सामग्री पर जाएँ

कित्तूरु चेन्नम्म

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(कित्तूरु चेन्नम्मा इत्यस्मात् पुनर्निर्दिष्टम्)
Kittur Rani Chennamma
कित्तूरु रानी चेन्नम्म
कित्तूरु राज्ञी चेन्नम्म
जन्म सूचना नास्ति
मृत्युः १८२८
कित्तूरुराज्यम्
वृत्तिः Soldier, स्वतंत्रता सेनानी edit this on wikidata
भार्या(ः) मल्ल सर्जनाम
अपत्यानि रुद्रसेनः

चेन्नम्म ( /ˈkɪttrʊ xɛnnəmmə/) (कन्नड: ಕಿತ್ತೂರು ಚೆನ್ನಮ್ಮ, आङ्ग्ल: Kittur Rani Chennamma) दक्षिणभारतस्य कित्तूरु-नामकस्य प्राक्तनराज्यस्य राज्ञी आसीत् । तत् अधुना कर्णाटकराज्ये अन्तर्भवति । १९५७ तमस्य वर्षस्य प्रप्रथमे भारतस्वतन्त्रताविप्लवे राज्ञी चेन्नम्म स्वप्राणाहुतिम् अयच्छत् । १९५७ तमस्य वर्षस्य आङ्ग्लविरुद्धविप्लवेषु वहाबीविद्रोह-संन्यासिविद्रोह-सन्थालविद्रोह-चुआडविद्रोहाः मुख्याः । एतेषु विद्रोहेषु पुरुषैः सह महिलाः अपि मुख्यभूमिकाम् अवहन् । तासु महिलासु चेन्नम्म इत्यस्याः अपि मुख्यतया स्मरणं भवति । तया आङ्ग्लैः सह भीषणं युद्धं कृतम् । परन्तु देशद्रोहिणां विश्वासघातत्वात् तस्याः पराजयः अभवत् । विश्वासघातः यदि नाभविष्यत्, तर्हि आङ्ग्लाः निश्चयेन पराजिताः अभविष्यन् ।

तदानीन्तनस्य कित्तूरुराज्यस्य इतिहासः

[सम्पादयतु]

कित्तूरुराज्यस्य निर्माणं मल्लप्प शेट्टि-नामकेन वीरपुरुषेण कारितम् आसीत् । कित्तूरुराज्यं लघु आसीत् । लघुराज्यं सदपि तत् शक्तिशालिराज्यत्वेन परिगण्यते स्म । दक्षिणभारतं जेतुम् एतत् राज्यम् आङ्ग्लजनेभ्यः अवरोधरूपम् आसीत् । "यदि वयम् अस्य राज्यस्योपरि स्वाधिपत्यं स्थापयितुं सफलाः भवेम, तर्हि दक्षिणभारतस्य बहूनि राज्यानि अस्माकं साम्राज्ये अन्तर्भविष्यन्ति" इति आङ्ग्लानां चिन्तनम् आसीत् । अतः ते पौनःपुन्येन कित्तूरुराज्यस्योपरि आक्रमणं कुर्वन्ति स्म ।

यदा आङ्ग्लाः कित्तूरुराज्यस्योपरि आक्रमणं कर्तुम् उद्यताः आसन्, तदा मल्लवंशीयः ‘मल्लसर्ज’-नामकः राजा कित्तूरुराज्ये शासनं कुर्वन् आसीत् । मल्लसर्ज इत्यस्य वयः अधिकम् अभवत् । अतः तस्य पत्नी चेन्नम्म राज्यस्य राजकार्यस्य भारं वहति स्म । मन्त्रिपरिषदि सिद्धप्प, मल्लप्प, वेङ्कट राव् इति मन्त्रित्रयं राज्ञ्या नियुक्तम् । तेषां मन्त्रिणां साहाय्येन चेन्नम्म सुचारुरीत्या राज्यस्य शासनं करोति स्म ।

जीवनम्

[सम्पादयतु]

चेन्नम्म एकस्य राज्यस्य राज्ञी आसीत् परन्तु तस्याः जन्म इत्यादिविषये सूचना न प्राप्यते । कर्तव्यपरायणा सा नित्यं ब्राह्ममुहूर्ते जागर्ति स्म । आदिनं सा राज्यव्यवस्थायाः कार्ये रता भवति स्म । बहुवारं तु सा भोजनं कर्तुम् अपि विस्मरति स्म । सा दीर्घद्रष्ट्री आसीत् । अतः आङ्ग्लानां साम्राज्यवादिनीतेः, विस्तारवादिनीतेः च राज्यं रक्षितुं सा सर्वदा तत्परा आसीत् । तस्याः आदेशेन राज्ये सैनिकप्रशिक्षणम् अनिवार्यत्वेन भवति स्म । शस्त्रागारे अपि नव्यव्यवस्थानुसारं कार्यं भवति स्म ।

सैनिकेषु, राज्यजनेषु च देशभक्त्याः भावः उद्भावयितुं तया बहवः निर्णयाः स्वीकृताः । राजसभायाः अन्ते तया राष्ट्रप्रार्थनायाः प्रद्धतिः आरब्धा । सैनिकानां मनोबलं, तेषां मनसि देशभक्त्याः भावं च दृढयितुं तया सर्वेषु सैनिकशिबिरेषु राष्ट्रप्रार्थनायाः गानम् अनिवार्यं कृतम् । नागरिकाः अपि देशभक्त्याः रङ्गेन रङ्गिताः भवन्तु इत्यपि तस्याः आशयः आसीत् । नागरिकेषु देशसेवायाः भावं जनयितुं तया विद्यालयेषु, सामाजिकसभासु च राष्ट्रप्रार्थनायाः गानम् अनिवार्यं कृतम् । तया चिन्तितं राष्ट्रप्रार्थनायाः अन्ते सरलभाषायां यदि एका प्रतिज्ञा अपि भवेत्, तर्हि प्रार्थनायाः प्रभावः अधिकः भविष्यति इति । अतः तया प्रार्थनायाः समनन्तरं मातृभूमिप्रतिज्ञा अपि अनिवार्या कृता । तस्याः प्रतिज्ञायाः सर्वेऽपि शब्दाः नागरिकेषु देशं प्रति स्वस्य दायित्वस्य बोधम् उद्भावयन्ति स्म । सा प्रतिज्ञा एवम् आसीत्, “हे परमपावने जन्मभूमे ! वयं तव सन्तानाः तव सपथं कुर्मः यत्, केऽपि आक्रमकाः यदि तव सम्मानस्योपरि आक्रामणस्य दुःस्साहसं करिष्यन्ति, तर्हि वयं तेषाम् आक्रमकाणां सर्वान् सैनिकान् यावत् न नाशयिष्यामः, तावत् युद्धं करिष्यामः । अस्माकं पोषणं कृतवत्याः भवत्याः रक्षणं वयं प्राणाहुतिं दत्वाऽपि करिष्यामः” इति ।

स्वस्याः सामर्थ्यानुसारं चेन्नम्म युद्धस्य पर्याप्तसज्जताम् अकरोत् । चेन्नम्म इत्यस्याः मन्त्रिपरिषदि द्वे मन्त्रिणौ आस्ताम् । मल्लप्प शेट्टि, वेङ्कट राव् च । तयोः वास्तविकतायाः विषये चेन्नम्म सतर्का नासीत् । तौ मन्त्रिणौ व्यक्तिगतस्वार्थस्य पूर्त्यै देशद्रोहिप्रवृत्तिं प्रारभेताम् । तयोः देशद्रोहस्य लाभेन आङ्ग्लाः कित्तूरु-राज्यस्योपरि आक्रमणम् अकुर्वन् । आक्रमणकाले राजद्वारम् उद्घाट्य एतौ राज्यप्रवेशे आङ्ग्लसैन्यस्य साहाय्यम् अकुरुताम् । तस्मिन् आक्रमणे राज्यस्य त्रिसहस्रम् अश्वाः, द्विसहस्रम् उष्ट्राः, अष्टशतं गजाः, षड्त्रिंशत् शतघ्न्यः (cannon), पञ्चसहस्रम् अग्निशस्त्रम्, अन्यानि युद्धसाधनानि लुण्ठित्वा आङ्ग्लैः पलायनं कृतम् । तैः अमूल्यरत्नानि, आभूषणानि अपि लुण्ठितानि ।

समृद्धराज्यस्य समृद्धिः अनष्यत् । राज्यस्य आर्थिक-मानसिकस्थितिः अपि नष्टा अभवत् । तस्मिन् काले एव राज्यस्य राज्ञः ‘मल्लसर्ज’ इत्यस्य अवसानम् अभवत् । तस्य राज्ञः रुद्रसेन-नामकस्य पुत्रस्य राज्याभिषेकः अभवत् । तस्य आयुः अधिकः नासीत्, अतः मन्त्रिणः स्वच्छन्दतया कार्याणि कुर्वन्ति स्म । तस्मिन् एव काले मराठाजनानाम् आङ्ग्लैः सह भीषणं युद्धम् अभवत् । पेशवा इत्ययं मराठाशासकः कित्तूरु-राज्ञ्याः साहाय्यम् अपृच्छत् । चेन्नम्म झटिति मल्लप्प शेट्टि, वेङ्कट राव् इत्येतौ मन्त्रिणौ प्रैषयत् । परन्तु तौ देशद्रौहिणौ मन्त्रिणौ विकटसमये देशद्रोहम् अकुरुताम् । तेन मराठाजनाः पराजिताः । ततः आङ्ग्लानाम् आत्मविश्वासः अवर्धत । ते चेन्नम्म इत्यस्याः समीपं सन्धिप्रस्तावं प्रैषयन् । परिस्थितिं दृष्ट्वा चेन्नम्म सन्धिप्रस्तावं स्व्यकरोत् । ततः आङ्ग्लानां साहसम् अवर्धत । ते कित्तूरुराज्ये स्वप्रतिनिधेः नियुक्तेः आग्रहम् अकुर्वन् । चेन्नम्म क्रोधेन आङ्ग्लानां दुराग्रहस्य दमनम् अकरोत् । सा आङ्ग्लान् अवदत्, "मम राज्ये युष्माकं हस्तक्षेपः नावश्यकः" इति ।

आङ्ग्लैः सह युद्धं, मृत्युश्च

[सम्पादयतु]

आङ्ग्लानां गृध्रदृष्टिः कित्तूरुराज्यस्योपरि एवासीत् । कित्तूरुराज्यस्य नवयुवा राजा रुद्रसेनः गभीररोगेन ग्रस्तः अभवत् । तस्य मृत्युः निश्चितः आसीत् । अतः चेन्नम्म एकं दत्तकपुत्रं स्व्यकरोत् । सा यस्मिन् दिने अपरं दत्तकपुत्रम् अङ्ग्यकरोत्, तस्य द्वितीये दिने एव रुद्रसेनस्य मृत्युः अभवत् । आङ्ग्लाः दत्तकपुत्रस्य राजत्वेन स्वीकारं नाकुर्वन् । ते स्वपोषिताय देशद्रोहिणे मन्त्रिणे मल्लप्प शट्टि इत्यस्मै राज्यव्यवस्थां दातुं चेन्नम्म इत्यस्यै आदेशम् अयचछन् । पुनः आङ्ग्लान् स्वस्थानं प्रदर्शयन्ती चेन्नम्म "मम राज्ये हस्तक्षेपः मास्तु" इति क्रोधेन अवदत् ।

दक्षिणभारते आङ्ग्लानां प्रतिनिधिः थैकरे आसीत् । सः येन केन प्रकारेण कित्तूरुराज्यस्योपरि आधिपत्यम् इच्छति स्म । कित्तूरुराज्यस्योपरि आक्रमणं कर्तुं तस्य पार्श्वे एषः सुवर्णावसरः आसीत् । अतः सः ब्लॅक्, सिबिल् इत्यादीनाम् आङ्ग्लाधिकारिणां नेतृत्वे एकां सेनां कित्तूरुराज्यस्योपरि आक्रमणार्थं प्रैषयत् । चेन्नम्म इत्यस्याः नेतृत्वे कित्तूरुराज्यस्य प्रजाः, सैनिकाः, अधिकारिणः युद्धम् अकुर्वन् । आङ्ग्लैः सह तद्युद्धे कित्तूरुराज्यस्य यदा विजयः निश्चितः आसीत्, तदा मल्लप्प शेट्टि, वेङ्कट राव् इत्येतौ मन्त्रिणौ देशद्रोहम् अकुरुताम् । राज्ञ्याः विश्वासुसैनिकः रामाण्ण इत्ययं आङ्ग्लसेनापतिना छलेन हतः । ततः अन्यदेशद्रोहिणः गुप्ततया आङ्ग्लसैन्ये अन्तरभवन् । तेषु सबर मण्डारी, शिवप्प च मुख्यौ आस्ताम् । तौ युद्धसामग्रिषु गोमलस्य मिश्रणम् अकुरुताम् । तेन सर्वाः युद्धसामग्र्यः नष्टाः अभवन् । शिवप्प कित्तूरुराज्यस्य मुख्यदुर्गस्य सिंहद्वारम् उद्घाटितवान्, येन आङ्ग्लाः दुर्गस्योपरि स्वाधिपत्यं प्राप्तवन्तः ।

तस्मिन् युद्धे सर्वैः निष्ठया युद्धं कृतं, परन्तु देशद्रोहिणां विषये केषामपि मनसि विचारः नासीत् । अतः कित्तूरुराज्यस्य पराजयः अभवत् । ( लोहपुरुषस्य पिता झवेरभाई बाल्यकालात् बालवल्लभं कथयति स्म यत्, “१८५७ तमस्य वर्षस्य स्वातन्त्र्यविप्लवस्य असफलतायाः कारणं देशद्रोहः, देशजनेषु एकतायाः अभावश्च आसीत्” । अतः बाल्यकालात् लोहपुरुषः अखण्डभारतस्य कल्पानां कुर्वन् देशसेवाम् अकरोत् । तस्य सम्मुखम् एतादृशानि बहूनि उदाहरणानि स्युः । )

देशद्रोहिणां विश्वासघातेन कित्तूरुराज्यस्य करुणपराजयः अभवत् । चेन्नम्म इत्यस्याः अनेेकेभ्यः विश्वसिकेभ्यः आङ्ग्लाः मृत्युदण्डम् अयच्छन् । चेन्नम्म इत्येनाम् अपि ते कारागारं प्रैषयन् । १९२८ तमे वर्षे कारागारे एव चेन्नम्म देहत्यागम् अकरोत् ।

सम्बद्धाः लेखाः

[सम्पादयतु]

वहाबीविद्रोह

संन्यासिविद्रोह

सन्थालविद्रोह

चुआडविद्रोहः

दक्षिणभारत

बाह्यानुबन्धाः

[सम्पादयतु]

http://books.google.co.in/books?id=p2qFYxtq3GYC&printsec=frontcover#v=onepage&q&f=false

http://books.google.co.in/books?id=i81mLhBEBgQC&pg=PA103&dq=Kittur+Rani+Chennamma&hl=en&sa=X&ei=71GaUP3ANcrLrQeA24DQBg&ved=0CC8Q6AEwATgK#v=onepage&q&f=false

http://books.google.co.in/books?id=6CYYAAAAYAAJ&pg=PA474&dq=St+John+Thackeray+collector&hl=en&sa=X&ei=lta1UI_mBJG3rAersoHQAg&ved=0CEkQ6AEwCA#v=onepage&q=St%20John%20Thackeray%20collector&f=false

http://www.hindu.com/2007/09/12/stories/2007091258190400.htm

http://www.thehindu.com/todays-paper/tp-national/tp-karnataka/article2502260.ece?textsize=small&test=2

http://www.thehindu.com/todays-paper/tp-national/tp-karnataka/kambar-calls-for-research-on-chennamma/article4029534.ece

http://news.oneindia.in/2007/09/11/pratibha-unveils-kittur-rani-chennamma-statue.html Archived २०१४-११-०६ at the Wayback Machine

http://timesofindia.indiatimes.com/city/hubli/Kittur-Rani-Chennammas-samadhi-lies-in-neglect/articleshow/17013504.cms?referral=PM

"https://sa.wikipedia.org/w/index.php?title=कित्तूरु_चेन्नम्म&oldid=480133" इत्यस्माद् प्रतिप्राप्तम्