वडोदरा

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
वटोदरमहानगरम्
વડોદરા
Vadodara
Heritage City Vadodara
वडोदरा
वडोदरा
देशः भारतम्
राज्यम् गुजरातराज्यम्
मण्डलम् वडोदरामण्डलम्
महानगरविस्तारः १४८.९५ चतुरस्रकि.मी.
जनसङ्ख्या(२०११) १,६०२,४२४
Government
 • Type महापौरपरिषद्-सर्वकारः(Mayor–council government)
 • Body राजकोट म्युनिसिपल् कोर्पोरेशन्
 • महापौरः भरत शाह
 • म्युनिसिपल कमीशनर् अश्विनीकुमार
Time zone भारतीयमानसमयः(IST) (UTC+५:३०)
पीनकोड ३९० ०XX
Area code(s) ०२६५
Vehicle registration जीजे-०६,जीजे-२९
साक्षरता ८१.२१%
भाषाः गुजराती, हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website www.vmcegov.com

वडोदरा ( /ˈvəddərɑː/) (गुजराती: વડોદરા, आङ्ग्ल: Vadodara)महानगरं गुजरातराज्यस्य मध्यभागे स्थितस्य वडोदरामण्डलस्य केन्द्रमस्ति । एतन्महानगरं विश्वामित्रीनद्याः तीरे विकसितमस्ति । एतत् पूर्वं गायकवाडराज्यस्य राजधानी आसीत् । सद्यः गुजरातराज्यस्य बृहत्तमनगरेषु तृतीयमस्ति एतन्महानगरम् । अस्य बरोडा, सयाजीनगरी, वटोदरम् इति नामान्तराणि सन्ति ।

इतिहासः[सम्पादयतु]

नाम[सम्पादयतु]

पुरातत्वविदां मतमस्ति यत् २००० वर्षपूर्वम् अत्र आङ्कोत्तरानामकः ग्रामः आसीत् (तं ग्रामम् अद्य अकोटा इति जानन्ति जनाः)। तस्मात् ग्रामात् १ कि.मी. दूरे वटवृक्षाणां वनमासीत् । अतः तस्य स्थलस्य नाम वाडपाद्रका इति जातम् । वाडपाद्रकास्थलमधुना वडोदरा इति प्रख्यातमस्ति । परन्तु वडोदरा इति शब्दस्तु वटोदरम् इति संस्कृतशब्दात् आगतः । यस्यार्थः भवति वटवृक्षस्य उदरमिति । अतः अस्य वटोदरम् इति नामानतरमपि उक्तम् । अस्पष्टवक्तारः आङ्ग्लाः स्पष्टतया वडोदरा इति उच्चारणं कर्तुम् असमर्थाः आसन्, अतः ते बरोडा इति वदन्ति स्म । १९७४ तमे वर्षे गुजरातसर्वकारेण मूलनाम यदा प्रशासनिकनामत्वेन घोषितं, तदा वडोदरा इति नाम प्रसिद्धं जातम् । ततः पूर्वं सर्वे बरोडा इत्येव वदन्ति स्म आङ्ग्लजनसङ्गदोषत्वात् ।

शासनेतिहासः[सम्पादयतु]

१० शताब्दे अत्र चालुक्यवंशीयराजानां राज्यम् आसीत् । ततः क्रमेण सोलङ्की-वाघेला-मुघलवंशीयराजानां शासनमासीदत्र । १६७४ तमे वर्षे मराठावंशीयराज्ञौ दामजीगायकवाड-रघुनाथौ च मध्यगुजरातराज्यं स्वाधीनं कृत्वा मुघलसाम्राज्यस्य विनाशं स्पष्टं कृतवन्तौ । १९ तमे शताब्दे ‘एङ्गल्-मराठा’-जनयोः युद्धे जाते सति Divide and Rule इति कूटनीतेः उपयोगं कृत्वा आङ्ग्लाः गुजरातराज्योपरि स्वप्रभुत्वं प्रास्थापयन्त । ततः पुणेमहानगरस्य गायकवाडवंशीयाः मराठायोधाः 'पेशवा'जनैः सह युद्धाय उद्यताः अभूवन् । युद्धे स्वरक्षणं भवेत् इति चिन्तयित्वा गायकवाडराजानः आङ्ग्लैः सह सन्धिं कृतवन्तः । तस्यां सन्ध्यां वडोदरामहानगरम् आङ्ग्लानाम् आधिपत्यान्तर्गतम् अभूत् । परन्तु गायकवाडपरम्परायाः राजानः स्वस्य इतिहासस्य संरक्षणे सफलाः अभूवन् । ते वडोदरास्थितानां स्वप्रासादादीनां संरक्षणं कृतवन्तः । हैदराबाद्-मैसूरुमहानगरयोः अपि ते स्वस्य परम्परागतस्थानानां रक्षणं कृतवन्तः । वडोदरामहानगरस्य विकासः महाराजसयाजीराव-III इत्यस्य कुशलनेतृत्वेन जातः अस्ति । तस्य मुख्योद्देशः सामाजिक-आर्थिकस्थिरते भवेताम् इति आसीत् । अतः सः वस्त्रनिर्माणप्रक्रियायां क्रान्तिकारिपरिवर्तनं कृत्वा वडोदरामहानगरम् उद्योगक्षेत्रे अग्रे नीतवान् । सः शिक्षणक्षेत्रेऽपि क्रान्तिकारिपरिवर्तनानि कृतवान् । सः प्राथमिकशिक्षणम् अनिवार्यं भवेत् इति घोषितवान् । कन्याशिक्षणं भवेत् इति तस्य मुख्यलक्ष्यम् आसीत् । कारणं तदा भारते कन्याशिक्षणं नासीत् । एतावति उत्कृष्टे निर्णये सति न केवलम् आङ्ग्लाः, अन्ये जनाः अपि तस्य भूरिप्रशंसां कृतवन्तः । सः आदिवासि-यवनबालेभ्यः शालायाः निर्माणमपि कारितवान् । पौढशिक्षणस्य प्रोत्साहकः सः पुस्तकालयानां स्थापनां कृतवान् । तस्य शिक्षणक्षेत्रे बहु योगदानम् आसीत् । कलाप्रोत्साहनायापि सः भारतीयराज्ञेषु आदर्शः आसीत् ।

वीक्षणीयस्थलानि[सम्पादयतु]

  • सयाजीरावोद्यानम् :- एतदुद्यानं नद्याः तीरेऽस्ति । १८७९ तमे वर्षे महाराजसयाजीराव-III इत्यनेना निर्मितम् एतत् उद्यानम् । अतः अस्योद्यानस्य नाम सयाजीरावोद्यानम् इति । ‘कमाटी’-उद्यानम् इत्यपि नामान्तरमस्य । ०.४ च.कि.मी. यावत् विस्तृते एतस्मिन् उद्याने, बहूनि वीक्षणीयस्थानानि सन्ति । यथा – वस्तुसङ्ग्रहालयौ, प्राणिसङ्ग्रहालयः, तारागृहम्, ‘फ्लावर् क्लोक्’, बालेभ्यः रेलयानम् च ।
  • एम्.एस्.युनिवर्सिटि :- ‘महाराजा सयाजीराव गायकवाड विश्वविद्यालयः’ पश्चिमभारतस्य सर्वोत्तमविश्वविद्यालयेषु अन्यतमः अस्ति । अत्र पुरातत्वविभागे स्थापिताः हरप्पासंस्कृतेः अवशेषाः प्राचीनभारतीयसंस्कृतेः वैभवस्य दर्पणाः सन्ति । तस्याः विषये विशेशज्ञानं भवत्यत्र । ये पुरातत्वविषयकम् अध्ययनं कुर्वन्ति, तेभ्यः ज्ञानार्जनस्योत्तमस्थलमस्ति । अस्य विश्वविद्यालयस्य नाम कलाशिक्षणाय अधिकप्रख्यातमस्ति । सङ्गीत-चित्रकला-नृत्यादिकलाः अत्रत्यं मुख्याकर्षणमस्ति । अत्र नवरात्रीपर्वनिमित्तम् कार्यक्रमाः अपि भवन्ति । ते कार्यक्रमाः छात्रसुनीताः (Well Managed by Students) भवन्ति ।

मार्गाः[सम्पादयतु]

विमानमार्गः[सम्पादयतु]

वडोदराविमानस्थानकं मुख्यनगरात् ५.७ कि.मी. दूरे अस्ति । भारतस्य विविधेभ्यः नगरेभ्यः, गुजरातराज्यस्य अन्यनगरेभ्यः च वडोदरामहानगराय वायुयानानि सन्ति ।

धूमशकटमार्गः[सम्पादयतु]

भारतस्य, गुजरातराज्यस्य च अन्यभागेभ्यः वडोदरामहानगराय धूमशकटयानानि सन्ति । मुख्यतः अहमदाबाद-मुम्बई-देहली-हैदराबाद्-पुणे-बेङ्गळूरु-तिरुपति-हावडा-जयपुरम्-हरिद्वार-भोपालादिनगरेभ्यः धूमशकटयानानि सन्ति ।

भूमार्गः[सम्पादयतु]

भारतस्य, गुजरातराज्यस्य च अन्यभागेभ्यः वडोदरामहानगराय 'बस्'यानानि अपि सन्ति । मुख्यतः अहमदाबाद-मुम्बई-देहली-जयपुरादिनगरेभ्यः 'बस्'यानानि सन्ति ।

सम्बद्धाः लेखाः[सम्पादयतु]

महाराजा सयाजीराव गायकवाड

महाराजा सयाजीराव विश्वविद्यालयः

सरयजीरावोद्यानम्

बाह्यानुबन्धः[सम्पादयतु]

https://vmc.gov.in/

http://timesofindia.indiatimes.com/city/vadodara

"https://sa.wikipedia.org/w/index.php?title=वडोदरा&oldid=318045" इत्यस्माद् पुनः प्राप्तिः