वंशब्राह्मणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वंशब्राह्मणं स्वरूपेणेदं ब्राह्मणं लघ्वाकारकमस्ति । ग्रन्थेऽस्मिन् खण्डत्रयमेवाऽस्ति । १८७३ ख्रीष्टाब्दे बर्नल-महोदयेन ब्राह्मणमिदं प्रकाशितम् । १८९२ ख्रीष्टाब्दे कोलकतानगरीतः उषानाम्नि पत्रिकायां ब्राह्मणमिदं सत्यव्रतसामश्रमीमहोदयेन प्रकाशितम् । १९६५ ख्रीष्टाब्दे केन्द्रीयसंस्कृतविद्यापीठ-तिरुपतिनगरीतः ब्राह्मणग्रन्थोऽयं प्रकाशितोऽभवत् । ग्रन्थेऽस्मिन् सामवेदीयाचार्याणां वंशपरम्परा सङ्कलिताऽस्ति । प्राचीनानाम् ऋषीणां परिचयप्राप्त्यर्थमिदं ब्राह्मणमतीवोपयोगि भवति ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=वंशब्राह्मणम्&oldid=425064" इत्यस्माद् प्रतिप्राप्तम्