चन्द्रगुप्तमौर्यः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
चन्द्रगुप्तमौर्यः
राज्यम्
कालः क्रि.पू ३२२ - २९८
राज्याभिषेकः
पूर्वजः धननन्दः
उत्तराधिकारी बिन्दुसारः
राज्ञी दुर्धरा
वंशः
वंशः मौर्य
पिता
माता मुरा
परिवारः
भार्या(ः) दुर्धरा
पुत्राः बिन्दुसारः
दुहितारः

चन्द्रगुप्तमौर्यः (यवनभाषा|Σανδρόκυπτος) (३२३-२९८ ई.पू) एक: महान् सम्राट् आसीत्‌। स: मौर्यसाम्राज्यस्य प्रथमः सम्राट् आसीत्। चन्द्रगुप्तः चाणक्योक्त्या सकलं भारतवर्षम् अजयत्। सः शाक्यकुले क्षत्रियः आसीत्। सः परियात्रपर्वतस्य यवनभूपतिम् विजित्य तक्षशीलायाम् अभिषिक्तः। अतः सः भारतस्य एकीकर्ता इति मन्यते।

तस्य शासनात् प्राक् पश्चिमोत्तरभारते चत्वारि लघुराज्यानि गङ्गातीरे नन्दराज्यम् च आसन्। परन्तु तस्य साम्राज्यम् समस्तम् भारतम् आसीत्।

कुलम्[स्रोतः सम्पाद्यताम्]

चन्द्रगुप्तमौर्यः नन्दराजकुमारस्य मुरा नामिकाया: चेटिकायाः पुत्रः आसीत् इति केचन इतिहासकाराः मन्यन्ते। अन्ये सः मयुरपोषककुले एकः इति कथयन्ति।

मौर्यसाम्राज्यस्य प्रस्थापनम्[स्रोतः सम्पाद्यताम्]

मौर्यसाम्राज्यस्य रजतसिका

धननन्दः चन्द्रगुप्तमौर्यस्य पितरं कारागरे अक्षिपत्। चाणक्यः तक्षशीलायाम् आचार्यः आसीत्। सः अपि नन्दमहाराजेन अपमानित:। सः प्रतिक्रियाम् अवाञ्छत्। सः वैदेशिकान् यवनान् जेतुं भारतं मोचयितुम् च अपि ऐच्छत्। चन्द्रगुप्तमौर्यः तक्षशीलाम् अगच्छत्। केचन यवनाः सः अलेक्सान्द्रम् तत्र अपश्यत् इति अकथयन्। तत्र सः कौटिल्ल्येन अपि अमिलत्। धीमान् चाणक्यः चन्द्रगुप्तम् सैन्यरचनाविद्यायाम् अबोधयत्। तौ नन्दराज्यं जेतुम् चिन्तनम् अकुरुताम्। चन्द्रगुप्तमौर्यः कौटिल्योक्त्या सेनाम् नयति स्म। सः पर्वतकस्य साहय्येन चाणक्यस्य धूर्तयोजनाभिः च धननन्दम् जितवान्। इयं कथा विशाखदत्तस्य मुद्ररक्षसनाम नाटके कथिता।

यवनराजानाम् निग्रह:[स्रोतः सम्पाद्यताम्]

चन्द्रगुप्तमौर्यस्य साम्राज्यम् ३२० क्रि.पू

चन्द्रगुप्तमौर्यः पश्चिमोत्तरभारते युडामास्-फिलिप्-पैतोनादयः यवनक्षत्रपान् जितवान्।

सेल्युकनिग्रह:[स्रोतः सम्पाद्यताम्]

चन्द्रगुप्तमौर्यस्य साम्राज्यम् ३०५ क्रि.पू

सेल्युकस् एकः यवनराजः आसीत्। सः पारसिक-अरबिक-बह्लिकादीन् देशान् जितवान्। पूर्वस्याम् दिशि तस्य राज्यस्य सीमा सिन्धुनदी आसीत्। चन्द्रगुप्तमौर्यः तम् जित्वा तस्य पुत्रीं परिणीतवान्। सेल्युकस् तस्मै बह्लिककम्बोजगन्धारसिन्धुबालोचिस्थानादिदेशान् अददात्। तौ मित्रे अभवताम्। मेगस्थेनीस् मौर्यराजसभायाम् उषित्वा इन्डिका नाम ग्रन्थे भारतसंस्कृतिम् अवर्णयत्। चन्द्रगुप्तमौर्यः अपि तस्मै पञ्चशतगजान् दत्तवान्।

दक्षिणविजयाः[स्रोतः सम्पाद्यताम्]

चन्द्रगुप्तमौर्यस्य साम्राज्यम् ३०० क्रि.पू

सः स्वविशालसेनया दक्षिणभारतम् अपि जितवान्।

सेना[स्रोतः सम्पाद्यताम्]

स्त्राबो नामकः यवनेतिहासज्ञः चन्द्रगुप्तमौर्यस्य सेनायाम् चतुर्लक्षसैनिकाः आसन् इति उक्तवान्। प्लिनी नाम रोमकेतिहासज्ञः मौर्यसेनायां षड्लक्षपादसैनिकाः त्र्ययुताश्वाः नवसहस्रगजाः च आसन् इति अकथयत्।

बाह्यसम्पर्कतन्तुः[स्रोतः सम्पाद्यताम्]

"https://sa.wikipedia.org/w/index.php?title=चन्द्रगुप्तमौर्यः&oldid=364340" इत्यस्माद् पुनः प्राप्तिः