सामग्री पर जाएँ

लाला हरदयाल

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(लाला हरदयालः इत्यस्मात् पुनर्निर्दिष्टम्)
लाला हरदयाल

लालाहरदयालः लाला हरदयालः (जीवितकालः - क्रि.श. १८८४तः अक्टोबरमसस्य १४दिनाङ्कतः क्रि.श. १९३९तमवर्षस्य मार्चमासस्य चतुर्थदिनपर्यन्तम्) भारतस्य स्वातन्त्रसङ्गग्रास्य महानायकेषु अन्यतमः आसीत् । एषः तस्मिन् गणे अन्तर्गतः यः विदेशेषु स्थितान् भारतीयान् भारतस्य स्वातन्त्र्यप्राप्तये कार्यं कर्तुं प्रेरेपयति स्म । एततदर्थं लाला हरदयालः अमेरिकादेशे गदरपक्षम् अस्थापयत् । तत्र भारतीयप्रवासिनां हृदये प्रचण्डां देशभक्तिं जागरितवान् । एषा प्रेरणा उत्तरोत्तरं संवृद्धा अभवत् । काकोरिकाण्डस्य ऐतिहासिकनिर्णयस्य आगमस्य पश्चात् क्रि.श. १९२६तमवर्षस्य मे मासे अन्यभारतीयाः लालाहरदयालं भारतम् अनेतुं प्रयत्नमकुर्वन् । इन्तु ब्रिटिश् सर्वकारः अनुमतिं नायच्छत् । पश्चात् क्रि.श. १९३७तमे वर्षे पुनः बहुवारं कष्टात् अनुमतिः प्राप्ता । किन्तु भारतागमनमार्गे एव क्रि.श. १९३९तमे वर्षे मार्चमासस्य चतुर्थे दिने अमेरिकदेशस्य फिलेडेल्फिया नगरे रहस्येन अस्य मृत्युः अभवत् ।

बाल्यं कुटुम्बः च

[सम्पादयतु]

लालाहरदयालस्य जन्म क्रि.श. १८८४तमवर्षस्य अक्टोबरमास्य देहलीनगरस्य गुरुद्वारस्य शीशगञ्जस्य पृष्ठभागे चीराखाना इति स्थाने अभवत् । अस्य माता भोली रानी तुलसीदासस्य रामायणं वीरपूजा इत्यादीनि उदातभावनायुतसाहित्यानि बोधयति स्म । उर्दूफर्सीभाषयोः पण्डितः पिता गौरीदयाल माथुरः पुत्रं विद्याव्यसनीम् अकरोत् । अस्य सप्तदशमे वयसि सुन्दरया कन्यया सह विवाहः सम्पन्नः । वर्षद्वयस्य पश्चात् पुत्रप्राप्तिः अभवत् । किन्तु कतिपयदिनानतरं शिशोः मृत्युः अभवत् । क्रि.श. १९०८तमे वर्षे अस्य द्वीतीयं सन्तानं पुत्री जाता । लालावर्यः अल्पवयसि एव आर्यसमाजेन प्रभावितः अभवत् ।

शिक्षा

[सम्पादयतु]

लाला हरदयालस्य आरम्भिकी शिक्षा स्वनगरे एव केम्ब्रेज् मिशन् इति शालायाम् अभवत् । पश्चात् देहलीनगरस्य सेण्ट् स्टीफेन्स् महाविद्यालयतः संस्कृतभाषाया स्नातकपदवीं प्राप्तवान् । तत्पश्चात् पञ्जाबः|पञ्जाबस्य विश्वविद्यालयतः संस्कृतभाषाया स्नातकोत्तरपदवीम् आप्नोत् । अस्यां परीक्षायाम् अधिकाङ्कप्राप्तिकारणेण २००पौण्ड छात्रवृत्तिः अपि सम्पादिता । हरदयालः अनया छात्रवृत्या एव क्रि.श. १९०५तमे वर्षे लण्डनं गत्वा आक्स्फर्ड् विश्वविद्यालये अध्ययनार्थं प्रविष्टवान् । तत्रापि लालावर्यः छात्रवृत्तिद्वयं प्राप्तवान् । हरदयालस्य एषा एका विशेषा शक्तिः आसीत् यत् सः पञ्चकार्णाणि युगपत् कर्तुं शक्नोति स्म । १२होराणां पूर्वसूचनां दत्त्वा अस्य मित्राणि शेक्स्फियरस्य नाटकं हरदयालस्य मुखात् श्रुण्वन्ति स्म ।

स्वातन्त्र्यान्दोलनस्य सक्रियः

[सम्पादयतु]

पूर्वमेव हरदयालः मास्टर् अमीरचन्दस्य गुप्तक्रान्तिकारिसङ्घटनस्य सदस्य आसीत् । तेषु दिनेषु लण्डन् नगरे श्यामजी कृष्णवर्मा अपि वसति स्म । अयं वर्मा देशभक्तेः प्रचारार्थम् इण्डिया हौस् इत्यस्य सङ्घटनस्य प्रतिष्ठापनम् अकरोत् । इतिहासस्य अध्ययनस्य परिणामरूपेण अङ्ग्लशिक्षापद्धतेः अनुसरणं पापः इति विचिन्त्य क्रि.श. १९०७तमे वर्षे महापूरे निमज्जतु ऐ.सी.एस्. इति उक्त्वा आक्स्फर्डविश्वविद्यालयं त्यक्तवान् । पश्चात् लण्डन्नगरे देशभक्तसमाजं संस्थाप्य असहयोगस्य प्रछारं कर्तुमारब्धवान् । अयं विचारः बहुदिनानन्तरं क्रि.श. १९२०तमे वर्षे गान्धिमहात्मनः कर्णगतः । ललाहरदयालस्य अयं अभिप्रायः आसीत् यत् भारतस्य स्वातन्त्र्यप्रप्तये जनेषु राष्ट्रियभावस्य जागरणं कृत्वा सर्वकारस्य सम्पूर्णस्वरूपं ज्ञात्वा पश्चात् युद्धस्य सिद्धता कार्या इति । अनेन एव विशेषपरिणामः भविष्यति । कतिपयदिननां पश्चात् क्रि.श. १९०८तमे वर्षे भारतम् प्रत्यागतवान् ।

यङ्ग् मेन् इण्डिया सङ्घटनस्य संस्थापनम्

[सम्पादयतु]

तेषु दिनेषु यूनां मनोरञ्जनार्थं यङ्ग् मेन् क्रिश्चियन् असोसियेषन् (वै.एम्.सि.ए) इति कञ्चित् सङ्घटनम् आसीत् । तदा हरदयालः लाहोर् नगरे स्नातकोत्तरमपवीं पठन् आसीत् । काकतालीयः इव वै.एम्.सि.ए. सचिवेन सह कञ्चित् विषयमधिकृत्य विवादः अभवत् । ललावर्यः सपदि एव वै.एम्.सि.ए.समानन्तरं यङ्ग् मेन् इण्डिया इति सङ्घस्य प्रतिष्ठापनम् अकरोत् । लाला हरदयालस्य महाविद्यालये मोहम्मद अल्लामा इक्बाल् इति प्राध्यापकः दर्शनशास्त्रं पाठयति स्म । अनेन सह लालावर्यस्य मधुरं बान्धव्यम् आसीत् । हरदयालः यदा सङ्घटनस्य उद्घाटानं कर्तुं इक्बालं प्रार्थितवान् तदा सः अतीव सन्तोषेण अङ्गीकृतवान् । अस्मिन् समारोहे मोहम्मद् इक्बालः स्वस्य प्रसिद्धं रचनं सारे जहाँ से अच्छा हिन्दोस्ताँ हमारा गीतवान् । प्रायः कस्यचिदपि कार्यक्रमस्य अध्यक्षः गीतं गीतवान् इति प्रथमः स्यात् । अनेन लघुगीतेन सभासदः अतीव प्रभाविताः । कार्यक्रमस्य अन्ते इक्बालेन पुनः तद्गीतं श्रावयितुं प्रार्थयन् ।

भारतागमनम्

[सम्पादयतु]

लाला हरदयालः भारतम् प्रत्यागत्य सर्वप्रथमं पुणेनगरं गत्वा लोकमान्यं बालगङ्गाधर तिलकं सन्दृष्टवन् । तत्पश्चात् किमभवत् इति कोऽपि न जानाति एषः पटियालां गत्वा सन्न्यासं स्वीकृतवान् । शिष्याणां पुरतः त्रिसप्ताहं यावत् लोकस्य क्रान्तिकारिणां जीवनविषये विवेचनं कृतवान् । तत्पश्चात् लाहोर्नगरं गत्वा पञ्जाबी इति आङ्ग्लदैनिकपत्रिकायाः सम्पादनकार्ये मग्नः अभवत् । अस्य अनालस्यं, निरहङ्कारः, सरलता, वैदुष्यं, भाषाप्रभुत्वं, वुद्धिप्रखरता, राष्ट्रभक्तिः, इत्यादीनां गुणानां कारणेन कोऽपि जनः प्रथमदर्शनेन एव मुग्धः भवति स्म । एषः सर्वदा स्वस्य पत्राणि हिन्दीभाषया लिखति स्म । दक्षिणभारतीयानां कृते संस्कृतेन लिखति स्म । आङ्ग्लशिक्षापद्धत्या राष्ट्रियचरित्रं नष्टं, भवति । आङ्ग्लाः स्वेषां क्रिस्तमतस्य प्रसारेण अस्मासु दास्यत्वस्य स्थितिं निर्मितवन्तः । अद्य लालाहरदयालस्य वचनं राष्ट्रेसत्यभूतं दृष्टुं शक्यते ।

पुनः विदेशगमनम्

[सम्पादयतु]

क्रि.श. १९०८तमे वर्षे पुनः सर्वकारदमनस्य चक्रं चालितम् । लालावर्यस्य अग्निसदृशप्रवचनानां फलस्वरूपेण छात्राः महाविद्यालयं त्यजन्तः सर्वकारीयकरमकाराः स्वोद्योगान् त्यजन्तः अस्य आन्दोलने प्रविष्टाः । भीतेन सर्वकारेण तेषां बन्धनस्य योजनायाः चिन्तनम् आरब्धम् । लालालजपरायस्य परामर्शं मस्तके वहन् लालाहरदयालः सपति पेरिस्देशं गतवान् । तत्र उषित्वा जिन्वातः वन्द्रेमातरम् इति पत्रिकां प्रकाशितवान् । स्वस्य पत्रिकालेखेषु गोपालकृष्णगोखले इत्यादीनाम् अधुनिकानां चिन्तनं प्रकाशयति स्म । हुतात्मनः मदनलाल ढीङ्गरा इत्यस्य क्रान्तिकारियुवकस्य विषये कस्मिंश्चित् लेखे एवमलिखत् । अस्य अमरवीरस्य कृत्यानि वचनानि च शतकशतकपर्यन्तं विचारयोग्यानि सन्ति यः मृत्युमपि नववधूः इव प्रीणाति स्म । मदनलाल ढीङ्गरा मृत्युपाशात् पूर्वम् एवम् अवदत् । अस्माकां राष्ट्रस्य अवमाननं परमात्मनः अवमाननम् एव । एतत् अपमानम् अहं कदापि न सहे । अतः अहं किं कर्तुं शक्नोमि तत् कृतवान् । मया कृतविषये पश्चात्तापस्य लेशोऽपि नास्ति इति । लालाहरदयालः पेरिस् देशं स्वप्रचारस्य केन्द्रं कर्तुम् ऐच्छत् । किन्तु तत्र वासभोजनादीनां व्यवस्थां भारतीयपर्यटकाः कर्तुम् अशक्नुवन् । अतः निरुपायः लालाहरदयालः क्रि.शा. १९१०तमे वर्षे प्रथमं अल्जीरिया गतवान् पश्चात् एकन्तवासस्य कारणेण किञ्चित् अन्यस्थानं शोधितवान् लामार्तनिक् इति द्वीपं गत्वा महात्मा बुद्धः इव तपः आचरितुम् आरब्धवान् । किन्तु तत्रापि अधिकदिनानि न स्थितवान् । सहोदरस्य परमानन्दस्य अनुरोधानुसारं भारतस्य सनातनसंस्कृतेः प्रचारार्थम् अमेरिकादेशं गतवान् । तत्पश्चात् होनोलूलू समुद्रताटे कस्याञ्चित् गुहायां वसन् शङ्कराचर्यस्य, कण्टस्य हीगलस्य मार्क्सस्य च तत्त्वानाम् अध्ययनम् आरब्धवान् । पुनः सहोदरस्य परमानन्दस्य वचनानुसारं क्यालिफोर्नियाविश्वविद्यालयं गत्वा तत्र हिन्दुदर्शनस्य बहूनि व्याख्यानानि कृतवान् । अमेरिकानगरस्य बुद्धिजीविनः एतं हिन्दूस्वामी, ऋषिः, स्वातन्त्र्ययोद्धा इति सम्बोधयन्ति स्म । क्रि.शा. १९१२तमे वर्षेस्टेन्फोर्ड् विश्वविद्यालये हिन्दुदर्शनस्य तथा संस्कृतस्य विषययोः सगौरवोपन्यसकरूपेण नियुक्तः। तत्र एव वसन् स्वस्य गदर् इति पत्रिकाम् आरब्धवान् । पत्रिका तु स्वस्य प्रभवं प्रसरितुम् आरब्धवती एव । जर्मनिदेशे, इङ्ग्लेण्डदेशे च युद्धः उपक्रान्तः । विदेशे वसन् एव सिख्खमतानां स्वदेशं गन्तुं प्रेरणां कृतवान् । एदर्थं प्रत्येकं स्थानं गत्वा भारतीयसिख्खान् संप्रेर्य भाषणं करोति स्म । अस्य प्रभावेण एव दशसहस्राधिकाः भारमूलसिख्खजनाः भरतम्आगताः । केचन मार्गे एव गोलिकाघातेन मारिताः । केचने विप्लवे गृहीताः मृत्युपाशबद्धाः । ललाहरदयालः तत्र अमेरिकादेशे तस्य सहोदरः परमानन्दः भारते क्रान्तेः अग्निं प्रचण्डम् अकुर्वन् । यस्य परिणामवशात् द्वावपि आङ्ग्लैः बद्धाः अभवताम् । परमान्दः प्रथमं मृत्युपाशेन मारितः । पश्चात् लालाहरदयालं कालापानी इति दण्डम् अकुर्वन् । किन्तु हरदयालः स्वबुद्धिकौशलेन स्विट्जर्लेण्ड्देशं पलायितवान् । जर्मनिदेन सह मिलितः भारतम् स्वतन्त्रं कर्तुं प्रयत्नम् आरब्धवान् । महायुद्धस्य उत्तरे बागए यदा जर्मनीदेशस्य पराजयः निश्चितः तदा लला तूष्णीं स्वीडन् देशम् अचलत् । तत्रापि एषः तत्रस्थां भाषाम् अधीतवान् । शीघ्रमेव च स्विस् भाषया इतिहासस्य सङ्गीतस्य दर्शनानां च व्याख्यानम् आरब्धवान् । तस्मिन् समये हरदयालः विश्वस्य एकादशभाषासु परिणतः आसीत् ।

परदेशे एव जीवितान्तम्

[सम्पादयतु]

क्रि.श. १९२७तमे वर्षे लालाहरदयालं भारतम् अनेतुं कृताः सर्वे प्रयत्नाः विफलाः अभवन् । अतः एषः इङ्ग्लेण्ड् देशे अवसत् । तत्र डाक्ट्रिस् आफ् बोधिसत्व नामकं शोधपूर्णं पुस्तकं लिखितवान् । अनेन ग्रन्थेन लण्डन् विश्वाविद्यायस्य पि.एच्.डि. उपधिं प्राप्तवान् । तत्पश्चात् लण्डन्तः एव कालजयी कृतिः हिण्ट्स् फार् सेल्फ् कल्चर् इति ग्रन्थः प्रकाशितः यस्य पठनेन लालाहरदयालस्य भाषायाः विष्यस्य च वैदुष्यस्य परिचयः भवति । अस्य अन्तिमग्रन्थः द्वेल्व रिलीजन्स् एण्ड् माडर्न् लैफ् इति यस्मिन् मानवतायाः विषये विशेषः आदरः प्रदत्तः । मानवतां स्वधर्मम् इति मत्वा लण्डन् नगरे एव आधुनिकीं संस्कृतिं स्थापितवान् । तत्कालीनः आङ्ग्लभारतसर्वकरः क्रि.श. १९३६तमे वर्षे अस्मै भारतम् आगन्तुम् अनुमतिम् अयच्छत् । स्वदेशमागत्य देशोत्थनकार्ये स्वजीवनं समर्पयितुं निश्चितवान् । लालाहरदयालः आगमिष्यति स्वदेशं बन्धनात् विमोचयिष्यति इति भारतीयाः परस्परं संल्लपन्तः आसन् किन्तु अस्य देशस्य दौर्भाग्यं लालाहरदयालस्य शारीरे स्थितः सः महान् आत्मा क्रि.श. १९३८तमवर्षस्य मार्चमासस्य चतुर्थे दिने तस्य शरीरम् अत्यजत् । लालावर्यः सजीवः भारतम् नागतः । तस्य अनीरीक्षितः मृत्युः सर्वदेशभक्तान् दुःखसागरे निमज्जयत् । लालाहरदयालः सदा गभीरः, आदर्शवादी, भारतस्वातन्त्र्यस्य निर्भीकसमर्थकः, ओजस्वी प्रवक्ता, लब्धप्रतिष्ठः, लेखकः च । हिन्दुधरमस्य बौद्धमतस्य च प्रकाण्डः पण्डितः आसीत् । तादृशः स्मरणशक्तियुक्तः जनः विश्वे एव विरलाः । भाषणे सम्भाषणे वा उद्धरणसमये ग्रन्थानां पुटपर्यटनं न करोति स्म । किन्तु झटिति लिखति स्म वा वदति स्म ।

"https://sa.wikipedia.org/w/index.php?title=लाला_हरदयाल&oldid=478773" इत्यस्माद् प्रतिप्राप्तम्