सामवेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
हिन्दुधर्मःOm symbol.svg

हिन्दुधर्मःइतिहासः

Portal:HinduismHinduSwastika.svg

प्रवेशद्वारम्:सनातनधर्मः
प्रवेशद्वारम्:सनातनाध्यत्मिकप्रवेशः

यज्ञे चत्वारो ऋत्विजो भवन्ति -१ होता, २ अध्वर्युः ३ उद्गाता, ४ ब्रह्मा, होता-आह्वानकर्त्ता, स हि यज्ञावसरे प्रकान्तदेवतानां प्रशंसाय रचितान् मन्त्रान् उच्चरयन् देवताः आह्वयति, तत्कार्याय सङ्कलिता मन्त्राः स्तुतिरूपतया ऋचः समाख्याताः, तेषां संग्रह एव ऋग्वेदः । अध्वर्युर्विधिवद्यज्ञं सम्पादयति, तत्रावश्यकमन्त्रा यजूंषि, तत्संग्रहो यजुर्वेदः उद्गाता –उच्चस्वरेण गानकर्त्ता, स हि स्वरबद्धान् मन्त्रान् उच्चैर्गायति, तदपेक्षितमन्त्रसंग्रहः सामवेदः । ब्रह्मा –यज्ञनिरीक्षकः कृताकृत्वेक्षणकर्मा, स हि सर्वविधमन्त्रज्ञः तदपेक्षितो मन्त्रराशिरथर्ववेद इति कथ्यते ।

सामवेदस्य गानप्रचुरता प्रथिता, ऋच एव गीयन्ते, सामवेदे १५४९ मन्त्रा सन्ति, तेषु ७५ मन्त्रा ईदृशा ये ‘ऋग्वेदे’ न प्राप्यन्ते, शेषाः सर्वेऽप्युभयवेदसाधारणाः । सामवेदगतमन्त्राणां सप्त स्वराः, यतस्ते गीयन्ते, ऋग्वेदे पुनस्तेषामेव मन्त्राणां त्रय एव स्वराः एतावानेव उभयवेदसाधारणानां साममन्त्राणामृग्वेदमन्त्रेभ्यो भेदः ।

सामवेदो द्विधा विभज्यते –पूर्वर्चिकम्, उत्तरार्चिकं च । पूर्वार्चिकमेव छन्दः, छ्न्दसी, छन्दसिका चेति त्रिभिरपि नामभिरभिधीयते । विषयानुसारं पूर्वर्चिकं चतुर्षु भागेषु विभज्यते – आग्नेयपर्व (अग्निसम्बधिनीभिः ऋग्भिरुपेतम्), ऎन्द्रपर्व ( इन्द्रसम्बन्धिनीभिः ऋग्भिर्युतम् ), पवमानपर्व (सोमविषयकम्), आरण्यकपर्व च । उत्तरार्चिकन्तु अनुष्ठाननिर्देशकम् । तस्य बहवो विभागाः- दशरात्रम्, संवत्सरम्, ऎकाहम्, अहीनम्, सत्रम्, प्रायश्चित्तम्, क्षुद्रञ्चेति प्रमुखास्तत्र भेदाः ।

साम-सान्त्वेन इति धातोः निष्पन्नं सामपदम् । सा इति ऋक्सूचकतया अम इति गानम् । स्वरादिव्यञ्जकतया च व्याख्यां केचिद् वदन्ति । सामवेदस्य एकसहस्रं शाखा: आसन् । प्रपञ्चहृदयकारस्य काले द्वादशशाखाः विहाय अन्याः नष्टाः इदानीन्तु केवलं तिस्रः शाखाः समुपलभ्यन्ते । सङ्गीतस्य उद्भवः सामगानात् इति विचक्षणा आचक्षते । सामगानेऽपि सप्तस्वराः एव भवन्ति । ते आधुनिकशास्त्रीयसङ्गीतसंविधानात् आरोहावरोहणक्रमे किञ्चिदिव व्यत्यस्ताः दृश्यन्ते । खरहरप्रियारागतुल्याः सामगानस्वराः कुष्ठं (प्रथमं), द्वितीयं, तृतीयं (मध्यमम्), चतुर्थं, मन्द्रं (पञ्चमम्), अतिस्वायं (षष्ठम्), अतिस्वरम् (अन्यं) एते सप्तस्वराः । सामगानालापने गायकैः हस्ताङ्गुलीभिः मुद्राः अभिनीयन्ते एताभ्यः मुद्राभ्यः स्वरस्थानानि मात्राश्च प्रतीयन्ते ।

वेदानां सामवेदोस्मि इति भगवता गीतायाम् उक्तमस्ति । अयं सामवेदः चतुर्षु वेदेषु प्रमुखं स्थानं वहति ।

“सामानि यो वेत्ति स वेदतत्त्वम्” इति वचनात् ज्ञायते यत् सामवेदसर्ववेदप्रधानः । गीतायां स्वयं भगवान् श्रीकृष्ण उक्तवान् यत् “ वेदानां सामवेदोऽस्मि” इति । यः जागरणशीलः पुरुषः स एव सामगानं कर्त्तुं समर्थः भवति । यथोक्तं-“यो जागार तम् ऋचः कामयन्ते , यो जागार तमु सामानि यन्ति” इति । साम इत्युक्ते तया सह सम्बन्धः अमो नाम स्वरः यत्र वर्तते तत्साम इति ज्ञायते । सामवेदस्य द्वौभागौ स्तः, अर्चिकः गानं च । आर्चिकोऽपि द्विभागात्मकः ,पूर्वोत्तरभेदाभ्याम् । सामसंहितायाः संकलनमुद्गातुः कृते कृतम् । जैमिनियसूत्रानुसारं गीति एव साम । छान्दोग्योपनिषदि स्वर एव साम इत्युक्तम् । बृहदारण्यकोपनिषदि गानमेव साम इति प्रतिपादितम् । येषां ऋचामुपरि सामगानं क्रियते ता ऋचः “ सामयोनि” इति उच्यन्ते ।

सामवेदस्य विभागः[सम्पादयतु]

सामवेदस्य आर्चिकद्वयं वर्तते,पूर्वार्चिकमुत्तरार्चिकं च । पूर्वार्चिके षट्प्रपाठकाः सन्ति प्रत्येकेस्मिन् प्रपाठके द्वौ खण्डौ स्तः । प्रत्येकखण्डे एका दशतिः प्रतिदशतौ च दशसंख्यकात् न्यूनानि ऊर्ध्वाणि वा मन्त्राणि सन्ति । प्रथमप्रपाठक आग्नेयकाण्डः, द्वितीयाध्यायतः चतुर्थाध्यायं यावत् ऎन्द्रपर्व, पञ्चमोऽध्यायः पवमानपर्व, षष्ठप्रपाठक आरण्यकपर्व इत्युच्यते । प्रथमाध्यायतः पञ्चमाध्यायं यावत् ऋचः ग्रामगान इत्युच्यन्ते । पूर्वार्चिकेऽस्मिन् ६५० मन्त्राः विद्यन्ते । उत्तरार्चिके नवप्रपाठकाः सन्ति । प्रथमपञ्चप्रपाठकानां द्वौ द्वौ भागौ स्तः । अवशिष्टचतुर्णां प्रपाठकानां त्रयः त्रयः भागाः सन्ति । उत्तरार्चिके मन्त्राणां संख्या १२२५ । ऋग्वेदस्य १५०४ मन्त्राः सामवेदे उद्धृता सन्ति ।

सामवेदस्य शाखाः[सम्पादयतु]

सामवेदस्य एकसहस्रशाखाः सन्ति विदुषामभिप्रायः । यथोक्तं पतञ्जलिना – “सहस्रवर्त्मा सामवेदः” इति । सामवेदस्य आद्याचार्यः जैमिनि एव भवतीति स्वीक्रियते । तदनन्तरं तत्पुत्राः शिष्याश्च सामाध्ययनं कृत्वा सामशाखानां विस्तारं कृतवन्तः । तेषु कतिपयानां नामानि दीयन्ते । यथा –सुमन्तु –सुन्वान् –सुनु –हिरण्यनाभ –पौषञ्जि-कार्त्ता –लौगाक्षि –माङ्गलिकुल्य –कुसीद –कुक्षीप्रमुखाः । अधुना प्रपञ्चहृदय –दिव्यावदान- चरणव्यूह जैमिनिगृह्यसूत्रादीनां पर्यालोचनया ज्ञायते यत् सामवेदस्य त्रयोदशशाखाः सन्ति । तेषु त्रयाणामाचार्याणां शाखा एव समुपलभ्यन्ते । यथा –कौथुमीयशाखाराणायनीयशाखा, जैमिनियशाखा च ।

पश्यतु[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सामवेदः&oldid=404525" इत्यस्माद् पुनः प्राप्तिः