मध्यप्रदेशराज्यम्

अधि विकिपीडिया, एकः स्वतन्त्रविश्वविज्ञानकोश
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
मध्यप्रदेशराज्यम्
—  राज्यम्  —
भारतस्य भूपटे मध्यप्रदेशराज्यम्
Coordinates: स्क्रिप्ट त्रुटि: ऐसा कोई मॉड्यूल नहीं है।
देशः
निर्माणम् १ 'नवम्बर' १९५६
राजधानी भोपाल
बृहत्तमनगरम् Indore
मण्डलानि 50
सर्वकारः
 • Type Unicameral Legislature (230 seats)
 • Body मध्यप्रदेशसर्वकारः
 • राज्यपालः राम नरेश् यादव्
 • मुख्यमन्त्री शिवराज सिंह चौहान
 • उच्चन्यायालयः Madhya Pradesh High Court Jabalpur
विस्तीर्णता
 • राज्यम् <
क्षेत्रविस्तारः 2nd
जनसङ्ख्या (2011)
 • राज्यम् ७२
 • रैङ्क् षष्ठ
 • नगरम् २०
 • ग्रामीणम् ५२
मानसमयः (UTC+05:30)
पिन् 45xxxx-48xxxx
अन्ताराष्ट्रीयकूटसङ्ख्या (ISD) 091-7xxx
ऐ एस् ओ ३१६६ कोड् IN-MP
मानवविकाश-साङ्ख्यिकी (HDI) 0.488 (medium)
HDI रैङ्क् 26th (2005)
साक्षरता 70.60% (2011)
लिङ्गानुपातः 930 (2011)
अधिकृता भाषा हिन्दीभाषा


मध्यप्रदेशराज्यं (हिन्दी: मध्य प्रदेश, आङ्ग्ल: Madhya Pradesh) भारतस्य् मध्य्खण्डेर विद्यमानं किञ्चन राज्यम् अस्तिध । अस्य विस्तीर्णता ३,०८,२५२ च.कि.मी. परिमिता अस्ति । मध्यप्रदेशस्य राजधानी भोपाल इति नगरम् अस्ति । २००० तमवर्षस्य 'नवम्बर'मासस्य १ दिनाङ्के अस्मात् राज्यात् छत्तीसगढनामकः प्रदेशः पृथक् कृतः, नूतनराज्यत्वेन संस्थापितश्च । ततः पूर्वं मध्यप्रदेशराज्यं भारते बृहत्तममं राज्यम् आसीत् । इदानीं राजस्थानराज्यं बृहत्तमम् अस्ति । मध्यप्रदेशस्य केषाञ्चन क्षेत्राणाम् उल्लेखाः पुराणेषु अपि लभ्यन्ते । एकलक्षवर्षतः पूर्वं मध्यप्रदेशस्य रायसेनमण्डले 'भीम बेट्का' गुहायां मानवाः वसन्ति स्म इति अत्रत्यानां जनानां विश्वासः । अत्र विद्यमानानि गुहाचित्राणि ३०० वर्षेभ्यः पूर्वं चित्रितानि ।

अन्तर्विषयाः

भौगोलिकम्[सम्पादयतु]

मध्यप्रदेश-राज्यं भारतस्य द्वितीयं बृहत्तमं राज्यं वर्तते । मध्यप्रदेशराज्यं द्वयोः भागयोः विभक्तम् अस्ति । क्षेत्रीयः भागः, शैलप्रस्थीयः भागः च । अस्य प्रदेशस्य उत्तरभागः क्षेत्रीयः अस्ति । किन्तु मध्यभागः, पश्चिमभागश्च शैलप्रस्थीयः भागः अस्ति । इदं क्षेत्रं मालवा-शैलप्रस्थः कथ्यते । प्राकृतिकसंरचनादृष्ट्या इदं राज्यं सप्तभागेषु विभक्तम् अस्ति । मध्यभारतस्य शैलप्रस्थः, बुन्देलखण्ड-उच्चप्रदेशः, मालवा-शैलप्रस्थः, विंध्यकगारक्षेत्रं, “नर्मदा घाटी”, सतपुडा-पर्वतशृङ्खला, बघेलखण्ड च । मध्यप्रदेशस्य पश्चिमोत्तरदिशि मध्यभारतस्य शैलप्रस्थः स्थितः अस्ति । तस्य विस्तारः ३२,८९६ चतुरस्रकिलोमीटर्मितः अस्ति । इदं शैलप्रस्थीयं क्षेत्रम् उत्तरप्रदेश-राज्यं, राजस्थान-राज्यं यावत् विस्तृतम् अस्ति । प्रदेशस्य मध्योत्तरभागे बुन्देलखण्डस्य उच्चप्रदेशः स्थितः अस्ति । “नर्मदा घाटी” इत्यस्यस्य क्षेत्रस्य विस्तारः ८६,००० चतुरस्रकिलोमीटर्मितः अस्ति । इदं क्षेत्रं महाराष्ट्र-राज्यं, गुजरात-राज्यं यावत् विस्तृतम् अस्ति । अस्य क्षेत्रस्य उत्तरे विन्ध्यपर्वतशृङ्खला, दक्षिणे सतपुडापर्वतशृङ्खला च विद्यते । सतपुडा-पर्वतशृङ्खला नर्मदागोदावरी-नद्योः विभाजनं करोति । सोन-नदी बघेलखण्ड-शैलप्रस्थीयक्षेत्रस्य प्रमुखा नदी वर्तते । अस्मिन् क्षेत्रे आदिवासिजनाः अधिकमात्रायां निवसन्ति । अस्य राज्यस्य जलवायुः उष्णकटिबन्धीयः अस्ति । मध्यप्रदेश-राज्यस्य उत्तरदिशि उत्तरप्रदेश-राज्यम्, उत्तरपूर्वदिशि छत्तीसगढ-राज्यं, दक्षिणदिशि महाराष्ट्र-राज्यं, पश्चिमदिशि राजस्थान-राज्यं गुजरात-राज्यं च अस्ति । अस्य राज्यस्य मध्यस्थात् कर्करेखा गच्छति [१]

नद्यः[सम्पादयतु]

मध्यप्रदेश-राज्ये बह्व्यः नद्यः प्रवहन्ति । नर्मदानदी, चम्बलनदी, ताप्तीनदी, सोननदी, बेतवानदी, क्षिप्रानदी, कालीसिन्धनदी, तवानदी च इत्यादयः अस्य राज्यस्य प्रमुखाः नद्यः सन्ति । नर्मदा-नदी अस्य राज्यस्य जीवनरेखा अपि कथ्यते । अमरकण्टक-नगरम् अस्याः नद्याः उद्गमस्थलं वर्तते । इन्दौर-मण्डलस्य महू-नगरस्य समीपे जानापाव-पर्वतक्षेत्रं चम्बल-नद्याः उद्गमस्थलं वर्तते । सिहावा-नगरस्य समीपे महानद्याः, सतपुडा-पर्वतशृङ्खलायाः बैतुल-शैलप्रस्थे ताप्ती-नद्याः, मालवा-शैलप्रस्थे कालीसिन्ध-नद्याः, विन्ध्याचलपर्वते पार्वती-नद्याः, कैमूर-पर्वतशृङ्खलायां टोंस-नद्याः, उज्जैन-नगरे क्षिप्रा-नद्याः, पचमढी-नगरे तवा-नद्याः च उद्गमस्थलम् अस्ति [२]

अरण्यम्[सम्पादयतु]

मध्यप्रदेशराज्यं वनदृष्ट्या समृद्धम् अस्ति । अस्य राज्यस्य भौगोलिकक्षेत्रस्य पञ्चत्रिंशत्प्रतिशतं (३५) भागः वनविस्तारः अस्ति । राज्ये एकलक्षचतुरस्रकिलोमीटर्मिते क्षेत्रे वनानि सन्ति । मध्यप्रदेशराज्ये अन्येषां राज्यानाम् अपेक्षया सर्वाधिकानि वनानि सन्ति । व्यवस्थादृष्ट्या प्रदेशे त्रिप्रकारकाणि वनानि सन्ति । आरक्षितवनं, संरक्षितवनं, अवर्गीकृतवनं च । मध्यप्रदेशराज्ये मुख्यतः चतुष्टप्रकारकाणि वनानि सन्ति । उष्णकटिबन्धीयवनं, शुष्कवनम्, उष्णकटिबन्धीयार्द्रवनम्, उपोष्णकटिबन्धीयपर्वतीयवनम्, उष्णकटिबन्धीयकण्टकीयवनं च । सर्वप्रथमं मध्यप्रदेश-राज्येन एव वनानां राष्ट्रियकरणं कृतम् । इदं राज्यं “टाईगर् स्टेट्” इति नाम्ना अपि ज्ञायते । यतः अस्मिन् प्रदेशे भारतस्य व्याघ्राणां १९ प्रतिशतं व्याघ्राः सन्ति । अस्मिन् राज्ये प्रायः पञ्च व्याघ्रपरियोजनाक्षेत्राणि सन्ति । सतपुडा-व्याघ्रपरियोजना, बान्धवगढ-व्याघ्रपरियोजना, पेंच-व्याघ्रपरियोजना, पन्ना-व्याघ्रपरियोजना, कान्हा-व्याघ्रपरियोजना च । मध्यप्रदेश-राज्ये चित्रकायः, मृगः, महिषः, कृष्णमृगः, भल्लुकः, व्याघ्रः, सिंहः इत्यादयः वन्यजीवाः सन्ति । राज्येऽस्मिन् अन्यराज्यानाम् अपेक्षया राष्ट्रियोद्यानानि, अभयारण्यानि च सर्वाधिकानि सन्ति [३]

राष्ट्रियोद्यानानि[सम्पादयतु]

  1. कान्हा-राष्ट्रियोद्यानम् – इदं मध्यप्रदेशराज्यस्य मण्डला-मण्डले स्थितम् अस्ति । अस्य विस्तारः ९४० चतुरस्रकिलोमीटर्मितः अस्ति । चित्रकायः, कृष्णमृगः, सिंहः, व्याघ्रः च वन्यप्राणिनः सन्ति ।
  2. फासिल-राष्ट्रियोद्यानः – इदम् अपि मध्यप्रदेशराज्यस्य मण्डला-मण्डले विराजते । अस्य विस्तारः २७ चतुरस्रकिलोमीटर्मितम् अस्ति । जीवाश्मः, पादपाः च अस्य उद्यानस्य वन्यजीवाः सन्ति ।
  3. बान्धवगढ-राष्ट्रियोद्यानम् – मध्यप्रदेशराज्यस्य उमरिया-मण्डले स्थितम् अस्ति इदम् उद्यानम् । अस्य विस्तारः ४३७ चतुरस्रकिलोमीटर्मितः अस्ति ।
  4. पन्ना-राष्ट्रियोद्यानम् – इदं मध्यप्रदेशराज्यस्य पन्ना-मण्डले स्थितम् अस्ति । अस्य विस्तारः ५४३ किलोमीटर्मितः वर्तते । चित्रकायः, व्याघ्रः, भल्लुकः च इत्यादयः वन्यप्राणिनः सन्ति ।
  5. सतपुडा-राष्ट्रियोद्यानम् – मध्यप्रदेशस्य होशङ्गाबाद-मण्डले स्थितमिदम् उद्यानम् । अस्य विस्तारः ५२५ चतुरस्रकिलोमीटर्मितः अस्ति । भल्लुकः, व्याघ्रः, चित्रकायः, मृगः चेत्यादयः प्राणिनः सन्ति ।
  6. वनविहार-राष्ट्रियोद्यानम् – इदम् उद्यानं मध्यप्रदेशराज्यस्य भोपाल-मण्डले स्थितम् अस्ति । अस्य विस्तारः ४.४ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य सर्वे प्राणिनः प्राप्यन्ते ।
  7. माधव-राष्ट्रियोद्यानम् – उद्यानमिदं मध्यप्रदेशराज्यस्य शिवपुरी-मण्डले स्थितम् अस्ति । अस्य विस्तारः ३७७ चतुरस्रकिलोमीटर्मितः वर्तते । कलङ्कमृगः, वराहः, चित्रकायः च वन्यप्राणिनः सन्ति [४]

इतिहासः[सम्पादयतु]

मध्यप्रदेशराज्यस्य इतिहासः अतीव पुरातनः अस्ति । पाषाणयुगस्य त्रयाणां कालानाम् अवशेषाः मध्यप्रदेशराज्ये प्राप्यन्ते । षष्ठशताब्द्यां षोडशमहाजनपदेषु जनपदद्वयम् आसीत् । चेदि, अवन्ती च । विक्रमादित्यः मध्यप्रदेशस्य शासकः राजा आसीत् । तेन विक्रमसंवतः आरम्भः कृतः । राज्ञा अशोकेन सर्वप्रथमम् उज्जैन-नगरे शासनं कृतम् । समयान्तरे इदं क्षेत्रं गुप्तसाम्राज्यस्य मुख्याङ्गम् अभवत् । समुद्रगुप्तः गुप्तशासकानां सफलशासकः आसीत् । भगवतः बुद्धस्य काले राजा चन्द्रप्रद्योतः अस्य प्रदेशस्य राजा आसीत् । सप्तमशताब्द्यां हर्षवर्धनेन राज्ञा अस्मिन् प्रदेशे शासनं कृतम् आसीत् । नवमशताब्द्याम् अस्मिन् प्रदेशे चन्देल-वंशस्य शासनम् आरब्धम् । तैः “खजुराहो” इत्येतन्नगरम् अस्य नगरस्य राजधानी कृता । “नन्नुक” इत्याख्यः चन्देल-राजवंशस्य संस्थापकः आसीत् । चन्देल-वंशजैः एव खजुराहो-नगरे भव्यमन्दिराणां निर्माणं कारितम् । अनन्तरं प्रतिहारवंशजैः, गहरवार-वंशजैः च शासनं कृतम् । एकादशशताब्द्याः आरम्भे मुस्लिमशासकाः मध्यभारतम् आगतवन्तः । अकबर-राज्ञः शासनकाले मुगल-वंशस्य शासनम् आरब्धम् । मुगल-शासकानां पतनान्तरं मराठा-शासकैः अस्मिन् प्रदेशे शासनं कृतम् । किन्तु आङ्ग्ल-शासकानां प्रभावः अधिकः आसीत् । तेन कारणेन मराठा-शासकाः पराजिताः । ग्वालियर-नगरे सिन्धिया-वंशस्य शासनम् आसीत् । “रानोजी” इत्याख्यः सिन्धिया-वंशस्य संस्थापकः आसीत् । “महादजी” इत्याख्यः सिन्धियावंशस्य प्रतापी राजा आसीत् । उच्यते यत् ई. स. १८१० पर्यन्तं सिन्धिया-वंशस्य राजधानी उज्जैन-नगरम् आसीत् [५]

विभागाः, मण्डलानि च[सम्पादयतु]

मध्यप्रदेशराज्ये ५० मण्डलानि सन्ति । प्रशासनसौकर्यार्थं राज्यं दशधा विभक्तम् । दशसु विभागेषु ५० मण्डलानि समाविष्टानि । यथा-

  1. भोपालविभागः - भोपालमण्डलं, रायसेनमण्डलं, राजगढमण्डलं, सीहोरमण्डलं, विदिशामण्डलम् इत्येतानि पञ्च मण्डलानि भोपालविभागे अन्तर्भूतानि ।
  2. चम्बलविभागः - मुरैनामण्डलं, श्योपुरमण्डलं, भिण्डमण्डलम् इत्येतानि त्रीणि मण्डलानि चम्बलविभागे अन्तर्भूतानि ।
  3. ग्वालियरविभागः - ग्वालियरमण्डलम्, अशोकनगरमण्डलं, दतियामण्डलं, गुनामण्डलं, शिवपुरीमण्डलम् इत्येतानि पञ्च मण्डलानि ग्वालियरविभागे अन्तर्भूतानि ।
  4. इन्दौरविभागः - इन्दौरमण्डलम्, अलीराजपुरमण्डलं, बडवानीमण्डलं, बुरहानपुरमण्डलं, धारमण्डलं, झाबुआमण्डलं, खण्डवामण्डलं, खरगौनमण्डलम् इत्येतानि अष्ट मण्डलानि इन्दौरविभागे अन्तर्भूतानि ।
  5. जबलपुरविभागः - जबलपुरमण्डलं, बालाघाटमण्डलं, छिन्दवाडामण्डलं, कटनीमण्डलं, मण्डलामण्डलं, नरसिंहपुरमण्डलं, सिवनीमण्डलम् इत्येतानि सप्त मण्डलानि जबलपुरविभागे अन्तर्भूतानि ।
  6. नर्मदापुरविभागः - बैतूलमण्डलं, हरदामण्डलं, होशङ्गाबादमण्डलम् इत्येतानि त्रीणि मण्डलानि नर्मदापुरविभागे अन्तर्भूतानि ।
  7. रीवाविभागः - रीवामण्डलं, सतनामण्डलं, सीधीमण्डलं, सिङ्गरौलीमण्डलम् इत्येतानि चत्वारि मण्डलानि रीवाविभागे अन्तर्भूतानि ।
  8. सागरविभागः - सागरमण्डलं, छतरपुरमण्डलं, दमोहमण्डलं, पन्नामण्डलं, टीकमगढमण्डलम् इत्येतानि पञ्च मण्डलानि सागरविभागे अन्तर्भूतानि ।
  9. उज्जैनविभागः - उज्जैनमण्डलं, देवासमण्डलं, मन्दसौरमण्डलं, नीमचमण्डलं, रतलाममण्डलं, शाजापुरमण्डलम् इत्येतानि षण्मण्डलानि उज्जैनविभागे अन्तर्भूतानि ।
  10. शहडोलविभागः - शहडोलमण्डलम्, अनूपपुरमण्डलं, डिण्डोरीमण्डलम्, उमरियामण्डलम् इत्येतानि चत्वारि मण्डलानि शहडोलविभागे अन्तर्भूतानि ।

महानगराणि[सम्पादयतु]

मध्यप्रदेशराज्ये चत्वारि महानगराणि सन्ति । इन्दौर, भोपाल, जबलपुरं, ग्वालियर च [६]

इन्दौर[सम्पादयतु]

मध्यप्रदेश-राज्यस्य किञ्चन इन्दौर-मण्डलम् अस्ति, तस्य केन्द्रम् इन्दौर-नगरम् । इदं मालवा-शैलप्रस्थे स्थितम् अस्ति । मध्यप्रदेश-राज्यस्य हृदयं मन्यते इदं नगरम् । अस्मिन् नगरे द्वे नद्यौ प्रवहतः । एका खान-नदी, अपरा सरस्वती-नदी च । अस्मिन् नगरे बहूनि वीक्षणीयस्थलानि सन्ति । एतेषु स्थलेषु अधिकानि स्थलानि मानवनिर्मितानि सन्ति । इन्दौर-नगरं मध्यप्रदेश-राज्यस्य बृहत्तमं नगरम् अस्ति । अष्टादशशताब्द्यां भगवतः इन्द्रेश्वरस्य एकं मन्दिरम् आसीत् । अस्य मन्दिरस्य नाम्ना एव “इन्दौर” इति नाम अभवत् । “राव नन्दलाल चौधरी” इत्याख्येन अस्य नगरस्य अन्वेषणं कृतम् आसीत् । अस्मिन् नगरे बहुभिः शासकैः शासनं कृतम् । अतः अस्य नगरस्य इतिहासः समृद्धः अस्ति । तेष्वपि होलकर-राजवंशजाः प्रसिद्धाः सन्ति ।

इन्दौर-महानगरे प्राचीनानि भवनानि, स्मारकाणि, मन्दिराणि च सन्ति । अतः पर्यटकाः भ्रमणार्थम् इन्दौर-नगरं गच्छन्ति । अस्य नगरस्य पर्यटनस्थलानि जनेषु लोकप्रियानि सन्ति । राजवाडा, कांच-मन्दिरं, ग्लास-मन्दिरं, बीजासेन टेकरी च इत्यादीनि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति । तत्र “लालबाग पैलेस्” इत्येतत् होलकर-शासकस्य निवासस्थलम् आसीत् । अतः मध्यप्रदेश-राज्ये तत्प्रसिद्धम् अस्ति । मेघदूत-उपवनम् अस्य नगरस्य सुन्दरम् उद्यानं वर्तते । गीताभवनम् अस्य नगरस्य प्रार्थनास्थलं वर्तते । तत्र समीपस्थेषु स्थलेषु प्रत्येकं धर्माणां जनाः गच्छन्ति । इन्दौर-महानगरे सङ्ग्रहालयः अपि अस्ति । तत्र बहुप्राचीनानि स्मारकाणि सन्ति । “राजवाडा” इत्येतत् स्थलम् इन्दौर-नगरस्य सर्वाधिकं चर्चितं स्थलम् अस्ति । अस्य नगरस्य शिल्पोद्योगाः, कलाः च मध्यप्रदेशराज्ये प्रसिद्धम् अस्ति । एते सर्वे उद्योगाः विश्वस्तरे प्रचलन्ति । इन्दौर-नगरे पर्यटनाय यातायातसौकर्यं विस्तृतं वर्तते । अतः बहुमात्रायां जनाः पर्यटनाय इन्दौर-महानगरं गच्छन्ति । शीतर्तौ जनाः तत्र भ्रमणार्थं गच्छन्ति ।

इन्दौर-महानगरं मध्यप्रदेश-राज्यस्य औद्योगिकं नगरम् अपि अस्ति । अतः इदं नगरं भारतस्य प्रमुखनगरेषु सम्बद्धम् अस्ति । “तृतीयक्रमाङ्कस्य राष्ट्रियराजमार्गेण”, नवषष्टीतमेन राष्ट्रियराजमार्गेण, षडशीतितमेन राष्ट्रियराजमार्गेण च सह इन्दौर-नगरं संलग्नम् अस्ति । इन्दौर-नगरे सर्वकारप्रचालितानि बसयानानि प्रचलन्ति । इतः परं भाटययानानि अपि प्राप्यन्ते । तत्र चत्वारि रेलस्थानकानि सन्ति । राजेन्द्रनगर-रेलस्थानकं, लोकमान्यनगर-रेलस्थानकं, सैफीनगररेलस्थानकं, लक्ष्मीबाई-नगर-रेलस्थानकं च । एतानि रेलस्थानकानि समीपस्थैः नगरैः ग्रामैः च सम्बद्धानि सन्ति । भारतस्य प्रमुखनगरेभ्यः इन्दौर-नगरात् नियमितरूपेण रेलयानानि प्राप्यन्ते । इन्दौर-नगरे “देवी अहिल्याबाई होलकर” इति नामकं विमानस्थानकम् अस्ति । इदं विमानस्थानकं भारतस्य प्रमुकनगरैः सह सम्बद्धम् अस्ति । देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय इत्यादिभ्यः नगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते ।

भोपाल[सम्पादयतु]

मध्यप्रदेश-राज्यस्य चतुर्षु महानगरेषु अन्यतमम् अस्ति इदं भोपाल-महानगरम् । इदं मध्यप्रदेशराज्यस्य भोपालमण्डलस्य मुख्यालयः, मध्यप्रदेशराज्यस्य राजधानी च वर्तते । नगरमिदं तडागानां नगरत्वेन ज्ञायते । पुरा भोपाल-महानगरं राजवंशजानां राजधानी अपि आसीत् । भोपाल-नगरं भारतस्य स्वच्छनगरेषु अन्यतमम् अस्ति । भोपाल-नगरस्य समीपे बहूनि वीक्षणीयस्थलानि सन्ति । केवरा-जलबन्धः अस्य नगरस्य प्रसिद्धं पर्यटनस्थलम् अस्ति । “मनुबहन की टेकरी” इत्येतत् स्थलम् अपि भ्रमणाय उत्तमं स्थलं वर्तते । इदं स्थलं पर्वतीयक्षेत्रे स्थितम् अस्ति । इदं स्थलं जैनधर्मस्य अपि धार्मिकस्थलम् अस्ति । शाहपुरा-तडागः भोपाल-नगरस्य बाह्यक्षेत्रे स्थितः अस्ति । स्थानीयजनेषु अयं तडागः लोकप्रियः वर्तते । भोपाल-नगरात् ७ किलोमीटर्मिते दूरे स्थितं भगवतः शिवस्य गुहा-मन्दिरं प्रसिद्धम् अस्ति । भोपाल-नगरे बहूनि ऐतिहासिकानि भवनानि सन्ति । तेषु भवनेषु गौहर-भवनं, शौकत-भवनं, “पुराना किला”, “सदर मञ्जिल” च अन्यतमानि सन्ति ।

राज्ञा भोजेन ई. स. १००० तः १०५५ पर्यन्तं भोपाल-नगरं संस्थापितम् आसीत् । राजा भोजः परमारवंशस्य शासकः आसीत् । “दोस्त मुहम्मद खान” इत्याख्येन अष्टादशशताब्द्याः उत्तरार्धे अस्य नगरस्य आधुनिकविकासः कृतः । अनन्तरं बहुभिः शासकैः शासनं कृतम् आसीत् । “हसीदुल्लाह खान” इत्याख्यः अस्य नगरस्य अन्तिमः शासकः आसीत् । भोपाल-नगरस्य वास्तुकलासु, भोजने, सङ्गीते, कलासु, संस्कृतिषु, पाककलासु च वैदेशिकप्रभावाः दृश्यन्ते । ई. स. १९४९ तमस्य वर्षस्य अप्रैल-मासे भारते अस्य नगरस्य विलयः जातः । ततः प्रभृति भोपाल-नगरं विकासशीलम् अस्ति । भारतभवनं, मोती मस्जिद्, बिरलामन्दिरं, जामा मस्जिद् च भोपालनगरस्य आकर्षणस्य केन्द्राणि सन्ति । भोपालनगरस्य जलवायुः उष्णकटिबन्धीयः अस्ति । अक्टूबर-मासतः दिसम्बर-मासपर्यन्तम् अस्य नगरस्य वातावरणं पर्यटनाय उत्तमं भवति ।

भोपाल-नगरं भूमार्गेण भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । तत्र सर्वकारप्रचालितानि बसयानानि अपि प्रचलन्ति । भोपाल-नगरे एकं रेलस्थानकम् अस्ति । भोपाल-नगरात् देहली-महानगराय, कोलकाता-महानगराय, मुम्बई-महानगराय, इन्दौर-महानगराय, चेन्नै-महानगराय च नियमितरूपेण रेलयानानि प्राप्यन्ते । भोपाल-नगरे राजाभोज-विमानस्थानकं स्थितम् अस्ति । इदं विमानस्थानकं भोपालनगरात् १५ किलोमीटर्मिते दूरे स्थितम् अस्ति । अस्मात् विमानस्थानकात् प्रतिदिनं राष्ट्रियाणि, अन्ताराष्ट्रियाणि च वायुयानानि प्राप्यन्ते । मुम्बई-महानगराय, देहली-महानगराय, इन्दौर-महानगराय, ग्वालिय-महानगराय च नियमितरूपेण वायुयानानि प्राप्यन्ते । अनेन प्रकारेण भोपाल-नगरं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति ।

जबलपुरम्[सम्पादयतु]

जबलपुर-नगरं मध्यप्रदेशराज्यस्य जबलपुर-मण्डलस्य मुख्यालयः वर्तते । अत्र भेडाघाट-स्थले श्वेतशैलानां शिलाः सन्ति । अतः सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । अनेन कारणेन इदं नगरं “श्वेतशैलस्य नगरम्” इति कथ्यते । “भेडाघाट” इत्येतत् स्थलं जबलपुरनगरस्य पर्यटनस्थलं वर्तते । साम्प्रतं जबलपुर-नगरं महानगरम् अपि अस्ति । यतः औद्योगिकदृष्ट्या, शैक्षणिकदृष्ट्या च विकासशीलम् अस्ति । इदं नगरम् ऐतिहासिकम् अपि अस्ति । पुरा अस्मिन् नगरे गोण्ड-वंशजैः, कलीचुरी-वंशजैः च शासनं कृतम् आसीत् । अनन्तरं मराठा-वंशजैः, मुगल-वंशजैः च अपि शासनं कृतम् आसीत् । अनन्तरम् इदं नगरं ब्रिटिश्-सर्वकाराधीनम् आसीत् । अस्मिन् नगरे बहूनि तीर्थस्थलानि, पर्यटनस्थलानि च सन्ति । “चौंसठ योगिनी मन्दिर”, “पिसनहारी की मढिया”, “त्रिपुर सुंदरी मन्दिर” एतानि तीर्थस्थलानि प्रसिद्धानि सन्ति । तत्र “डुमना नेचर रिसर्व्” इत्येतत् अभयारण्यम् अपि वर्तते । जबलपुर-नगरस्य बरघी-जलबन्धः सम्पूर्णे भारते विख्यातः अस्ति । जनाः पर्यटनाय तत्र गच्छन्ति । तिलवारा-घट्टः, हनुमान-तडागः, सङ्ग्रामसागर-तडागः, मदनमहल-दुर्गः, “रानी दुर्गावती मेमोरियल म्यूजियम्” इत्यादीनि अस्य नगरस्य वीक्षणीयस्थलानि सन्ति ।

साम्प्रतम् अपि प्राचीनकालावशेषाः दुर्गेषु, मन्दिरेषु च प्राप्यन्ते । तेन कारणेन प्रतिवर्षं पर्यटकानां सङ्ख्या वर्धते । जबलपुर-नगरं मध्यप्रदेश-राज्यस्य “संस्कारधानी” इति अपि कथ्यते । कलाक्षेत्रे संस्कृतिक्षेत्रे च जबलपुर-नगरस्य ख्यातिः वर्तते । “राममनोहर सिन्हा” इत्याख्यस्य जन्म अपि जबलपुर-नगरे अभवत् । तेन भारतीयसंविधानस्य मूलप्रस्तावनायाः परिकल्पना (Design) कृता आसीत् । क्रीडाक्षेत्रे अपि जबलपुर-नगरं ख्यातम् अस्ति । यतः ब्रिटिश्-शासनकाले स्नूकर-क्रीडायाः आविष्कारः अस्मिन् नगरे एव अभवत् । शीतर्तौ जबलपुर-नगरस्य वातावरणं मनोहरं भवति । अतः तस्मिन् काले जनाः भ्रमणार्थं तत्र गच्छन्ति ।

जबलपुर-नगरं मध्यप्रदेश-राज्यस्य, महाराष्ट्र-राज्यस्य च विभिन्ननगरैः सह सम्बद्धम् अस्ति । जबलपुर-नगरे वैयक्तिकवाहनानि, सर्वकारप्रचालितानि बसयानानि च प्रचलन्ति । जबलपुर-नगरं भूमार्गेण भारतस्य प्रमुखनगरैः सह संलग्नम् अस्ति । जबलपुर-नगरे एकं रेलस्थानकम् अस्ति । देहली-महानगराय, मुम्बई-महानगराय, कोलकाता-महानगराय, अहमदाबाद-महानगराय, चेन्नै-महानगराय, भोपाल-महानगराय च जबलपुर-नगरात् नियमितरूपेण रेलयानानि प्राप्यन्ते । जबलपुर-नगरे “डुमना” इत्याख्यम् एकं लघुविमानस्थानकम् अस्ति । तद्विमानस्थानकं जबलपुर-नगरात् २० किलोमीटर्मिते दूरे स्थितम् अस्ति । तस्माद् विमानस्थानकात् मुम्बई-महानगराय, इन्दौर-महानगराय, देहली-महानगराय, भोपाल-महानगराय च वायुयानानि प्राप्यन्ते । अनेन प्रकारेण जबलपुर-नगरं भूमार्गेण, रेलमार्गेण, वायुमार्गेण च भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । तेन पर्यटकाः सरलतया जबलपुर-नगरं प्राप्तुं शक्नुवन्ति ।

ग्वालियर[सम्पादयतु]

ग्वालियर-नगरम् आग्रा-नगरस्य दक्षिणदिशि १२२ किलोमीटर्मिते दूरे स्थितमस्ति । इदं नगरं मध्यप्रदेशस्य पर्यटनराजधानी वर्तते । नगरमिदं मध्यप्रदेशराज्यस्य चतुर्थं बृहत्तमं नगरम् अस्ति । इदं नगरम् औद्योगिकं नगरं, प्रगतिशीलं च वर्तते । नगरमिदम् ऐतिहासिकं वर्तते । तत्र प्राचीनमन्दिराणि, प्राचीनभवनानि, स्मारकाः च सन्ति । तत्र एकः दुर्गः अस्ति । तस्मै दुर्गाय ग्वालियर-नगरं भारते प्रसिद्धम् अस्ति । सः दुर्गः उत्तरभारतीयराजवंशानां प्रशासनिककेन्द्रम् आसीत् । आधुनिकभारतस्य इतिहासे अपि ग्वालियर-नगरस्य स्थानं महत्त्वपूर्णम् अस्ति । अष्टमशताब्द्यां सूरजसेन इत्याख्येन राज्ञा ग्वालियर-नगरस्य स्थापना कृता । “ग्वालिपा” इत्याख्यस्य साधोः नाम्ना अस्य नगरस्य नाम “ग्वालियर” इति कृतम् । तेन साधुना राज्ञः कुष्ठरोगस्य उपचारः कृतः । षष्ठीशताब्द्यां हूणवंशस्य शासनम् आसीत् । अनन्तरम् कन्नौज-साम्राज्यस्य परिहारवंशजस्य आधीन्ये अभवत् । ई. स. ९२३ तमवर्षपर्यन्तं परिहार-राजभिः शासनं कृतम् आसीत् । ई. स. ११९६ तमे वर्षे देहली-साम्राज्यस्य “कुतुबुद्दीन ऐबक” इत्याख्येन राज्ञा इदं साम्राज्यं जितम् । ततः परं “शमसुद्दीन अल्तमश” इत्याख्येन राज्ञा ई. स. १२३२ तमवर्षपर्यन्तं शासनं कृतम् आसीत् । अस्मिन् नगरे मुगल-शासकैः अपि शासनं कृतम् । ई. स. १५५३ तमे वर्षे विक्रमादित्य-राज्ञा ग्वालियर-नगरं जितम् । अष्टादशशताब्द्यां, नवदशशताब्द्यां च “सिन्धिया” इत्याख्येन मराठा-शासकेन ब्रिटिश-जनैः सह ग्वालियर-नगरे शासनं कृतम् । ई. स. १८५७ तमे वर्षे मराठावंशस्य राज्ञ्या लक्ष्मीबाई इत्याख्यया ब्रिटिशशासकैः सह युद्धं कृतम् । तदा तस्याः मृत्युः अभवत् ।

ग्वालियर-दुर्गः, “फुल बाग”, सूरजकुण्डः, “हाथी पूल”, “मान मन्दिर महल”, “जय विलास महल” इत्यादीनि ग्वालियर-नगरस्य प्रमुखाणि वीक्षणीयस्थलानि सन्ति । भारतस्य प्रसिद्धः गायकः तानसेनः अपि अस्मिन् नगरे एव जनिं लेभे । ग्वालियर-नगरे प्रतिवर्षं “तानसेनसङ्गीतसमारोहः” आचर्यते । नगरमिदं सिक्ख-धर्मस्य, जैन-धर्मस्य च प्रसिद्धं तीर्थस्थलम् अस्ति ।

ग्वालियर-नगरं राष्ट्रियराजमार्गेण भारतस्य प्रमुखनगरैः च सह सम्बद्धम् अस्ति । देहली, आग्रा, इन्दौर, जयपुर, भोपाल च इत्यादिभ्यः नगरेभ्यः ग्वालियर-नगरात् बसयानानि प्राप्यन्ते । ग्वालियर-नगरे एकं रेलस्थानकम् अस्ति । तद् ग्वालियर-नगरस्य मध्ये स्थितम् अस्ति । इदं रेलस्थानकं देहली-चेन्नै-रेलमार्गस्य मुख्यं रेलस्थानकम् अस्ति । देहली, चेन्नै, कोलकाता, भोपाल, उज्जैन, इन्दौर, मुम्बई च इत्यादिभिः नगरैः सह सम्बद्धम् अस्ति । ततः तेभ्यः नगरेभ्यः प्रतिदिनं रेलयानानि प्राप्यन्ते । ग्वालियर-नगरे एकं विमानस्थानकम् अपि विद्यते । ग्वालियर-नगरात् विमानस्थानकं ८ किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः देहली, वाराणसी, जयपुर, आग्रा, इन्दौर, मुम्बई इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते । ग्वालियर-नगरस्य निकटतमम् अन्ताराष्ट्रियविमानस्थानकं देहली-नगरे अस्ति । ग्वालियर-नगरात् देहली-नगरस्य विमानस्थानकं ३२० किलोमीटर्मिते दूरे स्थितमस्ति । अनेन जनाः ग्वालियर-नगरं सरलतया प्राप्तुं शक्नुवन्ति ।

राजनीतिः[सम्पादयतु]

मध्यप्रदेश-राज्ये एकसदनात्मकं विधानमण्डलम् अस्ति । राज्यस्य विधानसभायाः सदस्यानां सङ्ख्या २३० अस्ति । राज्ये लोकसभायाः २९ स्थानानि, राज्यसभायाः ११ स्थानानि च सन्ति । “पं. रविशङ्कर शुक्ल” इत्याख्यः मध्यप्रदेश-राज्यस्य प्रथमः मुख्यमन्त्री आसीत् । “पं. कुञ्जीलाल दुबे” इत्याख्यः मध्यप्रदेशराज्यस्य विधानसभायाः प्रथमः अध्यक्षः आसीत् । “डॉ. बी. पट्टाभि सीतारामैया” इत्याख्यः मध्यप्रदेशराज्यस्य प्रथमः राज्यपालः अभवत् । ई. स. १९४४ तमस्य वर्षस्य जनवरी-मासस्य २५ तमे दिनाङ्के मध्यप्रदेशे “पञ्चायतराज-अधिनियमः” प्रस्थापितः । भारतीय जनता पार्टी, भारतीय राष्ट्रीय कॉङ्ग्रेस्, गोण्डवाना गणतन्त्र पार्टी, बहुजन समाज पार्टी, राष्ट्रीय समानता पार्टी च इत्यादयः मध्यप्रदेश-राज्यस्य प्रमुखाः राजनैतिकसमूहाः सन्ति । अस्य राज्यस्य मुख्यन्यायालयः जबलपुर-नगरे स्थितः अस्ति [७]

शिक्षणम्[सम्पादयतु]

२०११ वर्षस्य जनगणनानुसारं मध्यप्रदेश-राज्यस्य साक्षरतामानं ७०.२८ प्रतिशतम् अस्ति । तेषु पुरुषाणां साक्षरतामानं ८०.५३ प्रतिशतं, स्त्रीणां साक्षरतामानं ६०.०२ प्रतिशतम् अस्ति । ई. स. १९४६ तमे वर्षे सागर-नगरे “डॉ. हरिसिंह गौर विश्वविद्यालयस्य” स्थापना अभवत् । अयं मध्यप्रदेशराज्यस्य सर्वप्रथमः विश्वविद्यालयः आसीत् । अस्य राज्यस्य जबलपुर-मण्डलस्य साक्षरतामानं सर्वाधिकम् अस्ति । जबलपुर-मण्डलस्य साक्षरतामानं ८२.५ प्रतिशतम् अस्ति । अलीरजपुर-मण्डलस्य साक्षरतामानं न्यूनतमम् अस्ति । अस्य साक्षरतामानं ३७.२ प्रतिशतम् अस्ति ।

सागर-नगरस्य “डॉ. हरिसिंह विश्वविद्यालयः”, उज्जैन-नगरस्य “विक्रम विश्वविद्यालयः”, जबलपुर-नगरस्य “रानी दुर्गावती विश्वविद्यालयः”, इन्दौर-नगरस्य “देवी अहिल्या विश्वविद्यालयः”, ग्वालियर-नगरस्य “जीवाजी विश्वविद्यालयः”, रीवा-नगरस्य “अवधेश प्रतापसिंह विश्वविद्यालयः”. जबलपुर-नगरस्य “जवाहरलाल नेहरू कृषि विश्वविद्यालयः”, चित्रकूट-नगरस्य “महात्मा गान्धी चित्रकूट ग्रामोदय विश्वविद्यालयः”, भोपाल-नगरस्य “माखनलाल चतुर्वेदी राष्ट्रीय पत्रकारिता विश्वविद्यालयः”, भोपाल-नगरस्य “मध्यप्रदेश भोज मुक्त विश्वविद्यालयः” च इत्येतानि मध्यप्रदेशराज्यस्य प्रमुखाणि शैक्षणिकसंस्थानानि सन्ति [८]

भाषा[सम्पादयतु]

हिन्दीभाषा मध्यप्रदेशस्य प्रमुखा भाषा । अस्याः भाषायाः नैकानि जनपदरूपाणि अत्र प्रचलितानि सन्ति । तद्यथा- मालवाप्रान्तस्य मालवी, निमाडप्रान्तस्य निमाडी, बुन्देलखण्डप्रान्तस्य बुन्देली, बागेलखण्डप्रान्तस्य बागेली, अवधी च । एतानि सर्वाण्यपि हिन्दीभाषायाः रूपान्तराणि सन्ति । भिलोडी (भिल), गोण्डी, कोर्कु, कालटो (निहाली) इत्येताः मध्यप्रदेशस्य आदिवासिनां भाषाः । शतमानद्वयादपि अधिककालं यावत् अस्मिन् राज्ये मराठाः राज्यभारं कृतवन्तः । अतः केषुचित् प्रदेशेषु अद्यापि मराठीभाषायामेव जनाः व्यवहारं कुर्वन्ति । भोपाल इत्येतन्महानगरे 'अफ्घानिस्थान'-पाकिस्थानदेशाभ्यां प्रवर्ज्यागताः जनाः ’सर्याकी’-’पाश्तो’भाषयोः व्यवहारं कुर्वन्ति ।

साहित्यम्[सम्पादयतु]

सुप्रसिद्धः ज्योतिर्विदः वराहमिहिरः उज्जयिन्यां वासमकरोत् । धाराराज्यस्य भोजराजस्य आस्थाने कविभ्यः आदरभावः, आश्रयश्च आसीत् । राजा भोजः स्वयमपि श्रेष्ठः कविः आसीत् । तेन रचिताः कृतयः अद्यापि विराजन्ते । स्वेन धारानगरे स्थापितसंस्कृतपाठाशाला अद्याप्यस्ति । पाठशालायाः भित्तिषु संस्कृतभाषायाम् उत्कीर्णिताः श्लोकाः शोभन्ते । मध्यप्रदेशे न केवलम् एते, अन्येऽपि पण्डिताः - धनपालः, भर्तृहरिः, आशाधारः, मनतुङ्गः, ब्रह्मगुप्तः, भास्कराचार्यः इत्यादयः विराजितवन्तः । चन्द्रगुप्तस्य काले धन्वन्तरी, क्षपणकः (सिद्धसेनः), अमरसिंहः, सङ्कुः, वेतालभट्टः, घटकर्परः, कालिदासः, वराहमिहिरः तथा वररुचिः नवरत्नरूपाः दिग्गजाः विरजन्ते स्म । आधुनिकाः प्रसिद्धाः कवयः माखनलाल चतुर्वेदी, शरद जोशी, गजानन माधव मुक्तिबोध, विनोदकुमार शुक्ला इत्यादयः अत्रस्थाः एव सन्ति ।

नृत्यं सङ्गीतञ्च[सम्पादयतु]

मध्यप्रदेशः आदिवासिनां राज्यम् । पाश्चात्यादिदेशीयसंस्कृतेः प्रभावरहिताः अत्रस्थाः जनाः । परम्परागतस्वदेशीसंस्कृतिं अत्रस्थाः जनाः अद्यापि रक्षयन्तः सन्ति । अस्य प्रदेशस्य उत्सवादिषु, गीतनृत्येषु च पुरातनकालस्य साम्प्रदायिकस्वरूपं द्रष्टुं लभ्यते । 'कर्मा' इति तु मध्यप्रदेशस्य वायव्यभागे विद्यमानस्य ’गोण्ड’जनसमूहस्य एवम् ’ओरांव’समूहस्य च साम्प्रदायिकनृत्यमस्ति । इदं नृत्यम् अत्यन्तं प्राचीनम् इति परिगणितमस्ति । इदं नृत्यम् अधिकतया शरत्कालस्यारम्भे, वृष्टिकालस्यान्ते वा द्रष्टुं लभ्यते ।

कला, संस्कृतिश्च[सम्पादयतु]

मध्यप्रदेशराज्यं साहित्यिकदृष्ट्या समृद्धम् अस्ति । अस्मिन् राज्ये बहवः प्राचीनाः साहित्यकाराः, कवयः च अभवन् । तेषु शरभङ्गः, अगस्त्यः, महाकविः कालिदासः, नागार्जुनः, भवभूतिः, मण्डनमिश्रः गङ्गाधरः, ईशानः इत्यादयः अस्य राज्यस्य प्राचीनसाहित्यकाराः सन्ति । इतः परं “माखनलाल चतुर्वेदी", “सुभद्रा कुमारी चौहान”, “सेठ गोविन्ददास”, “द्वारिकाप्रसाद मिश्र” इत्यादयः आधुनिकसाहित्यकाराः सन्ति । अस्य प्रदेशस्य राजभाषा हिन्दी अस्ति । किन्तु अस्मिन् प्रदेशे अनुसूचितजातयः, अनुसूचितजनजातयः च निवसन्ति । अतः तासां भाषाः अपि विभिन्नाः भवन्ति । मध्यप्रदेशराज्यस्य ग्वालियर-नगरे राजवंशः निवसति स्म । तस्मिन् समये मानसिंहः ग्वालियर-नगरस्य राजा आसीत् । तेन भारतस्य प्रथमः सङ्गीतविद्यालयः प्रस्थापितः । तानसेनः अपि अस्मिन् विद्यालये सङ्गीतशिक्षणम् अधीतवान् । तानसेनस्य जन्म अपि मध्यप्रदेशे एव अभवत् । “उस्ताद् अलाउद्दीन खाँ” इत्याख्यः प्रसिद्धः सितार-वादकः आसीत् । सः “पं. रविशङ्करस्य” गुरुः आसीत् । “अली अकबर खाँ”, “उस्ताद हाकिम खाँ” च सरोद-वादकः आसीत् । एतौ अपि मध्यप्रदेश-राज्येन सह सम्बद्धौ आस्ताम् [९]

मध्यप्रदेशराज्ये पञ्च सांस्कृतिकक्षेत्राणि सन्ति । निमाड, मालवा, बुन्देलखण्ड, बघेलखण्ड, ग्वालियर च । प्रत्येकं क्षेत्रस्य संस्कृतिः भिन्ना वर्तते । तेषां क्षेत्राणां साहित्यम्, इतिहासः, कला, भाषा, वेशभूषा च भिन्ना अस्ति । मध्यप्रदेशस्स्य संस्कृतिः बहुधा वर्तते । मध्यप्रदेशे पञ्चसंस्कृतीनां समावेशः अस्ति । अपरं च जनजातीनाम् आदिमसंस्कृतेः अपि विस्तारः मध्यप्रदेशराज्ये अस्ति । अनेन प्रकारेण निमाड, मालवा, बुन्देलखण्ड, बघेलखण्ड, ग्वालियर इत्येतानि क्षेत्राणि सांस्कृतिकक्षेत्राणि सन्ति । धार-मण्डलं, झाबुआ-मण्डलं, मण्डला-मण्डलं, बालाघाटा-मण्डलं, छिन्दवाडा-मण्डलं, होशङ्गाबाद-मण्डलं, खण्डवा-मण्डलं, बुरहानपुर-मण्डलं, बैतूल-मण्डलं, रीवा-मण्डलं, सीधी-मण्डलं, शहडोल-मण्डलं च इत्यादीनि मण्डलानि जनजातीयक्षेत्राणि सन्ति । इन्दौर-नगरे, खजुराहो-नगरे, उज्जैन-नगरे, पचमढी-नगरे च नगरे मेला-उत्सवः आचर्यते । पचमढी-नगरे शिवरात्रिपर्वणि जनाः महोत्सवम् आचरन्ति । झाबुआ-नगरे “भगोरिया” इत्ययम् उत्सवः प्रमुखः वर्तते । “अखिल-भारतीय-कालिदास-महोत्सवः”, “तानसेन-महोत्सवः”, “अलाउद्दीन खाँ-उत्सवः”, “कुमारगन्धर्व-उत्सवः”, “खजुराहो-नृत्य-उत्सवः” च इत्यादयः मध्यप्रदेशराज्य प्रमुखाः सांस्कृतिकोत्सवाः सन्ति । दीपावलिपर्व, रक्षाबन्धनं, विजयादशमी चेत्यादयः उत्सवाः अपि आचर्यन्ते ।

निमाड[सम्पादयतु]

निमाड-क्षेत्रं मध्यप्रदेशस्य पश्चिमभागे स्थितम् अस्ति । अस्य क्षेत्रस्य एकस्मिन् पक्षे विन्ध्याचलपर्वतशृङ्खला, अपरे पक्षे सतपुडापर्वतशृङ्खला च वर्तते । अस्य क्षेत्रस्य मध्यभागे नर्मदा प्रवहति । पौराणिककाले निमाड-क्षेत्रम् “अनूप-जनपदः” कथ्यते स्म । समयान्तरे इदं “निमाड-क्षेत्रम्” इति नाम्ना ख्यातम् । अनन्तरम् इदं “पूर्व निमाड”, “पश्चिम निमाड” इत्येतयोः द्वयोः भागयोः विभागौ कृतौ ।

मालवा[सम्पादयतु]

मालवा-क्षेत्रं कालिदासस्य जन्मभूमिः अस्ति । अस्य क्षेत्रस्य भूमिः उर्वरा वर्तते । विन्ध्याचलशैलप्रस्थे स्थितम् इदं मालवाक्षेत्रम् । इदं क्षेत्रं मध्यप्रदेशराज्यस्य पश्चिमभागे स्थितम् अस्ति । मालवा-क्षेत्रस्य अधिकांशभागस्य कृषिः चम्बल-नदीजलेन क्रियते । अस्य क्षेत्रस्य पश्चिमभागः माही-नद्या सेसिच्यते । प्राचीनकाले इदं मालव इति नाम्ना ज्ञायते स्म । समुद्रतलात् अस्य क्षेत्रस्य औन्नत्यं ४९६ मी. अस्ति । चतुर्थशताब्द्याम् अस्मिन् क्षेत्रे मालव-जातेः जनाः निवसन्ति स्म । अतः तेन कारणेन अस्य नाम मालवा इत्यभवत् ।

बुन्देलखण्ड[सम्पादयतु]

बुन्देलखण्डक्षेत्रं मध्यभारतस्य प्राचीनक्षेत्रं वर्तते । “बुन्देली” इत्येषा अस्य क्षेत्रस्य प्रमुखा भाषा वर्तते । यद्यपि अस्य क्षेत्रस्य भौगोलिकी, सांस्कृतिकी च स्थितिः विविधा वर्तते । तथापि अस्य क्षेत्रस्य जनेषु ऐक्यं भवति । अस्मिन् क्षेत्रे बहुभिः शासकैः शासनं कृतम् । बुन्देलखण्ड-क्षेत्रस्य पश्चिमदिशि यमुनानदी, दक्षिणदिशि विन्ध्यपर्वतशृङ्खला, उत्तर-पश्चिमदिशि चम्बलनदी, दक्षिणपूर्वदिशि अजमगढश्रेणयः सन्ति । अस्मिन् क्षेत्रे उत्तरप्रदेशस्य जालौन-मण्डलं, झाँसी-मण्डलं, हमीरपुर-मण्डलं, बांदा-मण्डलम् इत्यादीनि चत्वारि मण्डलानि स्थितानि अस्ति । एवं च मध्यप्रदेशराज्यस्य सागर-मण्डलं, दतिया-मण्डलं, टीकमगढ-मण्डलं, छतरपुर-मण्डलं, पन्ना-मण्डलम् इत्यादीनि पञ्च मण्डलानि स्थितानि सन्ति । “अल्हा-ऊदल”, “ईसुरी”, “कविः पद्माकरः”, “झाँसी की रानी लक्ष्मीबाई”, “हरिसिंह गौर” इत्यादयः अस्य क्षेत्रस्य प्रमुखाः प्रसिद्धाश्च व्यक्तयः सन्ति ।

बघेलखण्ड[सम्पादयतु]

बघेलखण्ड-क्षेत्रं मध्यप्रदेशस्य उत्तरपूर्वदिशि स्थितम् अस्ति । अनूपपुर-मण्डलं, रीवा-मण्डलं, सतना-मण्डलं, शहडोल-मण्डलं, सीधी-मण्डलं, उमरिया-मण्डलम्, उत्तरप्रदेशराज्यस्य सोनभद्र-मण्डलं च अस्मिन् क्षेत्रे गण्यते । बघेलखण्ड-क्षेत्रं पौराणिककालीनं वर्तते । रामायणकाले इदं क्षेत्रं कोसल-प्रान्ते स्थितम् आसीत् । वर्तमानकालस्य सोहागपुर-नगरं पुरा विराटनगरम् इति नाम्ना ज्ञायते स्म । तत् विराट्नगरं महाभारतकाले बघेलखण्डे स्थितम् आसीत् । अस्य क्षेत्रस्य जनाः शैवाः, शाक्ताः, वैष्णवाः च सन्ति ।

ग्वालियर[सम्पादयतु]

इदं क्षेत्रं मध्यप्रदेशस्य मध्यभागः वर्तते । इदं चम्बलक्षेत्रम् अपि कथ्यते । अस्मिन् क्षेत्रे भारतस्य इतिहासस्य बहव्यः घटनाः घटिताः । ग्वालियर-नगरम् अस्य क्षेत्रस्य सांस्कृतिकम् आर्थिकं च केन्द्रम् आसीत् ।

खाद्यानि[सम्पादयतु]

विशालेऽस्मिन् राज्ये भिन्नभिन्नप्रान्तेषु खाद्यानि भिद्यन्ते । गोधूमस्य तथा मांसस्य खाद्यानाम् उत्तरपश्चिमभागयोः अधिकतया उपयोगः दृश्यते । पूर्वदक्षिणभागयोः तण्डुलस्य, मत्स्यस्य च खाद्यानाम् उपयोगं कुर्वन्ति । ग्वालियर्-इन्दौर इत्येतयोः नगरयोः क्षीरस्य तथा क्षीरनिर्मितखाद्यानां उपयोगम् अधिकतया कुर्वन्ति । मालवाप्रान्ते सस्याहारस्य प्राशस्त्यमस्ति । गुजरातराज्यस्य तथा राजस्थानराज्यस्य च खाद्यानां शैली अत्र दृश्यते । ’भुट्टे का कीस्’, गोधूमस्य 'हुड्' तथा दध्ना निर्मितं ’चक्की की शाक’ इत्येतानि खाद्यानि अस्य प्रदेशस्य मुख्यानि खाद्यानि इति परिगणितानि सन्ति ।

खाद्यानाम् आवलिः[सम्पादयतु]

  • मावा बाटि
  • खोपरा-पाक
  • श्रीखण्ड
  • मालपुवा
  • रोगन् जोश्
  • भूपाली मुर्ग् रेजाला
  • पनीर् रेजाला
  • गोष्टकूर्मा
  • पिलाफ् (पुलाव्)
  • बाप्ला रोटिका
  • पोहा
  • जलेबी
  • दाल-बाटी
  • चूर्मा

अर्थव्यवस्था, कृषिः च[सम्पादयतु]

मध्यप्रदेशराज्यं कृष्याधारितम् अस्ति । अस्मिन् राज्ये कृषिकार्यं प्रधानं वर्तते । अस्य राज्यस्य ७५ प्रतिशतं जनाः कृषिकार्ये आधारिताः सन्ति । अस्य राज्यस्य प्रायः ५० प्रतिशतं स्थलं कृषियोग्यम् अस्ति । चणकः, गोधूमः, तण्डुलाः, तैलबीजं, सोयाबीन् , कार्पासः च अस्य राज्यस्य प्रमुखाणि सस्यानि सन्ति । सम्पूर्णभारतस्य ८२ प्रतिशतं सोयामाष (Soybean)-सस्यम् अस्मिन् राज्ये उत्पाद्यते । अतः इदं “सोयामाष-प्रान्तः” इति नाम्ना अपि ज्ञायते । मध्यप्रदेशराज्यस्य इन्दौर-महानगरे “राष्ट्रिय-सोयाबीन-अनुसंधानकेन्द्रम्” अपि विद्यते । अस्मिन् राज्ये कृष्णमृत्तिका अधिकमात्रायां प्राप्यते । अतः कार्पासस्य, गोधूमस्य च कृषिः पर्याप्तमात्रायां क्रियते । शाजापुर-नगरं लवेटिका-सस्यस्य (corn) प्रमुखकेन्द्रं विद्यते । सेन्धवा-उपमण्डले, बडवानी-उपमण्डले लङ्गुरायाः (Millet) उत्पादनं क्रियते । निमाड-क्षेत्रे चणकस्य सर्वाधिकमात्रायाम् उत्पादनं भवति । मन्दसौर-मण्डलं पुलोमह्याः (Opium) उत्पादनाय भारते प्रसिद्धम् अस्ति । यद्यपि मध्यप्रदेशराज्यं भारतस्य द्वितीयं बृहत्तमं राज्यं वर्तते । प्राकृतिकसंसाधनैः, स्वस्थवातावरणेन, उर्वराकृष्या च इदं राज्यं समृद्धम् अस्ति । अतः मध्यप्रदेश-राज्यं विकासशीलं वर्तते । औद्योगिकक्षेत्रे, कृषिक्षेत्रे च मध्यप्रदेश-राज्ये व्यापारानुसारं निवेशः क्रियते [१०]

उद्योगाः[सम्पादयतु]

मध्यप्रदेशराज्यं कृष्युत्पादनानां, वनोत्पादनानां, खानिजानां च उत्पादने अग्रगण्यं वर्तते । कार्पासवस्त्राणां, कौशेयवस्त्राणां, चर्मणः, कर्गजानां च उद्योगाः अस्मिन् राज्ये प्रचलन्तः सन्ति । ई. स. १९६५ तमे वर्षे भोपाल-नगरे “मध्यप्रदेश औद्योगिक विकास निगम” इत्यस्याः संस्थायाः स्थापना जाता । खण्डवा-मण्डलस्य नेपानगरे “नेशनल न्यूज् प्रिण्ट् एण्ड् पेपर् मिल्” इत्ययं यन्त्रागारः स्थितः अस्ति । राज्ये राष्ट्रियमुद्राणां यन्त्रागाराः अपि सन्ति । होशङ्गाबाद-नगरे राष्ट्रियमुद्राणां कर्गजाः निर्मीयन्ते । अनन्तरं देवास-नगरस्य यन्त्रागारे राष्ट्रियप्रचलितमुद्राणां मुद्रणं क्रियते । ग्वालियर-नगरे अग्निशलाकायाः यन्त्रागारः विद्यते । ई. स. १९६० तमे वर्षे भोपाल-नगरे “भारत भारी विद्युत् उपकरण लिमिटेड्” इत्याख्यः यन्त्रागारः ब्रिटेन्-देशस्य सर्वकारस्य साहाय्येन संस्थापितः [११]

वीक्षणीयस्थलानि[सम्पादयतु]

मध्यप्रदेश-राज्ये पर्यटनस्य बहूनि स्थलानि सन्ति । पर्यटनदृष्ट्या मध्यप्रदेशराज्यं समृद्धम् अस्ति । अस्मिन् राज्ये प्राकृतिकस्थलानि, वन्याभयारण्यानि ऐतिहासिकस्थलानि च सन्ति । मध्यप्रदेश-राज्यं भारतस्य हृदयं मन्यते । अस्य राज्यस्य इतिहासः, भौगोलिकस्थितिः, प्राकृतिकं सौन्दर्यं, सांस्कृतिकभवनानि च राष्ट्रियसम्पत्तिः अस्ति । भारतस्य विभिन्ननगरेभ्यः, विभिन्नदेशेभ्यः च जनाः मध्यप्रदेशराज्यस्य भ्रमणं कर्तुं समागच्छन्ति [१२]

खजुराहो[सम्पादयतु]

खजुराहो इत्येतत् रमणीयं स्थलं मध्यप्रदेश-राज्यस्य छतरपुर-मण्डले स्थितम् अस्ति । इदं बुन्देलखण्ड-क्षेत्रे विराजते । विन्ध्यपर्वतशृङ्खलायाः समीपे स्थितम् अस्ति इदं स्थलम् । प्राचीनकाले खजुराहो इत्यस्य स्थलस्य “खजूरपुरा”, “खजूर वाहिका” इत्यादीनि नामानि आसन् । अत्र बहूनि हिन्दुमन्दिराणि, जैनमन्दिराणि च सन्ति । अस्मिन् स्थले खजुराहो-मन्दिरं विद्यते । तन्मन्दिरं सम्पूर्णे विश्वस्मिन् प्रसिद्धम् अस्ति । अस्य मन्दिरस्य स्तम्भेषु, भित्तिषु च मूर्तयः सन्ति । ताः मूर्तयः बलुआ-पाषाणेषु उत्कीर्णाः सन्ति । अतः मन्दिरमिदं विख्यातम् अस्ति । खजुराहो-स्थलस्य इतिहासः सहस्राधिकवर्षेभ्यः पुरातनः अस्ति । इदं चन्देल-साम्राज्यस्य राजधानी आसीत् । चन्द्रवर्मन् इत्याख्यः शासकः अस्य स्थलस्य स्थापकः आसीत् । चन्द्रवर्मणा मध्यकाले बुन्देलखण्ड-क्षेत्रे शासनं कृतम् आसीत् । दशमशताब्दीतः द्वादशशताब्दीपर्यन्तं चन्देल-राजभिः मध्यभारते शासनं कृतम् । ई.स. ९५० तः १०५० पर्यन्तं खजुराहो-मन्दिराणां निर्माणं चन्देल-राजभिः कारितम् आसीत् । तैः आहत्य पञ्चाशीतिः मन्दिराणि निर्मापितानि आसन् । साम्प्रतं तेषु मन्दिरेषु द्वाविंशतिः मन्दिराणि एव सन्ति । मन्दिरेऽस्मिन् शृङ्गारदृश्यानि उत्कीर्णानि सन्ति । ई. स. १९८६ तमे वर्षे “विश्वसंस्थानस्य शैक्षणिकवैज्ञानिकसांस्कृतिकसंस्थानेन (UNESCO)” इदं मन्दिरं वैश्विकसम्पत्तित्वेन उद्घोषितम् । तानि उत्कीर्णानि दृष्टुं जनाः तत्र गच्छन्ति । चतुष्षष्ठीयोगिनीमन्दिरं, जावेरीमन्दिरं, देवीजगदम्बामन्दिरं, विश्वनाथमन्दिरं, केन्द्रीयमहादेवमन्दिरं, लक्ष्मणमन्दिरं च इत्येतानि मन्दिराणि खजुराहो-स्थलस्य प्रसिद्धानि मन्दिराणि सन्ति । खजुराहो-स्थले नृत्यमहोत्सवः अपि आयोज्यते । इमं महोत्सवं प्रतिवर्षं फरवरी-मासस्य २५ दिनाङ्कतः मार्च-मासस्य २ दिनाङ्कपर्यन्तं जनाः आचरन्ति । विश्वस्य विभिन्नदेशेभ्यः जनाः उत्सवे समागच्छन्ति । अस्य स्थलस्य वातावरणं यद्यपि मनोहरं भवति, किन्तु अक्टूबर-मासतः मार्च-मासपर्यन्तं जनाः तत्र भ्रमणार्थं गच्छन्ति । ग्रीष्मर्तौ उष्णतायाः आधिक्येन तत्कालः न वरः । खजुराहो-स्थलं मध्यप्रदेश-राज्यस्य प्रमुखनगरैः सह भूमार्गेण सम्बद्धम् अस्ति । महोबा, जबलपुर, भोपाल, झांसी, ग्वालियर च इत्यादिभ्यः नगरेभ्यः नियमितरूपेण बसयानानि प्राप्यन्ते । जनाः वैयक्तिकवाहनैः अपि तत्र गच्छन्ति । तत्र एकं रेलस्थानकम् अस्ति । तत् मध्यप्रदेश-राज्यस्य समीपस्थैः नगरैः सह सम्बद्धम् अस्ति । इदं रेलस्थानकं लघु अस्ति । महोबा-नगरे अस्य समीपस्थं रेलस्थानकम् अस्ति । खजुराहो-स्थलात् महोबा-नगरं ६३ किलोमीटर्मिते दूरे स्थितम् अस्ति । खजुराहो-नगरे एकं विमानस्थानकम् अपि अस्ति । खजुराहो-नगरात् विमानस्थानकं ५ किलोमीटर्मिते दूरे स्थितम् अस्ति । भारतस्य मुम्बई, देहली, कोलकाता इत्यादिभिः प्रमुखनगरैः सह इदं विमानस्थानकं सम्बद्धम् अस्ति । विमानस्थानकात् भाटकयानानि, बसयानानि च प्राप्यन्ते । जनाः सरलतया खजुराहो-नगरं गन्तुं शक्नुवन्ति ।

उज्जैन[सम्पादयतु]

उज्जैन-नगरं मध्यप्रदेशराज्यस्य उज्जैन-मण्डलस्य मुख्यालयः अस्ति । इदम् ऐतिहासिकं नगरं विद्यते । पुरा इदं नगरम् “उज्जयिनी” इति नाम्ना ज्ञायते स्म । नगरमिदं क्षिप्रा-नद्याः तटे स्थितम् अस्ति । उज्जैन-नगरे बहूनि धार्मिकस्थलानि सन्ति । उज्जैन-नगरे अशोक-राज्ञा, विक्रमादित्य-राज्ञा च इत्यादिभिः राजभिः शासनं कृतम् आसीत् । वेदेषु, पुराणेषु च अपि उज्जैन-नगर्याः वर्णनं प्राप्यते । महाभारतकाले इदं नगरम् अवन्तिराज्यस्य राजधानी आसीत् । वराहमिहिरः, ब्रह्मगुप्तः च इत्यादयः प्रसिद्धाः पुरुषाः अनेन नगरेण सह सम्बद्धाः सन्ति । द्वादशज्योतिर्लिङ्गेषु महाकालेश्वरज्योतिर्लिङ्गम् अपि उज्जैन-नगरे स्थितम् अस्ति । चिन्तामणिगणेश-मन्दिरं, बडे गणेशमन्दिरं, हरसिद्धिमन्दिरं, विक्रमकीर्तिमन्दिरं, गोपालमन्दिरं, नवग्रहमन्दिरं च इत्यादीनि मन्दिराणि उज्जैन-नगरस्य प्रमुखाणि धार्मिकस्थलानि सन्ति । भर्तृहरिगुहाः, सान्दीपनी-आश्रमः, कालभैरवमन्दिरं, गढकालिकामन्दिरं, मङ्गलनाथमन्दिरं, मत्स्येन्द्रनाथमन्दिरं च अस्य नगरस्य पर्यटनस्थलानि सन्ति । तेषु “कालियादेह महल” इत्येतत् स्थलं वास्तुकलायै प्रसिद्धम् अस्ति । अतः जनाः तत्र गच्छन्ति ।

पुरा जयसिंह-राज्ञा वेद्यशाला निर्मापिता आसीत् । तेन भारतस्य बहुषु स्थानेषु अपि नैकाः वेद्य शालाः निर्मापिताः । ज्योतिषविद्यायै अपि उज्जैन-नगरं प्रसिद्धम् अस्ति । तत्र “कालिदास अकादमी” इत्याख्या संस्था स्थिता अस्ति । ई. स. १९७८ तमे वर्षे मध्यप्रदेशसर्वकारेण इयं संस्था संस्थापिता । तत्र कालिदासस्य कृतिषु अध्ययनकार्यं, संशोधनकार्यं च प्रचलति । शीतर्तौ जनाः तत्र भ्रमणार्थं गच्छन्ति । यतः ग्रीष्मर्तौ उष्णतायाः आधिक्येन वातावरनम् अनुकूलं न भवति । किन्तु अक्टूबर-मासतः मार्च-मार्च् पर्यन्तं वातावरणं शीतलं भवति । तेन जनाः आनन्देन तत्र भ्रमन्ति ।

उज्जैन-नगरं राष्ट्रियराजमार्गेण भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । भोपाल, इन्दौर, अहमदाबाद, ग्वालियर इत्यादिभ्यः नगरेभ्यः नियमितरूपेण बसयानानि प्राप्यन्ते । उज्जैन-नगरे एकं रेलस्थानकम् अस्ति । इन्दौर, मुम्बई, पुणे, कोलकाता, भोपाल च इत्यादिभिः प्रमुखनगरैः रेलयानानि प्राप्यन्ते । उज्जैन-नगरे विमानस्थानकं नास्ति । उज्जैन-नगरात् ५५ किलोमीटर्मिते दूरे इन्दौर-नगरं स्थितम् अस्ति । तस्मिन् नगरे “देवी अहिल्याबाई होल्कर विमानस्थानकम्” विद्यते । भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते ।

पेंच[सम्पादयतु]

पेंच-नगरं मध्यप्रदेश-राज्यस्य सिवनी-मण्डले स्थितम् अस्ति । नगरेऽस्मिन् “पेंच-राष्ट्रियोद्यानम्”, “पेंच टाईगर रिजर्व्” च अस्ति । अतः एव इदं नगरं प्रसिद्धम् अस्ति । उद्याने विविधप्रकारकाः वनस्पतयः, जीवजन्तवः च सन्ति । औषधीयपादपाः अपि बहुप्रकारकाः भवन्ति । वानरः, गन्धमार्जारः, भल्लूकः, व्याघ्रः, श्वा, शूकरः, चित्रकायः, मृगः च इत्यादयः उद्यानस्य मुख्याः पशवः सन्ति । पचधार-ग्रामः, नवेगांव-राष्ट्रियोद्यानं, कान्हा-राष्ट्रियोद्यानं, नागपुर-नागझिरा-अभयारण्यं च इत्यादयः पेंच-नगरस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । “पेंच तुरिया गेट” इत्यस्मात् स्थलात् पचधार-ग्रामः १८ किलोमीटर्मिते दूरे स्थितः अस्ति । पेंच-नगरस्य समीपे विभिन्नजनजातीनां जनाः निवसन्ति । तेषां जनानां परम्परा, संस्कृतिः च अपि भिन्ना भवन्ति । पेंच-नगरात् कान्हा-राष्ट्रियोद्यानम् १९८ किलोमीटर्मिते दूरे स्थितम् अस्ति । प्रतिवर्षम् अक्टूबर-मासस्य १६ दिनाङ्कतः जून-मासस्य २३ तमदिनाङ्कपर्यन्तं पेंच-राष्ट्रियोद्यानस्य भ्रमणं कर्तुं शक्यते । यतः जुलाई-मासतः सितम्बर-मासपर्यन्तं वर्षर्तौ इदम् उद्यानं पिहितं भवति । फरवरी-मासतः अप्रैल-मासपर्यन्तं भ्रमणाय उत्तमकालं भवति । सिवनी-नगरस्य बसस्थानकं पेंच-नगरस्य समीपस्थं बसस्थानकम् अस्ति । ततः सिवनी-नगरं ३० किलोमीटर्मितम् अस्ति । सिवनी-नगरात् महाराष्ट्रस्य, मध्यप्रदेशस्य च प्रमुखनगरेभ्यः बसयानानि प्राप्यन्ते । पेंच-नगरस्य समीपस्थं रेलस्थानकं सिवनी-नगरे अस्ति । तत् ३० किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । पेंच-नगरात् नागपुर-नगरस्य सोनेगांव-विमानस्थानकम् अस्ति । तत् १३२ किलोमीटर्मिते दूरे स्थितम् अस्ति । ततः पुणे, मुम्बई, देहली इत्यादिभ्यः नगरेभ्यः वायुयानानि प्राप्यन्ते ।

साँची[सम्पादयतु]

साँची-ग्रामः मध्यप्रदेश-राज्यस्य रायसेनमण्डले स्थितः अस्ति । पुरा अयं ग्रामः “विदिशागिरि” इति नाम्ना ज्ञायते स्म । अयं ग्रामः भोपाल-नगरस्य पूर्वोत्तरदिशि ४६ किलोमीटर्मिते दूरे स्थितः अस्ति । बेसनगरात्, विदिशा-नगरात् च १० किलोमीटर्मिते दूरे स्थितमस्ति । ग्रामः अयं मध्यप्रदेशराज्यस्य मध्यभागे विराजते । ग्रामेऽस्मिन् बहवः बौद्धस्मारकाणि सन्ति । तानि स्मारकाणि ई. स. पूर्व तृतीयशताब्दीतः द्वादशशताब्दीपर्यन्तकालस्य सन्ति । अस्मिन् ग्रामे बौद्धधर्मस्य एकः स्तूपः अपि स्थितः अस्ति । सः स्तूपः “साँचीस्तूपः” इति नाम्ना विश्वस्मिन् प्रसिद्धः अस्ति । बौद्धविहारः, साँचीसङ्ग्रहालयः, द ग्रेट् बाउल् ऑफ् गुप्ता, अशोकस्तम्भः च इत्यादीनि साँची-ग्रामस्य समीपस्थानि वीक्षणीयस्थलानि सन्ति । “साँची-ग्रामे बहूनि बौद्धस्मारकाणि सन्ति” इति सत्यम् अस्ति । साँची-ग्रामस्य इतिहासः भगवता बुद्धेन सह सम्बद्धः अस्ति । किन्तु आश्चर्यमस्ति यत् – “भगवान् बुद्धः साँची-ग्रामं कदापि न आगतवान्” इति ।

पुरा साँची-ग्रामः व्यापारिणां केन्द्रम् आसीत् । तैः व्यापारिभिः बौद्धप्रथायाः प्रचारः अपि कृतः । साँचीस्तूपस्य विषये एका कथा प्राप्यते यत् - “अशोकस्य शासनकाले “देवी” इत्याख्या कन्या आसीत् । सा बौद्धभक्ता आसीत् । अशोकः तस्यां स्निहति स्म । देव्या एव बौद्धस्तूपानां निर्माणाय अशोकः प्रेरितः । साँचीस्तूपस्य प्रवेशद्वाराणां वास्तुकला अद्भुता अस्ति । इदं स्थलं भारतस्य विशिष्टबौद्धस्थलेषु अन्यतमम् अस्ति । नवम्बर-मासतः फरवरी-मासपर्यन्तं साँची-ग्रामे धार्मिकोत्सवाः आचर्यन्ते । अतः जनाः तस्मिन् काले भ्रमणार्थं तत्र गच्छन्ति ।

साँची-ग्रामात् मध्यप्रदेशस्य विभिन्ननगरेभ्यः बसयानानि प्राप्यन्ते । जनाः वैयक्तिकवाहनैः, भाटकवाहनैः च तत्र गच्छन्ति । इन्दौर, भोपाल, विदिशा च इत्यादीनि नगराणि साँची-ग्रामेण सह सम्बद्धानि सन्ति । भोपाल-नगरे साँची-ग्रामस्य समीपस्थं रेलस्थानकम् अस्ति । भोपाल-नगरं साँची-ग्रामात् ५० किलोमीटर्मिते दूरे स्थितम् अस्ति । भोपाल-रेलस्थानकात् भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते । ततः साँची-ग्रामाय बसयानानि, भाटकयानानि च प्राप्यन्ते । भोपाल-नगरे राजाभोज-विमानस्थानकम् विद्यते । साँची-ग्रामात् तद्विमानस्थानकं ४६ किलोमीटर्मिते दूरे स्थितम् अस्ति । देहली, मुम्बई, जबलपुर, इन्दौर, ग्वालियर इत्यादिभिः नगरैः सह राजाभोज-विमानस्थानकं सम्बद्धम् अस्ति । ततः तेभ्यः नगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते । राजाभोज-विमानस्थानकात् साँची-ग्रामाय बसयानानि, भाटकयानानि च प्राप्यन्ते । जनाः सरलतया साँची-ग्रामं गन्तुं शक्नुवन्ति ।

इटारसी[सम्पादयतु]

इटारसी-नगरं मध्यप्रदेश-राज्यस्य होशङ्गाबाद-मण्डले स्थितम् अस्ति । मध्यप्रदेशस्य प्रसिद्धं रेलस्थानकं, व्यापारिकं केन्द्रं च अस्ति इदं नगरम् । अस्य नगरस्य रेलस्थानकं प्राचीनतमं रेलस्थानकम् अस्ति । कृषिक्षेत्रे, औद्योगिकक्षेत्रे च अस्य नगरस्य विशिष्टं स्थानं वर्तते । इटारसी-नगरं हस्तकलायै, शिल्पकलायै, प्राचीनकलायै च भारते प्रसिद्धम् अस्ति । भोपाल-नगरात् ९० किलोमीटर्मिते दूरे स्थितम् अस्ति इदं नगरम् । हिन्दी-भाषायाः “ईंट”, “रस्सी” इत्येताभ्यां शब्दाभ्यां “इटारसी” नामोत्पत्तिः जाता । यतः अस्मिन् नगरे ईष्टिकायाः, रज्जोः व्यापारः प्रमुखः अस्ति । इटारसी-नगरे खानिजस्य प्रचूरमात्रा लभ्यते । अतः तत्र भारतीयसेनायै शस्त्रास्त्राणि निर्मीयन्ते । अस्मिन् नगरे बहवः यन्त्रागाराः सन्ति । अतः एव व्यावसायिकेन्द्रत्वेन सम्पूर्णे भारते विख्यातम् इदं नगरम् । इटारसी-नगरस्य समीपे पर्यटनस्थलानि अपि बहूनि सन्ति । बोरी-अभयारण्यं, तवा-जलबन्धः, बूढीमाता-मन्दिरं, बडा हनुमन् मन्दिरं, स्वप्नेवरहनुमन्-मन्दिरं, विन्ध्येश्वरीमाता-मन्दिरं, द्वारकाधीशमन्दिरं, मलोथर च इत्यादीनि इटारसी-नगरस्य वीक्षणीयस्थलानि सन्ति । शीतर्तुः अस्य नगरस्य भ्रमणाय उत्तमः कालः अस्ति ।

इटारसी-नगरं मध्यप्रदेशराज्यस्य व्यावसायिकं नगरम् अस्ति । अतः तत्र आवागमस्य श्रेष्ठव्यवस्था अस्ति । राष्ट्रियराजमार्गेण सह इदं नगरं सम्बद्धम् अस्ति । मध्यप्रदेशराज्यस्य इन्दौर, भोपाल, उज्जैन, ग्वालियर इत्यादिभिः प्रमुखनगरैः सम्बद्धम् अस्ति । इटारसी-नगरात् तेभ्यः नगरेभ्यः नियमितरूपेण बसयानानि प्राप्यन्ते । इटारसी-नगरे मध्यप्रदेशराज्यस्य प्राचीनतमं, बृहत्तमं च रेलस्थानकम् अस्ति । तद्विमानस्थानकं भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । ततः भारतस्य प्रमुखनगरेभ्यः रेलयानानि प्राप्यन्ते ।‘भोपाल-नगरस्य राजाभोज-विमानस्थानकम् इटारसी-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इटारसी-नगरात् तद्विमानस्थानकं ९० किलोमीटर्मिते विद्यते । राजाभोज-विमानस्थानकात् इटारसी-नगराय भाटकयाननि, बसयानानि च प्राप्यन्ते ।

माण्डवगढ[सम्पादयतु]

माण्डवगढ-नगरं मध्यप्रदेशराज्यस्य धार-मण्डले स्थितम् अस्ति । माण्डू, शादियाबाद च इत्येते अस्य अपरे नामानि स्तः । पर्यटनदृष्ट्या माण्डवगढ-नगरं रमणीयं स्थलं, ऐतिहासिकं स्थलं च वर्तते । इदं नगरं मालवा-क्षेत्रे अस्ति । अतः मध्यप्रदेशसर्वकारः प्रतिवर्षं मालवा-समारोहस्य आयोजनं करोति । अतः तस्मिन् उत्सवे बहवः जनाः समागच्छन्ति । पुरा माण्डवगढ एकं लघुराज्यम् आसीत् । अफगान-देशस्य “दिलावर खान” इत्याख्येन राज्ञा अस्मिन् राज्ये शासनं कृतम् । “दिलावर खान” इत्याख्यस्य पुत्रः “होसाङ्ग शाह” आसीत् । तेन अपि ग्वालियर-राज्ये शासनम् कृतम् । सः एकः श्रेष्ठः राजा आसीत् । तेन ग्वालियर-राज्यस्य विकासः कृतः । अनन्तरम् अस्मिन् राज्ये मुगल-शासकैः अपि शासनं कृतम् । ई. स. १७३२ तमे वर्षे मराठा-शासकैः अस्मिन् राज्ये विजयः प्राप्तः । वर्षर्तौ माण्डवगढ-नगरस्य वातावरणं सौम्यं, मनोहरं च भवति । अतः तस्मिन् काले ग्वालियर-नगरस्य भ्रमणं वरम् । माण्डवगढ-नगरम् ऐतिहासिकदृष्ट्या अतीव महत्त्वपूर्णम् अस्ति । अस्मिन् नगरे वास्तुकलायाः अपि प्रतिकृतयः प्राप्यन्ते । “होसाङ्ग शाह” इत्याख्येन “होसाङ्ग मकबरा” श्वेतशैलैः निर्मापितम् आसीत् । “होसाङ्ग मकबरा” भारतस्य सर्वप्रथमं श्वेतशैलनिर्मिता रचना अस्ति । अस्याधारेण एव “शाहजहां” इत्याख्यः राजा “ताजमहल” निर्मापितुं प्रेरितः जातः ।

माण्डवगढ-नगरं राष्ट्रियराजमार्गेण, राजकीयराजमार्गेण च सम्बद्धम् अस्ति । माण्डवगढ-नगरात् भारतस्य विभिन्ननगरेभ्यः बसयानानि प्राप्यन्ते । माण्डु-नगरे रेलस्थानकं नास्ति । रतलाम-नगरस्य रेलस्थानकं माण्डवगढ-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । माण्डवगढ-नगरात् रतलाम-नगरं १०५ किलोमीटर्मिते दूरे स्थितम अस्ति । रतलाम-रेलस्थानकं देहली-मुम्बई-रेलमार्गस्य मुख्यरेलस्थानकम् अस्ति । भारतस्य प्रमुखनगरेभ्यः ततः रेलयानानि प्राप्यन्ते । रतलाम-नगरात् बसयानैः माण्डवगढ-नगरं प्राप्यते । माण्डवगढ-नगरस्य समीपस्थं विमानस्थानकम् इन्दौर-नगरे अस्ति । इन्दौर-नगरं १०० किलोमीटर्मिते दूरे स्थितमस्ति । देहली, मुम्बई, ग्वालियर, भोपाल इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः इन्दौर-विमानस्थानकात् नियमितरूपेण वायुयानानि प्राप्यन्ते ।

पन्ना[सम्पादयतु]

पन्ना-नगरं भारतस्य पन्नामण्डलस्य केन्द्रमस्ति । हीरकमणये सम्पूर्णभारते प्रसिद्धम् अस्ति इदं नगरम् । पन्ना-नगरस्य हीरकमणयः विश्वस्मिन् विक्रीयन्ते । पन्ना-नगरस्य हीरकमणीनां गुणवत्ता उत्तमा भवति । हिन्दुधर्मस्य अस्मिन् नगरे महत्त्वम् अधिकं विद्यते । पन्नाराष्ट्रियोद्यानं पन्ना-नगरस्य प्रमुखं वीक्षणीयस्थलम् अस्ति । पाण्डवगुहाः, पाण्डवजलप्रपाताः, उद्यानानि च अस्य नगरस्य प्राकृतिकस्थलानि सन्ति ।

पन्ना-नगरं राष्ट्रियराजमार्गेण सह सम्बद्धम् अस्ति । देहली, आग्रा, झाँसी, लखनऊ, फरीदाबाद, वाराणसी, नागपुर, जबलपुर, इलाहाबाद, ढोलपुर, इन्दौर, भोपाल च इत्यादिभिः प्रमुखनगरैः सह सम्बद्धम् अस्ति । पन्ना-नगरे रेलस्थानकं नास्ति । पन्ना-नगरस्य समीपे खजुराहो, सतना च इत्येते द्वे रेलस्थानके स्तः । पन्ना-नगरात् खजुराहो-नगरं ४५ किलोमीटर्मिते, सतना-नगरं ७५ किलोमीटर्मिते च दूरे स्थितमस्ति । ते रेलस्थानके भारतदेशस्य प्रमुखनगरैः च सम्बद्धे स्तः । ताभ्यां रेलस्थानकाभ्यां पन्ना-नगराय बसयानानि, भाटकयानानि च प्राप्यन्ते । पन्ना-नगरे विमानस्थानकम् अस्ति किन्तु साम्प्रतं तस्य उपयोगः न क्रियते । किन्तु खजुराहो-नगरे पन्ना-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । जनाः सरलतया पन्ना-नगरं प्राप्नुवन्ति ।

पचमढी[सम्पादयतु]

पचमढी-नगरं मध्यप्रदेश-राज्यस्य एकाकि एव पर्वतीयक्षेत्रम् अस्ति । पचमढी-स्थलं “सतपुडा की रानी”, “क्वीन् ऑफ् सतपुडा” वा इति नाम्ना ज्ञायते । सतपुडापर्वतशृङ्खलायाः भागः अस्ति इदं क्षेत्रम् । इदं स्थलं १११० मीटर्मिते औन्नत्ये स्थितम् अस्ति । पचमढी-नगरं गौण्ड्-जनजातेः आदिवासिवंशस्य राजधानी आसीत् । “भावुत सिंह” इत्याख्यः गौण्ड-आदिवासिनां राजा आसीत् । ई. स. १८५७ तमे वर्षे ब्रिटिश-सेनायाः जेम्स् फोरसिथ् इत्याख्येन नायकेन पचमढी-पर्वतीयक्षेत्रम् अन्विष्टम् । अस्य क्षेत्रस्य विकासाय तस्य योगदानम् अपि अस्ति । ई. स. २००९ तमे वर्षे “विश्वसंस्थानस्य शैक्षणिकवैज्ञानिकसांस्कृतिकसंस्थानेन (UNESCO)” इदं क्षेत्रं जीवमण्डलारक्षितक्षेत्रम् उद्घोषितम् आसीत् । पचमढी-क्षेत्रे बहूनि पर्यटनस्थलानि सन्ति । तत्र स्थितं “धूपगढ” इत्येतत् स्थलं विन्ध्य-सतपुडापर्वतशृङ्खलायाः, मध्यभारतस्य च उच्चतमः बिन्दुः अस्ति । पचमढी-स्थले प्राचीनगुहाः, स्मारकाणि, जलप्रपाताः, वनानि च सन्ति । एतानि स्थलानि पचमढी-नगरस्य आकर्षणस्य केन्द्राणि सन्ति । हांडी खोह, जटाशङ्करगुहा, पाण्डवगुहाः, अप्सराविहारः, बी फॉल्, डचेस् फॉल् च इत्यादयः पचमढी-नगरस्य वीक्षणीयस्थलानि सन्ति । यद्यपि पचमढी-नगरस्य वातावरणं सर्वदा सुखमयम्, आनन्दमयं च भवति, तथापि अक्टूबर-मासतः जून-मासपर्यन्तं पचमढी-नगरस्य वातावरणं सर्वोत्तमं भवति ।

पचमढी-नगरं मध्यप्रदेश-राज्यस्य विभिन्ननगरैः भूमार्गेण संलग्नम् अस्ति । महाराष्ट्र-राज्यस्य सर्वकारसञ्चालितानि बसयानानि अपि पचमढी-नगराय प्राप्यन्ते । भोपाल-नगराय, पिपरिया-नगराय, नागपुर-नगराय च अपि पचमढी-नगरात् बसयानानि प्राप्यन्ते । पिपरिया-नगरस्य रेलस्थानकं पचमढी-नगरस्य निकटतमं रेलस्थानकम् अस्ति । इदं पचमढी-नगरात् ४७ किलोमीटर्मिते दूरे स्थितम् अस्ति । भोपाल-नगरे अपि रेलस्थानकम् अस्ति । तत् पचमढी-नगरात् २०० किलोमीटर्मिते दूरे स्थितम् अस्ति । भोपाल-नगरे स्थितं “राजा भोज-विमानस्थानकं” पचमढी-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । इदं विमानस्थानकं पचमढी-नगरात् १९५ किलोमीटर्मिते दूरे स्थितमस्ति । तस्माद् विमानस्थानकात् दिल्ली-महानगराय, मुम्बई-महानगराय, ग्वालियर-नगराय, इन्दौर-महानगराय च वायुयानानि प्राप्यन्ते । “राजा भोज-विमानस्थानकात् पचमढी-नगराय बसयानानि, भाटकयानानि च प्राप्यन्ते ।

बान्धवगढ[सम्पादयतु]

बान्धवगढ इत्येतत् स्थलं मध्यप्रदेश-राज्यस्य रीवा-मण्डले स्थितम् अस्ति । इदं नगरं राष्ट्रियोद्यानाय भारते प्रसिद्धम् अस्ति । इदं नगरं श्वेतव्याघ्राणां निवासस्थानं मन्यते । रीवा-प्रान्तस्य राजा आखेटाय बान्धवगढ-स्थलस्य उपयोगं करोति स्म । तत्र पर्वतक्षेत्रे एकः दुर्गः अपि स्थितः अस्ति । प्रागेव इदं स्थलं राष्ट्रियोद्यानत्वेन मन्यते । पुरा इदम् अभयारण्यम् आखेटाय प्रसिद्धम् आसीत् । किन्तु साम्प्रतं सर्वकारेण अवैधाखेटाय प्रतिबन्धः कृतः । तेन व्याघ्राणां सङ्ख्या वर्धते । ई. स. १९६८ तमे बान्धवगढ-नगरं राष्ट्रियोद्यानत्वेन विख्यातम् अभवत् । भारते सर्वाधिकाः व्याघ्राः अस्मिन् अभयारण्ये वसन्ति । इतः परं चित्रकायाणां (Panthers), मृगानां च विभिन्नप्रजातयः प्राप्यन्ते । तत्र बहवः वन्यजीवाः अपि प्राप्यन्ते । अस्मिन् उद्याने विहगानां पञ्चाशताधिकद्विशतं प्रजातयः प्राप्यन्ते । तत्र विभिन्नप्रकाराकाः वृक्षाः, वनौषधयः चापि सन्ति ।

बान्धवगढ-दुर्गः, विन्ध्यपर्वतशृङ्खला च अस्य स्थलस्य प्रसिद्धे पर्यटनस्थले स्तः । मध्यप्रदेश-राज्ये नव राष्ट्रियोद्यानानि, पञ्चविंशति अभयारण्यानि च सन्ति । अतः एव इदं राज्यं सम्पूर्णे भारते विख्यातम् अस्ति । तेषु अभयारण्येषु बान्धवगढ-राष्ट्रियाभयारण्यं सर्वाधिकं प्रसिद्धम् अस्ति । अनेन कारणेन मध्यप्रदेशराज्यं “टाईगर् स्टेट्” इति कथ्यते । बान्धवगढ-नगरस्य प्राचीनाः गुहाः, घारपुरी-जलबन्धः, शेषशय्या, घोराडेमांव-जलप्रपातः, बघेल-सङ्ग्रहालयः च इत्यादीनि अस्य नगरस्य आकर्षणस्य स्थलानि सन्ति ।

बान्धवगढ-नगरं भूमार्गेण मध्यप्रदेशराज्यस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । मध्यप्रदेश-राज्यस्य सर्वकारेण प्रचालितानि बसयानानि नियमितरूपेण प्राप्यन्ते । कटनी-नगरस्य रेलस्थानकं बान्धवगढ-नगरस्य समीपस्थं रेलस्थानकम् अस्ति । कटनी-रेलस्थानकात् वडोदरा-नगराय, मुम्बई-नगराय, बेङ्गळूरु-महानगराय, चेन्नै-महानगराय च इत्यादिभ्यः भारतस्य प्रमुकनगरेभ्यः रेलयानानि प्राप्यन्ते । कटनी-रेलस्थानकात् बान्धवगढ-नगराय बसयानानि, भाटकयानानि च सरलतया प्राप्यन्ते । जबलपुर-नगरस्य विमानस्थानकं बान्धवगढ-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । मुम्बई-महानगराय, देहली-महानगराय, इन्दौर-महानगराय च वायुयानानि प्राप्यन्ते ।

रीवा[सम्पादयतु]

रीवा-नगरं मध्यप्रदेश-राज्यस्य रीवा-मण्डलस्य मुख्यालयः अस्ति । अस्मिन् नगरे सङ्ग्रहालयाः, दुर्गाः, जलप्रपाताः, ऐतिहासिकस्थलानि च सन्ति । एतानि सर्वाणि स्थलानि प्राकृतिकानि, मानवनिर्मितानि च सन्ति । तत्र श्वेतव्याघ्राः अपि प्राप्यन्ते । इदं स्थलं चतुर्षु भागेषु विभक्तम् अस्ति यत् – “बिञ्झ-पर्वतः, अधस्तात् उत्तरीस्थलं, कायमोर-पर्वतः, रीवा-शैलप्रस्थः च । नर्मदा-नद्याः अपरं नाम रीवा अपि अस्ति । अतः अस्य नगरस्य नाम रीवा इति अभवत् । ई. पूर्व तृतीयशताब्द्यां मौर्यशासकानां शासनम् आसीत् । बाघैल-सङ्ग्रहालयः, रीवा-दुर्गः, “पीली कोठी”, गोविन्दगढ-दुर्गः, गोविन्दगढ-भवनं, वैङ्कट-भवनम्, “रानी तालाब”, “एपीएस् विश्वविद्यालय स्टेडियम्”, “भाईरोम बाबा - इत्याख्यस्य प्रतिमा”, रानीपुर कारचुलियन्, केओंती-जलप्रपातः, पुरवा-जलप्रपातः, चाचाय-जलप्रपातः च रीवा-नगरस्य पर्यटनस्थलानि सन्ति । वर्षतुः रीवा-नगरस्य भ्रमणार्थम् उत्तमः ऋतुः वर्तते । जुलाई-मासतः सितम्बर-मासपर्यन्तं जनाः तत्र पर्यटनाय गच्छन्ति । तस्मिन् काले रीवा-नगरस्य सौन्दर्यम् अतीव आह्लादकं दृश्यते ।

रीवा-नगरे मध्यप्रदेश-राज्यस्य सर्वकारेण प्रचालितानि बसयानानि प्राप्यन्ते । इदं नगरं भूमार्गेण मध्यप्रदेशराज्यस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । रीवा-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं रीवा-नगरात् ५.८ किलोमीटर्मिते दूरे स्थितम् अस्ति । भारतस्य, मध्यप्रदेशस्य च प्रमुकनगरेभ्यः रीवा-नगरात् नियमितरूपेण रेलयानानि प्राप्यन्ते । रीवा-नगरं भोपाल-नगरेण, देहली-महानगरेण, जयपुर-नगरेण इत्यादिभिः नगरैः सह सम्बद्धम् अस्ति । खजुराहो-नगरे रीवा-नगरस्य समीपस्थं विमानस्थानकमस्ति । खजुराहो-नगरात् रीवा-नगराय नियमितरूपेण बसयानानि, भाटकयानानि च प्राप्यन्ते ।

महेश्वर[सम्पादयतु]

महेश्वर-पत्तनं मध्यप्रदेश-राज्यस्य खरगौन-मण्डले स्थितम् अस्ति । अस्मिन् पत्तने हस्तनिर्मितानि वस्त्राणि प्राप्यन्ते । तत्र हस्तनिर्मिताः शाटिकाः अपि प्राप्यन्ते । अत एव इदं भारते प्रसिद्धम् अस्ति । सांस्कृतिकदृष्ट्या इदं पत्तनं समृद्धम् अस्ति । दुर्गाः, भवनानि, मन्दिराणि च अस्य नगरस्य आकर्षणकेन्द्राणि सन्ति । अस्य नगरस्य भवनानां वास्तुकला अपि अद्भुता अस्ति । अस्मिन् नगरे भगवतः शिवस्य बहूनि मन्दिराणि सन्ति । अस्य नगरस्य जनाः सर्वाणि पर्वाणि उत्साहपूर्वकम् आचरन्ति । शीतर्तौ महेश्वर-पत्तनं गन्तुम् उत्तमं भवति । अतः एव जनाः अक्टूबर-मासतः फरवरी-मासपर्यन्तं महेश्वर-पत्तनं गच्छन्ति ।

महेश्वर-पत्तने मध्यप्रदेशराज्यस्य सर्वकारेण प्रचालितानि बसयानानि प्राप्यन्ते । मध्यप्रदेशराज्यस्य विभिन्ननगरैः सह इदं पत्तनं सम्बद्धम् अस्ति । इन्दौर-महानगरस्य रेलस्थानकं महेश्वर-पत्तनस्य निकटतमं रेलस्थानकम् अस्ति । तत् महेश्वर-पत्तनात् ६६ किलोमीटर्मिते दूरे स्थितम् अस्ति । इन्दौर-नगरं भारतस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । इन्दौर-नगरात् महेश्वर-पत्तनाय नियमितरूपेण बसयानानि, भाटकयानानि च प्राप्यन्ते । इन्दौर-नगरस्य विमानस्थानकम् अपि महेश्वर-पत्तनस्य समीपस्थं विमानस्थानकम् अस्ति । भारतस्य प्रमुखनगरेभ्यः वायुयानानि प्राप्यन्ते । अनेन प्रकारेण महेश्वर-पत्तनस्य परिवहनं सरलम् अस्ति । अतः जनाः सरलतया महेश्वर-पत्तनं प्राप्तुं शक्नुवन्ति ।

विदिशा[सम्पादयतु]

मध्यप्रदेशराज्यस्य विदिशामण्डलस्य मुख्यालयः अस्ति इदं नगरम् । अस्य नगरस्य प्राचीनं नाम “भिलसा” इति आसीत् । नगरमिदम् ऐतिहासिकम् अस्ति । नगरे प्राचीनावशेषाः, स्मारकाणि च प्राप्यन्ते । बेसनगरस्य अवशेषाः, उदयगिरि-नगरस्य गुहाः च गुप्तसाम्राज्यस्य प्रमाणभूताः सन्ति । २६०० वर्षेभ्यः पूर्वम् इदं नगरं प्रमुखव्यापारकेन्द्रम् आसीत् । १००० वर्षेभ्यः पूर्वम् अशोक-राजा विदिशा-साम्राज्यस्य राज्यपालः आसीत् । इदं स्थलं भोपाल-नगरस्य समीपे एव स्थितम् अस्ति । अस्मिन् नगरे बहूनि पर्यटनस्थलानि सन्ति । तत्र प्राचीनमूर्तयः, शिलालेखाः, भग्नावशेषाः च प्राप्यन्ते । गिरधारी-मन्दिरं, उदयेश्वर-मन्दिरं, दशावतार-मन्दिरं, मालादेवी-मन्दिरं, बाजरामठ-मन्दिरं, गाडरमल-मन्दिरं, “सोला खम्बी-मन्दिरं” च इत्येतानि विदिशा-नगरस्य वीक्षणीयस्थलानि सन्ति । बीजामण्डलम् अस्य नगरस्य प्रमुखं तीर्थस्थलम् आसीत् । किन्तु साम्प्रतं तस्य मन्दिरस्य भग्नावशेषाः एव प्राप्यन्ते । सिरोञ्ज-जैनसमुदायस्य प्रसिद्धं तीर्थस्थलं मन्यते इदं नगरम् । तत्र हेलियोडोरस-स्तम्भः वर्तते । सः स्तम्भः “खम्बा बाबा” इति नाम्ना ज्ञायते । उदयगिरि-गुहाः, शालभञ्जिका, ग्यारसपुरस्य मूर्तयः च इत्येतानि आकर्षणस्य केन्द्राणि सन्ति । “लोहङ्गी पीर”, “हिण्डोला तोरण” च इमे अपि अस्य नगरस्य ऐतिहासिके स्थले स्तः । शीतर्तौ जनाः विदिशा-नगरं गच्छन्ति । तस्मिन् समये वातावरणं मनोहरं भवति ।

विदिशा-नगरं भूमार्गेण भारतस्य विभिन्ननगरैः सह सम्बद्धम् अस्ति । मध्यप्रदेशराज्यस्य सर्वकारेण प्रचालितानि बसयानानि अपि प्रचलन्ति । भोपाल-नगरात्, उदयपुर-नगरात् च विदिशा-नगराय नियमितरूपेण बसयानानि प्राप्यन्ते । विदिशा-नगरे एकं रेलस्थानकम् अस्ति । इदं रेलस्थानकं देहली-चेन्नैरेलमार्गस्य प्रमुखं रेलस्थानकम् अस्ति । इदं रेलस्थानकं भारतस्य प्रमुखनगरैः सह सम्बद्धमस्ति । इन्दौर-नगराय, देहली-महानगराय, मुम्बई-महानगराय इत्यादिभ्यः नगरेभ्यः नियमितरूपेण रेलयानानि प्राप्यन्ते । भोपाल-नगरे स्थितं “राजा भोज-विमानस्थानकं” विदिशा-नगरस्य समीपस्थं विमानस्थानकमस्ति । तद् विमानस्थानकं विदिशा-नगरात् ५६ किलोमीटर्मिते दूरे स्थितम् अस्ति । भोपाल-नगरात् अन्ताराष्ट्रियवायुयानानि अपि प्राप्यन्ते । अनेन प्रकारेण सरलतया विदिशा-नगरं प्राप्तुं शक्यते ।

खण्डवा[सम्पादयतु]

खण्डवा-नगरं मध्यप्रदेशराज्यस्य खण्डवा-मण्डलस्य मुख्यालयः अस्ति । इदम् एकम् ऐतिहासिकं नगरं वर्तते । अस्मिन् प्राचीने नगरे बहूनि मन्दिराणि, तीर्थस्थलानि, कुण्डाः च सन्ति । अत एव इदं नगरं “मन्दिराणां, कुण्डानां च नगरम्” इति कथ्यते । खण्डवा-नगरे जैनधर्मस्य मन्दिराणि अपि सन्ति । द्वादशशताब्द्यां खण्डवा-नगरे जैनधर्मानुयायिनां सङ्ख्या अधिका आसीत् । अतः इदं नगरं जैनधर्मस्य केन्द्रं मन्यते स्म । ब्रिटिश-शासनकाले खण्डवा-नगरं निमाड-क्षेत्रस्य प्रमुखं वाणिज्यकेन्द्रं मन्यते स्म । खण्डवा-नगरं चलच्चित्रजगतः “किशोरकुमार” इत्याख्यस्य पार्श्वगायकस्य जन्मस्थलम् अपि अस्ति । किशोरकुमारस्य “गौरीकुञ्ज” नामकं स्मारकम् अपि विद्यते । खण्डवा-नगरे बहूनि वीक्षणीयस्थलानि सन्ति । “भवानीमाता-मन्दिरं” खण्डवा-नगरस्य महत्त्वपूर्णं तीर्थस्थलं वर्तते । प्रतिवर्षं सहस्राधिकजनाः दर्शनार्थं तत्र गच्छन्ति । खण्डवा-नगरस्य समीपे ओङ्कारेश्वर-मन्दिरं स्थितम् अस्ति । तत्र “सिद्धवरकूट-मन्दिरं”, “ममलेश्वर-मन्दिरं” च स्थितम् अस्ति । तयोः सिद्धवरकूटं जैनधर्मस्य, ममलेश्वरं च हिन्दुधर्मस्य तीर्थस्थलं वर्तते । असीरगढ-दुर्गः अपि खण्डवा-नगरस्य आकर्षणस्य केन्द्रं विद्यते । अयं दुर्गः “डेक्कन्” इत्यस्य नेत्रत्वेन मन्यते । विश्वस्य विभिन्ननगरेभ्यः पर्यटकाः इमं दुर्गं दृष्टुं गच्छन्ति । खण्डवा-नगरे नैकाः जलबन्धाः सन्ति । तेषु जलबन्धेषु इन्दिरासागर-जलबन्धः, नग्चुन-जलबन्धः च पर्यटनाय महत्त्वपूर्णः अस्ति । अक्टूबर-मासतः मार्च-मासपर्यन्तम् अस्य नगरस्य वातावरणं मनोहरं भवति । अतः जनाः तस्मिन् काले भ्रमणार्थं तत्र गच्छन्ति ।

खण्डवा-नगरे मध्यप्रदेशराज्यस्य सर्वकारेण प्रचालितानि बसयानानि प्रचलन्ति । मध्यप्रदेश-राज्यस्य विभिन्ननगरेभ्यः खण्डवा-नगराय बसयानानि प्राप्यन्ते । खण्डवा-नगरं भूमार्गेण मध्यप्रदेशस्य प्रमुखनगरैः सह सम्बद्धम् अस्ति । खण्डवा-नगरे एकं रेलस्थानकम् अस्ति । इदं भोपाल-रेलस्थानकेन, इन्दौर-रेलस्थानकेन च सह सम्बद्धम् अस्ति । ताभ्यां नगराभ्यां प्रतिदिनं खण्डवा-नगराय रेलयानानि प्राप्यन्ते । देहली-महानगराय, मुम्बई-महानगराय, कोलकात-महानगराय, कोचीन-नगराय, बेङ्गळूरु-महानगराय, हैदराबाद-महानगराय, जम्मू-नगराय, पटना-नगराय इत्यादिभ्यः भारतस्य प्रमुखनगरेभ्यः अपि रेलयानानि प्राप्यन्ते । इन्दौर-नगरस्य “देवी अहिल्याबाई होलकर” इत्येतत् विमानस्थानकं खण्डवा-नगरस्य समीपस्थं विमानस्थानकम् अस्ति । खण्डवा-नगरात् इन्दौर-नगरं ११० किलोमीटर्मिते दूरे स्थितम् अस्ति । अनेन प्रकारेण खण्डवा-नगरं भारतस्य प्रमुखनगरैः सह भूमार्गेण, रेलमार्गेण, वायुमार्गेण च सम्बद्धम् अस्ति ।

उज्जयिनी-वैशिष्ट्यम्[सम्पादयतु]

मध्यप्रदेशस्य उज्जयिन्याम् आदिकविः कालिदासः (क्रि.श. ३७५ तः ४१५ पर्यन्तं) वासं करोति स्म इति प्रतीतिरस्ति । पुराणकाले अस्य नगरस्य अवन्तिकानगरमिति व्यवहारः आसीत् । अस्य नगरस्य अवन्ती, अवन्तिकापुरी, अवन्तिका, कुशस्थली, भगवती, कुमुद्वती, हिरण्यवती, विशाला इत्यादीनि नामान्तराण्यपि सन्ति । अत्रैव कृष्णबलरामयोः गुरोः सान्दीपनिमहर्षेः आश्रमः अस्ति । क्षिप्रानद्याः तटे महाकालस्य ईशस्य मन्दिरमस्ति । भारते विद्यमानेषु द्वादशज्योतिर्लिङ्गेषु अयं स्वयम्भूः ईशः इत्यतः अत्यन्तशक्तिमान् इति भक्तानां विश्वासः । दक्षिणाभिमुखः अयं ईशः इति महद्वैशिष्ट्यम् अस्य शिवलिङ्गस्य । एवम् अस्य वाहनस्य वृषभस्य मुखमपि दक्षिणदिशि वर्तते इति महद्वैशिष्ट्यम् । अतः अस्य शिवलिङ्गस्य ’दक्षिणामूर्तिः’ इत्यपि प्रसिद्धिरस्ति । अत्र प्रतिदीपावल्यां दीपोत्सवः महता वैभवेन आचर्यते । गरुडपुराणोक्तसप्त(अयोध्या, मथुरा, माया, काशी, काञ्ची, अवन्तिका, द्वारावती)पवित्रतमक्षेत्रेषु अन्यतमं क्षेत्रम् इदम् । 'एप्रिल्'-मासादारभ्य 'जून्'-मासाभ्यान्तरं ४५ 'डिग्री' औष्ण्यं भवति । 'अक्टोबर्'-मासादारभ्य 'जनवरी'-मासाभ्यान्तरम् उत्तमं वातावरणं भवति ।

महाकुम्भोत्सवः[सम्पादयतु]

द्वादशवर्षेषु एकवारम् अत्र महाकुम्भोत्सवः भवति । अस्मिन् शुभावसरे लक्षाधिकाः जनाः देशविदेशेभ्यः अत्र समागच्छन्ति । नर्मदानद्यां स्नात्वा पुनीताः भवन्ति । उत्सवसमये नागासाधवः एवम् अघोरिजनाः अत्र उपस्थिताः भवन्ति । नद्याः तटे नेत्रं प्रसारयामश्चेत् देवालयसमूहः दृश्यते । उज्जयिन्यां समयनिर्धारणसाधनानि सन्ति इत्यतः भारतस्य ’ग्रीन् विच्’ इति अस्य नगरस्य प्रसिद्धिरस्ति । ’जन्तर् मन्तर्’ मध्ये स्पष्टं समयं मापयितुं शक्यते । ईदृशाः ’जन्तर् मन्तर्’-प्रदेशाः भारते देहली-जयपुर्-वाराणसीनगरेषु राराजन्ते । जयपुरराज्यस्य राजा ईदृशवीक्षणालयान् निर्मापितवान् । खगोलशास्त्रस्य ज्ञानसम्पादनाय एवम् अन्तरिक्षस्य, सूर्यस्य, चन्द्रस्य, नक्षत्राणां च चलनादिविषयेषु ज्ञानसम्पादनाय वीक्षणालयाः सर्वदा उपयुक्ताः भवन्ति ।

परिवहनम्[सम्पादयतु]

भूमार्गः[सम्पादयतु]

मध्यप्रदेशराज्यस्य मार्गाणां दैर्घ्यं ७३,३११ किलोमीटर्मितम् अस्ति । तेषु राष्ट्रियराजमार्गाणां दैर्घ्यं ४२८० किलोमीटर्मिते, प्रान्तीयराजमार्गाणां दैर्घ्यं ८७२९ किलोमीटर्मिते च अस्ति । अस्मिन् राज्ये भूमार्गाणां निर्माणकार्यं निरन्तरं प्रचलत् अस्ति । प्रायः ६०,००० किलोमीटर्मिते मार्गाणां निर्माणं, नवीनीकरणं च भविष्यति । राज्ये सर्वकारप्रचालितानि बसयानानि अपि प्रचलन्ति । राज्यस्य पर्यटनस्थलानि गन्तुं तानि बसयानानि उपयुज्यन्ते । इदं राज्यं भूमार्गेण भारतस्य विभिन्नराज्यानां महानगरैः, नगरैः च सह सरलतया सम्बद्धम् अस्ति । मध्यप्रदेशराज्ये ई. स. २००५ तमं वर्षं “मार्गाणां वर्षम्” इति नाम्ना आचरितम् ।

धूमशकटमार्गः[सम्पादयतु]

मध्यप्रदेशराज्यस्य भोपाल-नगरे, बीना-नगरे, ग्वालियर-नगरे, इन्दौर-नगरे, इटारसी-नगरे, जबलपुर-नगरे, कटनी-नगरे, रतलाम-नगरे, उज्जैन-नगरे च प्रमुखाणि रेलस्थानकानि सन्ति । भोपाल-नगरे, रतलाम-नगरे, जबलपुर-नगरे च रेलविभागस्य क्षेत्रीयमुख्यालयाः स्थिताः सन्ति । एतेभ्यः रेलस्थानकेभ्यः भारतस्य मुख्यनगरेभ्यः नियमितत्वेन रेलयानानि प्राप्यन्ते । अनेन प्रकारेण इदं राज्यं भारतस्य सर्वैः राज्यैः सह धूमशकटमार्गेण सम्बद्धम् अस्ति ।

वायुमार्गः[सम्पादयतु]

मध्यप्रदेशराज्यस्य भोपाल-नगरे, ग्वालियर-नगरे, इन्दौर-नगरे, जबलपुर-नगरे, रीवा-नगरे, खजुराहो-नगरे च विमानस्थानकानि सन्ति । एतानि विमानस्थानकानि भारतस्य, विदेशस्य प्रमुखविमानस्थानकैः सह सम्बद्धाः सन्ति । एतेभ्यः विमानस्थानकेभ्यः भारतस्य विभिन्ननगरेभ्यः नियमितरूपेण वायुयानानि प्राप्यन्ते ।

सम्बद्धाः लेखाः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ९५-९६
  2. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - ९६
  3. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ९७-९८
  4. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - ९८
  5. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – ९१-९२
  6. http://hindi.nativeplanet.com/sitemap/
  7. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - ९३
  8. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - १००
  9. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. – १००-१०१
  10. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - ९९
  11. भारत के राज्य और केन्द्रशासित प्रदेश, अनीश भसीन, पृ. - ९९
  12. http://hindi.nativeplanet.com/sitemap/

बाह्यानुबन्धाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=मध्यप्रदेशराज्यम्&oldid=387334" इत्यस्माद् पुनः प्राप्तिः