सायणः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्

सायणः भाष्यकारत्वेन प्रसिद्धः। सः विजयनगर-संस्थापकमहाराजबुक्कस्य, महाराजहरिहरस्य च अमात्यः सेनानीः चासीत् ।

परिवारः, कालश्च[सम्पादयतु]

सायणस्य पितुः नाम मायणः इति । मातुः नाम श्रीमती । एतस्य एकः अनुजः आसीत् तस्य नाम भोगनाथः इति । सायणावार्यकृतवेदभाष्याणां बहिरंगान्तरङ्गसाधनैः तस्य समयस्य निर्द्धारणं कर्त्तुं शक्यते । सायणाचार्यः बुक्कमहीपतेः राजसभायामासीत्तथा च तदादेशेनैव सः वेदं लिखितुं प्रयत्नं चकार इति तदीयभाष्यादेव ज्ञायते । यथा ऋग्भाष्यपुष्पिकायां –

“इति श्रीमद्राजाधिराजपरमेश्वर – वैदिकमार्गप्रवर्तक- श्रीवीरबुक्कसाम्राज्यधुरन्धरेण सायणाचार्येण विरचिते माधवीयवेदार्थप्रकाशे ऋक्संहिताभाष्ये प्रथमाष्टके प्रथमोऽध्यायः” इति ।

तस्मात् ज्ञायते यत् सायणाचार्यं बुक्कमहाराजस्य (१३६४ ई. तः १३७८ ई. यावत्) समकालीनः आसीत् । तथा च सायणाचार्यः हरिहरस्य राजसभायामपि मन्त्रिकार्यं सम्पादितवान् इति ज्ञायते । महाराजबुक्कस्य प्रधानामात्यपदम् अनेन १३६४ ख्रीष्टाब्दतः १३७८ ख्रीष्टाब्दपर्यन्तम् अलङ्कृतम्। तदनन्तरं १३७९ ख्रीष्टाब्दतः १३८७ ख्रीष्टाब्दपर्यन्तं महाराजहरिहरद्वितीयस्य अमात्यपदमनेन मृत्युपर्यन्तम् अलङ्कृतम् इति।

भाष्यम्[सम्पादयतु]

एषः वेदभाष्यं लिखितवान् । सायणो वैदिकसम्प्रदायस्य वेत्ताऽऽसीत् । तस्मात् तदीयं वेदभाष्यं वस्तुतस्तु वेदार्थोन्मीलनकारिषु भाष्येषु अन्यतमं भाष्यमस्ति। दुर्गमे तद्वेददुर्णे सरलतयैव प्रवेशयति वेदार्थजिज्ञासुम्। ख्रीष्टस्य चतुर्दशशताब्देः उत्तरार्द्ध एवास्य भाष्यस्य रचनाकालः मन्तुं शक्यते । निजज्येष्ठभ्रात्रा माधवाचार्येण प्रेरितो भूत्वा व्याख्याकार्येऽस्मिन् असौ प्रवृत्तोऽभूत् तेन भाष्यमिदं माधवीय-नाम्ना विश्वविश्रुतम् अभवत् । एतस्य ज्येष्ठाग्रजः विद्यारण्यः इति । अग्रजस्य नाम्नि पाणिनीय धातुवृत्तेः एकां वृत्तिं स्वयं लिखितवान् । सा माधवीयधातुवृत्तिः इति प्रख्याता वर्तते ।

सायणः महाराजबुक्करायस्य आज्ञया तथा च स्वभ्रातुः माधवस्याभिप्रेरणया वेदभाष्य रचनायां प्रवृत्तोऽभवत् । तदेवोक्तं तैत्तिरीयसंहितायाः भाष्योपक्रमणिकायां –

तत्कटाक्षेण तद्रूपं दधत् बुक्कमहीपतिः ।
आदिशन्माधवाचार्यं वेदार्थस्य प्रकाशने ॥
स प्राह नृपतिं राजन् ! सायणार्थो ममानुजः ।
सर्वं वेत्त्येष वेदानां व्याख्यातृत्वे नियुज्यताम् ॥
इत्युक्तो माधवार्येण वीरो बुक्कमहीपतिः ।
अन्वशात् सायणाचार्यं वेदार्थस्य प्रकाशने ।
ये पूर्वोत्तरमीमांसे ते व्याख्यायातिसंग्रहात् ।
कृपालुः सायणाचार्यो वेदार्थं वक्तुमुद्यतः॥

भाष्याणि[सम्पादयतु]

संहिताभाष्याणि[सम्पादयतु]

  • तैत्तिरीयसंहिता (कृष्णयजुर्वेदस्य)
  • ऋग्वेदसंहिता
  • सामवेदसंहिता
  • काण्वसंहिता (शुक्लयजुर्वेदस्य)
  • अथर्ववेदसंहिता ।

ब्राह्मणारण्यकभाष्याणि[सम्पादयतु]

  • कृष्णयजुर्वेदीयतैत्तिरीयब्राह्मणं
  • कृष्णयजुर्वेदीय तैत्तिरीयारण्यकं
  • ऋग्वेदीयैतरेयब्राह्मणं
  • ऐतरेयारण्यकञ्चेति

सामवेदीयानि[सम्पादयतु]

  • ताण्ड्यब्राह्मणं
  • षड्विशब्राह्मणं
  • सामविदानब्राह्मणं
  • आर्षेयब्राह्मणं
  • देवताध्यायब्राह्मणं
  • उपनिषद् ब्राह्मणं

अथर्ववेदीयभाष्यम्[सम्पादयतु]

  • संहितोपनिषद्ब्राह्मणं वंशब्राह्मणञ्च, ।

सायण-भाष्यस्य विशेषाः -[सम्पादयतु]

  • १ अल्पाक्षरा परं स्पष्टा भाषा
  • २ प्रसादगुणयुक्ता भाषा
  • ३ अप्रचलितशब्दानां वर्जनम्
  • ४ पूर्वोत्तरपक्षयुता रचना
  • ५ संवादरूपा शैली
  • ६ समर्पकाः दृष्टान्ताः

सायणाचार्येण रचिताः ग्रन्थाः-[सम्पादयतु]

  • १ वेदार्थप्रकाशः
  • २ सुभाषितसुधानिधिः
  • ३ प्रायश्चित्तसुधानिधिः
  • ४ पुरुषार्थसुधानिधिः
  • ५ आयुर्वेदसुधानिधिः
  • ६ यज्ञतन्र्ससुधानिधिः
  • ७ माधवीया धातुवृत्तिः

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=सायणः&oldid=421589" इत्यस्माद् पुनः प्राप्तिः