ग्वालियरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
ग्वालियरमण्डलम्

Gwalior District
ग्वालियर जिला
ग्वालियरमण्डलम्
ग्वालियरमण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे ग्वालियरमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे ग्वालियरमण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि ग्वालियर, भितरवार, डबरा, चिनावर
विस्तारः ४,५६० च. कि. मी.
जनसङ्ख्या (२०११) २०,३२,०३६
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ७६.६५%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४३%
Website http://gwalior.nic.in/

ग्वालियरमण्डलम् ( /ˈɡvɑːlɪjərəməndələm/) (हिन्दी: ग्वालियर जिला, आङ्ग्ल: Gwalior district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य ग्वालियरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति ग्वालियर इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

ग्वालियरमण्डलस्य विस्तारः ४,५६० चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे दतियामण्डलं, पश्चिमे श्योपुरमण्डलम्, उत्तरे मुरैनामण्डलं, दक्षिणे शिवपुरीमण्डलम् अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं ग्वालियरमण्डलस्य जनसङ्ख्या २०,३२,०३६ अस्ति । अत्र १०,९०,३२७ पुरुषाः, ९,४१,७०९ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४४६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४४६ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २४.५०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८६४ अस्ति । अत्र साक्षरता ७६.६५% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले चत्वारि उपमण्डलानि सन्ति । तानि- ग्वालियर, भितरवार, डबरा, चिनावर ।

वीक्षणीयस्थलानि[सम्पादयतु]

ग्वालियर-दुर्गः[सम्पादयतु]

ग्वालियर-नगरस्य दुर्गस्य निर्माणं ’सूरजसेन’ इत्याख्येन कारितम् । अयं दुर्गः नगरतलात् ३०० फीट औन्नत्ये स्थितः अस्ति । अस्मिन् एकं विशालमन्दिरम् अस्ति । दुर्गेऽस्मिन् अनेकाः जलाशयाः, भवनानि च सन्ति ।

जयविलास-महल एवं सङ्ग्रहालयः[सम्पादयतु]

जयविलास-महल एवं सङ्ग्रहालयः इत्येतयोः भवनयोः निर्माणम् ई. सन् १८७२-७४ तमे वर्षे कृतम् । सिन्धिया-वंशजानां निवासार्थम् इदं जयविलास-महल इत्याख्यं भवनं निर्मितम् । अस्य भवनस्य निर्माणम् ईटली, टस्कन, कोरिन्थियन शैलीषु कृतम् । अस्मिन् भवने एकं सभागृहम् अस्ति । अस्मिन् भवने भित्तिषु सुन्दराणि दर्पणानि सन्ति । अस्मिन् मण्डले मनमन्दिर पैलेस, गुजरी महल, गोपाचल, सूर्यमन्दिरम् इत्यादीनि प्रमुखानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://www.gwalior.nic.in/ Archived २०११-०९-२८ at the Wayback Machine
http://www.census2011.co.in/census/district/288-gwalior.html

"https://sa.wikipedia.org/w/index.php?title=ग्वालियरमण्डलम्&oldid=480278" इत्यस्माद् प्रतिप्राप्तम्