स्वदेशी
स्वदेशी-आन्दोलनं भारतस्य स्वातन्त्र्यसङ्ग्रामस्य सन्दर्भे प्रमुखं पात्रम् अवहत् । अस्य प्रमुखाः नेतारः आसन् – लोकमान्यतिलकः, वीरसावरकरः महात्मा गान्धी च । स्वावलम्बी समाजः एव शक्तः दृढः समाजः भवति । परावलम्बी समाजः कदापि श्रेष्ठः भवितुं नार्हति । देशस्य सर्वे अपि जनाः स्वीयदेशस्य विषये अत्र उत्पन्नानां वस्तूनां विषये च अभिमानवान् स्यात् । सर्वे अपि जनाः भारतदेशे उत्पन्नानां वस्तूनाम् एव उपयोगं करोति चेत् देशः समृद्धः भवति । विदेशीयमोहेन विदेशीयवस्तूनाम् उपयोगं कुर्मः चेत् ततः लाभः भवति अन्येषां देशानां न तु भारतस्य । ’स्वधर्मे निधनं श्रेयः’ इति गीते भगवान् श्री कृष्णः उक्तवान् अस्ति । स्वदेशीचिन्तनं नाम स्वधर्मस्य रक्षणमेव । भारतदेशे उत्पन्नानां वस्तूनाम् उपयोगमात्रमेव स्वदेशीचिन्तनस्य मूलोद्देशः न । अस्माकं संस्कृतेः रक्षणं, स्वाभिमानस्य प्रेरणं च अस्य प्रमुखानि लक्ष्यानि ।
विदेशीयानाम् आक्रमणात् पूर्वम् अस्माकं देशः सुसमृद्धः आसीत् । अत्र सर्वेपि सन्तोषेण समाधानेन जीवन्ति स्म । आर्थिक-सांस्कृतिकसमृद्धेः मूलं कारणम् आसीत् स्वावलम्बिता एव । सर्वविधानि वस्त्राणि सर्वाणि वस्तूनि अत्रैव उत्पद्यन्ते स्म । तस्मात् जनाः परस्परावलम्बिनः आसन् । सर्वे अपि स्वीयं धर्मम् आचरन्तः परस्परं सहकुर्वन्तः आनन्देन जीवन्ति स्म । भारतस्य उपरि फ्रेञ्च्-डच्-ब्रिटिशादीनाम् आक्रमणं यदा जातं तदारभ्य अस्माकं संस्कृतेः स्वदेशीयवस्तूनां च विषये अनादरः अधिकः जातः । स्वातन्त्र्यस्य प्राप्तेः अनन्तरम् अपि अयम् अनादरभावः न्यूनः न जातः इत्येषः खेदस्य विचारः । विदेशीयवस्तूनि न्यूनधनेन उपलभ्यते इति कारणतः अधिकाः जनाः तेषामेव उपयोगम् आरब्धवन्तः । एतस्मात् अस्माकं देशस्य वणिजः बहुविधं नष्टम् अनुभूतवन्तः, अनुभवन्तः सन्ति अपि ।
स्वदेशीचिन्तनं जीवनसमृद्धेः विरोधकम् इति केचन भावयन्ति । तथा नैव । स्वदेशीचिन्तनं निश्चयेन समृद्धिं प्रोत्साहयति । किन्तु सा समृद्धिः स्वपरिश्रमेण एव सम्पादनीया इति वदति स्वदेशीचिन्तनम् । भारतदेशे सर्वविधसमृद्धिः वर्तते एव । वयं सर्वे अपि अस्माकं संस्कृतेः अनुसरणं कुर्याम । अत्र उत्पादितानामेव वस्तूनामेव उपयोगं कुर्याम । अस्माकं भाषाणामेव उपयोगम् आधिक्येन कुर्याम । विपण्यां कानि वस्तूनि स्वदेशनिर्मितानि कानि विदेशे निर्मितानि इति परिशील्य एव क्रीणीमः । तेन सर्वे अपि लाभाः भारतदेशेन एव प्राप्यते । ततः भारतं स्वाभिमानेन पूर्वतनम् उत्कृष्टस्थितिं प्राप्तुं शक्नोति ।