवसरे पुरुषमेधस्य या योजना प्राप्यते, सा तु प्रतीकात्मिका एवास्ति । राज्ञ अभिषेककाले अस्य आख्यानस्य कथनमेकस्य आवश्यकतथ्यस्य सङ्केत एवास्ति । नृपाय प्रतिज्ञापालनमावश्यकः धर्म आसीत् । हरिश्चन्द्रेण अपि स्वपुत्रस्य बलिदानस्थाने निष्कृतिदानेन स्वकीयसत्यसन्धत्वमेव प्रमाणितम् । ‘चरैवेति चरैवेति' इत्यादिपदानां शिक्षा अार्याणाम् अभ्युदयस्य संबलोऽस्ति । कर्मणः दृढोपासना एवार्यसंस्कृतेः मेरुदण्डः अस्ति । अार्यधर्मः कर्मण्यतायाः पक्षधरोऽस्ति तथाऽऽकर्मण्यतायाः प्रतिद्वन्द्री ।

आख्यानमिद आर्याणां दक्षिणदेशे प्रसारस्य इतिहासस्य तथा तेषां समयस्य च पूर्णसाक्षी वर्त्तते । ऐतरेययुगे एव अार्यजनाः स्वाभ्यस्तसीमातो बहिर्गत्वा स्वनिवासं चक्रुः । अार्याणां सीमान्तप्रदेशे पौण्ड्र-आन्ध्र-पुलिन्द-मूतिव-शवरादि अनार्यजातयः निवसन्ति स्म । तैः सह तेषां सम्पर्कः आसीत् । पौण्ड्रः बङ्गदेशं प्रति सङ्केतयति । अान्ध्रस्तु अद्यापि स्वस्थाने एवाऽस्ति । पुलिन्दशवरादयः मध्यभारतस्य वन्यजातयः आसन् । मूतिवः क अासीत् ? इति तु अद्यापि अज्ञातम् एवास्ति ।

ऐतरेयस्य भौगोलिकसम्बन्धः मध्यदेशेन एवास्ति । यतः अस्मिन् ब्राह्मणे मध्यदेशस्य उल्लेखः स्वाभिमानेन सह प्राप्यते। आर्यैः मध्यदेशोऽयं ध्रुवस्तथा। प्रतिष्ठापदेन अभिहितः। ‘ध्रुवायां मध्यमायां प्रतिष्ठायां दिशि'[१]

किञ्च ऋग्वेद इवास्य प्रचारः सम्प्रत्यपि महाराष्ट्रे एवास्ति । अतः ‘ड' इत्यक्षरस्य स्थाने ‘ल’ इत्यस्य बहुलप्रयोगोऽस्मिन् ब्राह्मणे कृतः।

व्याख्याः[सम्पादयतु]

अस्योपरि तिस्रः व्याख्याः प्राप्यन्ते।

( १ ) सायणकृतभाष्यम् ( स० आनन्दाश्रमः सं० सीरिज पूनातः प्रकाशिता ) ।

(२) षड्गुरुशिष्यरचित 'सुखप्रदा' नाम्नी लघु व्याख्या (अनन्तःशयनं ग्रन्थमाला 'त्रिवेन्द्रम् नगरीतः प्रकाशिता )

( ३ ) गोविन्दस्वामिनः अप्रकाशिता व्याख्या । अनया व्याख्यया सम्प्रत्यपि अस्य ग्रन्थस्य महिमा ज्ञातो भवति । 

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. ऐत० ८।।४
"https://sa.wikipedia.org/w/index.php?title=ऐतरेयब्राह्मणम्&oldid=440297" इत्यस्माद् पुनः प्राप्तिः