भारतस्य विभजनम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(भारतस्य विभाजनम् इत्यस्मात् पुनर्निर्दिष्टम्)
विभक्तभारतम्

भारतस्य विभजनं नाम स्वान्त्र्योत्तरं भारतस्य द्विधा विभागः । आङ्ग्लसर्वकारस्य दास्यस्य विमोचनानन्तरं भारतम् पाकिस्थानम् इति विभक्तः अयं देशः । अपि च बङ्गालः पञ्जाबः च विभक्तौ पूर्वपाकिस्थानं पश्चिमपाकिस्थानम् इति अन्यदेशस्य उदयः अभवत् ।

विभागस्य पृष्ठभूमिः[सम्पादयतु]

भारतस्य विभजनस्य बीजः स्वातन्त्र्यप्राप्तेः पूर्वमेव अङ्कुरितः । भारतस्य राष्ट्रियवादिनां वैरुध्यस्य कारणात् अयं बीजः उप्तः । हैन्दवानां सङ्ख्याबाहुल्यात् भीताः मुसल्मनाः, तान् राष्ट्रनायकाः सन्त्वयन्तीति हैन्दवानाम् असन्तोषः । मुस्लिम् लीग् क्रि.श.१९०६तमे वर्षे ढाकानगरे भारतीयराष्ट्रियकङ्ग्रेस्पक्षस्य विषये असन्तुष्टैः मुसल्मानैः सृष्टं इस्लामिसङ्घटनम् । पृथक् मुसल्मानराष्ट्रस्य अपोक्षां प्रथमम् अल्लम इक्बाल् दर्शितवान् । क्रि.श.१९३५तमे वर्षे एव सिन्ध् विधानपरिषत् एतादृशं निर्णयम् अङ्ग्यकरोत् । इक्बाल् अन्ये नायकाः च हिन्दुमुसल्मनयोः एकतां साधयितुं यतमानं मोहम्मद् अलि जिन्नाइत्येनं स्वपक्षे निलीनं कर्तुं सफलाः अभवन्त्। तेषाम् आलम्बनेन चोदितः सः प्रत्येकतावादिनां नेता अभवत् । राष्ट्रनायाकानां पुरतः हिदुमुसल्मानयोः आचारवैपरीत्यं प्रदर्श्य मुसल्मानानां पृथक् राष्ट्रस्य आवश्यकतां ज्ञापितवान् । किन्तु जात्यतीतवादिनः काङ्ग्रेस् नायकाः मतस्य आधारेण देशविभजनचिन्तनं व्यरुन्धन् । अनेकवर्षाणि [[महात्मा गन्धिः} अन्ये च नायकाः मुसल्मानजनानां पक्षत्यागं नियन्त्रितवन्तः । एतेन हैन्दवमुसल्मानेषु इतोऽपि अतृप्तिः अवर्धत । एतस्मात् उद्भूतज्वालया क्रि.श.१९४६तमे वर्षे कोलकता नगरे प्रत्यक्षं प्रक्रिया (Dirct action day) इति नम्ना सम्भूते विप्लवे ५००० जनाः मारिताः । उत्तरभारते बङ्गाले च मतीयविप्लवाः समभवन् । एतेन देशविभागस्य ध्वनिः पुष्टिता अभवत् ।

विभजनम्[सम्पादयतु]

मौण्ट् ब्याट्न् योजना इति नाम्ना भारतदेशस्य द्विधा विभागस्य कार्यं प्राचलत् । भरतपाकिस्तानयोः सीमारेखां निश्चेतुं ब्रिटिष् सर्वकारनियोजितः सिरिल् राड् क्लिप् आगतवान् । भौगोलिकलक्षणानुगुणं पाकिस्तानम् राज्यद्वययुक्तम् अभवत् । क्रि.श.१९४७तमे वर्षे जुलै मासस्य १८दिनाङ्के बिटिष् संसदि भारतस्य स्वातन्त्र्यशासनम् अङ्गीकृतम् । ब्रिटिष् प्रशासने नान्तर्गतानां राज्यानां संयोजनम् उभयराष्ट्रयोः यत्रकुत्रापि भवितुमर्हरि इति निर्णयः कृतः । जुनागढ्, हैदराबाद्, काश्मीरराज्यानि विविदग्रस्ताः अभवन् ।

जनानां देशान्तरगमनम्[सम्पादयतु]

भारतपाकिस्तानयोः विभजनात् परं महाप्रमाणेन जनानां देशन्तरम् उपक्रन्तम् ।१.५कोटिशः जानाः स्वमतीयान् अनुसरन्तः देशान्तरं गतवन्तः । क्रि.श.१९५१तमे वर्षस्य जनगणनानुगुणं भारतात् ७२लक्षमुसल्मानाः पाकिस्तानं, पाकिस्तानतः ७२लक्ष सङ्ख्याकाः हैन्दवः सिख्खाः च भारतम् आगताः । उभयत्र विप्लवस्य कारणेन हिंसा रक्तपातः हनमं चाभवन् । किन्त नूतनसर्वकाराभ्यां एतानि नियन्त्रितुम् अशक्यम् अभवत् । अस्मिन् महाविप्लवे मृतानां सङ्ख्या तु उपदशलक्षम् इति ऊहा ।

कालविपर्ययः[सम्पादयतु]

विपर्यासः इत्युक्ते पाकिस्तानदेशे प्रायः पूर्णतया मुसल्मानाः एव वसन्ति । किन्तु भारते परिगणनीयसङ्ख्यया मुसल्मानाः सन्ति । इण्डोनोशिया अनन्तरं भारतम् एव अत्यधिकमुसल्मानयुक्तं राष्ट्रम् अभवत् । नाम्ना जात्यातीतराष्ट्रम् इति अस्ति किन्तु केन्द्रसर्वकार्स्य बह्व्यः योजनाः इस्लां मतीयानां सौकर्यम् अनुकूलं च परिगणय्य एव प्रचालिताः भवन्ति । पाकिस्तानात् देशन्तरिताः जनाः पञ्जाबराज्ये देहल्यां च आश्रयं प्राप्नुवन् । हिन्दुसिन्धिजनाः समग्रे भारतदेशे विकीर्णाः किन्तु गुजरात्राज्ये महाराष्ट्रे च अधिकतया न्यवसन् । पूर्वपाकिस्तनतः(अद्यतनः बाङ्ग्लादेशः) आगताः हैन्दवः भारतस्य पूर्वदिशायाम् अधिष्ठिताः । पूर्वपाकिस्तानदेशान्तरिणः अद्यतनराजकीयवलये प्रमुखपात्रं वहन्तः सन्ति । भारतस्य प्रधानमन्त्री मनमोहन सिंहः पञ्जाबस्य सिख्खकुटुम्बसदस्यः । भूतपूर्वप्रधानमन्त्री इन्द्रकुमार् गुज्राल् पाकिस्तानस्य झेलं नगरे जातः पञ्जाबी हैन्दवः । भारतीयजनतापक्षस्य ज्येष्ठः नेता लालकृष्णः अड्वाणी कराच्यां जातः सिन्धिजनः। पश्चिमबङ्गालराज्यस्य भूतपूर्वमुख्यमन्त्री ज्योति बसु पूर्वबङ्गालतः देशान्तरितः कुटुम्बसदस्यः। पाकिस्तानं गताः पञ्जाबस्य मुसल्मानाः तत्रविद्यमाने मतीयेषु लीनाः अभवन् । किन्तु उत्तरप्रदेशात् मध्यप्रदेशत् बिहारात् गताः मुसल्मानाः पृथक् भूत्वा महाजिर् इति सम्बोधिताः भवन्ति ।

परिणामाः[सम्पादयतु]

  • भारतस्य विभजनानन्तरम् अपि हिन्दुमुसल्मानयोः हिंसाचारः अनुवर्तितः एव ।
  • लक्षोपलक्षबङ्गलिजनान् मुसल्मानान् च क्रि.श.१९७१तमे वर्षे पाकिस्तानिसेना इस्लांमूलभूतवदिनः मारितवन्तः ।
  • पकिस्तानीयाः तत्र अवशिष्टहैन्दवान् विविधप्रकारेण हिंसितवन्तः हिंसयन्तः सन्ति अपि ।
  • भारतेपि विविधाः दुराभ्यर्थनाः प्रकटयन्तः विप्लवान् कुर्वन्तः सन्ति ।
  • भारतपाकिस्तानयोः मध्ये चत्वारि युद्धानि अभवन् ।
  • विभक्ताः चत्वरि राष्ट्रेषु अपि अन्तःकलहः प्रचलन् एव भवति ।
  • सिख्खानां प्रत्येकतावादः खलिस्तान् आन्दोलनं क्रि.श१९८४तमे वर्षे अपरेशन् ब्लू स्टार् विप्लवस्य कारणम् अभवत् ।
  • जम्मुकाश्मीरयोः सर्वदा पाकिस्तानालम्तितानि उग्रवादविध्वंसककार्याणि सम्भवन्तः भवति ।
  • आन्धप्रदेशराज्ये सर्वदा नक्सल् जनानां विप्लवः सम्भवति ।
  • ईशान्यभारतभागे मावोवादिनः हिंसाचरन्ति ।
  • पाकिस्ताने सदा जागर्ति मुहाजिर् अन्दोलनम् ।
"https://sa.wikipedia.org/w/index.php?title=भारतस्य_विभजनम्&oldid=436882" इत्यस्माद् प्रतिप्राप्तम्