शुक्लयजुर्वेदः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

शुक्लयजुर्वेदः यजुर्वेदस्यैव उपविभागः। शुक्लयजुर्वेदस्य संहितैव वाजसनेयिसंहिता कथ्यते । तादृशनामकरणे बीजं त्विदं कथ्यते यत्, याज्ञवल्क्येनाराधितः सूर्यो वाजी भूत्वा तस्मै वेदं प्रोक्तवान् अतस्तदुक्ता संहिता वाजसनेयी संहिता समाख्याता । शुक्लयजुर्वेदस्य माध्यन्दिनशाखा कण्वशाखा चेति द्वे शाखे । प्रथमा उत्तरभारते प्राप्यते, द्वितीया च महाराष्ट्रे । अनयोः शाखयोः संहिते भिन्ने सत्यावपि स्वल्पमेव भेदं धारयतः , बहुष्वंशेषु तुल्यता वर्त्तते ।

शाखाः[सम्पादयतु]

शुक्लयजुर्वेदस्य प्रधानशाखाद्वयं वर्त्तेते । यथा –माध्यन्दिनशाखा, काण्वशाखा च ।

काण्वसंहिता[सम्पादयतु]

शुक्लयजुर्वेदस्य माध्यन्दिनशाखा, काण्वशाखा चेति द्वे शाखे स्तः। प्रथमा उत्तरभारते प्राप्यते, द्वितीया च महाराष्ट्रे। अनयोः शाखयोः संहिते भिन्ने सत्यावपि स्वल्पमेव भेदं धारयतः, बहुष्वंशेषु समरूपता वर्त्तते । किञ्च प्राचीनकाले काण्वशाखायाः स्वप्रदेशः उत्तरभारत एवाऽसीत् । यतः अस्याः संहितायाः एकस्मिन् मन्त्रे कुरु-पाञ्चालदेशीयनृपतेः निर्देशो लभते।[१] (एष वः कुरवो राजा, एष पाञ्चालो राजा) । महाभारतस्य आदिपर्वानुसारेण[२] शकुन्तलायाः पालनकर्तुः पितुः कुलपतिकण्वस्य आश्रमः मालिनीनद्यास्तटे आसीत् । अद्यापीदं स्थानम् उत्तरप्रदेशस्य 'बिजनौर'-मण्डले 'मालन'- नाम्ना ख्यातैका लघ्वी नदी अस्ति । अतः काण्वसंहितायाः प्राचीनसम्बन्धः उत्तरप्रदेशेन सहाङ्गीकरणं भवति। शुक्लयजुर्वेदे विनियोगवाक्यरहिताः केवलं मन्त्राः विद्यन्ते, कृष्णयजुर्वेदे तु विनियोगवाक्यानि मन्त्राश्चेति । अतः अमिश्रितरूपतया शुक्लयजुर्वेदः मिश्रितरूपतया च कृष्णयजुर्वेद इति संज्ञा जातेत्यपि प्रसिद्धम्। 

 सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. (११॥११)
  2. ( ६३ । १८ )
"https://sa.wikipedia.org/w/index.php?title=शुक्लयजुर्वेदः&oldid=423428" इत्यस्माद् पुनः प्राप्तिः