उज्जैनमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
उज्जैनमण्डलम्
ujjain District
उज्जैन जिला
उज्जैनमण्डलम्
उज्जैनमण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे उज्जैनमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे उज्जैनमण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि उज्जैन, नागदा, बडनगर, खाचरोद, महिदपुर, तराना, घटिया
विस्तारः ६,०९१ च. कि. मी.
जनसङ्ख्या (२०११) १९,८६,८६४
Time zone भारतीयमानसमयः (IST) (UTC+५:३०)
साक्षरता ७२.३४%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९%
Website http://ujjain.nic.in/

उज्जैनमण्डलम् ( /ˈʊɛɪnəməndələm/) (हिन्दी: उज्जैन जिला, आङ्ग्ल: Ujjain district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य उज्जैनविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति उज्जैन इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

उज्जैनमण्डलस्य विस्तारः ६,०९१ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे देवासमण्डलं, पश्चिमे रतलाममण्डलम्, उत्तरे शाजापुरमण्डलं, दक्षिणे इन्दौरमण्डलम् अस्ति । अस्मिन् मण्डले क्षिप्रानदी प्रवहति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणम् उज्जैनमण्डलस्य जनसङ्ख्या १९,८६,८६४ अस्ति । अत्र १०,१६,२८९ पुरुषाः, ९,७०,५७५ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३२६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३२६ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १६.१२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५५ अस्ति । अत्र साक्षरता ७२.३४% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- उज्जैन, नागदा, बडनगर, खाचरोद, महिदपुर, तराना, घटिया ।

कृषिः वाणिज्यं च[सम्पादयतु]

अस्मिन् मण्डले खाद्यसामग्रीणाम् उद्योगाः अत्यधिकाः प्रचलन्ति । अस्मिन् मण्डले वस्त्राणां यन्त्रागाराः अपि बहवः सन्ति । अस्मिन् मण्डले उत्तमाः शैक्षणिकसंस्थाः सन्ति । अतः भारतस्य अन्यप्रदेशेभ्यः विदेशात् च विद्यार्थिनः पठितुम् तत्र गच्छन्ति । इदं मण्डलं प्रगतिशीलम् अस्ति ।

वीक्षणीयस्थलानि[सम्पादयतु]

महाकालेश्वर-मन्दिरम्[सम्पादयतु]

महाकालेश्वरमन्दिरम् उज्जैननगरे स्थितम् अस्ति । इदं मन्दिरं द्वादशज्योतिर्लिङ्गेषु अन्यतमम् अस्ति । तत्र शिवलिङ्गस्य जलधारा दक्षिणस्यां दिशि प्रवहति इति विशेषः ।

श्री बडे-गणेशमन्दिरम्[सम्पादयतु]

महाकालेश्वरमन्दिरस्य समीपे हरसिद्धिमार्गे बडे-गणेशस्य भव्यकलापूर्णमूर्तिः प्रतिष्ठिता अस्ति । अस्याः मूर्त्याः निर्माणं पद्मविभूषणस्य पं. सूर्यनारायणव्यासस्य पित्रा विदुषा स्व. पं. नारायणव्यासेन कृतम् आसीत् । सप्तधातुनिर्मिता पञ्चमुखिहनुमत्प्रतिमा, नवग्रहाणां मन्दिरं तथा कृष्णयशोदयोः प्रतिमे अपि विराजितौ स्तः ।

मङ्गलनाथ-मन्दिरम्[सम्पादयतु]

पुराणानामनुसारेण उज्जैन-नगरी मङ्गलग्रहस्य जननी उच्यते । येषां जनानां कुण्डल्यां मङ्गलः अनिष्टः स्यात् , ते सर्वे जनाः अनिष्टदोषात् निवृत्यर्थम् तत्र पूजां कारयन्ति । यद्यपि मङ्गलभगवतः बहूनि मन्दिराणि सन्ति किन्तु उज्जैन-नगरम् अस्य जन्मस्थानं वर्तते इति महत्त्वम् अपि अधिकम् अस्ति । उच्यते यत् इदं मन्दिरम् अतीव पुरातनमस्ति । सिन्धियावंशजैः अस्य पुनर्निर्माणं कारितम् । उज्जैन-नगरं महाकालस्य नगरी इति उच्यते । अतः जनाः तत्र मङ्गलनाथस्य भगवतः शिवरूपात्मिकायाः प्रतिमायाः पूजां कुर्वन्ति । प्रतिमङ्गलवासरे तत्र बहवः भक्तजनाः गच्छन्ति ।

हरसिद्धिदेवी[सम्पादयतु]

उज्जैन-नगरस्य धार्मिकस्थलेषु हरसिद्धिदेव्याः मन्दिरं प्रमुखम् अस्ति । चिन्तामनगणेशमन्दिरात् किञ्चित् दूरे तथा रूद्रसागरतडागस्य तटे इदं मन्दिरं स्थितमस्ति । राजा विक्रमादित्यः अस्याः देव्याः पूजां करोति स्म । वैष्णवसम्प्रदायस्यापि आराध्यदेवीरूपेण इयं हरसिद्धिदेवी पूज्यते । शिवपुराणानुसारेण दक्षयज्ञात् परं सतीदेव्याः हस्तगुल्फः (Elbow) अत्र पतितः आसीत् ।

क्षिप्रातटम्[सम्पादयतु]

उज्जैन-नगरस्य धार्मिकस्वरूपे क्षिप्रानद्याः तटानां प्रमुखं स्थानं वर्तते । नद्याः दक्षिणतटे नगरं स्थितमस्ति, तत्र तटानि स्नानार्थिनां कृते सोपानयुक्तानि सन्ति । विभिन्नानां देवतानां नूतनानि पुरातनानि च मन्दिराणि अपि स्थितानि सन्ति । सिंहस्थमहापर्वणि यदा बहवः भक्तजनाः स्नानं कुर्वन्ति तदा एषां गौरवं दृश्यते ।

गोपाल-मन्दिरम्[सम्पादयतु]

गोपालमन्दिरम् उज्जैन-नगरस्य विशालमन्दिराणां क्रमे द्वितीयमस्ति । इदं मन्दिरं नगरस्य मध्येऽधिकजनसम्मर्दे क्षेत्रे स्थितमस्ति । अस्य मन्दिरस्य निर्माणं दौलतराव सिन्धिया इत्यस्य महिष्या बायजाबाई इत्यनया ई. १८३३ तमे वर्षे कारितम् । कृष्णस्य (गोपाल) मूर्तिः मन्दिरेऽस्मिन् वर्तते । रजतयुतानि द्वाराणि अस्य मन्दिरस्य आकर्षणकेन्द्राणि सन्ति ।

गढकालिकादेवी[सम्पादयतु]

गढकालिकादेवीमन्दिरम् उज्जैन-नगरस्य प्राचीने अवन्तिकाक्षेत्रे स्थितमस्ति । कालिदासः गढकालिकादेव्याः उपासकः आसीत् । राज्ञा हर्षवर्धनेन अस्य मन्दिरस्य जीर्णोद्धारः कारितः इति एतादृक् उल्लेखः प्राप्यते । ग्वालियर-प्रान्तस्य महाराजस्य शासनकाले अस्य मन्दिरस्य पुनर्निर्माणम् अभवत् ।

भर्तृहरि-गुहा[सम्पादयतु]

भर्तृहरि-गुहा इत्यत्र एकादशशताब्द्याः एकस्य मन्दिरस्य अवशेषः वर्तते, यस्य उत्तरवर्तिसमये पौनःपुन्येन जीर्णोद्धाराः अभवन् ।

कालभैरवः[सम्पादयतु]

कालभैरवस्य मन्दिरम् इदानीम् अवन्तिकानगर्याम् अस्ति । मन्दिरेऽस्मिन् कालभैरवस्य विशालमूर्तिः अस्ति । उच्यते यत् अस्य मन्दिरस्य निर्माणं प्राचीनकाले राज्ञा भीमसेनेन कारितम् । पुराणेषु वर्णितेषु चतुष्षष्ठिभैरवेषु अन्यतमः अस्ति कालभैरवः ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://ujjain.nic.in/
http://www.bharatbrand.com/english/mp/districts/Ujjain/Ujjain.html
http://www.census2011.co.in/census/district/302-ujjain.html

"https://sa.wikipedia.org/w/index.php?title=उज्जैनमण्डलम्&oldid=402280" इत्यस्माद् पुनः प्राप्तिः