सामग्री पर जाएँ

भगत सिंह

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(भगत सिंहः इत्यस्मात् पुनर्निर्दिष्टम्)
भगतसिंहः
Bhagat Singh, dressed in western attire to avoid recognition and escape from Lahore to Calcutta
जन्म १९०७ तमे वर्षे सेप्टेम्बर्मासस्य २८ तमः दिनाङ्कः
मृत्युः १९३१ तमे वर्षे मार्च्मासस्य २३ तमः दिनाङ्कः
लाहोर, पञ्जाब,
वृत्तिः Rebel, लेखक, स्वतंत्रता सेनानी edit this on wikidata
Organisation Naujawan Bharat Sabha,
Kirti Kisan Party,
Hindustan Socialist Republican Association
आन्दोलनम् भारतस्य स्वान्तन्त्र्यान्दोलनम्
जालस्थानम् http://www.shahidbhagatsingh.org/ Edit this on Wikidata

भगतसिंहः ( /ˈbhəɡətə sɪnhə/) (हिन्दी: भगत सिहं, आङ्ग्ल: Bhagat Singh) स्वतन्त्रभारताय स्वप्राणाहूतिं दत्त्वा अमरः अभवत् । कश्चन सायन्तनः कालः । त्रिवर्षियः कश्चन बालकः स्वपित्रा सह विहारं कुर्वन् आसीत् । ताभ्यां सह कश्चन वृद्धः अपि आसीत् । सम्भाषणं कुर्वन्तः ते ग्रामसीमां प्राप्तवन्तः । तत्र सस्यानां हरितवर्णेन परिसरः आह्लादकरः दृश्यते स्म । भाषणं कुर्वन्तः ते एकस्य सस्यक्षेत्रस्य घट्टं प्राप्तवन्तः । बालकस्य आगमनशब्दः न श्रूयते इति पिता परिवृत्य दृष्टवान् । बालकः क्षेत्रे उपविश्य किमपि खनति स्म । "किं करोति वत्स?" इति पिता पृष्टवान् । "पश्य तात ! अस्मिन् क्षेत्रे अहं सर्वविधसस्यानि सफलानि करोमि ।" इति बालकः उक्तवान् । तस्य बालस्य नयनद्वयं द्योतते स्म । क्षेत्रे अवश्यं फलं प्राप्नोमि इति विश्वासः तस्य वचनेषु ध्वन्यते स्म । तस्य स्वरेण तौ ज्येष्ठौ आश्चर्यान्वितौ अभवताम् । सः बालकः एव भगतसिंहः । अनन्तरकाले मातृभूमिं स्वतन्त्रं कर्तुं वीरोचितं युद्धं कृतवान् अयं समरसिंहः ।

पञ्जाबप्रान्तेलाहोरजनपदे बङ्गा इति ग्रामः । सरदारकिषनसिंह इत्येतस्य वीरपुरुषस्य वंशजाः तत्र निवसन्ति स्म । तस्मिन् वंशे अनेके वीराः आङ्ग्लेभ्यः भारतस्य विमोचनं कारयितुं युद्धं कृतवन्तः । तस्य त्रीन् सोदरान् आङ्ग्लसर्वकारः कारागारे अस्थापयत् । तादृशान् योद्धॄन् क्रान्तिकारिणः इति कथयन्ति स्म । किषनसिंहः अपि क्रान्तिकारी । तस्य पत्नी विद्यावती । तस्य अनुजौ अजितसिंह-स्वरणसिंहौ आङ्ग्लान् प्रतिप्रेषयितुं कृतेषु आन्दोलनेषु वीरोचितं सङ्घर्षं कृतवन्तौ । तेषु दिनेषु एतादृशानि आन्दोलनानि देशे सर्वत्र व्याप्तानि आसन् । देशस्य स्वतन्त्रतायै क्रियमाणे समरे विजयार्थं जनाः दृढनिश्चयेन भागं वहन्तः आसन् । तादृशे समये ईशवीये १९०७ तमे वर्षे सप्ट्म्बरमासस्य २८ तमे दिनाङ्के विद्यावतीकिषन्सिंहयोः तृतीयपुत्रः भगतसिंहः सञ्जातः । तदा एव अजितसिंह-स्वरणसिंहौ कारागारतः विमुक्तौ । स्वकुटुम्बे सन्तोषम् आनीतवान् इति किषनसिंहः पुत्रस्य 'भगतसिंहः’ इति नामकरणं कृतवान् । सर्वे तं 'भागोवाला’ (भाग्यवान्) इति आह्वयन्ति स्म ।

बाल्यावस्था

[सम्पादयतु]

बालके भगतसिंहे सर्वे स्निह्यन्ति स्म । अग्रे कदाचित् एषः बालकः प्रसिद्धो भविष्यतीति सर्वे परस्परं कथयन्ति स्म । तस्य मातुः विद्यावत्याः जीवनम् आरम्भतः अपि कष्टैरेव यातम् । क्रान्तिकारी तस्याः पतिः सर्वदा अज्ञाततया पर्यटन् गृहतः दूरे एव भवति स्म । अतः कदाचित् स्वपतिः कारावासी भविष्यतीति विद्यावती सर्वदा भीतिम् अनुभवन्ती आसीत् । स्वातन्त्र्ययोद्धॄणां कुटुम्बः इति कारणतः तस्य गृहे सर्वदा यः कोऽपि कारागारबन्धनं प्राप्नोति स्म एव । कुटुम्बस्य सर्वस्य निर्वहणभारं विद्यावती एव वहति स्म । तादृशे क्लिष्टसमये सा बालकानां पालनेन समाधानं प्राप्नोति स्म । बालकाः सर्वेऽपि अत्यन्तम् उत्साहेन वर्धन्ते स्म । अतः विद्यावती सर्वाणि कष्टानि विस्मृतवती । भगतसिंहे तस्याः विशेषप्रीतिः आसीत् ।

भगतसिंहः प्राथमिकपाठशालां प्रविष्टवान् । बाल्यतः भगतसिंहः कक्ष्यायां सर्वेभ्योऽपि अग्रे भवति स्म । तस्य लेखनम् अत्यन्तं सुन्दरम् आसीत् । अध्यापकानां सर्वेषां प्रियतमः भगतसिंहः । सहच्छात्राः सर्वेऽपि भगतं स्वनायकं मन्यन्ते स्म । भगतसिंहात् अपि ज्येष्ठाः बालाः तं स्वस्कन्धेषु आरोप्य पाठशालां नयन्ति स्म । पुनः तथैव आनयन्ति स्म । बाल्ये सम्पन्नाः एताः घटनाः भाविजीवने सः उत्तमः क्रान्तिकारिनायकः भवेदिति विषयं सूचयन्ति स्म। भगतसिंहः सुलभतया सर्वैः सह मैत्रीं करोति स्म । साधारणतया सर्वेषां कृते सहच्छात्राः सखाय भवन्ति । ते एव न, प्रवहणचालकाः, कर्मकराः, मार्गसम्मार्जकाः अपि तस्य मित्राण्येव । एकवारं कश्चित् सौचिकः भगतसिंहस्य गृहम् आगतवान् । सीवितानि वस्त्राणि गृहे दत्त्वा गच्छन्नासीत् । "वस्त्राणि दत्त्वा यः गच्छति सः कः?" इति पृष्टवती माता विद्यावती ।

"तत् मम मित्रम् ।" इति उक्तवान् भगतसिंहः। "सौचिकः अपि भवतः मित्रम् वा ?" पृष्टवती माता । "सत्यं मातः ! अस्मिन् ग्रामे सर्वे अपि मम मित्राणि एव" इति उक्तवान् भगतसिंहः। एवं बाल्ये सर्वेषां मनोहारकः चतुरः भगतसिंहः वर्धते स्म ।

सिंहनादः

[सम्पादयतु]

भगतसिंहस्य कनिष्ठपितृव्यौ आस्ताम् । तयोः स्वरणसिंहम् आङ्ग्लेयाः द्वितीयपर्यायार्थं कारगारं प्रेषितवन्तः । कारागारजीवनं दुर्भरम् आसीत् । अतः स्वरणसिंहः रोगग्रस्तः अभवत् । कारागारतः विमोचनानन्तरमपि तस्य स्वास्थ्यं सम्यक् नाऽभवत् । कतिपयदिनेषु सः दिवङ्गतः । द्वितीयः कनिष्ठपितृव्यः अजितसिंहः कारागारात् विमोचनानन्तरं विदेशं गतवान् । भगतसिंहस्य पितृव्ये स्वभर्तृभ्यां देशस्वातन्त्र्यार्थं कृतं तपः स्मरन्त्यौ बाधामनुभवतः स्म । एतद् दृष्ट्वा भगतसिंहः ते वदति स्म - "पितृव्ये ! रोदनं मास्तु । अहं ज्येष्ठो भूत्वा आङ्ग्लेयान् अस्माकं देशतः बहिष्कृत्य पितृव्यम् आनेष्यामि । आङ्ग्लेयानां कारणतः पितृव्यः रोगग्रस्तः भूत्वा मृतः खलु । तान् विरुध्द्य अहं प्रतीकारं साधयिष्यामि" इति । तस्य गम्भीरवचः श्रुत्वा पितृव्ये रोदनं त्यक्त्वा हसतः स्म । कञ्चित्कालं दुःखं विस्मरतः स्म ।

भगतसिंहः यदा चतुर्थकक्ष्यायां पठन् आसीत् तदा सहच्छात्रान् पृष्टवान् - "ज्येष्ठाः भूत्वा भवन्तः कीदृशाः भवितुम् इच्छन्ति ?" इति । एकैकः एकैकविधं समाधानं दत्तवान् । 'अहं वैद्यः भविष्यामि’ इति कश्चित् , 'अहं सर्वकारे उन्नतोद्योगी भविष्यामि’ इति अपरः, 'अहं वाणिज्यं करिष्यामि’ इति कश्चित्, अन्यः 'अहं ज्येष्ठो भूत्वा विवाहं करिष्यामि’ इति च उक्तवन्तः । तदा भगतसिंहः 'विवाहः कोऽपि विशिष्टविषयो वा ? अहं तु ज्येष्ठो भूत्वा आङ्ग्लेयान् अस्माकं देशात् बहिष्करिष्यामि’ इति उक्तवान् ।

एवं बाल्यतः एव भगतसिंहस्य नाडीषु देशभक्तिभावः प्रवहन् आसीत् । माध्यमिकशिक्षणसमाप्तिसमये सः स्वकुटुम्बस्थानां क्रान्तिकारिणां सर्वमपि वृत्तान्तं सम्पादितवान् । गृहे एव तेषां वीरपुरुषाणां कथाः पठितवान् । तस्य फलस्वरूपेण देशस्वातन्त्र्यार्थं सङ्घर्षः करणीयः इति इच्छा तस्मिन् बलवती जाता । भगतसिंहः प्राथमिकशिक्षणं बङ्गाग्रामे समापितवान् । माध्यमिकशिक्षणार्थं लाहोर् गतवान् । पिता किषन्सिंहः पाश्चात्यपद्धत्या चाल्यमानासु पाठशालासु पुत्रं प्रवेशयितुं नैच्छत् । अत भगतसिंहः एकस्मिन् साधारणविद्यालये विद्याभ्यासं कृतवान् । भगतसिंहः ग्रामीणबालकः । अतः स्वपुत्रः विद्याभ्यासे मन्दः न भवेदिति पिता पुत्रं गृहे अध्यापयितुम् अध्यापकं नियुक्तवान् । किन्तु दिनद्वये एव सः अध्यापकः भगतसिंहस्य बुद्धिकुशलतां ज्ञातवान् । 'एतं बालकं अहं किं वा पाठयामि ? सः पूर्वमेव सर्वं पठितवान्' इति अध्यापकः किषनसिंहम् उक्त्वा गतवान् ।

भगतसिंहः सम्पूर्णोत्साहेन, श्रद्धया च पठितवान् । तस्य बुद्धिकुशलतां दृष्ट्वा अध्यापकाः अपि आश्चर्यमनुभवन्ति स्म । इतिहासः, भूगोलविज्ञानम्, अङ्कगणितम् इत्यादिषु सः उत्तमान् अङ्कान् प्राप्नोति स्म । आङ्ग्ले तु न्यूनान् एव अङ्कान् प्राप्त्नोति स्म । आङ्ग्लेयान् सर्वदा निन्दतीति कारणतः एवं सहजतया एवं भवति स्म । स्वपितामहं प्रति लिखिते पत्रे 'आङ्ग्ले न्यूनाः आङ्काः आगताः’ इति लेखनं तस्मै अधिकं रोचते स्म । "परीक्षायाम् उत्तीर्णताप्राप्त्यर्थं पञ्चाशद् अङ्काः एव पर्याप्ताः । किन्तु मम पञ्चाशदुत्तर- एकशताङ्कानां कृते अष्टषष्ठिः अङ्काः आगताः । इत्युक्ते अधिकं पठितवानित्यर्थः" इति चाटुवचनानि वदति स्म ।

१९१९तमे वत्सरे देशे एकं विषादकरी घटना प्रवृत्ता । सा आसीत् जलियनवालाबाग्-दुष्कृत्यम् । जलियन्वालाबागे समाविष्टे प्रजासमूहे आङ्ग्लसैनिकाः सूचनां विना गोलकास्त्राणि प्रयुक्तवन्तः । जनैः तस्मात् प्रदेशात् बहिर्गन्तुम् एकः एव मार्गः आसीत् । सैनिकानां गोलकैः आबालवृद्धाः अनेके अमराः जाताः । रक्तं नदीवत् प्रावहत् । एतेन आन्दोलनेन देशजनानां हृदयेषु कोपः, उद्रेकः च हठात् उज्ज्वालितः ।

जलियन्वालाबाग्मध्ये सञ्जातः नरसंहारः सम्पूर्णविश्वस्य दृष्टिम् आकर्षयत् । तदा भगतसिंहस्य द्वादशवर्षाणि । एतया घटनया सः अघिकां मनोव्याकुलतां प्राप्तवान् । गृहम् आगत्य जलियनवालाबाग् दुष्कृत्यं यत्र अभवत् तत्स्थानं गतवान् । रक्षणार्थं स्थितानाम् आरक्षकाणां मध्यतः अन्तः प्रविष्टवान् । तत्र मृतानां रक्तेन सिक्तां मृत्तिकाम् एकस्यां कूप्यां स्वीकृत्य गृहं गतवान् । अनन्तरं तां कूपीम् एकत्र स्थापयित्वा पुष्पाणि समर्प्य पूजां कृतवान् । जलियन्वालाबागमध्ये समाविष्टाः सर्वे निरायुधाः आसन् । ततः निर्गन्तुम् अन्यः मार्गोऽपि नासीत् । शान्तियुतान् जनान् उद्दिश्य आङ्ग्लेयसैनिकाः गोलकानि प्रयुक्त्वन्तः । एवं भगतसिंहस्य मनसि चिन्तनतरङ्गाः उच्चलन्ति स्म । ज्येष्ठो भूत्वा मया आङ्ग्लेयाः देशतः बहिष्करणीयाः एवेति भावना इतोऽपि दृढा जाता ।

तेषु दिनेषु भारतराष्ट्रियकाङ्ग्रेससंस्था देशस्वातन्त्र्यार्थं सङ्घर्षं कुर्वती आसीत् । तस्य सङ्घर्षस्य कारणतः देशजनेषु देशभक्तिः जागरिता । अतः देशे एकताभावना समुत्पन्ना आसीत् । नवमकक्षायां प्रवेशात् पूर्वमेव भगतसिंहः स्वमनसि एकं निर्णयं कृतवान् । देशस्वातन्त्र्यार्थं क्रियमाणे सङ्घर्षे मयाऽपि भागः स्वीकरणीय इति । तदा तस्य वयः केवलं त्रयोदशवर्षाणि । भगतसिंहः स्वाभिप्रायं पितरि निवेद्य तस्य अनुमतिं प्रार्थितवान् । स्वयं क्रान्तिकारी किषनसिंहः सन्तोषेण सहमतिं दर्शितवान् । भगतसिंहः विद्याभ्यासं त्यक्त्वा राष्ट्रियोद्यमं प्रविष्टवान् । तेषु दिनेषु विदेशीयवस्त्राणां परित्यागार्थं महद् आन्दोलनं जातम् । विदेशीयवस्त्राणि क्रीणीमः चेत् विदेशस्य लाभः भवति । अतः स्वदेशीयवस्त्राण्येव धारणीयानि, विदेशीयवस्त्राणि ज्वालनीयानि इति च नायकाः जनान् उद्दिश्य पन्थाह्वानं कृतवन्तः । भगतसिंहः अस्मिन् आन्दोलने अत्यन्तोत्साहेन भागं स्वीकृतवान् । बाल्यतः अपि भगतसिंहः खादीवस्त्रमेव धरति स्म । अतः सहजतया सः अत्यन्तम् उत्साहं प्रदर्शितवान् । प्रतिसप्ताहम् एकं दिनं विदेशीयवस्त्राणि स्ङ्गृह्य ज्वालयति स्म ।

देशकार्ये प्रथमचिह्नम्

[सम्पादयतु]

ईशवीये १९२२तमे वर्षे गोरखपुरजनपदे चौरीचौराग्रामे काङ्ग्रेस्-संस्था एकां शोभायात्राम् आयोजितवती । तदा एव केचन क्रान्तिकारिणः आरक्षकान् एकस्मिन् गृहे बद्ध्वा दग्धवन्तः । ततः पूर्वं मुम्बयी,मद्रास् प्रान्तेष्वपि एतादृशाः हिंसात्मकघटनाः प्रवृत्ताः । गान्धीमहोदयः एताभिः घटनाभिः चिन्ताग्रस्तः अभवत् । साहाय्यनिराकरणान्दोलनं स्थगयितुं जनान् आदिष्टवान् । आन्दोलनस्य स्थगनेन भगतसिंहस्य निराशा जाता । तदा तस्य वयः पञ्चदशवर्षाणि । "केवलं केषाञ्चन आरक्षकाणां मरणेन एतादृशं महदान्दोलनं त्यक्तव्यम् वा ? इतः पूर्वं केभ्यश्चन दिनेभ्यः पूवं क्रान्तिकारिणं करतारसिंहम् आङ्ग्लेयाः मरणदण्डनेन अपीडयन् । तदा केऽपि अहिंसावादिनः तत् न खण्डितवन्तः । इदानीं हठात् अहिंसा एवं प्राधान्यं कथं प्राप्तवती?" इत्येतादृशाः विचाराः अहिंसाविषये, सहायनिराकरणान्दोलनविषये च भगतसिंहस्य निष्ठां नाशितवन्तः । देशेन स्वातन्त्र्यं प्राप्तव्यं चेत् सायुधसङ्घर्षः एव समीचीनः मार्ग इति दृढं विश्वस्य अग्रे गतवान् सः ।

आइर्लण्ड्,इटली, रष्या, देशीयानां क्रान्तिकारिणां जीवनानि तेन सम्यक् अधीतानि । तेषां विषये यथा यथा ज्ञातवान् तथा स्वातन्त्र्यसमुपार्जनाय सायुधसङ्घर्षः एव शरणम् इति भावना तस्य मनसि दृढा जाता । देशे नवयुवकान् क्रान्तिमार्गं प्रति आक्रष्टुं योग्या प्रेरणा दातव्या इति भगतसिंहः चिन्तितवान् । अतः युवकानां सङ्घटनाय प्रयत्नम् आरब्धवान् । स्वप्रयत्नानां साकारीकरणाय भगतसिंहः राष्ट्रियमहाविद्यालयं प्रविष्टावान् । लालालजपतरायसदृशाः देशभक्ताः तं महाविद्यालयं प्रतिष्ठापितवन्तः आसन् । कानिचन वर्षाणि यावत् विद्याभ्यासं त्यक्तवतः तस्य सामाजिक-राजनैतिकपरिणामानां विषये विद्यमानाम् अवगाहनां दृष्ट्वा निर्वाहकाः आश्चर्यान्विताः भूत्वा अनुक्षणं तस्य प्रवेशम् अङ्गीकृतवन्तः । भगतसिंहः कक्ष्यायाम् उपविश्य अध्यापकैः बोधितं सर्वं श्रद्धया शृणोति स्म । सायं युवकान् एकत्र कृत्वा आगामिकार्यक्रमाणां विषये चर्चां करोति स्म । एषा तस्य दिनचर्या अभवत् । कलाशालायां भगतसिंहः अनेकेषु नाटकेषु भागं गृहीतवान् । राणाप्रतापः,सम्राट् चन्द्रगुप्तः, भारतदुर्दशा इत्यादिनाटकेषु प्रधानपात्रं सः स्वीकृतवान् । तेषां पात्राणां पोषणे भगतसिंहस्य अभिनयं दृष्ट्वा कश्चन अध्यापकः "एषः अवश्यम् महापुरुषो भविष्यति" इति व्याख्यातवान् ।

भगत्सिंहस्य ब्रह्मचर्यम्

[सम्पादयतु]

भगतसिंहः केवलं पुस्तकाध्ययनं यावत् आत्मानं सीमितं न कृतवान् । क्रान्तिकारिणां विषये पठनेन क्रान्तिकरान्दोलनेषु भागः स्वीकरणीयः इति उत्साहः तस्मिन् वर्धते स्म । तेषु दिनेषु वङ्गभूमिः क्रान्तिकारिणां प्रधानकेन्द्रम् आसीत् । भगतसिंहः क्रान्तिकारिणां दृष्टिम् आकृष्टवान् । वङ्गप्रान्तीयैः क्रान्तिकारिभिः सह सः सम्बन्धम् उपस्थापितवान् । तदानीन्तन-क्रान्तिकारिणां नायकःशचीन्द्रनाथसन्यालः "विप्लवोद्यमे भागग्रहीतारः युवकाः गृहं त्यक्त्वा आगच्छेयुः" इति नियमं कृतवान् । भगतसिंहः तं नियमम् अङ्गीकृतवान् । गृहे तस्य पितामही तं विवाहविषये पीडयन्ती आसीत् । तस्य निमित्तं तया काचित् वधूः अपि दृष्टा आसीत् । निश्चयकार्यक्रमार्थं सा एकां तिथिमपि निश्चितवती । तद् दिनं समीपे एवासीत् । तस्मिन् दिने एव विप्लवसंस्थायाः अध्यक्षः भगतसिंहम् आहूतवान् । भगतसिंहः लाहोर् गतवान् । सः कुत्र गतवानिति केऽपि न जानन्ति स्म । गृहत्यागसमये सः एकं पत्रं लिखित्वा स्थपितवान् । "मम जीवनलक्ष्यं भारतदेशस्वातन्त्र्यार्थं सङ्घर्षः करणीयः इति । संसारसुखेषु मम इच्छा नास्ति । मम उपनयनसन्दर्भे मया काचित् प्रतिज्ञा कृता आसीत् । 'अहं देशार्थम् आत्मार्पणं करोमि' इति । तदनुगुणम् अहं स्वसुखानि परित्यज्य देशसेवार्थं गृहं त्यक्त्वा गच्छन्नस्मि " इति । ततः कानपुरं प्राप्तवान् । आरम्भे कानिचन दिनानि वार्तापत्रिकाः विक्रीय यापितवान् । अनन्तरं गणेश-शङ्करविद्यार्थी इति नामकेन क्रान्तिकारिणा सह तस्य परिचयः अभवत् । तेन चाल्यमाने 'प्रताप' दिनपत्रिकाकार्यालये तस्य आवासव्यवस्था अभवत् । क्रान्तिकारिणां योग्यं प्रशिक्षणं ततः एव आरब्धम् । क्रान्तिकारिणः स्वनामानि परिवर्तयन्ति स्म । भगतसिंहः बलवन्तसिंहः अभवत् ।

गृहे भगतसिंहस्य पितरौ दुःखसागरे निमग्नौ । स्वपुत्रस्य विषये चिन्ता जाता । भगतसिंहस्य पितामही अस्वस्था जाता । सा पौत्रं द्रष्टुमिच्छति स्म । अतः एकस्मिन् दिने सर्वे मिलित्वा भगतसिंहं गृहमानीतवन्तः । गृहे स्थित्वाऽपि भगतसिंहः तूष्णीं न आसीत् ।

तदा एव अकालीदलेन काचित् शोभायात्रा करणीया इति निश्चितम् । किन्तु जनपदाधिकारी (कलक्टर्) नाङ्गीकृतवान् । सः भगतसिंहस्य निकटबन्धुरेव । तथापि सर्वकारीयाधिकारी इत्यतः क्रान्तिकारिणः तस्मै न रोचन्ते स्म । अतः सः अकालीदलसदस्यानां कृते भोजनं न दातव्यमिति आदिष्टवान् । भगतसिंहः स्वग्रामम् आगच्छताम् अकालीदलसदस्यानां साहाय्यं करणीयमिति चिन्तितवान् । ग्रामीणान् सर्वान् मेलयित्वा रात्रौ रहसि अकालीदलसदस्येभ्यः भोजनं प्रापयितुं व्यवस्थां कृतवान् । एवम् एकसप्ताहः अभवत् । अकालीदलकार्यक्रमः निरातङ्कं प्रचलन्नासीत् । सफलोऽपि अभवत् । दिवा ग्रामे देशस्वातन्त्र्यविषये चर्चा भवति स्म । एतस्मिन् विषये जनानां कर्तव्यं बोध्यते स्म । भगतसिंहः अपि भाषणं करोति स्म ।

जनपदाधिकारी स्वादेशं विरुध्य जनाः अकालीदलं समर्थितवन्तः, तस्य कारणं भगतसिंहः इति च ज्ञात्वा तं बन्धुम् आदिष्टावान् । तदा भगतसिंहस्य सप्तदशवर्षणि । सः बालः इति ज्ञात्वा तस्य बन्धनाज्ञा निरस्ता अभवत् । अतः जनपदाधिकारी क्रोधेन तप्तः ।

बन्धनम्, विमुक्तिश्च

[सम्पादयतु]

भगतसिंहे उत्साहः उच्चलति स्म । स्वकार्यं साधयितुं स्वग्रामः लघुः अस्ति इति भावना तस्मिन् आगता । अतः सः लाहोर् गतवान् । तत्र 'नवजवान् भारत् सभा’ इति क्रान्तिकारिणां संस्था काचित् आसीत् । भगतसिंहः तस्याः संस्थायाः कार्यदर्शी अभवत् । वङ्गदेशीयक्रान्तिकारिसंस्था इव एषा संस्था अपि पञ्जाबजनेभ्यः क्रान्तिपाठान् बोधयन्ती आसीत् । 'शक्तिमन्तः युवकाः निर्मातव्याः', 'भारतीयसंस्कृतेः प्रचारः करणीयः' इत्यादीनि तस्याः संस्थायाः लक्ष्यानि । प्रधानलक्ष्यं तु देशस्वातन्त्र्यार्थं क्रान्तिकारककार्याणां निर्वहणम् आसीत् ।

अत्यल्पकाले एव एतस्याः संस्थायाः शाखाः अन्यप्रान्तेष्वपि विस्तृताः । महापुरुषाणां क्रान्तिकारिणां जन्मदिनाचरणम् एतस्याः संस्थायाः कार्यकलापेषु प्रमुखमासीत् । सभायाः सदस्याः महापुरुषाणां चित्रपटान् सुन्दरतया अलङ्कृत्य शोभायात्रां कुर्वन्ति स्म। स्वहस्तस्य अङ्गुष्ठं छित्त्वा तेन रक्तेन चित्रपटान् वीरतिलकेन अलङ्कुर्वन्ति स्म । तान् महापुरुषानुद्दिश्य भाषणं प्रचलति स्म । तेषु दिनेषु सार्वजनिकसभासु भाषणे भगतसिंहस्य सम्यक् अभ्यासः अभवत् । कलाशालाछात्रसङ्घैः तस्य सम्बन्धः आसीत् । अतः क्रान्तिसन्देशं सः चतसृषु दिक्षु श्रावयति स्म । क्रमशः आरक्षकाणां दृष्टौ अपि सः पतितः । भगतसिंहस्य कार्यकलापेषु गूढचारविभागः निशितपरिशीलनं करोति स्म । एकस्मिन् दिने अमृतसरे रेलनिस्थानतः बहिः यदा आगछन् आसीत् तदा गूढचारिणः तम् अनुसृतवन्तः । भगतसिंहः धावितवान् । तथापि सः यत्र भवति तत्र ते प्रत्यक्षाः भवन्ति स्म । अन्ते कथञ्चित् कष्टेन एकस्य न्यायवादिनः गृहं प्रविश्य बन्धनात् च्युतः । अनन्तरं रहसि लाहोरं गतवान् । किन्तु लाहोरे रेलस्थानके एव आरक्षकाः तं अबध्नन् । लाहोरे (पोर्ट्) नौकाश्रयकारागारे तं स्थापितवन्तः । 'किमर्थं बन्धनम् अभवत्?’ इति सः न ज्ञातवान् । कतिपयदिनेभ्यः पूर्वं दशहरा-शोभायात्रासन्दर्भे कश्चन विस्फोटकं क्षिप्तवान् आसीत् । तेन केचन मृताः आसन्। अस्मिन् विषये क्रान्तिकारिणां हस्तक्षेपः अस्तीति आरक्षकाः सन्देहं प्राप्तवन्तः । अतः भागतसिंहं अबध्नन् आसन् ।

अन्यक्रान्तिकारिणां वृत्तान्तं प्राप्तुम् आरक्षकाः भगतसिंहम् अनेकधा पीडितवन्तः । कशाभिः ताडनं, भल्लैः गूहनं इत्यादिकम्... । किन्तु भगतसिंहः मुखं न उद्घाटितवान् । तस्मात् आरक्षकाः कामपि गूढवार्तां प्राप्तुं नाशक्नुवन् । अन्ते 'दशसहस्ररूप्यकाणि दण्डरूपेण यदि ददाति तर्हि विमोचनं कुर्वन्तु’ इति न्यायाधिकारी उक्तवान् । किन्तु एवं दातुं के अग्रे आगच्छन्ति ? भगतसिंहे अकुण्ठितानुरागकारणतः द्वौ धनिकौ एतदर्थं सिद्धौ अभवताम् । तौ दुनीचन्द-दौलतरामौ । तयोः रक्षकत्वे भगतसिंहः विमुक्तः ।

तस्मिन् समये भगतसिंहः तूष्णीं स्थातुमैच्छत् । तदा भगतसिंहस्य पिता काश्चन गाः क्रीत्वा तासां पालनदायित्वं भगतसिंहाय समर्पितवान् । गोशालाकार्ये आदिनं निमग्नो भवति स्म भगतसिंहः । सर्वाणि कार्याणि यथाक्रमं करोति स्म सः । किन्तु रात्रौ तस्मिन् क्रान्तिकार्याणाम् विचारः विजृम्भन्ते स्म । तेषु दिनेष्वेव 'कीर्तिः’ 'अकाली’ इति समाचारपत्रिकाद्वयेन सह तेन सम्बन्धः स्थापितः । तयोः निमित्तं लेखान् लिखन्नासीत् सः । तयोः एका पत्रिका देशार्थम् आत्मसमर्पणं कृतवताम् अमरवीराणां स्मृतौ गौरवसूचिकाम् एकां विशेषसञ्चिकां मुद्रितवती । तत्र भगतसिंहः केषाञ्चन क्रान्तिकारिणां विषये लेखनं लिखितवान् । दशहरा शोभायात्रायां विस्फोटकक्षेपणम् अधिकृत्य कृतः अभियोगः न्यायालये परिशीलनार्थम् आगतः । तत्र भगतसिंहः निर्दोषी इति विमोचनं प्राप्तवान् । धनिकयोः रक्षणतः अपि सः विमुक्तः । पुनः क्रान्तिकार्येषु निमग्नः अभवत् । देहल्यां १९२८ तमे वर्षे जाते क्रान्तिकारिणां समावेशे भागं गृहीतवान् । ततः पुनः गृहं नागतवान् ।

देहस्य ा नवयुवकस्य क्रान्तिकारि-चन्द्रशेखर-आजादस्य परिचयः अभवत् । अग्नेः वायुसाहाय्यमिव तयोः मैत्री जाता । क्रान्तिकारिणां कार्यकलापाः इतोऽपि अवर्धन्त । तेषु एका नूतना शक्तिः आगता । आरक्षकाः यथा न जानीयुः तथा भगतसिंहः स्वस्य श्मश्रु अपाकृत्य शिरसि केशान् न्यूनीकृतवान् । एतावत्पर्यन्तं सः सिक्खवीरः इव दृश्यते स्म । इदानीं देशस्य वीरपुरुषः । तेषु दिनेषु 'हिन्दुस्थान-प्रजातन्त्रसङ्घम्’ इति एका क्रान्तिकारिसंस्था आसीत् । तस्य नाम 'हिन्दुस्थान-समाजवादि-प्रजातन्त्र-सङ्घम्’ इति रूपेण परिवर्तितम् । सायुधसङ्ग्रामेण भारते प्रजातन्त्रस्थापनं तस्य लक्ष्यम् ।

कुत्रापि विस्फोटकं स्फुटति चेत् समीपस्थं सर्वं वस्तु नश्यति । आङ्ग्लजनान् बहिष्कर्तुं कर्तुं क्रान्तिकारिणां कृते अनेकानि विस्फोटकानि आवश्यकानि । किन्तु तावन्ति कुत्र लभ्यन्ते ? विस्फोटाकनिर्माणार्थं भगतसिंहः कोलकत्तानगरं गतवान् । आवश्यकतानुसारं विस्फोटकानि क्रीतवान् । प्रसिद्धक्रान्तिकारिणः जतीन्द्रनाथदासात् विस्फोटकनिर्माणं ज्ञातवान् ।

१९२८ तमे वर्षे फेब्रवरिमासे आङ्ग्लदेशतः सैमन्कमीषन् इति नामकः कश्चन आयोगः आगतः । 'भारतीयानां कृते कियता प्रमाणेन स्वातन्त्र्यं दातुं शक्यते ? कदा अधिकारः दातुं शक्यः ?’ इति निर्णयं कर्तुं सः आयोगः विरचितः आसीत् । किन्तु भारतीयाः केऽपि तत्र सदस्याः नासन् । अतः सहजतया देशजनाः आयोगस्य विरोधं प्रकटितवन्तः । आयोगेन कार्यं न करणीयम् । सः आयोगः पुनः आङ्ग्लदेशं प्रतिगच्छेत्, तदर्थम् एकम् आन्दोलनं करणीयम् इति चिन्तितवन्तः । अक्टोबरमासे यदा सैमन्-आयोगः लाहोरं प्रति आगतः तदा तत्र सहस्रशः जनाः भागं गृहीतवन्तः । एतस्य समूहस्य नायकः उत्तमदेशभक्तः लालालजपतरायः । रेलनिस्थानकतः एव आयोगेन विरोधः अनुभूतः । अग्रे गमनाय सैमन्-आयोगाय अवसरः न प्रदत्तः । आरक्षकाः आयोगसदस्यान् रक्षितुं नाशक्नुवन् । तदा स्काट् इति आङ्ग्लेयः आरक्षकाधिकारी दण्डप्रहाराय आदेशं दत्तवान् । आरक्षकाः दण्डैः जनान् ताडयितुम् आरब्धवन्तः । तथापि लजपतरायः तस्य अनुयायिनश्च ततः न निर्गताः । तदा साण्डर्स् नामकः आरक्षकाधिकारी वेगेन आगत्य लजपतरायस्य वक्षःस्थले दण्डैः ताडितवान् । वृद्धः अस्वस्थः लजपतरायः तैः घातैः शय्यां प्राप्य एकमासाभ्यन्तरे दिवङ्गतः । तस्य मरणं क्रान्तिकारिषु महान्तम् आघातम् अजनयत् । तस्य मरणस्य प्रतीकारः करणीयः इति ते निश्चितवन्तः । तस्मिन् दिने दण्डप्रहाराय आदेशं दत्तवन्तं स्काट् इत्यमुं मारयितुं निश्चितवन्तः। तदर्थम् एकां प्रणालीं रचितवन्तः । स्काट् इत्यस्य चलनवलनं परिशीलयितुं जयगोपालनामकं क्रान्तिकारिणं नियुक्तवन्तः । भगतसिंहं, राजगुरुञ्च स्काटस्य मारणाय नियुक्तवन्तः । अन्ये सर्वेऽपि एतयोः कार्ये सहकुर्युः इति निश्चितवन्तः । चन्द्रशेखर् आजादस्य नेतृत्वे एषा प्रणाली रचिता आसीत् ।

किन्तु आरम्भे एव एकः दोषः जातः । जयगोपालः साण्डर्स् इत्यमुमेव स्काट् इति चिन्तयित्वा तस्य चलनवलनं परिशीलयन् आसीत् । पूर्वचिन्तितं दिनं सन्निहितम् एव । तस्मिन् दिने सायंसमये साण्डर्स् आरक्षकस्थानकतः बहिरागतवान् । यन्त्रद्विचक्रिकाम् आरुढवान् । भगतसिंहः, राजगुरुः च मार्गे प्रतीक्षमाणौ आस्ताम् । यानं यदा समीपमागतं तदा राजगुरुः स्वभुशुण्डिना गोलकास्त्राणि प्रयुक्तवान् । लजपतरायस्य वक्षः स्थले दण्डेन यः ताडितवान् आसीत् तस्य साण्डर्सस्य वक्षः स्थले गोलकं लग्नमिति कारणेन तत्रैव मृतः । भगतसिंह-राजगुरू धावितवन्तौ । आरक्षकाः अनुधावितवन्तः । समीपस्थं किञ्चित् उपाहारमन्दिरम् उभौ प्रविष्टौ । ततः निःशब्दं बहिः निर्गतौ । साण्डर्स् मृत इति वार्ता नगरे सर्वत्र प्रसृता । आरक्षकाः घातिनौ ग्रहीतुम् अन्वेषणम् आरब्धवन्तः । अनन्तरदिने भित्तिषु कानिचन भित्तिपत्राणि दृष्टानि सर्वैः । तेषु "लालालजपतरायस्य मरणस्य प्रतिशोधः कृतः" इति लिखितम् आसीत् । अधः 'हिन्दुस्थान-समाजवादि-प्रजातन्त्रसेना’ इति आसीत् । साण्डर्स् कैः मारितः इति सर्वैः ज्ञातम् । क्रान्तिकारिषु जनानां गौरवभावः अवर्धत ।

एतेन हननेन आङ्ग्लसर्वकारः कम्पितः । भगतसिंहः, राजगुरुः, चन्द्रशेखर-अजादश्च लाहोरं त्यक्तवन्तः । भगतसिंहः कस्यचित् विदेशीययुवकस्य वेषं धृत्वा शिरसि टोपिकां धॄतवान् । भगवतीचरण-नामकस्य क्रान्तिकारिणः धर्मपत्नी दुर्गादेवी भगतसिंहस्य पत्नीरूपेण, तस्याः पुत्रः भगतसिंहस्य पुत्ररूपेण च अभिनयन्तौ रेलयानम् आरुढवन्तौ । ते प्रथमश्रेण्यां प्रयाणं कृतवन्तः । राजगुरुः साधारणोद्योगिरूपेण लाहोरं त्यक्तवान् । चन्द्रशेखर-अजादः पण्डितस्य वेषं धृत्वा रेलयाने उपविष्टवान् । रेलस्थानकं सर्वं यद्यपि आरक्षकैः पूर्णम् आसीत् तथापि ते त्रयः आरक्षकाणां नयनेषु धूलिं क्षिप्त्वा सुरक्षितं बहिः निर्गतवन्तः । आरक्षकाणाम् अन्वेषणं प्रचलदेवासीत् । फलं तु शून्यमेव ।

एवं मासत्रयमतीतम् । १९२९ तमे वर्षे केन्द्रशासनसभायाः समावेशः देहल्याम् आयोजितः । समावेशे आङ्ग्लसर्वकारः प्रधानं प्रस्तावद्वयं सिद्धतुम् ऐच्छत् । तदुभयमपि अस्माकं देशस्य हानिकारकम् । शासनसभा यदि तौ तिरस्करोति, तथापि स्वीयविशेषाधिकारम् उपयुज्य सर्वकारः तत् प्रस्तावद्वयं सिद्धतुम् इच्छति स्म । हिन्दुस्थान-समाजवादि-प्रजातन्त्रदलेन एतयोः द्वयोः विरोद्धुं निर्णयः स्वीकृतः ।

साण्डर्सवधानन्तरं लाहोरे आरक्षकाः जनान् अधिकं पीडयन्ति स्म । एतं विरुध्य क्रान्तिकारिणः स्वच्छन्दं बद्धा भवेयुः इति समाजवादि-प्रजातन्त्रदलेन निश्चितम् । किन्तु जनैः स्वसन्देशः अपि प्रापणीयः खलु ? देहल्यां भविष्यमाणे समावेशे विस्फोट्कः क्षेप्तव्यः । स्वच्छन्दं बद्धाः भवेयुः इति च निश्चितम् । तदर्थं भगतसिंहः बटुकेश्वरश्च देहलीं प्रेषणीयौ इति च दलेन निश्चितम् । तदर्थं प्राणहानिं कर्तुम् असमर्थं विस्फोटकद्वयं निर्मितम् ।

१९२९ तमे एप्रिल् मासे अष्टमदिनाङ्के एतौ विस्फोटकद्वयं गृहीत्वा केन्द्रशासनसभां प्रविष्टवन्तौ । सन्दर्शकाणाम् उपवेशनस्थाने उपविष्टवन्तौ च । शासनसभासमावेशः आरब्धः । पूर्वचिन्तनानुसारं सर्वकारेण प्रस्तावद्वयं प्रस्तुतम् । सदस्याः नाङ्गीकृतवन्तः । अन्तिमसमये कश्चित् सर्वकारप्रतिनिधिः उत्थाय 'सर्वकारः स्वीयविशेषाधिकारमुपयुज्य प्रस्तावद्वयं पारितम् अकरोत्' इति प्रकटितवान् । तदा एव उपरिष्टात् विस्फोटकं कश्चित् क्षिप्तवान् । अपरक्षणे एव अन्यविस्फोटकस्य क्षेपः जातः । शासनसभाङ्गणं धूमेन आच्छादितम् । सर्वे इतस्ततः धावन्ति स्म । सन्दर्शकाणाम् उपवेशनस्थानात् रक्तवर्णीयानि करपत्राणि विकीर्णानि ।

सर्वकारं निन्दन् प्रजातन्त्रसेनाम् अधिकृत्य तत्र लिखितम् आसीत् "क्रान्तिः वर्धताम्" इति । घोषैः शासनसभाङ्गणं प्रतिध्वनितम् । यत्र एतत् सर्वं जातं तत्र आरक्षकाः धावितवन्तः । तत्र भगतसिंह-बटुकेश्वरदत्तौ एव आस्ताम् । द्वयोः हस्तयोः भुशुण्डिद्वयम् आसीत् । भीत्या आरक्षकाः परिवृत्ताः । किन्तु तौ आयुधानि समर्प्य हस्तयोः निगडान् अङ्गीकृतवन्तौ । शासनसभाङ्गणे स्फुटितेन विस्फोट्कद्वयेन केऽपि न मृताः । पञ्चषाणां लघवः आघाताः अभवन् । कस्यापि हननं क्रान्तिकारिणां लक्ष्यं नासीत् । एषा सङ्घटना विश्वम् आकर्षयत् । क्रान्तिकारिणां ख्यातिः सर्वत्र प्रसृता । सर्वकारः पुनः कम्पितः अभवत् ।

एतस्याः घटनायाः अनन्तरं लाहोरे विस्फोटकनिर्माणस्थानं सर्वकारेण गूढचाराणां द्वारा ज्ञातम् । प्रायः सप्तसहस्रविस्फोटकानां निर्माणाय आवश्यकं रसायनं तत्र आरक्षकैः प्राप्तम् । शहरानपुरे अन्यत् विस्फोटकनिर्माणकेन्द्रम् अस्ति इति ज्ञातम् । कतिपयदिनानामनन्तरं केषाञ्चन दलाधिकारिणां बन्धनम् अभवत् । सर्वकारेण तानुद्दिश्य अनेके अभियोगाः आरचिताः। भगतसिंहः तस्य अनुयायिनश्च लाहोरकारागारे बद्धाः ।

भगतसिंहस्य अन्तिमदिनानि

[सम्पादयतु]

दोषिणां विषये न्यायालये वादप्रतिवादमारब्धम् । तेषु दिनेषु राजनैतिककारणैः बद्धानां विषये अधिकारिणः सम्यक् न व्यवहरन्ति स्म । तेभ्यः उत्तमं भोजनं न ददाति स्म । तान् अनेकधा पीडयन्ति स्म । भगतसिंहः, तस्य अनुचराश्च तादृशलज्जास्पदानां कार्याणां विषये सङ्घर्षं कर्तुं निश्चितवन्तः । भगतसिंहः स्वस्य हानिः भवति चेदपि सहचारिणाम् उपयोगः भवेदिति चिन्तितवान् । कारावासिनः सर्वेऽपि एकं दिनं यावत् उपवासम् आचरितवन्तः । तेषाम् अपेक्षाः परिशील्यन्ते इति सर्वकारेण प्रतिज्ञातम् । केचन उपवासदीक्षातः विरताः । किन्तु जतीनदासनामकः क्रान्तिकारी दीक्षातः न विरतवान् । सः कस्यापि वचनं न श्रुतवान् । चतुषष्टिदिनेभ्यः अनन्तरं सः मृतः । तस्य मरणानन्तरं भगतसिंहः द्वात्रिंशद्दिनानि यावत् उपवासम् आचरितवान् ।

भगतसिंह-राजगुरु-सुखदेवानां स्मरणाय हुसैनिवालायां निर्मितं राष्ट्रियक्रान्तिकारिस्मारकम्

भगतसिंहस्य, तस्य अनुचराणां च विषये न्यायविचारणम् आरब्धम् । तत् समग्रं विश्वम् आकर्षत् । न्यायालयं परितः आरक्षकाणां समूहाः आसन् । न्यायालये कस्याऽपि प्रवेशः नासीत् । निगडैः बद्धाः कारावासिनः आनीयन्ते स्म । ते तु 'क्रान्तिः अमरा भवेत्’ इति घोषणं कुर्वन्ति स्म । अनन्तरमेव न्यायालयं प्रविशन्ति स्म । भगतसिंहस्य बटुकेश्वरदत्तस्य च विवरणम् एवम् आसीत् -"बधिरेण श्रोतव्यं चेत् उच्चैः वक्तव्यम् भवति । कमपि हन्तुं वयं विस्फोटकं न क्षिप्तवन्तः । अस्माकं प्रतिक्रिया आङ्ग्लसर्वकारमुद्दिश्य । आङ्ग्लेयाः भारतं त्यक्त्वा गच्छेयुः । अस्माकं देशः स्वतन्त्रः भवेत्" इति । भगतसिंहः स्वसंस्थायाः उद्देश्यमपि विवृतवान् । विश्वे सर्वत्र वार्तापत्रिकाभिः तत् प्रकाशितम् । अन्ते न्यायालयेन निर्णयः श्रावितः । भगतसिंह-सुखदेव-राजगुरुणां कण्ठपाशदण्डः विहितः । केषाञ्चन आजीवनकारावासदण्डः, केषाञ्चन पञ्चवर्षीयाणां दण्डः, केषाञ्चन सप्तवर्षाणां दण्डश्च विहितः ।

भगतसिंहस्य कण्ठपाशदण्डः विहितः इति देशे सर्वत्र ज्ञातम् । जना क्रोधाविष्टाः जाताः । भगतसिंहाय कण्ठपाशदण्डः न देयः इति सर्वकारं प्रति अनेकाः विज्ञप्तयः आगताः । अनेन प्रमुखनायकाः अपि एतानि विज्ञापनानि समर्थितवन्तः । किन्तु सर्वे प्रयत्नाः विफलाः जाताः ।

१९३१ तमे वर्षे मार्चमासस्य २४ दिनाङ्के तेषां त्रयाणां कण्ठपाशदण्डः अनुष्ठेयः इति निर्णयः अभवत् । तैः सह मेलनार्थं तेषां कुटुम्बसदस्यानां कृतेऽपि अनुमतिः न दत्ता । तान् त्रीन् वीरान् भगतसिंह-राजगुरु-सुखदेवान् पूर्वनिर्णीतदिनाङ्कात् पूर्वेद्युः एव तन्नाम मार्च २३ दिनाङ्के सर्वकारः कण्ठपाशेन मारितवान् । कण्ठपाशदण्डानुष्ठानसमयेऽपि ते त्रयः क्रान्तिकारिणः निर्भयम् आसन् । प्रसन्नमनस्काः आसन् । 'दण्डः प्रथमं ममैव भवेत्’ इति स्पर्घां कृतवन्तश्च । प्रथमं सुखदेवस्य, अनन्तरं भगतसिंह्स्य, अन्ते राजगुरोश्च दण्डः दातव्यः इति आधिकारिभिः निश्चितम् । ते दण्डस्थानम् आरुढवन्तः पाशान् चुम्बितवन्तः । स्वयं रज्जूः कण्ठेषु योजितवन्तः । 'भारतमातुः जयोऽस्तु’ इति घोषयन्तः ते त्रयः अमराः जाताः ।

तस्मिन् दिने कारावासे कोऽपि भोजनं न कृतवान् । सर्वेषां नयनेषु अश्रूणि प्रसृतानि । एकदिनपूर्वमेव मारिताः इति विषयम् अजानन्तः क्रान्तिकारिणां कुटुम्बसदस्याः अनन्तरदिने तैः मेलितुम् आगतवन्तः । किन्तु ते अमरवीराः कुत्र...? सर्वकारः तेषां पार्थिवशरीराणाम् अन्त्यक्रियाः सट्लेज्नद्याः तटे रहसि कारितवान् । एतं विषयं ज्ञात्वा सहस्रशः जनाः तत् स्थानं प्राप्तवन्तः । तदा तत्र त्रयाणां वीराणां अस्थीनि केवलम् अवशिष्टानि आसन् । तान्येव स्वीकृत्य सर्वे शोकतप्ताः रुदितवन्तः । स्वातन्त्र्यसमरे वीरोचितं युध्यन्तः स्वजीवनम् अर्पितवतां तेषां वीराणां कृते समग्रे देशे श्रद्धाञ्जलिः समर्पितः । भगतसिंहस्य आत्मार्पणविषये बहवः गीतानि विरचय्य गीतवन्तः । इदानीमपि भगतसिंहस्य आत्मा एतस्य देशस्य युवकानां हृदयेषु त्यागः, आत्मार्पणम् इत्यादिभावनाः प्रदीप्ताः करोत्येव । इदानीमपि तस्य साहसम्, असामान्ये कार्याचरणे निष्ठा, अकुण्ठितदेशभक्तिश्च सर्वान् प्रेरयन्त्येव । जय हिन्दुभूमे !

बाह्यशृङ्खलाः

[सम्पादयतु]
"https://sa.wikipedia.org/w/index.php?title=भगत_सिंह&oldid=481694" इत्यस्माद् प्रतिप्राप्तम्