चेन्नै

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कपालेश्वरदेवालयः, मैलापुर्

चेन्नै (சென்னை) तमिलनाडु राज्यस्‍य राजधानी अस्‍ति। चैन्नैनगरं (तस्य पूर्वनाम मदरास्) भारते स्थितेषु महानगरेषु अन्यतममस्ति। अत्र स्थित्वा दर्शनीयानि स्थानानि बहूनि सन्ति।

विजिपि युनिवर्सल् किङ्गडम्[सम्पादयतु]

एतत् सागरतीरस्थं विहारधाम अस्ति। विनोदाय विहाराय च अत्र ‘बीचरेसार्ट’ अस्ति एम्यूसमेण्ट् उद्यानमस्ति। वसत्यर्थम् ६५ कुटीराः सन्ति कुटुम्बस्य सर्वे जनाः आगत्य अत्र विरोमदिनेषु सन्तोषम् अनुभवितुम् उत्तमं स्थानमेतत्। मार्गः –चैन्नैतः २९ कि.मी मामल्लपुरम् मार्गः।....

एम् ए सि क्रिकेट्-क्रीडाङ्गणम्

एम. जि. एम. डि.जि. वर्ल्ड्[सम्पादयतु]

एतत् मुत्तकाडु इति प्रसिद्धं विश्रामस्थानमस्ति। बालानां वयस्कानां च अत्र अनेकविधक्रीडाः सन्ति। अप्सरालोके (fairy tale) वर्णितानि पात्राणि हम्प्टी, डम्प्टी, ब्याटमन्, क्रूकड् ट्रि, टोरेण्डो कोस्टल् रैड इत्यादीनि सन्ति। पाश्चात्यदेशे दृश्यमानानि कतिचन दृश्याणि अपि अत्र द्र्ष्टुं शक्नुमः। कौबाय् ल्याण्ड् , विण्डमिल् शिप् व्रेक इत्येतानि अतीवसुन्दराणि सन्ति। सुन्दरे प्यारिसमार्गे चलितुं शक्यते। क्रीडासु बम्पर् कार्, स्लैड्, आन्दोलिकाः च सन्ति। अत्र मनोरञ्जनद्वारा शिक्षणमपि साध्यमस्ति। इतरस्थानानि नाम डाष् अण्ड् स्प्ल्याष् तथा किष्किण्ट् (१२२ कि.मी दूरे अस्ति)।

पुलिकाट्लेक्[सम्पादयतु]

चैन्नैनगरस्य उत्तरभागे स्थितं प्रेक्षणीयं स्थानम् एतत्। अत्र तरणं मत्स्यग्रहणं च मनोहरं भवति। चैन्नैनगरतः एतेषां प्रवासार्थं दर्शनार्थं व्यवस्था कल्पिता अस्ति। चैन्नैनगरे वासः कर्तुं शक्यते।

वस्तुसङ्ग्रहालयः, चेन्नै

देवालयाः[सम्पादयतु]

चेन्नै नगरे अनेके देवालयाः विद्यन्ते। तेषु कपालीश्वर-मरुन्धीश्वर-देवालयौ अन्यतमौ।

चैन्नैनगरस्य सागरतीराणि[सम्पादयतु]

अत्र कोरमण्डलसागरतीरं अत्यन्तं सुन्दरमस्ति। मरिना सागरतीरं अतीवजनप्रियम्। एतत् ४.५ कि.मी दीर्घम्। प्रपञ्चे दीर्घतीरेषु द्वितीयम् इति प्रसिद्धम् अस्ति। प्रतिदिनम् अत्र सहस्रशः जनाः आगच्छन्ति। बिहारं समुद्रस्नानम् च कुर्वन्ति। ईलियट्स् बीच् (बेसेण्ट्नगर), कोवलाङ्गबीच् चैन्नैतः ४० कि.मी. दूरे स्तः। मुत्तुकाडुप्रदेशे सागरपूर्व जले विहारः नौकायानं, मत्स्यग्रहणं च कर्तुम् शाक्यते। मामल्लपुरमपि सागरतीरे एव अस्ति। देशीयानां विदेशीयानां च प्रमुखं आकर्षणकेन्द्रमेतत्। अत्र तरणं कदाचित् अपायाय भवति। तरङ्गाः अत्र वेगेन आगच्छन्ति।

बाह्यग्रन्थय:[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=चेन्नै&oldid=482129" इत्यस्माद् प्रतिप्राप्तम्