पोरबन्दर

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
पोरबन्दर

પોરબંદર
नगरम्
skyline view with buildings and trees
२००७ तमे वर्षे स्वीकृतं पोरबन्दरस्य विहङ्गमदृश्यम्
Country भारतम्
State गुजरातम्
District पोरबन्दर
Elevation
१ m
Population
 (2001)
 • Total १,३३,०८३
Languages
 • Official गुजराती · हिन्दी · आङ्ग्लभाषा
Time zone UTC+5:30 (IST)
PIN
360575
Website www.porbandarcity.info
गीतामन्दिरे गान्धिप्रतिमा

गुजरातराज्ये किञ्चन मण्डलम् अस्ति पोरबन्दरमण्डलम् । अस्य मण्डलस्य केन्द्रम् अस्ति पोरबन्दर (गुजराती: પોરબંદર, आङ्ग्ल: Porbandar) इतीदं नगरम् । समग्रे भारतदेशे पोरबन्दर् प्रसिद्धम् अस्ति । एतत् राष्ट्रपिता इति ख्यातस्य महात्मगान्धिनः जन्मस्थलम् अस्ति | पूर्वकाले एतत् नगरं सुदामपुरी इति ख्यातम् आसीत् । अत्रैव श्रीकृष्णः स्वबाल्यमित्रेण सुदाम्ना मिलितवान् इति पुराणेषु उल्लेखः अस्ति । कीर्तिमन्दिरम् इति ७९ पादोन्नतं महात्मागान्धीमहोदयस्य स्मरणार्थं भव्यमन्दिरं निर्मितम् अस्ति । भारतस्य प्रथमप्रधानमन्त्रिणः नेहरुमहोदयस्य स्मरणार्थम् अत्र ग्रहावलोकनस्थानं ‘नेहरुतारालयः’ ‘स्थापितः अस्ति । सर्वाणि भवनानि श्वेतरुपाणि इति कारणात् नगरं श्वेतनगरम् इति वदन्ति ।

वाहनमार्गः[सम्पादयतु]

द्वारका-वेरावलयोः मध्ये एतदस्ति ।

धूमशकटमार्गः[सम्पादयतु]

अहमदाबाद्-पोरबन्दरमार्गे अन्तिमनिस्थानम् । ‘कीर्ति एक्स्प्रेस्’ धूमशकटयानस्य नाम अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=पोरबन्दर&oldid=333250" इत्यस्माद् प्रतिप्राप्तम्