महात्मा गान्धी

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
(महात्मा गान्धिः इत्यस्मात् पुनर्निर्दिष्टम्)
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
महात्मा गान्धी
महात्मनः गान्धिनः चित्रम्
जननम् मोहनदासः
2 अक्तूबर 1869(1869-10-02)
पोरबन्दर्, काठियावाड एजेन्सि,
ब्रिटिश्-शासित-भारतम्[१]
(अधुना गुजरातराज्यम्, भारतम्)
मरणम् 30 जनवरी 1948(1948 -  01 - 30) (वयः 78) 
देहली, भारतम्
मरणस्य कारणम् गोलिकया हत्या अभवत् ।
मरणस्थानम्/समाधिः राज घाट, देहली (हत्या अभवत्)
28°38′29″N 77°14′54″E / 28.6415°N 77.2483°E / 28.6415; 77.2483
राष्ट्रियता भारतीयः
इतरनामानि महात्मा गान्धी, बापू, गान्धीजी
शैक्षिकयोग्यता शामलदास-महाविद्यालयः, भावनगरम्,
इन्नर् टेम्पल्, लन्दन
प्रख्यातिः सत्यम्, अहिंसा
धर्मः हिन्दूधर्मः
पतिः/पत्नी कस्तूरबा
अपत्यानि हरिलाल
मुनिलाल
रामदासः
देवदासः
मातपितरौ पुतलीबाई गान्धी (माता)
करमचन्द गान्धी (पिता)
हस्ताक्षरम्
जालपृष्ठम्
www.mkgandhi.org
विशेषम्
વૈષ્ણવ જન તો તેન રે કહીએ, પીડ પરાઈ જાણે રે....
(नरसिंह महेता-द्वारा रचितं गीतम्)

महात्मा गान्धी इति प्रसिद्धः मोहनदासकरमचन्द गान्धी ( ( शृणु) (/ˈməhɑːtmɑː ɡɑːndh/)) (गुजराती: મોહનદાસ કરમચંદ ગાંધી, आङ्ग्ल: Mohandas Karamchand Gandhi) (क्रि.श.१८६९-१९४८) गुजरातराज्यस्य पोरबन्दरनामके नगरे जन्म प्राप्तवान् । तस्य उदारान् मानवीयान् गुणान् दृष्ट्वा कविः रवीन्द्रनाथ ठाकुरः तं महात्मा[२] इति शब्देन सम्बोधितवान् । ततः पश्चात् सर्वे भारतीयाः तं महात्मा गान्धी इति एव अभिजानन्ति । भारतमातुः श्रेष्ठः पुत्रः महात्मा गान्धी स्वातन्त्र्यान्दोलने सर्वेषां भारतीयानाम् आधारभूतः मार्गदर्शकः च आसीत् । अत एव गान्धिजयन्तीपर्व राष्ट्रियपर्वरूपेण आचर्यते । दक्षिणआफ्रिकादेशेऽपि महात्मा गान्धी उत्तमं कार्यं कृतवान् । अस्य पिता श्री करमचन्द गान्धी राजकोटसंस्थाने पोरबन्दरसंस्थाने च दिवान् इति प्रसिद्धः आसीत् । माता श्रीमती पुतलीबायी साध्वी व्रतोपावासादिधर्मानुसारिणी प्रेममयी च आसीत् । मोहनदासगान्धिमहोदयस्य बाल्यं पोरबन्दरनगरे उत्तमपरिसरे सहजसुन्दरम् आसीत् । मातुः सेवाभावः त्यागबुद्धिः सर्वप्रियता इत्येते गुणाः पुत्रेऽपि परिणामम् अकुर्वन् । विद्याभ्याससमये मोहनदास गान्धी साधारणबालकः आसीत् । मोहनदास गान्धी राजकोटनगरे प्रौढविद्याभ्यासं कृतवान् । विनयशीलः लज्जालुः विधेयः इति च सहपाठिषु प्रख्यातः आसीत् । गान्धिमहोदयः सत्यम् अहिंसाम् च जीवने प्रतिष्ठापयितुं दृढव्रतः आसीत् । सः वैदेशिकानां शासनं मूलतः उच्छेत्तुं भारतमातुः स्वतन्त्रतायै दृढां प्रतिज्ञाम् अकरोत् ।

जन्म[सम्पादयतु]

गान्धिवंशीया बनियाख्यवैश्यवर्णाः । तेऽमी पुरास्तोकानापणान्प्रतिष्ठाप्य वाणिज्यं कुर्वते स्मेति प्रतिभाति । किन्त्वस्मत्तातमारभ्यैते त्रिपौरुषपर्यन्तं काठियावाडदेशस्य कतिपयसंस्थानेषु प्रधानसचिवा बभूवुः । ओतागान्ध्यपराख्येनोत्तमचन्दगान्धिनाखण्डितवादिना भाव्यम् । तस्यास्य पोरबन्दरसंस्थाने प्रधानपदमारूढस्य क्वचित्कूटनीतिवशात्तत्संस्थानं परित्यज्य जूनागढसंस्थान आश्रयः समन्वेषणीयोऽभूत् । तदा तत्रत्यनवाबप्रभोरयं सव्यहस्तेन सभाजनं चकार । तत्प्रेक्षकेण केनचित्पुरुषेण तावदविनीतवर्तनस्य हेतुं पृष्टः स प्रत्याह इतः पूर्वमेव मम दक्षिणो हस्तः पोरबन्दरसंस्थानस्य वशवर्ती भवतीति ॥

मृतजानिरोतागान्धिद्वितीयां भार्यामुवाह । अस्य प्रथमभार्यायां चत्वारः पुत्रा द्वितीयायां च द्वौ बभूवुः । एते भिन्नोदरा इति बाल्य नाहमवेदम् । न च तद्वृत्ततो वा प्रकाशितम् । षण्णामेषां करमचन्द गान्धी कबागान्ध्यपराख्यः पञ्चमः । तुलसीदासगान्धिश्चरमः । द्वावेतौ भ्रातरौ पोरबन्दरसंस्थाने क्रमशः प्रधानसचिवावभूताम् । कबागान्धिर्हि मे पिता । स च राजास्थानिकन्यायसभायां सदस्योऽभूत् । सा सभा साम्प्रतं न विद्यते । पुरा खलु सा राज्ञश्च तद्वंश्यानां च विवादव्यवस्थापनाय प्रतिष्ठापिता भूत्या गौरवास्पदमासीत् । अपि च मे तातः कियन्तं कालं राजकोटसंस्थाने क्वचिद्वाङ्कानेरसंस्थाने च प्रधानसाचिव्यमकोरत् । अस्य निर्याणकाले राजकोटसंस्थानाद्विश्रान्तिवेतनं लभ्यते स्म ॥

कबागान्धिरनुक्रमेण चतस्रो भार्या उदवहत् । द्वयोर्द्वयोर्दवे दुहितरौ चरमायां पूतलीबाईनाम्न्यामेका पुत्री त्रयः पुत्राश्च समजायन्त । एतेषामहमेवान्तिमः ॥ मम पिता कुटुम्बवत्सलः सत्यप्रियः शूर उदारश्च । परन्तु क्रोधनः । मनाग्विषयासक्त इत्यपि वक्तव्यम् । स किल व्यतिक्रान्तचत्वारिंशद्वत्सरोऽपि चतुर्थी भार्यामुपायस्त । किन्त्वयमुत्कोचादिलोभपरवशो नाभूत् । यथा स्वकुटुम्बे तथा बहिरप्ययं निष्पक्षपातीति प्रथां सम्पादितवान् । अस्य राजनिष्ठा सर्वलोकविदिताभवत् । कदाचिदयं निजस्वामिनो राजकोटप्रभोष्ठाकूराह्वयस्य कृतापमानं 'असिस्टेण्ट्र पोलिटिकल् एजेण्ट्’ इति व्यपदिश्यमानराजकीयप्रतिनिधिं प्रत्यवतस्थे । क्रुद्धेन तेन प्रतिनिधिना क्षमामभ्यर्थयस्वेति कबा गान्धी समादिष्टोऽपि न तथाकर्तुं प्रत्यपद्यत । ततस्तेन कतिपयहोराकालपर्यन्तमसाववष्टभ्य स्थापितोऽभवत् । परन्तु वज्रकठोरमनस्कतामस्यावबुध्य स राजकीयप्रतिनिधिर्विमुच्यतामयमित्यादिदेश ॥

मम पितुर्द्रव्यसङ्ग्रहलोभो न कदाप्यासीत् । तदस्माकं पैतृकं रिक्थमल्पमल्पमागतम् ॥ अनुभवमेकं मुक्त्वा तस्य शिक्षाक्रमः कोऽपि नासीत् । अध्ययनमपि भूयसा गुजरातीपञ्चमश्रेणीपर्यन्तमेव तस्य प्रवृत्तम् । चरित्रभूगोलपरिज्ञानं तस्य न कञ्चित् । तथाप्यस्य व्यावहारिकज्ञानसम्पन्नत्वादतिसूक्ष्मप्रश्नानां निर्णये परःशतानां जनानां शासनेऽपि प्रगल्भोऽभवत् । तेन लब्धं धार्मिकशिक्षणमत्यल्पम् ।तथाप्यसंख्यातैर्हिन्दुजनैर्देवस्थानगमनपुराणपुण्यकथाश्रवणादिभिर्यावती धार्मिकज्ञानसम्पत्तिरधिगन्तुं शक्या तावती तेनापि सम्पादिता । स्वस्य मरणात् कतिपयवत्सरेभ्यः पूर्वमस्मदीयकुटुम्बमित्रेण केनचिद्ब्राह्मणविदुषा बोधितो मे पिता गीतापारायणं कर्तुमारभत । अपि च प्रत्यहं पूजासमये कतिपयश्र्लोकानुच्चैः पठति स्म ॥

मम मातुर्विषये कदाप्यविस्मणीयतया यन्मे मनसि निरूढस्थितं तत्खलु सा पतिव्रता स्त्रीति । सेयं धर्मभीरुः । प्रतिदिनमापूजापाठावसानं भोजनचिन्तामपि न कलयति स्म । हवेल्याख्यवैष्णवदेवालयगमनं तस्याः प्रात्याहिककर्तव्येष्वेकतममासीत् । स्मारं स्मारमपि तस्याश्चातुर्मास्यव्रताचरणलोपः कदाचित्कोऽपि मम स्मृतिपथं नायाति । अत्यन्तकृच्छव्रतान्यपि सा सर्वात्मना समापयते स्म । आरब्धव्रतं व्याधिवशान्न कदापि पर्यत्यजत् । एकदा चान्द्रायणव्रतमाचरन्त्या रोगपीडीतयाप्यपरित्यज्य व्रतं यथावत्समापितं मम स्मृतिमुपैति । द्वित्रदिनानि यावदुपवासो नाम तस्या ईषत्करः । चातुर्मास्ये प्रतिदिनमेकमुक्तं तयाभ्यस्तमासीत् । इयताप्यपरितृप्य चातुर्मास्ये क्वचिदेकाहिकमुपवासं कुर्वती व्रतं समापयत् । अपरस्मिंश्चातुर्मास्ये सूर्यनारायणदर्शनं विना नाहारं स्वीकरिष्य इति व्रतमग्रहीत् । तदास्माभिर्बालकैर्बहिः स्थित्वा गगनैकद्रष्टिभिः सूर्यदर्शनं मात्रे निवेदयितुमवसरः प्रतीक्ष्यते स्म । वर्षाकालमध्ये सूर्यदर्शनमतीवविरलमिति सर्वेषामपि विदितमेव । बहुषु दिवसेषु सहसा प्रत्यक्षीभवति सूर्ये यथा वयं 'अम्ब अम्ब सूर्यो दृश्यते’ इति ससम्भ्रममवोचाम कदाचन यावदम्बा स्वयं द्रष्टुं बहिरूपधावति तावत्सूर्यस्तिरोहितोऽभूत् यथा चानेन तस्यास्तस्मिन्दिने भोजनाभावः प्राप्तस्तथा सर्वं स्मरामि । ईदृक् सम्भवेष्वस्माताम्लानमुखी 'न कापि चिन्ता । ममाद्य भोजनं देवता न रोचते’ इति वदन्ती स्वकार्यमनुष्ठातुं प्रतिनिवर्तते स्म ॥

सा व्यवहारकुशला । राजास्थानसम्बन्धिनामखिलवृत्तान्तानामप्यभिज्ञाभवत् । अस्या बुद्धिकौशलमवरोधजनस्य सुविदितमासीत् । अहमनेकशो बाल्ये वयसि जनन्या सह राजमन्दिरं गत्वा तत्र मदम्बाठाकूरप्रभुजनन्योः संवृत्तं कथालापं श्रुतवानित्यद्यापि स्मरामि ॥ अनयोर्मातापित्रोर्गर्भादहं संवत् १८३५ भाद्रपदबहुलद्वादश्यां (तथा च श्रीशालिवाहनशकस्य द्विनवत्युत्तरसप्तशताधिकैकसहस्रतमे शुक्लनाम्नि संवत्सरे भाद्रपदकृष्णद्वादशीतिथौ) अधुना पोरबन्दरेतिप्रसिद्धे सुदामापुर्यां जन्माग्रहीषम् ॥

पोरबन्दरे मया बाल्यमतिवाहितम् । कामप्येकां प्रति मया गम्यते स्मेति ज्ञप्तिरस्ति । गणितकोष्टकानां घट्टीकरणं मम क्लेशावहं संवृत्तम् । अपि च सहपाठिभिः सहास्मदुपाध्यायनिन्दामशिक्षिषि । इदमुक्त्वा नान्यत् किञ्चिदपि स्मरामि । एतेन तदानीं मे बुद्ध्‌या मन्दया भवितव्यं ज्ञापकशक्त्या चापक्वया भाव्यमिति तर्कये ॥

बाल्यम्[सम्पादयतु]

यदा मे पिता राजास्थानिकन्यायसभासदस्यत्वमिच्छू राजकोटं प्रति प्रस्थितस्तदा मया सप्तवर्षदेशीयेन भाव्यम् । तत्राहं प्राथमिकशालां प्रवेशितोऽभवम् । तदात्वे पाठयितॄणामुपाध्यायानां नामानि सम्यगहं स्मरामि । यथा पोरबन्दरपुरे, तथैवात्रापि मम पाठलेखनादिषु न कोऽपि विशेषो दृष्टः । न चाहमितरापेक्षया बुद्धिमत्तर इति गणनीयोऽभवम् । एनां शालामतिक्रम्य नगराबाह्यवर्तिन्यां पाठशालायां दिनकतिपयान्यावदध्यगीषि । तदनु द्वादशे वर्षे हाईस्कूलाख्यमुच्चविद्यालयमहं प्रविष्टः । अस्मिन्नल्पीयसि कालेऽस्मदुपाध्यायान् वा सहपाठिनो वा नाहमनॄतं कदाप्यचकथम् । अतीव लज्जालुतया परगोष्ठीं पर्यहार्यम् । मदीयपुस्तकपाठा एव मे सहायाः । घण्टावादनसमये पाठशालोपस्थानं शालाविरामे च गृहाभिमुखीभवनं-एवं हि मेऽभ्यासः । अन्यैः सह कथालापनिस्सहेन गृहं प्रति त्वरित गतिना गम्यते स्म मा कोऽपि द्रष्ट्वा मां परिहसीदिति ॥

उच्चविद्यालये मम प्रथमवर्षपरीक्षायां यत् संवृत्तं सा घटनाद्य कथनीया भवति । तदानीन्तनविद्याभ्यासपरीक्षको जैईल्सनामा समागतः । अस्मत्परीक्षणार्थं पञ्च शबसानमस्माभिरलेखयत् । तेषामेकतमः 'केटल' इति पदमासीत् । तस्य लेखनेऽहं स्खलितमकार्षम् । अस्मदुपाध्यायः स्वपारदरक्षाग्रेण मत्पादमभिस्पृश्य स्खालित्यसूचनाय महान्तं यत्नमकरोत् । तथापि तत्संविदं नाहमग्रहीषम् । मत्पार्श्वस्थितबालकस्य फलकं निरूप्य तल्लिखितानुकारेण स्खलितं मदीयं समीकर्तव्यमित्यस्मदुपाध्यायस्याशयोऽभवत् । तदेतन्मनसो मे नास्फुरत् । अन्योन्यलिखितानुकरणस्य निवारणमेवोपाध्यायानां कर्तव्यमिति मया हि गृहीतम् । मदेकवर्जमन्ये सर्वेऽपि शब्दान्निर्दोषेण व्यलेखिषुः । अहमेक एव मूर्खः । ततः परमुपाध्यायो मम मुग्धतां दर्शयितुं प्रायतिष्ट । तेन तस्यैव वृथाश्रमो जातो न पुनर्मया लिखितानुकरणमशिक्षि ॥

अथाप्येतेनोपाध्यायं प्रति मे गौरवं नाहीयत। ज्येष्ठगतानां हि दोषाणां यदुद्भावनं तन्मे स्वभावदूरमासीत् । यद्यपि तदुपाध्यायस्येतरे दोषा मया क्रमेणोपलब्धास्तथापि तन्निष्ठभक्तिभावो मे नान्यथा पर्यवर्तत । ज्येष्ठानामाज्ञानुवर्तनमेवास्मत्कर्तव्यं न पुनस्तेषां चारित्रपरिशोधनमित्यर्थो मम हृदयंगतोऽभूत् ॥ एतस्मिन्नेव समये संवृत्तं घटनाद्वयमपि मे मनसि लग्नं भवति । शालापुस्तकानि मुक्त्वा पुस्तकानन्तरपठनं मम नेष्टमासीत् । उपाध्यायादाक्षेपवचनं वा मया तत्प्रतारणं वा न मे रोचते स्म । अतो मया दैनन्दिनीयपाठाः शिक्षणीया एवापतिताः । तथाप्येवं शिक्षमाणस्य मानसं सर्वदा पाठैकव्यग्रमासीदिति वक्तुं न शक्यते । एवं मयि पाठ्यपुस्तकेऽपि निरवधाने सति पुस्तकानन्तरं न हि पठ्यते स्मेति किमु वक्तव्यम् । किन्तु मम पित्रा क्रितस्थापितस्य श्रवणपितृभक्त्याख्यनाटकग्रन्थस्योपरि कथमपि मे द्रष्टिरपतत् । तमेनं तत्परतयाहमपाठिषम् । तत्कालमेव ग्रामाद्ग्रामं पर्यटन्तः पुत्तलिकाप्रदर्शनोपजीविनः केचिदस्मद्ग्राममुपागमन् । तत्प्रदर्शितपुत्तलिकासु यात्रामुद्दिश्य स्कन्धावलम्बिवीवधेन स्वमातापितरौ वहमानस्य श्रवणस्य प्रतिकृतिरेका व्यलोकि । एतत्पुस्तकं पुत्तलिकाचेति द्वयं मिलित्वा श्रवणकथां मे मनसः कदाप्यप्रमार्जनीयामकरोत् । श्रवणस्य पितृभक्तिरादर्शरूपेण त्वया स्थापनीयेत्यात्मनात्मानमबोधयम् । श्रवणस्य मरणेन सन्तप्यमानयोस्यत्पित्रोर्विलापोऽद्यापि मे मनसि शोश्रूयत इव । मदर्थे पित्रा वितीर्णया रागमालिकया तमहमालापयम् । स रागो मे ह्रदयं व्यलीनयदिव ॥

नाटकान्तरसम्बन्धिन्यपरा तत्सदृशी घटनैका संवृत्ता । एतत्कालमेव कयापि नाटकमण्डल्या प्रयुक्तं नाटकमवलिकयितुं पितुरनुज्ञामध्यगच्छम् । तन्नाटकं हरिश्चन्द्रचरितात्मकमासीत् । तदेतल्लोचनासेचनकं मम मानसमकर्षत् । किन्त्वनुज्ञां कतिकृत्वः प्राप्य गन्तुं शक्येत । तथाप्येतन्निमित्तं व्यसनं नैव माममुञ्चत् । निस्संख्यवारमिदं नाटकं मया स्वयं मनसा प्रयुक्तं स्यात् । हरिश्चन्द्रेणेव सर्वैरपि कस्मात्सत्यवद्भिर्न भवितव्यम् । इत्येष प्रश्नो दिवानिशं मे मनसि पुस्फोर्यते स्म । सत्यानुसरणं सत्यस्यार्थे हरिश्चन्द्रवन्निर्विकल्पेन मनसा क्लेशानामनुभवः । इत्येष आदर्श एक एव मे मनस्याविरभूत् । हरिश्चन्द्रकथायामक्षरशः सत्यत्वप्रतीतिर्मयासीत् । सर्वस्यास्य स्मरणमनेकशो मे नेत्रोभ्यामश्रूणि निरसारयत् । कथाहरिश्चन्द्रः कश्चिद्वस्तुतो न जीवन् स्थित इत्यधुना मम लौकिकज्ञानमाख्याति । किन्तु हरिश्चन्द्रश्रवणावुभावपि मम ह्रदये नित्यसंनिहितौ स्तः । अद्यापि तन्नाटकपाठेन पूर्ववन्मे ह्रदयं विलीयत इत्यहं जाने ॥

बाल्यविवाहः[सम्पादयतु]

गन्धी तथा तस्य पत्नी कस्तूर् बा

एतदध्यायलेखनसन्दर्भो मा सम्भवत्विति बहुतरमाशंसमानस्याप्येतद्वृत्तान्तं कथयिष्यतो मे विदितमेवेदं यदेतत्सदृशास्तिक्तगुलिका इतोऽपि भूयस्यो मया निगरीतव्याः सन्तीति । यद्यहं परमार्थेन सत्योपासकोऽस्मि तदा मे नान्या गतिः । मम त्रयोदशे वयसि संवृत्तविवाहवृत्तान्तवर्णनरूपं मनस्सन्तापकरं कर्तव्यमिदानीं प्राप्तम् । मत्पोष्यवर्गस्थितानेतद्वयस्कान्बालकान्विलोक्य मद्विवाहः स्मर्यते यदि तदाहमात्मन एव न केवलं दयनीयो भविष्यामि परन्तु परिह्रतबाल्यविवाहान्बालकान्प्रति यूयमेव भाग्यशालिन इति विवक्षा मे जायते । एवमतिबाल्ये वयसि विवाहकरणं नाम नीत्यनुरोधीति किमपि प्रमाणं नोपलभे ॥

अत्र विषये पाठकं मान्यथा विदाड्कुर्वन्तु । मम यत्संवृत्तं स विवाह एव न पुनर्भाविनं विवाहं प्रति संमतिमात्रम् । काठियावाडदेशे विवाहः संमतिरिति द्वौ पृथक् संस्कारौ स्तः । संमतिर्नाम बालकबालिकयोर्मातापितृभिभाविनं विवाहं प्रति परस्परं वाग्दानम् । संमतिरियं नोल्लड्घनीयेति निर्बन्धः कोऽपि न हि । न च मृते बालके बालिकाया वैधव्यप्राप्तिः । बालिकाबालकौ न खलु तत्रे भागिनौ भवतः । बहुशस्तद्विचारोऽपि तयोरविदितो भवेत् । एष संमतिसंस्कारो मम त्रिवारं समपद्यतेति प्रतिभाति । अपि तु कदा सम्पन्न इति न जाने । मदर्थनिश्चिते द्वे बालिके क्रमशोऽम्रियेतामिति कथितोऽस्मि । तृतीया संमतिर्मम सप्तमे वयसि संवृत्तेति क्वचित्स्मरामि । न तावत्स्मर्यते तदिदं केनापि मे निवेदितमिति । इह लेखिष्यमाणो वृत्तान्तो मद्विवाहविषयः स तु स्पष्टतरं स्मर्यते ॥

उक्तपूर्वं खल्विमे वयं त्रयो भ्रातर इति । तत्र प्रथमः पूर्वमेवोढः । मदपेक्षाया द्वित्रवर्षज्येष्ठस्य द्वितीयभ्रातुरेकवत्सरज्येष्ठस्य मे कस्यचिद्दायादस्य मम च त्रयाणामेकदा विवाहः करणीय इति वृद्धैर्निरणायि । एवंविधप्रवृत्तेरस्मत्सुखदुःखचिन्ता वास्मदिष्टानिष्टभावना वा न हेतुरासीत् । एतेन स्वानुकूल्यं मितव्ययश्च सिध्यत इत्यभिप्रायेणैव तथा संविहितम् ॥ हिन्दुजनेषु विवाहो नाम न खलु साधारणो विषयः । विवाहेन वधूवरयोर्माता पितरोऽनेकशो निर्धना भविष्यन्ति । अस्य कृते निजस्वं नाशयन्ति । कालं वृथा क्षिपन्ति । एतदावश्यकानां वस्त्राभरणवस्तूनां सज्जीकरणाय भोजनोपचारव्ययपट्टिकालेखनाय च मासशः कालोऽपेक्ष्यते । विविधभक्ष्याद्युपकल्पने वरपक्षीयाणां वधूपक्षीयाणां च स्पर्धा जरीजृम्भ्यते । ध्वनिमाधुर्यं तावदस्तु वा न वा स्त्रियः पुनराकण्ठशोषं गायन्ति । एतेन व्याधिसम्भवेऽपि न हि चिन्ता । प्रातिवेशिकजनानान्तु विश्रान्तिरेव नास्ति । तेऽपि तत्कलकलमुच्छिष्टकच्चरं च तूष्णीं सहन्ते । यतस्तैरपि करिष्यमाणविवाहप्रसड्गेष्वेवंविधैव प्रवृत्तिराश्रयणीया भविष्यतीति तेषां विदितम् ॥ सर्वस्यास्य क्लेशस्यैकदैव परिहारोऽस्त्वित्यस्मज्ज्येष्ठा व्यचिन्तयन् । समष्टया व्ययोऽल्पः । उत्कावस्तु महान् । त्रिः पृथग्व्ययस्थाने सकृदेव व्ययसम्भवः । ततो मुक्तहस्तेन धनं विकरीतुं शक्यते । मम पिता ज्येष्ठपितृव्यश्च वाधकं प्राप्तौ । अस्मद्विवाहा एव ताभ्यां निर्वर्तनीयेषु चरमाः। चरमाड्कः कुतो विभवोत्तरं न प्रयोक्तव्य इति तेषां मनसि विद्येत । सर्वमेतेदभिसमालोच्य विवाहत्रयमेकदा निर्वर्तनीयमिति निश्चितमभूत् । पूर्वोक्तरीत्या वैवाहिकसंविधानं कियद्भिरपि मासैः समाप्तिमगात् ॥ प्रचलद्वैवाहिककार्यविशेषैरेव विवाहो भावीत्यस्माभिरवगतम् । विवाह इत्येतेन धारणार्थे प्रशस्तवस्त्रलाभः । वाद्यतम्मटघोषः । वधूवरप्रदर्शनोत्सवः । महाभोजनसन्तर्पणनम् । मया सह क्रीडितुमेककन्याप्राप्तिश्च । इत्येतावन्मुक्त्वा नान्यो विचारो मम मनस्यस्फुरत् । विषयसुखापेक्षा त्वनन्तरमागता । मुक्त्वा कतिचिदवश्यवर्णनीयान्विषयानेतदधिकृत्य नान्यत्किमपि लिलेखिषामि । ते च विषया अग्रे निरूपयिष्यन्ते । तेऽप्येतद्वृत्तान्तलेखने यन्मम मुख्योद्देश्यं तस्य भूयसा नोपकारका भवेयुः ॥ साग्रजं मां राजकोटात्पोरबन्दरपुरमनैषुः । सन्ति केचिच्चरमदृश्यात्पूर्वभावितो हरिद्राचूर्णेन सर्वाड्गलेपाविका विनोदावहा विषयाः । ते पुनः सर्वे वर्णयितुं न शक्यन्ते ॥

अस्मत्पिता प्रधानसचिव इति यद्यपि सत्यं तथापि किमयं न परोपजीवी । ठाकोरप्रभोर्विश्वासपात्रतया तस्य परतन्त्रता समाधिकैवेति वक्तव्यम् । अतिप्रत्यासन्नेऽपि विवाहदिवसे ठाकोरप्रभुरस्मत्पितरं नैवाऽमुचत् । ततो मुक्तस्यास्य दिनद्वयात्पूर्वमेव यथा प्रयाणं समाप्येत तथा मार्गयानानि पृथगस्थाप्यन्त । परन्तु किमनेन । अन्या ह्येवासीदीश्वरेच्छा । सुदामापुरं राजकोटाद्विंशत्युत्तरैकशतपाषाणदूरे वर्तते । शकटेन पञ्चर्भिर्दिनैर्निर्वर्त्यं प्रयाणम् । तदेतत्प्रयाणमस्मत्पिता त्रिभिरेव दिनैः समापयत् । किन्तु तृतीयदिवसे यानं पर्यस्तपतितमभूत् । एतेन तस्य बहुनि क्षतान्यजायन्त । असौ सर्वाड्गबद्धपट्टकः सदनमागतः । एतेन तस्य चास्माकं चोत्साहो यद्यप्यर्थे न ह्रासमगच्छत् पितृक्षतनिमित्तं मे दुःखं वैवाहिकविनोदसंरम्भमध्ये सर्वं विस्मृतमभूत् ॥

अहं मातापित्रोरतीव भक्तिमानासम् । किन्तु मे भोगासक्तिरासीत्ततोऽपि नाल्पीयसी । मातापित्रोः शुश्रूषमाणेन जनेन परित्यक्तनिजसुखसन्तोषेण भवितव्यमिति नाहमद्याप्यवेदम् । भोगासक्तस्य मे दण्डरूपेणेव संवृता काचिद्घटना मम मानसमद्यापि कृन्ततीव । एतद्वृत्तान्तस्तु पुरस्तान्निरूपयिष्यते । श्रीनिष्कुलानन्दो गायति यथा-

भोगतृष्णामनिर्धूय भोग्यमात्रं विमुञ्चतः । त्यागोऽयं सर्वथा न स्याच्चिरस्थायीति निश्चयः ॥ इति ॥ अभव्यः शोचनीयोऽयं वृत्तान्तो गीतिमेनां स्वयं पठतो वा गीयमानामितरैः श्रुतवतो वा मम ह्रदयकुहरं प्रविश्य तत्स्मारणेन मामवनतमुखं करोति ॥व्रणपीडितोऽपि मे पिता वेदनां बहिरप्रकटयन् विवाहं साड्गं निरवाहयत् । विवाहे स्मर्यमाणे तत्तद्विधिकर्माणि यत्र स्थलेष्वनुष्ठीयन्ते स्मेत्यद्यापि मे मनश्चक्षुषः पुरस्ताच्चित्रयितुं शक्रोमि । निष्पन्नबाल्यविवाहहेतोः कदाचित्पितरं निष्ठुरखण्डनस्य विषयीकरिष्यामीति न हि स्वप्नेऽपि मया व्यचिन्ति । तदानीं सम्भवन्तोऽर्थाः सर्वेऽपि सुसड्गता लोकसिद्धाः सुखदायकाश्चेति प्रत्यभासन्त । किं च ममाप्यासीत्परिणयनकुतूहलम् । अस्मत्पित्रानुष्ठितस्य सर्वस्यापि निर्दोषत्वेन मया गृहीतत्वात्सर्वमिदानीं स्पष्टमेव स्मर्यते । यथावाभ्यां विवाहवेदिकायामुपविषिटं यथावाभ्यां सप्तपदी रचिता यथा नवोढाभ्यामावाभ्यां कंसाराख्यमधुर गोधूमभक्ष्यविशेषोऽन्योन्ययोर्मुखे विन्यासि यथा चावाभ्यां सहावस्थानमारब्धं तथा सर्वमेतदिदनीमपि मे मनसि चित्रयितुं शक्नोमि । अहो सा प्रथमा रात्रिर्यस्यामत्यन्तमुग्धापत्ययोरायति परिज्ञानशून्ययोर्द्वयोरावयोः सहसा संसारसागरे निपातः समजनि । प्रथमरात्रौ यथा वर्तितव्यमिति प्रजावत्या सम्यगुपदिष्टोऽभवम् । मम भार्या तु केनोपदिष्टेति न जाने । मया सा न तत् पृष्टा । न चाद्य मे तस्य जिज्ञासा । आदावन्योन्यमुखदर्शनेऽप्यधीरा बभूवेति पाठकैर्निस्संशयं विज्ञायेत । लज्जा हि प्रबला स्थिता । कथमहं तया सम्भाषेय । किं वा सम्भाषितव्यम् । अस्मत्प्रजावत्या यदुपदिष्टं तेन नातिदूरमाकृष्टोऽभवम् । किन्त्वेवविधप्रसड्गेषु परोपदेशो नावश्यकः । प्राग्जन्मवासना प्राबल्याद्दैहिकशिक्षणसापेक्षता नास्त्येव । शनैः शनैरन्योन्यसंस्तवो जातः । परस्परमालपितुं प्रावर्तावहि । उभावपि समानवयसावभूव । तथापि पत्यधिकारवहने न मया कृतो विलम्बः । वृत्तान्तोऽयमुत्तराध्याये वर्णयिष्यते ॥

चौर्यं, तस्य प्रायश्चित्तम्[सम्पादयतु]

मांसाशनकालिकानाम् तत्पूर्वकालिकानां च मम केषांचिद्दुरभ्यासानामुपवर्णनमवशिष्टं भवति । ते च मद्विवाहप्राक्कलिका वा विवाहोत्तरकालीनकतिपयदिनान्तर्भाविनो वा भवन्ति ॥ मम च मम बन्धोरेकस्य च कदाचिद्धूमवर्ति सेवनोपेक्षा जाता । अस्मिन्निकटे पणस्तु नासीत् । तत् सेवने किमपि प्रयोजनमस्तीति नावामजीगणाव । न च वा तत्परिमलोऽस्मदीयं मनः समाकर्षति स्म । किन्तु मुखाद्धूममोक्षे कोऽप्यानन्दविशेषोऽनुभूयत इत्यमंस्वहि । अस्मत्कनिष्ठपितृव्यः पूर्वमेव तदभ्यासी । तत्प्रभृतिभिर्जनैः सेव्यमानं धूमपानमवलोकमानयोरावयोरपि तत्सिसेविषा समजनि । किंत्वस्मदीयकञ्चुककोशे पणाभावात्पितृव्येन सेवितमुक्तानि वर्तिशकलानि गुप्तमेवोच्चित्य गृहीतुं प्रावर्तावहि ॥ किन्त्वेतानि शकलानि सर्वदा न लभ्यन्ते स्म । न हि तेभ्यः प्रकामं धूमोऽपि निरसरत् । तस्माद्गृहभृत्यस्य कञ्चुककोशान्मुषितलब्धाभिः पञ्चषकाकिणीभिर्धूमवर्तीः क्रीत्वा सम्पादयितुमारप्स्वहि । परं त्वेता वर्तयः कुत्र निगूहितव्याः । ज्येष्ठसमक्षं तु तत्सेवनमशक्यमेव । एवं चोर्यमाणद्रव्येण कथंचित्कतिपयदिवसान्निरवाहयाव । एतन्मध्ये कस्यचिद्वृक्षविशेषस्य रिक्तकनालानि धूमवर्तिपानोपयोज्यानि भवन्तीत्यश्रौष्व । ततस्तान्येवानीय सेवितुमुपाक्तमावहि । किन्त्वेतदावयोर्न परितोषमजनयत् । अस्मत्पारतन्त्र्यमावां तुदति स्म । ज्येष्ठानुज्ञां विना न किञ्चिदनुष्ठातव्यमिति निर्बन्धो दुस्सहोऽभवत् । पर्यन्ते परमजुगुप्सया स्वात्महत्यां विधातुं निश्चयमकार्ष्व । किन्तु कथमिदं साधयितव्यम् ? विषं कुतः सम्पादनीयम् ? धातुरबीजभक्षणं प्राणहरमिति पूर्वमावाभ्यां श्रुतमासीत् । वनं गत्वा तद्बीजमानैष्व । सायं प्रतीक्ष्य केदारेश्वरदेवालयं गत्वा देवाग्रस्थितदीपे घृतं दत्त्वा निष्पन्नदेवतादर्शनौ किंचिद्विविक्तस्थानमगाव । परं तु विषप्राशनाय न धैर्यमागतम् । सद्यः प्राणानामनपगमे का गतिः ? आत्महत्यया वा तावत्को हि लाभः ? पराधीनतापि कस्मान्न सोढव्या । अथापि त्रिचतुरबीजानि गिलितानि । ततोऽप्यधिकभक्षणाय न धैर्यमलप्स्वहि । उभावपि मरणपराङ्मुखावभूव । श्रीरामदेवालयं गत्वा देवदर्शनं प्राप्य शान्तचित्ताभ्यामात्महत्याप्रसड्गो विस्मर्तव्य इति निरणायि ॥ आत्महत्यासड्कल्पस्तावत्सुकरः । परं तत्साधनं दुष्करमित्यनुभवाद्विदितमभूत् । तदाप्रभृत्यात्महत्यासड्कल्पघोषणेन यः कोऽपि मां भीषयति चेत्तदहं नैवाद्रिये ॥

एवंविधप्रयत्नस्य फलितांशस्तु धूमवर्तिशकलसेवनाभ्यासस्य भृत्यकञ्चुकाद्द्रव्यमोषणप्रसड्गस्य चात्यन्तिकः परित्यागः ॥ प्राप्तवयसो मम धूमपानेच्छा न कदापि जाता । अपि चाभ्यसोऽयमनागरिकश्च मलीमसश्चानर्थप्रदश्चेति सदा प्रत्येमि । लोके सर्वत्राप्यस्मिन्नभ्यासे कुतो हि जनानां तत्तादृश्यासक्तिरित्यद्यापि मया नावगतम् । धूमवर्तिसेविभिर्जनैः सम्बाधायां धूमशकट्यां प्रयाणं मे दुष्करम् । तद्धूमेन मम श्वासः प्रतिबद्धो भवति ॥ इतो दिनकतिपयात्परं यच्चौर्यमकारि तत्खलु पूर्वतनमप्यत्यशेत । काकिणीचौर्यकालेऽहं द्वादशत्रयोदशवर्षदेशीयोऽभवम् । ततोऽपि न्यूनवया वा । द्वितीयचौर्यकालेऽहं पञ्चदशाब्दवयस्कः । मांसाहारिण पूर्वोक्तमदग्रजस्य हस्तगतसुवर्णकटकात् खण्डमेकमहमचोरयम् । अयमग्रजः कस्मैचिज्जनाय पञ्चविंशतिरूप्यकानधारयत् । सौवर्णं घनकटकं तदीयहस्तगतमासीत् । ततः शकलमेकमुत्पाट्य स्वीकरणं नाम नाभूद्दुष्कारो व्यापारः ॥

अथ कृतं तदुत्पाटनम् ऋणं च निर्यातितम् । परं त्वेतदकृत्याचरणं मम दुस्सहं जातम् । इतः परं नैव चौर्यं करिष्य इति निश्चयमकरवम् । अपि च पितुरग्रे स्वापराधमड्गीकरिष्यामीति मतिमकरवम् । किन्तु तत्समक्षं वक्तुमधीरोऽभवम् । न तावत्स मां ताडयिष्यतीति भयादपि तु तस्य दुःखप्रदो माभूवमिति । अस्मन्मध्ये कमपि तेन ताडितं न हि स्मरामि । पर्यन्ते च यद्भवतु सर्वथा तं विदितार्थं करिष्यामीति निर्धारितवान् । अन्यथा तु स्वदोषस्यानड्गीकारे नान्तःशुद्धिर्भवितेति मया व्यचिन्ति ॥ मदपराधवृत्तान्तमखिलमेकस्मिन् पत्रे विलिख्य तत्तस्मै प्रदाय क्षमाभ्यर्थनीयेत्यवधार्य तथा च लिखितपत्रखण्डं तस्य हस्ते न्यधाम् । तत्र न केवलं स्वापराधाभ्युपगतिरूपन्यस्ता परं स्वस्मिन्दण्डपातनमपि प्रार्थितमभूत् । अपि चास्य कॄते भवता विषादो न कर्तव्य इत्यभ्यर्थ्य न पुनरेवमपरात्स्यामीति प्रतिज्ञाक्षरमप्यलेखि ॥ जनकाय पत्रिकां ददानस्य मम शरीरं कम्पते स्म । तत्कालमसौ भगन्दरव्याधिना सन्तप्यमानः शयनपतितोऽभवत् । तदानीं तु फलकमेकध्यशेत । पत्रं समर्प्य तदग्रेऽहमुपाविशम् ॥

स च पत्रमवाचयत् । नयनाभ्यां मुक्ताफलसन्निभा अश्रुबिन्दवो निःसृत्य पत्रमार्द्रीकुर्वन्ति स्म । कंचित्कालं पर्याकुलीभूय चक्षुषी न्यमीलयत् । तदनु पत्रमुत्पाट्य प्राक्षिपत् । अथोत्त्थाय पठितुमुपविष्टः क्षणात्पुनः शयनमभजत । अहमप्यरुदम् । पितुः सड्कटं तु प्रत्यक्षमालक्ष्यते स्म । यद्यहं चित्रकरोऽभविष्यं तदा तत्कालीनदृश्यमचित्रयिष्यम् । तच्चित्रमद्यापि मे मनश्चक्षुषः स्पष्टतरं भासतो ॥ तेऽमी मुक्ताबिन्दवो मम ह्रदयकालुष्यं निरसारयन् । तत्प्रेमबाणो मम पापानि निरभिनत् । स च प्रेम स्वानुभवैकवेद्यः । तथा हि प्रेमबाणाविषयीभवन्नरस्तस्य तीक्ष्णगतिविन्न चापरः ॥ इत्याहुः ॥ अयमेव ममाहिंसावस्तुपाठः संवृत्तः । तस्मिंन्किलावसरे पितुः प्रेमैकमन्तरा न किंचिदपरं भासते स्म । अद्य हि सैष शुद्धाहिंसाप्रयोग इत्यवगच्छामि । सेयमहिंसा विश्वव्यापिनी कस्य वा शीलं न परिवर्तयेत् । अपरिमेयः खलु तस्याः प्रभावः ॥ ईदृक् शान्तिमयी महनीया क्षमा मम पितुर्निसर्गसिद्धा नाभवत् । मया हि चिन्तितं यदसौ सललाटघातं क्रोधेन मां शप्स्यतीति । परन्त्वयमगाधशान्तिरसपरिप्लुतोऽभवत् । इदं हि विशुद्धान्तःकरणेन मया स्वापरधाड्गीकरणस्य फलमिति तर्कयामि । इदं हि मन्ये कृतापराधस्य शुद्धतमं प्रायश्चित्तं यत् क्षमितुरग्रे स्वापराधातां प्रकटमड्गीकृत्य पुनस्तदकरणे प्रतिज्ञानं नाम । जानेऽहमेवंविधया मम प्रवृत्त्या पिता निःशड्कः समजनीती । मद्विषयिणी च तत्प्रीतिरमेया पर्यवर्धतेति ॥

दक्षिणाफ़्रिकाप्रस्थानसज्जीकरणम्[सम्पादयतु]

मया तदाधिकार्युपसर्पणं सर्वथा दोष एव । परन्तु तदीयाग्रहक्रोधगर्वानपेक्ष्य मदीयोऽपराधस्तावदत्यल्प आसीत् । न खल्वयं बहिर्निष्कालनमार्हित् । पञ्चनिमेषाधिकः कालस्तदीयो मया न क्षपितः । तथापि मद्वचनोपन्यास एव तस्य दुस्सहोऽभवत् । गम्यतामिति सभ्यरीत्या वक्तव्यमुचितमासीत् । किन्तु तस्याधिकारदर्पोऽत्यारूढ स्थितः । क्षमायास्तस्मिन्नामापि न श्रूयते स्मेति पश्चादवगतोऽस्मि । स्वपार्श्वमुपागतानां यदवहेलनं तत्किल तस्य साधारणो विषयः । अणुमात्रविपर्यणाप्यसौ रोषेण ज्वलति स्म ॥ प्रायेण मम कार्याणां भूयिष्ठोंऽशस्तदीयन्यायसभायामेव परीक्षणीयोऽभवत् । न्यायतस्तस्याधिकारिणः समाधानकरणं ममाशक्यमासीत् । तस्य प्रसादनाय नीचैः प्रह्वताश्रयणं न मेऽभिमतमासीत् । किं बहुना । व्यवहारेण त्वामभियोक्ष्य इति प्रथममेनं भीषयित्वा पश्चात्तूष्णीमासिका न मे समञ्जसा प्रत्यभासीत् ॥

अत्रान्तरे तत्रत्यराजकीयप्रपञ्चस्य कार्यगतिविशेषाणामनुभवो मया बहुशः समपादि । काठियावाडदेशस्य प्रायेणाल्पाल्पराज्यभूयिष्ठतया स्वभावादेव तत्र राजनीतिकुशलैर्भूयोभिर्भवितव्यम् । संस्थानानां मध्ये परस्परं कूटनीतिप्रचारः सेवकजनानामप्यधिकारप्रेप्सयान्योन्य द्रोहचिन्तनमित्येतत्तदानीं सुप्रचरितमासीत् । राजानश्च मधुरवाचां कर्णेजपानां वचनमाकर्ण्य पराधीनप्रवृत्तयोऽभवन् । मुख्याधिकारिणः प्रागलभ्यतः स्वामिनप्यशेत । यतः स एव निजस्वामिनश्चक्षुः । स एव तस्य श्रोत्रम् । स एव तस्य मुखम् । तस्येच्छैव सर्वनियामिका । तस्य द्रव्यादायः स्वामिनो द्रव्यायतेरप्यधिकतरः । नन्वत्र काचिदतिशयोक्तिः स्यात् परन्तु तस्य वेतनादप्यधिक आसीत्तदीयव्यय इत्यत्र न कोऽपि सन्देहः । वातावरणमिदं विषयमलक्ष्य । एतदीयसम्स्पर्शं कथं वा परिहरेयमित्येषैव मे सार्वदिकी चिन्ताभवत् ॥

एतेनाहं परं खेदभवापम् । इदं ममाग्रजोऽलक्षयत् । यत्र काप्युद्योगलाभे तदड्गीकरणेन मयादितः प्रपञ्चाद्विमुक्तिः स्यादित्युभावचिन्तयाव । किन्तूपप्रदानं विना प्रधानसाचिव्यं वा न्यायाधीशपदं वा कथं लभ्येत । मुख्याधिकारिणा सह कलहप्रसड्गान्मम व्यवहारेषु हानिरुदपद्यत ॥ तदानीं पोरबन्दरसंस्थानमाड्ग्लसाम्राज्येन नियमितस्याधिकारिणाः शासने स्थितम् । तत्रत्यराणाप्रभोरधिकारवृद्धये मया प्रयत्नः करणीय आपतितः । मेराख्येभ्यस्तत्रत्यकृषीवलेभ्योऽत्यधिकः करो गृह्यते स्म । अस्मिन्विषयेऽपि मया (अडमिनिस्ट्रेटर इत्येतदाख्यः) शास्तिकर्ता द्रष्टव्योऽभवत् । सोऽधिकारी देशीयोप्याड्ग्लाधिकारिणं दर्पतोऽतिशयान इवालक्ष्यत । स च स्वकार्ये विचक्षणः परन्तु तदीयकार्यकौशलात् कृषिकाणां न कोऽपि लाभः समजनि । राणाप्रभोरधिकारस्य काचिद्वृद्धिप्रापणे मम प्रयत्नः सफलोऽभवत् । किन्तु कर्षकसार्थस्य भारो न लघूकृतः । तदीयकष्टविचारो यथावदधिकारिणा न पर्यशोधीति मन्ये ॥

एवं च प्रसक्तविषये श्रमानुरूपं फलं मया न लब्धम् । मदीयकार्यिणां च न्यायलाभो नासिध्यत् । तदर्थे न्यायसम्पादनाय यक्तिमपि साधनं मयि नासीत् । बहुकृत्य 'पोलिटिकलएजेण्ट' इत्येतदाख्यराजकीयप्रतिनिधेर्वा 'गवर्नर' इत्येतदाख्यराजप्रतिनिधेर्वा सन्निधाने प्रार्थनापत्रं समर्पणीय मासीत् । एवं कृतेऽपि 'वयमत्र प्रस्तावे न हि प्रवेक्ष्यावः’ इति तेनाधिकारिणा विलिख्य प्रार्थनापत्रं निरकासयिष्यत । एवंविधार्थनिर्णयः कमपि शासननियमं प्रमाणीकृत्य यदि क्रियते तदा स साधुरेव स्यात् । परन्त्वत्र तस्याधिकारिणः स्वेच्छैव नियमिकाभवत् । ततो विनष्टक्षान्तिरहं संवृत्तः ॥अत्रान्तरे पोरबन्दरवर्ती वणिक्‌सार्थ एको मदग्रजस्य पत्रमेवं व्यलिखत् -

“ वयं दक्षिणाफ्रिकादेशे वाणिज्यकर्तारः । अस्मदीयो व्यापारः परमूर्जितो भवति । तत्रास्माकमेको महाव्यवहारः प्रवर्तते । चत्वारिंशत्सहस्रसुवर्णमुद्रासाध्यकोऽयं व्यवहारस्तत्रत्यन्यायसभायां प्रवेशितोऽस्माभिः । स च बहुभिर्दिनैः प्रचलति । परमघटका न्यायवादिनो ब्यारिस्टजनाश्च तदर्थेऽस्माभिः स्थापिता भवन्ति । भवदीयमनुजं यदि भवन्तः प्रेषयेयुस्तदा नस्तेन बहूपकृतं स्यात् । सोऽप्यानुकूल्यमाप्स्यति । स खल्यस्मदपेक्षया व्यवहारसम्बद्धान्विषयानस्मदीयन्यायवादिभ्यः स्पष्टतरं व्याख्यायात् । किं चास्य नवीनदेशदर्शनं च सेत्स्यति नूतनपरिचयश्च सम्पत्यत इति ॥

अस्य कृते मदग्रजो मया साकममन्त्रयत । प्रस्तुतोऽर्थो न हि मया स्पष्टमबोधि । व्यवहारमधिकृत्य न्यायवादिषु विषयनिरूपणमात्रं मया कर्तव्यमुताहो न्यायसभापि मयोपस्थातव्येत्यहं नाज्ञासिषम् । तथापि गमनोत्साहो मामग्रहीत् ॥ 'दादा’ अबदुल्ला-वाणिज्यशालाव्यस्थापकानामेकतमं शेठ-अबदुल-करीम-झवेरीमहाशयं मदग्रजो मां पर्यचाययत् । स च श्रेष्ठी मह्यामित्थं न्यवेदयद्यथा- भवद्भिस्तावदतिश्रमो न वोढव्यो भवति । सन्ति नः सुह्रदो महान्त ऎरोप्यजनाः । तै सहापि परिचयो वः सम्पत्स्यते । अस्मद्विपणिकार्येऽपि साहाय्यं कर्तुं भगवतामवकाशो भविष्यति । अस्मदीयलेख्यपत्राणां भूयिष्ठो भाग आड्ग्लभाषामयो वर्तते । तत्सम्बद्धकार्येष्वस्माकं भवद्भिरूप कर्तुं शक्यते । युष्मन्निवासोऽस्मदीयहर्म्यान्तर एव वसतिः परिकल्प्यते । तस्माद्वसतिनिमित्तव्ययभारो युष्यदुपरि न पतिष्यतीति ॥ अथाहमपृच्छम् - ‘ कियन्ति दिनानि मया वः सेवा कर्तव्या । कियद्वेतनं मे प्रदीयत इति ।’ "समयस्तावदेकवत्सरं नातिवर्तेत । युष्मदीयगतागतस्य प्रथमश्रेणीभाटिका प्रदीयते । किञ्च भोजनोपहारव्ययेन सह पञ्चोत्तरशतं सुवर्णमुद्राश्च प्रदीयन्ते” ।

तदेतदुद्दिष्टं मदीयगमनं न खलु न्यायवादिकार्यार्थमिति वक्तुं शक्येत । तद्धि केवलं तदीयविपण्यां भृत्यत्वस्वीकारार्थमेवेति स्पष्टम् । परं तु यथा तथा वा हिन्दुस्थानाद्बहिर्गन्तुमिच्छा मां नुदति स्म । गमनान्न केवलं नवीनदेशदर्शनं नवनवानुभवश्च सिध्यतः परन्तु मदग्रजस्य कुटुम्बव्ययार्थे पञ्चोत्तरशतं सुवर्णमुद्राः प्रेषयितुं शक्यं भविष्यति । तस्मात्किञ्चिदप्यविब्रुवंस्तदुक्तवेतनेन तदीयकार्यमनुष्ठातुं प्रतिपद्य दक्षिणाफ्रिकादेशं प्रति प्रस्थातुं सज्जोऽभवम् ॥

स्वदेशयात्रा[सम्पादयतु]

प्रायः षण्णवत्युत्तराष्टशताधिकैकसहस्रतमस्य कैस्तशताब्दस्य मध्यभागे 'पोंगोला’ नाम-कनौकायानेन स्वदेशं प्रति प्रयाणमड़्‌गीकृतवान् । एषा तरणिः कलकत्तानगरगामिन्यासीत् ॥ अस्यां नौकायां केचिदेव पान्था अविद्यन्त । तेषामांग्लाधिकारिणौ द्वावास्ताम् । ममैताभ्यामधिकपरिचयो जातः । अनयोरेकेन सह चतुरंगक्रीडया प्रत्यहमेकहोराकालमत्यवाहयम् । नौकायां वैद्यमहाशयो मे द्राविडभाषास्वयंबोधिनीमदात् । तत्पुस्तकेन तालिमभाषां शिक्षितुमुपाक्रमे । मुसलमानजनैर्निकटसम्बन्धाधिगमायोर्दूभाषाशिक्षणं तथा च मद्रासप्रदेशवर्तिनां भारतीयानां स्नेहसंपादनाय तामिलभाषाशिक्षणं चावश्यकमिति नातालदेशे मदनुभवाद्विदितमासीत् ॥

उर्दूभाषां मया सह शिक्षमाणेनाड्ग्लेयामित्रेणानुबोधितः सन्नौकाबाह्यशालामध्युषितेषु पथिकेषूर्दूमहापण्डितमेकमन्विष्याग्रहीषम् । आवयोरध्ययनव्यासड्गः सम्यगेव प्राचलत् । अधिकारी मदपेक्षया प्रकृष्टतरमेधाशक्तिमानभूत् । सकृदवलोकनादसौ नैकमप्युर्दूशब्दं व्यस्मरत् । मम तावदक्षरपाठ एवानेकशः क्लिष्टतरोऽलक्ष्यत । तदपेक्षया भूयः प्रयस्यन्नपि नाहं तत्समानकोटिमारोढुमशकम् ॥ द्राविडभाषाभ्यासो मे प्रचलित स्म । अभ्यासेऽस्मिन्न किमपि साहाय्यं मयालभ्यत । किन्तु मन्निकटस्थिता 'तामिलस्वयंबोधिनी’ समीचीनं पुस्तकमासीत् । अतः साहाय्यान्तरं नात्यन्तमावश्यकमासीत् ॥

अथेदानीं पाठकाः पोंगोलाख्यनौकाप्रवहणस्य मुख्याधिकारिणः परिचयं कारयितव्याः । आवयोर्मैत्री परस्परं समवर्धत । आसीदयं प्लीमथभ्रातृसंप्रदायानुवर्ती । अस्मदीयकथालापविषयस्तु न तावज्जलयानविद्याज्ञानं यावदाध्यात्मिको विचारः । स किल नीतिधर्मश्रद्धयोर्भेदं प्रत्यपादयत् । तदीयद्रष्टया कैस्तवेदोपदेशो लेशतोऽपि क्लिष्टवाड़्‌म्यो नाभूत् । तस्य सौन्दर्यं नाम तद्गता सरलता आबालस्त्रीपुरुषमखिलजनैरापि कैस्ते तन्महाबलिदाने च यदि विश्वासः क्रियते नूनं तर्हि तत्पापानां परिहारो भविष्यतीति कथयति स्म । तमेनमनुचिन्तयतो मम प्रिटोरियाभ्रातरः स्मरणमागताः। नीतिनियमोपेताः सर्वेऽपि धर्मास्तस्य नीरसा अभूवन् ॥

अस्याः सर्वस्या अपि धर्मचर्चाया मदीयशाकाहारित्वमेव हेतुरासीत् । कुतो मांसं भवता न भक्षणीयम्। गोमांसमक्षणे को दोषः । यथा सस्यवृक्षादयः फलमूलादयश्च मनुष्योपभोगायैव देवेन निर्मितास्तथापि ननु हीनजातयः सर्वेऽपि प्राणिनो मनुष्यजातेरूपभोगायैव सृष्टोः । एवंविधा प्रश्नमाला आध्यात्मिकवार्ताप्रवेशमपरिहार्यमकरोत् ॥ आवयोरभिप्रायसांगत्यं नैवासिध्यत् । धर्मनीत्योर्नास्ति पारमार्थिको भेद इत्यभिप्रायो मयि दार्ढ्यमापद्यत । किन्तु मुख्याधिकारी तद्विरुद्धं निजाभिप्रायमेव निःसंशयेन संगतममन्यत ॥ गतेषु चतुर्विंशतिदिनेषु प्रमोदावहमिदं समुद्रयानं समाप्तिमगमत् । हुगलीनदीसौन्दर्यावलोकनेनान्दमनुभवन् कलकत्तानगरे नौकायानादवतीर्य तस्मिन्नेव दिने धूमशकट्या मोहमयीनगरं प्रायासिषम् ॥

वर्णद्वेषः[सम्पादयतु]

न्यायाधिदेवतामविषमतुलाधरीं निष्पक्षपातिनीमन्धामपि कुशलां वृद्धवनितां सांप्रदायिका - श्चित्रयन्ति । न खलु मनुष्याणां मुखदर्शनेन परन्तु पारमार्थिकयोग्यतानुगुण्येन न्यायनिर्णयो देय इति बोधयितुमेव दैवेन सा द्रष्टिविधुरा न्यधायि । नातालदेशस्य न्यायवादिसभा यथा तत्प्रत्यन्यायस्थानमेतत्तत्प्रतिकूलमाचरेत्तथा कारयितुं प्रवृत्ता ॥ तस्मिन्न्यायस्थाने मया न्यायवादित्वेन प्रवेशो लिप्सितः मन्निकटे मोहमयीनगरस्योच्चन्यायस्थानेन प्रदत्तं प्रमाणपत्रं स्थितम् । तत्र न्यायवादित्वेन प्रवेशावसरे विदेशलब्धं प्रमाण पत्रमर्पणीयमासीत् । नातालदेशे न्यायसभां प्रविविक्षुणा प्रार्थनापत्रेण सह चारित्रप्रशंसापत्रद्वयमवश्यमेव प्रेषयितव्यमासीत् । तदेतदैरोप्यजनप्रदत्तं चेत् प्रशस्यतरमित्यालोच्य शेठअबदुल्ला महाशयद्वारा कृतपरिचयाभ्यामैरोप्यजनाभ्यां प्रमाणपत्रं समपादयम् । प्रार्थनापत्रं च केनापि न्यायवादिना मदर्थे समुपस्थापनीयमासीत् । प्रायशः प्रार्थनापत्राण्येवंविधानि राजकीयमहान्यायवादिनैव (अटर्नी जनरल) विनार्थग्रहणं समर्प्यन्ते स्म । एस्कूंबमहाशयस्तदानीं तत्पदमध्यास्त । स किल दादा- अबदुल्ला-कंपनीपक्षेऽपि न्यायवाद्यभूत् । स एष मया द्रष्टः। सोऽपि मम प्रार्थना पत्रिकां समर्पयिष्यामीति हर्षुलः प्रतिज्ञातवान् ॥ अत्रान्तरे न्यायवादित्वेन मम प्रवेशं प्रत्यवतिष्ठमानन्यायदिसभायाः सकाशात्सूचना पत्रमेकमागतम् । प्रत्यवस्थानहेतुश्च मम प्रार्थनापत्रेण सहाड्ग्लविदेशीयलब्धं प्रमाणपत्रं न प्राहायीति । किन्तु प्रधानहेतुरन्योऽभूत् पुरा खलु न्यायवादिप्रवेशनियामकशासनस्य निर्माणाकाले कृष्णवर्णा वा हरिद्रवर्णा वा मनुष्या न्यायवादित्वाड्गीकाराय प्रार्थनापत्राण्येवं समर्पयेरन्निति केनापि स्वप्नेपि न चिन्तितम् । नातालदेशो हि श्वेतजनानां साहसेनैवाभिवृद्धि मागतः । अतस्तत्रत्यन्यायसभासु प्राधान्यमैरोप्याणामेव रक्षणीयम् । कृष्णवर्णेषु प्रवेशितेषु शनैः शनैराड्ग्लेयानां प्राधान्यमल्पीभूय स्वात्मरक्षापि तेषां दुष्कार स्यात् ॥

एतदर्थं न्यायवादिसभया कश्चित्प्रख्यातन्यायवादी नियुक्तः । स च दादा-अबदुल्ला-कम्पनीजनैः कार्यवान् । तस्मादयमबदुल्लाशेठमहाशयद्वारा मामाकार्य प्रस्तुतार्थमधिकृत्य मया सह निर्व्याजस्पष्टमभाषत । तस्मै मदीयपूर्वचरित्रजिज्ञासवे सर्वं न्यवेदयम् । अथ सोऽब्रवीत् - भवत्प्रतिकूलतया वक्तव्यं किमपि नास्ति । अत्रैव लब्धजन्मनां धूर्तानामेकतमैर्भवद्भिर्भवितव्यमिति मे शड्का । किं च भवता प्रार्थनापत्रस्य मूलप्रमाणपत्रराहित्यात् स संशयो बलवत्तरोऽभूत । अन्यदीयप्रमाणपत्रयोजका जना न किलात्र दृश्यन्ते । ऎरोप्यजनसकाशादानी तप्रशंसापत्रद्वयहमकिंचित्करं मन्ये । भवद्विषयमेतौ किं वा विधाताम् । तयोर्भवत्परिचयोऽपि कीद्रयो व स्यादिति ॥

अहमवोचम् - अत्र सर्वेऽपि मम नूतना एव। अबदुल्लाशेठमहाशयस्य परिचयोऽपि मे प्रथमं जात इति । तेन पुनः कथितम् - उक्तपूर्वं हि भवद्भिः यदबल्लाशेठमहाशयो भवन्तश्चैकस्थलादागता इति । तत्र भवत्पितरि प्रधानसचिवे सति नूनमबदुल्लाशेठमहाशयेन युष्मत्कुटुम्बपरिचयवतैव भाव्यम् । तत्सकाशाद्भवद्भिः प्रशंसापत्रमानीयते यदि न मे किंचित्प्रतिबंधकं तिष्ठेत् । अथाहमपि भवत्प्रवेशं प्रतिरोद्धुं न शक्नुयामिति न्यायवादिसभां प्रति सप्रमोदं लिखेयमिति ॥

अहमेतदाकर्ण्य क्रोधमूर्च्छितोऽभवम् । परन्तु मया निगृहीतः स कोपः । अथाहमात्मन्येवाचिन्तयम् । अबदुल्लाशेठमहाशयादेव यद्यपि प्रशंसापत्रमानेष्यत तथाप्यांग्लमहापुरुषात्पत्रमेतदा नेतव्यमित्यवदिष्यन् । मदीयन्यायवादित्वांगीकारस्य मदीयजन्मचरित्रयोश्च कः संबन्धः ? दारिद्र्याद्वा दुश्चरित्राद्वा लब्धजन्मा भवत्वयं जनः । तदेतत्कथमप्रतिकूलतया प्रयुज्यत इति । किन्तु सर्वमेतन्निगीर्य प्रत्यवोचम् - यद्यप्येनमर्य्थविस्तरं न्यायवादिसभा जिज्ञासितुमधिकारिणीति नाहमड्गीकरोमि तथापि भवदपेक्षानुसारेण प्रशंसापत्रमेकं अबदुल्लाशेठमहाशयादानेतुं सज्जोऽस्मि स्थित इति ॥ अथाबदुल्लाशेठप्रदत्तं प्रमाणपत्रं तस्मै न्यायवादिने प्रादायि । तेन चाड्गीकृतम् । परंत्वेतन्न्यायवादिसभायै नारोचत । तत्सदस्या मम प्रवेशयोग्यतां प्रति प्रत्यवातिष्ठन्त । प्राड्विवाकश्च श्रीएस्कूंबमहाशयस्य प्रत्युत्तरमशुश्रूषुरेव प्रार्थनापत्रं निरकासयत् ॥ ततः प्रधानप्राड्विवाकेनेत्थमभ्यधायि । प्रार्थयिता मूलप्रमाणपत्रं नोपस्थापितवानिति फल्गुरयं वादः । यद्यनेन प्रेषितं प्रमाणपत्रं मृषात्मकं स्यात् तदासौ व्यवहारेणाभियुक्तः सन्निर्णीतस्वापराधश्चेत् न्यायदिवर्गान्निष्कासनमर्हति । धर्मतः परीक्ष्यमाणे कृष्णो जनः श्वेतो जन इति भेदो न ग्राह्यः । न्यायवादित्वेन श्रीगांधेः प्रवेशं निरोद्धुं न्यायसभा नाधिकारिणी । तस्य प्रार्थना पत्रमड्गीक्रियतेऽस्माभिः । गांधिमहाशय क्रियतामद्यप्रमाणवचनव्याहार इति ॥

ततोऽहमुत्थाय 'रजिस्ट्रार' इति व्यपदिश्यमानं न्यायाधिकरणकार्यदर्शिनमुपसृत्य प्रमाणवचनोच्चारमकार्षम् । अवसितेऽस्मिन्कर्मणि न्यायाधीशो मामाहूय प्राह-भवतः शिरो-वेष्टनमिदानीमपनीयताम् । न्यायदिमिर्धार्यवेषसंबन्धिनो नियमा भवताप्यनुवर्तनीया इति ॥ अथ मया निरूपिता तादात्विकी मदीयपरिस्थितिः । डरबननगरस्य न्यायसभायां यदेव शिरोवेष्टनं नापनेष्यामीति बद्धाग्रहोऽभवं तदेवात्राहमपनीतवान् । नैवापनेष्य इत्यभिनिवेशबंधस्यात्रापि न किल कारणानि नाविद्यन्त । किंत्वेतदपेक्षया महत्तरायोधनमुमुद्यमाय मामकी शक्ती रक्षितव्याभवत् । शिरोवेष्टनधारणाभिनिवेशमात्रे न खलु युद्धाभियोगकुशलता व्ययीकर्तव्या । तत्कौशलप्रयोगाय प्रशस्यतरः समयः प्रतीक्षणीयः ॥

एवंविधा मदनुमतिः (मदीयनिर्बलता वा) अबदुल्लाशेठप्रभृतिमित्राणामनभिमताभवत् । न्यायवादिना मया शिरोवेष्टनधारणाधिकारो न परित्याज्य इति तेऽमन्यन्त । अहमेतान्बोधयितुं प्रवृत्तः देशानुरूपरिधानमावश्यकमिति तेभ्यो न्यवेदयम् । पुनरप्येतानवोचम्-हिन्दु-प्रत्यवस्थातव्यम् । किन्तु नातालसदृशविदेशवर्तिनीन्यायसभाकृत्यकारिणो मम न्यायसभासंप्रदायविरूद्धमाचरणं न खल्वनुमोदनीयमित्यादिसयुक्तिकवादैः मदीयमित्राण्यहं समादधि । किन्तु विषयस्तावदेकोऽपि संदर्भभेदात् भिन्नद्रष्ट्यावेक्षणीय इति यत्तत्त्वं तदत्र प्रसंगेऽप्युपयोक्तव्यमित्युपदेशो मदीयस्तेषां हृदयंगमोऽभूदिति वक्तुं न शक्यते । अन्याभिप्राये सहिष्णुतामूलं यत्सुखं तन्मदीयजीवने सत्यानुवर्तिनो मम सम्यग्यिदितमभूत् । तदेवत्तत्त्व सत्याग्रहस्य जीवितमित्यनुभवसिद्धमासीत् । ईदृशक्षमावृत्तिवशादनेकशो मम प्राणापायः सृह्रदसंतापश्च समजनि । परन्तु सत्यं वज्रकठोरं कमलवत्कोमलं च भवति ॥ एवं न्यायवादिसभया प्रत्यवस्थितोऽहं भूयः ख्यातिमगमम् । बहूनि वृत्तपत्राणि न्यायवादिसभयानुष्ठितमकृत्यमसूयानिमित्तकमिति च प्राहुः । किं च व्याख्यानटीकादिभिरीदृशैर्मम कार्यं भूयः सुकरमासीत् ॥

‘खादी ’ जन्म[सम्पादयतु]

पंचदशोत्तरैकोनविंशतिसहस्रतमे वर्षे दक्षिणाफ्रिकादेशतोऽहं पश्चाद्वृत्तः । तदा मया वस्तुतः 'चरखो’ न द्रष्टः । साबरमत्यां सत्याग्रहाश्रमनिर्माणकाले कतिपयान् वायदंडान् वयं प्रावेशयाम । तत्प्रवेशनादनंतरमेव प्रातिकूल्यमुत्थितम् । सर्वे वयमुदारवृत्तिग्राहिणोऽथवा कार्यपराः । नैकोऽप्यस्माकं शिल्पी बभूव । वायदंडेषु कार्यकरणात्पूर्वमस्माकमेको वयनकुशलो वयनं शिक्षयितुमावश्यक आसीत् । पर्यंते पालनपुरग्रामादेको लब्धः । किंतु तस्य सर्वं शिल्पिज्ञानमस्माकं न ददौ । परंतु मगनलालगांधिमहाशयः शीघ्रमेव निराशो न संवृत्तः । शिल्पयंत्रकार्ये स्वभावतः समर्थोऽचिराच्छिल्पविद्यामग्रहीत् । अपि चैकैकशः कतिपयनूतनवायकाः शिक्षिता आश्रमे । स्वहस्तनिर्मितवस्त्रेणात्मानं वासयितुं शक्यं यथा स्यात्तथा भवितुमस्माकमुद्देश आसीत् । अतो वयं तत्क्षणमेव यंत्रनिर्मितवस्त्राणि परित्यज्याश्रमस्य सर्वे जना स्वदेशीयसूत्रैर्निर्मितानि वस्त्राण्येव धारयितुं निश्चिता बभूवुः । एतदभ्यासस्वीकारो महान्तमनुभवमानिनाय । वायकानां जीवितनियमान् साक्षात्संपर्केणावगन्तुं शक्तानकरोत् । अपि चोत्पन्नस्य प्रमाणं सूत्रसंपादनमार्गे स्थितानंतरायान् वंचना-ग्रस्ताः भवितुं मार्गोऽपि च पर्यन्ते सर्वदा वर्धमानं ऋणित्वं एतत्सर्वं ज्ञातुं शक्तांश्चकार । यादवस्माकमावश्यकं तावत्सर्वं लब्धुं न समर्था अभूम । अतोऽवशिष्टः पक्षो हस्तवेम्नस्तंतुवायाद्वस्त्रं संभरणीयम् । परंतुः सज्जस्थितवस्त्रं भारतीययंत्रसूत्रनिर्मितवस्त्रविक्रयिभ्यो वा तंतुवायेभ्यो वा लब्धुं न सुकरम् । तंतुवायैर्निर्मितं वस्त्रं सर्वं समीचीनं विदेशीयसूदेव । यतो भारतीययंत्राणि तर्कुद्वारेण तंतून्न चक्रुः । अद्यापि यंत्राणामुत्पादनमत्यल्पं स्वदेशीयसूत्राणां तंतुवायान् पर्यन्ते महता प्रयत्नेन लब्धुमशक्नुम । नियमस्तु तैरुत्पादितं सर्वमस्मद्धारणवस्त्राणामिति यंत्रनिर्मितसूत्राणां वस्त्रस्वीकारेण सुह्रदां च मध्ये प्रसारणेन भारतीयसूत्रकरणयंत्राणामैच्छिकप्रतिनिधीभूताः । एतद्यंत्रैः सह संपर्कमजनयत् । तेन तेषां कार्यसंविधानं कार्यप्रत्यूहांश्च ज्ञातुमवकाशो लब्धः । यंत्राणामुद्देशे निर्मितसूत्रेण तंतुवायानधिकं कर्तुमासीत् । हस्तमेवतंतुवायैस्तेषां सहकारः यथेप्सितो नासीत् । किंत्वपरिहार्योऽनित्यश्च । अस्मत्स्वकीयसूत्रस्य तांतवकरणे वयमातुराः स्थिताः । यावद्वयमेतत् कर्तुमवस्थितास्तावद्यंत्राणामालंबनं स्थास्यतीति स्पष्टम् । भारतीययंत्राणां प्रतिनिधीभूय देशसेवां कर्तुं समर्था भवेमेति नान्वभूम ॥

सप्तदशोत्तरैकोनविंशे वर्षे भरूचपत्तने संवृत्तशिक्षणपरिषदध्यक्षो भवितुं सुह्रदस्तत्र मामनैषुः । तत्रैवाहं तां महासाहसिनीं गंगाबाईमहाशयामदर्शम् । सा विधवा । तथापि तस्याः साहसं निरवधिकमासीत् । सामान्यगणनया सा यद्यपि तावच्छिक्षिता नासीत्तथापि धैर्ये ज्ञाने च सास्मत्-सुशिक्षितस्त्रीजनमतीवातिक्रान्ता । सा न केवलमस्पृश्यताकलंकं परित्यकवती परं निर्भयेनास्पृश्यैर्मिलित्वा तत्सेवामकरोत् । तस्याः स्वीयं विषयमासीत् । यदस्या आवश्यकं तदत्यल्पम् । सा सुघटितशरीरा सहचरं विना सर्वत्र संचारं करोति स्म। अश्वारोहणं नाम तस्याः सामान्यम् । गोधरानगरे संवृत्तपरिषदि मम तया सह गाढः परिचयोऽभूत् । 'चरखा’ संबंधे मम दुःखमस्यै न्यवेदयम् । अहं राटं परिशोधयितुं निरंतरं प्रयतिष्य इत्युक्त्वा सा मम भारमल्पीचकार ॥

बाल्ये सत्यप्रियतायाः पाठः[सम्पादयतु]

बालकः गान्धी (क्रि.श.१८७६तमवर्षस्य चित्रम्)

बाल्ये एकदा मोहनदास गान्धी 'श्रवणपितृभक्तिः ‘सत्यहरिश्चन्द्रः’ च इति नाटाकद्वयं दृष्टवान् । तदा बालकस्य मनसि महान् परिणामः दृष्टः आसीत् । मोहनदासः “श्रवणकुमारः इव भक्तियुक्तः तथा हरिश्चन्द्रः इव सत्यप्रियः भवामि “ इति निश्चितवान् । आजीवनं सत्यप्रियतां त्यक्तुं न इष्टवान् । मोहनदास गान्धी बाल्ये मातुः सकाशात् पुराणकथाः श्रुतवान् । सदा निष्कपटः सन् स्वकृतं दोषमपि मात्रे कथयति स्म । ग्रामजीवनं तस्य इष्टम् आसीत् । अतः एव स्वदेशीवस्तुषु मोहनदासगान्धिमहोदयस्य अतीव प्रीतिः आसीत् । त्रयोदशे वयसि मोहनदास गान्धी कस्तूरबा इति कन्यया सह विवाहं कृतवान् । त्रयाणां भ्रातॄणां विवाहः एकदा एव कृतः आसीत् । बाल्ये मोहनदासः कदापि असत्यं न वदति स्म । एकदा प्राथमिकविद्यालये निरीक्षकाः आगच्छन् । ते शब्दान् लेखितुम् अवदन् । बालकः मोहनदासः एकं शब्दं दोषपूर्णं लिखितवान् । अध्यापकः समीकर्तुं संज्ञया सूचितवान् तथापि मोहनदासः स्वापराधम् अङ्गीकृतवान् आसीत् । भारतदेशात् आङ्गलान् उच्चाटयितुं प्रबलानां सैनिकानां यूनाम् आवश्यकता अस्ति । अतः शरीरं बलिष्ठं कर्तुं मांसाहारः उत्तमः इति मित्रवचनात् अनिच्छन्नपि मांसाहारं स्वीकृतवान् । भ्रातुः ऋणविमोचनार्थं गृहे सुवर्णं चोरितवान् । किन्तु एतत् सर्वं दुष्टं कार्यम् इति मत्वा पित्रे पत्रमेकं लिखितवान् । अग्रे दुष्टं कार्यं न करोमि इति प्रतिज्ञां कृतवान् तथैव अग्रे अनुसरन् आसीत् ।

दक्षिण-आफ्रिकादेशे गान्धी[सम्पादयतु]

दक्षिण-आफ्रिकादेशे गान्धी

एतस्मिन् समये दक्षिणआफ्रिकादेशे विवादे आङ्ग्लन्यायवादिने साहाय्यकरणस्य अवसरः प्राप्तः अभवत् । एतदर्थं भ्रात्रा अनुमतिं प्राप्य मोहनदास गान्धी दक्षिणआफ्रिकादेशं गतवान् । तत्र कार्यकरणसमये रेलयानेन यात्रासमये यानात् निष्कासितः सन् अतीव दुःखितः अभवत् । दक्षिणआफ्रिकादेशे अनेके भारतीयाः श्रमिकाः पीडिताः आसन् । दादा अब्दुल् सेटनामकस्य विवादः परस्परं वार्तालापेन द्वयोः पक्षयोः इच्छानुसारं समाप्तः आसीत् किन्तु भारतीयानां श्रमिकाणां समस्याः परिहर्तुं कार्यं कर्तुं तत्रैव स्थातव्यम् इति निर्धारं कृतवान् । एतदर्थं नेटाल्-इण्डियन्-काङ्ग्रेस इति संस्थां स्थापयित्वा कार्यरतः अभवत् । तत्र आन्दोलनद्वारा भारतीयानां कष्टपरिहारकार्ये यशस्वी अभवत् । तेन गान्धिमहाभागस्य विश्वे एव प्रसिध्दिः अभवत् । अहिंसारीत्या सत्याग्रहः सफलः आसीत् । क्रि.श.१९२५ तमे वर्षे मोहनदासगान्धिी भारतदेशं प्रत्यागतवान् ।

स्वातन्त्र्यान्दोलनस्य नेतृत्वम्[सम्पादयतु]

लवणसत्याग्रहस्य समापनावसरे दाण्डीनगरे गान्धी (क्रि.श.१९३०, एप्रिल् ५ दिनाङ्कः)

भारतदेशे काङ्ग्रेससंस्था क्रि.श.१८८५ तमे वर्षे एव स्थापिता आसीत् स्वातन्त्र्यान्दोलनकार्यं करोति स्म । गान्धी काङ्ग्रेससंस्थायां प्रविष्टः अहमदाबादसमीपे सत्याग्रहार्थम् आश्रमं स्थापयित्वा अत्यन्तसरलरीत्या वासं कर्तुम् इष्टवान् । सरलजीवनम् उदात्तचिन्तनं राष्ट्रसेवा स्वातन्त्र्यलाभाय कार्यकरणं गान्धिमहात्मनः कार्यम् अभवत्। अहिंसापूर्वकं स्वातन्त्र्यप्राप्तिः इति महात्मा गान्धी सरदारपटेलः जवाहरलालनेहरुः लालबहादुरशास्त्री राजेन्द्रप्रसादः इत्यादिभिः अनेकैः नायकैः प्राप्तव्यः विषयः आसीत् । लाला लजपतरायः सुभाषचन्द्रबोसः इत्यादिप्रमुखाः नायकाः आधुनिककाले क्रान्तिमार्गं स्वीकृतवन्तः आसन् । एवं सर्वेषां प्रयत्नेन भारतदेशः क्रि.श.१९४७ तमे वर्षे आगष्टमासे १५दिनाङ्के स्वतन्त्रः अभवत् । अङ्गलाः भारतं त्यक्त्वा स्वदेशं गतवन्तः । भारते अस्मदीयः सर्वकारः स्थापितः अभवत् । डा बाबूराजेन्द्रप्रसादः राष्ट्राध्यक्षः, श्री सर्वपल्ली राधाकृष्णन् महोदयः उपराष्ट्रपतिः अभवत् । प्रधानमन्त्रिरूपेण श्रीजवाहरलालनेहरु-महोदयः अधिकारं स्वीकृतवान् । महात्मा गान्धी अधिकारं न स्वीकृतवान् । महात्मगान्धी भारतपाकिस्तानविभागे विरोधं प्रकटितवान् आसीत् । किन्तु भारतेन साकं पाकिस्तानदेशे अपि स्वातन्त्र्यं प्राप्तम् इति तु बहुजनानां दुःखकारणम् अभवत् । क्रि.श.१९४८ तमे वर्षे जनवरी ३० तमे दिने नाथूरामगोडसे इति कश्चित् भारतीयः मोहनदासगान्धिमहोदस्य हत्यां कृतवान् । भारतदेशे मोहनदासकर्मचन्दगान्धिमहोदयस्य जन्मदिनं गान्धिजयन्ती इति अक्टोबरमासस्य द्वितीये दिने आचरन्ति । तस्मिन् दिने रघुपतिराघव राजाराम पतितपावन सीताराम ॥ इत्यादिकीर्तनैः कुर्वन्ति जनाः । श्रमदानं, पथसञ्चारः, गान्धिमहोदयस्य पुष्पाञ्जलिप्रदानं महात्मगान्धिमहोदयस्य कार्याणां स्मरणं, रक्तदानम् इत्यादयः नैके कार्यक्रमाः प्रचलन्ति ।

गान्धिदर्शनम्[सम्पादयतु]

महात्मनो गान्धिनः सम्पूर्ण चिन्तनं दैवीय-आदर्शैः परिपूर्णमस्ति । अत एवेदं स्वाभाविकमस्ति यत् महात्मा गान्धी व्यक्तिसमाजयोरुभयोः कृते धर्मस्य अनिवार्यतां स्थापितवान् । गान्धिमते धर्मस्यानिवार्यतायाः कश्चिद् विकल्पो नास्ति । आस्तिकता, विश्वासो धर्मश्च गान्धिनः कृते अविभाज्यम् चरमं सत्यं वर्तते । “ हिन्दु –स्वराज" नाम्न्यां कृतौ तेनोद्दिष्टं यत् "कश्चिदपि जनः धर्मं विना जीवितस्तिष्ठतीति भवददृष्टावसम्भवमेवास्ति”।

गान्धिमते ईश्वरे जीवे च मिथः प्रगाढः सम्बन्धोऽस्ति । गान्धी कथयति यत् जीवः आत्मनः स्वं समुन्नीय ईश्वरत्वम् आपाद्येत । गान्धिनः कल्पनायाम् ईश्वरोऽनादिः निर्गुणो निराकारश्चास्ति । सः सर्वव्यापकः सर्वशक्तिमान् च वर्तते ।ईश्वरस्य मूलस्वरूपं ब्रह्मणि विलीनीकरणमात्रं विद्यते । एवञ्चेत् प्राणिनो मौलिकं कर्त्तव्यं वर्तते यत् सः ईश्वरे आस्थां विश्वासं च दृढयेत् ।

गान्धिनो मनोवृत्तिरस्मिन् तथ्ये आधारिताऽस्ति यत् ईश्वरः सत्यात् पृथक् नास्ति । सः तु पुनः कथितवान् यत् सत्यमेव ईश्वरो वर्तते । "यंग इण्डिया” ग्रन्थे सः लिखति-“ यत्कृते ईश्वरः सत्यं प्रेमरूपं चास्ति स नीतिरूपः नैतिकतापूर्णश्चास्ति । अभयस्य पूर्णता केवलम् ईश्वरे एव दृश्यते । ईश्वरस्तु जीवनस्य अनन्यं स्रोतोऽस्ति । स एवात्मा उच्यते” । प्राणी स्वस्मिन्नेव ईश्वरस्यान्वेषणं कुर्यात्, यतो हि स ईश्वरः प्राणिषु प्रत्येकस्मिन् आत्मरूपेण तिष्ठति ।

गान्धिमते आत्मानुभूतेः उद्देश्यमपीदमेवास्ति यत् प्राणी ईश्वरस्य साक्षात्कारं कुर्यात् । एवञ्चेश्वरेण साक्षात्कृतो भवेत् । तदानीमेव स सत्यं अर्थात् यथार्थं ज्ञातुं शक्नोति, अन्यथा न । सत्यानुभूत्यै गान्धी प्राणिनः आत्मनो दृढताया अपेक्षां कामयते । दृढात्मा एव जनः स्वान्तः स्थानि अनात्मतत्त्वानि जेतुं क्षमते । अनात्मतत्त्वानां निराकरणाय महात्मा गान्धी अन्तरात्मानं निर्देष्टुं उपदिशति । एवं गान्धिमतानुसारेण यदि प्रत्येकं जनः स्वान्तरात्मनः प्रेरणया कर्मणि अग्रेसरो भवेत् तदा निश्चितमेव सः धर्मानुपालनेऽपि तत्परो भविष्यति ।

सत्यमेवेश्वरोऽस्तीति चेत् सत्यस्य संज्ञाने सति प्राणी प्रकृतेर्नियमान् गतींश्च अवगन्तुम् क्षमते । यदा च प्राणी कर्त्तव्यपरायणो भूत्वा नैतिकतादिभिः सद्गुणैश्च सहितः कर्म करोति तदा तस्यायमादर्शः स्थिरीभवति यत् आत्मोन्नत्यै सततम् अभिवर्धेत । एतादृश आदर्शः स्वान्तःप्रेरणयैव जायते । एवं गान्धिमते सत्यमेव आदर्शस्योपस्थापकोऽस्ति । सत्यं स्वस्मिन् परिपूर्णं नितान्तं सापेक्षं चास्ति । ईश्वरस्तु परमं सत्यं वर्तते, अपरिमितं सर्वव्यापकं परिपूर्णं च विद्यते । मानवस्य चिन्तनं तु सीमितं अपूर्णं च भवति । अस्यां स्थितौ ईश्वरान्वेषणं प्राणिनः पुनीतं शाश्वतञ्च कर्त्तव्यमस्ति ।

गान्धिमहोदयः धर्मं ईश्वरप्राप्त्यै मार्गरूपं स्वीकरोति । तन्मतेन विविधा धर्माः ईश्वरं प्राप्तुमुपदिष्टा विभिन्ना मार्गा एव सन्ति । यतः सर्वेषां धर्माणां प्रयोजनं तु ईश्वरप्राप्तिरित्येकमेवास्ति तथापि प्राणिनः स्वधर्म एव उत्तमो भवति । गान्धिमते धर्मपरिवर्तनं अनावश्यकम् अनुचितं चास्ति । यतो हि तेन ईश्वरे अनास्थाया अविश्वासस्य वा पुष्टिर्भवति । अतः एतादृशं कार्यं अनैतिकम् अमानवीयञ्च प्रतीयते । धर्मान्तराणां याथार्थ्यम् अवगन्तुं स्वधर्मपरित्यागः आवश्यको नास्ति । अत एव धर्मान्तरणस्यापेक्षया विविधधर्मेषु सामञ्जस्यं सहिष्णुता वा एव अधिकां सार्थकतामादत्ते ।

नैतिकता धर्मात् भिन्नास्ति । यतो धर्महीनोपि कश्चिद् जनः नैतिको भवितुमर्हति । तथापि धार्मिकजनस्य धर्माचरणानां धर्मकृत्यानां च चरमप्रयोजनम् ईश्वरसाक्षात्कार एव भवति । अतः इदं वक्तुं शक्यते यत् धार्मिको जनः नैतिको भवति, किन्तु नैतिको भवति, किन्तु नैतिको जनः धार्मिको भवेदेवेति आवश्यकं नास्ति । धर्मप्रभावात् नैतिकः प्राणी आत्मानुभूतिदिशायां कृतप्रयासो जायते । स अस्यामेव दिशि स्वसद्गुणात्मकप्रवृत्तीनां विस्तारमपि करोति, किन्तु धर्मशून्यो नैतिकोऽपि प्राणी ईश्वरं साक्षात्कर्त्तुं नैरन्तर्येण प्रयासं कुर्यादेवेति बन्धनं नास्ति ।

यद्यपि आत्मकथायां गान्धिमहोदयः स्वयं स्वीकरोति यत् धर्मो नैतिकता चेति उभयमेव तत्त्वद्वयं यथार्थतो भिन्नं नास्ति । सः अस्मिन् परिप्रेक्ष्यें धर्मं परिभाषते –ते सर्वे प्रयासाः, सर्वे विचाराः, सर्वाः क्रियाः ईश्वरसाक्षात्काराय उद्देश्यं निर्धारयन्ति । अतः धर्मपदवाच्या भवन्ति । अतः धार्मिकः कर्मण्यो भवति, न तु अकर्मण्य इति तस्य सिद्धान्तः । गान्धिप्रतिपादितः कर्मवादोऽपि मूलरूपेण धार्मिकमान्यताभिः प्रेरित आसीत् । कर्मण्यतायाः क्षेत्रे महात्मा गान्धी सर्वेषु स्तरेषु स्वगतिविधीनां माध्यमेन ईश्वरप्राप्त्यै सप्रयासोऽतिष्ठत् । एवञ्चेत् गान्धिदर्शने स्वधर्म एव कर्मयोग आसीत् । कर्मयोगस्य उद्देश्यमासीत्- मोक्षप्राप्तिरिति ।

पोरबम्न्दरुनगरे विद्यमानं गान्धिवर्यस्य जन्मगृहम्

मोक्षप्राप्तिः ईश्वरसाक्षात्कारेण भवति । ईश्वरश्च सत्यमेवासीत् । अतः तेनोक्तम् –न हि सत्यात् पर्ः ईश्वरः । सत्यस्य विषये गान्धिमहोदयस्य एतत् चिन्तनं वस्तुगतयथार्थमाश्रित्य अवर्तत । गान्धिमहोदयस्य एतत् चिन्तनं वस्तुगतयथार्थमाश्रित्य अवर्तत । गान्धिमतेन ईश्वरः तर्कात् पर अस्ति । अतः तार्किकेण युक्तिकरणेन ईश्वरस्य प्रामाण्यं नैव स्थापयितुं शक्यते । गान्धी अकथयत् यत् ईश्वरस्य बोधस्तु सम्भवोऽस्ति किन्तु तस्य तार्किकं युक्तिकरणम् अनुचितमेवास्ति । एवं गान्धिमहोदयः बोधरूपेण विश्वासरूपेण अनुभूतिरूपेण एव ईश्वरास्तित्त्वं स्वीकरोति ।

गान्धिनः चिन्तने विभिन्नधर्माणां प्रभावो दृश्यते । जन्मतो भारतीय संस्कृतेः सम्बन्धवशात् वैष्णवधर्मस्य प्रभावो मूलरूपेण अवर्तत । गान्धिनः परिवारोऽपि वैष्णवधर्मेण प्रभावित आसीत् । विशेषेण तत्पितरौ वैष्णवधर्मस्य नैतिकतादिभिर्जीवनमूल्यैः प्रेरितावास्ताम् । हिन्दुधर्मस्य प्रभाववशात् गान्धिचिन्तने मानववादस्य अवधारणा बलीयसी वर्तते, धर्मसहिष्णुतायाः कृतेऽपि अत्र पर्याप्तं स्थानमस्ति । जैनधर्मस्य प्रभावात् अहिंसाया अवधारणा गान्धिदर्शने सर्वोपरी स्थानमलभत । जैनदर्शनप्रेरणया गान्धिना लिखितम् यत् पञ्चमहामन्त्रैरेव जीवनं सृजनशीलं परोपकारि च विधातुं शक्यते । एते पञ्च महामन्त्राः सन्ति- अहिंसा सत्यम् अस्तेयं ब्रह्मचर्यम् अपरिग्रहश्चेति । श्रीमद्भगवद्गीतायाः उपनिषदां च कर्मवादस्य प्रभावोऽपि गान्धिदर्शने विद्यमानः अस्ति । बौद्धदर्शनस्य प्रभाववशात् गान्धी स्वयं साधनानां प्राथमिकतां शुद्धिं च सर्वोपरित्वेन स्वीकृतवान् । एवं गान्धिदर्शने चिन्तनस्य व्यापकता परिलक्षिता भवति ।

गान्धिदर्शनस्य प्रमुखाः सिद्धान्ताः[सम्पादयतु]

(१) ईश्वरः अस्ति । स च सत्यात्मः वर्तते ।
(२) धर्म एव जीवनस्य प्रेरणास्रोतः अतः, धर्म आचरणीयः । धर्मः हेयो नास्ति ।
(३) कृत्रिमा आवरणवादी च भौतिकता जीवनस्य कृते अनाहार्या अस्ति ।
(४) सर्वधर्मसमभाव एव यथार्थतः मानववादी अवधारणा वर्तते ।
(५) मनसा वाचा कर्मणा व्यवहारेण च अहिंसा अनुपालनीया ।
(६) कर्म एव प्राणिनः कृते श्रेयसो मूलम् ।
(७) पञ्च महामन्त्रा अनुष्ठेयाः ।
(८) एकादश महाव्रतानि अनिवार्यरूपेण आत्मोन्नत्यै पालनीयानि ।
(९) ईश्वरः सर्वत्र व्यापकोऽस्ति । तत् सर्वेषां समाजानाम् अपरिमितनैतिकतायाः स्रोतोऽस्ति ।
(१०) प्राणिनः प्रकृति-स्वभाव-विचाराणां रूपान्तरणं प्राथमिकमस्ति ।
(११) शाश्वतं सत्यं विज्ञातुं सङ्कीर्णतायाः परित्याग आवश्यकः ।
(१२) कर्मण्यताया विकल्पो नास्ति । अतः निःस्वार्थकर्त्तव्यबोधेन कर्त्तव्यताम् आचरन् जनः जीवनप्रयोजनं साधयति ।
(१३) मानवमूल्यानि एव समाजोत्थानस्य कारकाणि सन्ति ।
(१४) विश्वबन्धुत्वेन एव मानवतायाः रक्षा सम्भवा ।


सम्बद्धाः लेखाः[सम्पादयतु]

उल्लेखाः[सम्पादयतु]

  1. Gandhi, Rajmohan (2006), pg 1-3.
  2. "महात्मा उपाधिप्राप्तिः". Retrieved 8 फ़ेब्रुवरि 2014. 

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

विकिपीडिया-जालस्य सहपरियोजनाभ्यः Mahatma Gandhi एतस्मिन् विषये अधिकं विवरणं प्राप्यताम् -
चित्राणि एवम् अन्याः सञ्चिकाः कॉमन्स् मध्ये
सूक्तयः विकिसूक्तीषु
ग्रन्थः विकिस्रोतसि
"https://sa.wikipedia.org/w/index.php?title=महात्मा_गान्धी&oldid=359477" इत्यस्माद् पुनः प्राप्तिः