अशोकनगरमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अशोकनगरमण्डलम्

Ashoknagar District
अशोकनगर जिला
अशोकनगरमण्डलम्
अशोकनगरमण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे अशोकनगरमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे अशोकनगरमण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि अशोकनगरम्, ईसागढ, चन्देरी, शाढौरा, मुंगावली, नईसराय
विस्तारः ५,६७३ च. कि. मी.
जनसङ्ख्या (२०११) ८,४५,०७१
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ६७.९%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४५%
Website http://ashoknagar.nic.in/

अशोकनगरमण्डलम् ( /ˈəʃkənəɡərəməndələm/) (हिन्दी: अशोकनगर जिला, आङ्ग्ल: Ashoknagar district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य ग्वालियरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति अशोकनगरम् इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

अशोकनगरमण्डलस्य विस्तारः ५,६७३ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे उत्तरप्रदेशराज्यं, पश्चिमे गुनामण्डलम्, उत्तरे शिवपुरीमण्डलं, दक्षिणे विदिशामण्डलम् अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणम् अशोकनगरमण्डलस्य जनसङ्ख्या ८,४५,०७१ अस्ति । अत्र ४,४३,८३७ पुरुषाः, ३,६६,६३२ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १८१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १८१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २२.६६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९०४ अस्ति । अत्र साक्षरता ६६.४२% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले षड् उपमण्डलानि सन्ति । तानि- १ अशोकनगरम्, ईसागढ, चन्देरी, शाढौरा, मुंगावली, नईसराय ।

वीक्षणीयस्थलानि[सम्पादयतु]

त्रिकाल चौबीसी जैनमन्दिरम्[सम्पादयतु]

अस्य मन्दिरस्य कारणात् अशोकनगरम् भारते प्रसिद्धमस्ति । अस्मिन् मन्दिरे भूतभविष्यत्वर्तमानकालानां चतुर्विंशतिजैनतीर्थङ्कराणां मूर्तयः सन्ति ।

चन्देरीदुर्गः[सम्पादयतु]

अयं दुर्गः चन्देरी-ग्रामात् ७१ मी. उपरि स्थितोऽस्ति । पुरा चन्देरी-ग्रामस्य केनचित् मुस्लिम-शासकेन अस्य दुर्गस्य निर्माणं कारितम् । अस्य दुर्गस्य द्वारत्रयम् अस्ति । यद्यपि प्रथमं द्वारं मुख्यत्वेन गण्यते तथापि नाम्नः कारणात् अपरे द्वे द्वारे विशिष्टे गण्येते । तयोः नामनी स्तः – ‘हवा पौर’ तथा च ‘खूनी दरवाजा’ इति । अस्य दुर्गस्य दृश्यं ग्रामात् बहुसुन्दरं भवति ।

कौशकमहल चन्देरी[सम्पादयतु]

मालवा-प्रान्तस्य ‘महमूद शाह खिलजी’ इत्यनेन चन्देरीग्रामे सप्तभूमभवनं निर्मापितम् । किन्तु क्लेशकारणात् तस्य निर्माणकाले अवरोधः जातः इत्यतः बहूनि वर्षाणि यावत् अपूर्णावस्थायामासीत् । ततः परम् अष्टादशशताब्द्यां बुन्देल-प्रान्तस्य मुख्यजनैः अस्य भवनस्य निर्माणं पूर्णं कारितम् ।

आनन्दपुरम्[सम्पादयतु]

इदं नगरम् अशोकनगरात् ३० कि. मी. दूरे ईसागढ-उपमण्डले स्थितमस्ति । अस्मिन् नगरे ‘श्री आनन्दपुर साहिब’ इति एकं धार्मिकस्थलमस्ति । अयं मठः अद्वैतमतेन प्रभावितः अस्ति । अस्य मठस्य संस्थापकः अद्वैतानन्दः आसीत् । तस्य अपरं नाम ‘महाराज परमहंस दयाल’ इति । तत्स्थलं परितः प्राकृतिकसौन्दर्यम् अस्ति । स आश्रमः विन्ध्याचलभूभृतः समीपे अस्ति । प्रदूषणरहितेन वातावरणेन आकर्षणस्य केन्द्रमस्ति स आश्रमः । आनन्दपुरस्य विकासः १९३९ तः १९६४ यावत् कृतः ।

कडवाया[सम्पादयतु]

कडवाया इति लघुग्रामः ईसागढ-उपमण्डले अस्ति । तस्मिन् बहूनि मन्दिराणि सन्ति । तेषु एकं मन्दिरं दशमशताब्द्यां वास्तुशास्त्रानुसारं निर्मापितम् । तस्मिन् गर्भगृहम्, अन्तरालं, मण्डपं च अस्ति । पुरा इदं मन्दिरं चाण्डालमठनाम्ना प्रसिद्धमासीत् इति कौतुकम् । अकबर इत्यस्य शासनकाले कडवाया-ग्रामः ग्वालियर-प्रान्तस्य मुख्यालयः आसीत् ।

अस्मिन् मण्डले तुलसी सरोवर, सङ्कटमोचन, नेहरू बाल उद्यान एतानि अपि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://ashoknagar.nic.in/
http://www.bharatbrand.com/english/mp/districts/Ashoknagar/Ashoknagar.html

"https://sa.wikipedia.org/w/index.php?title=अशोकनगरमण्डलम्&oldid=394621" इत्यस्माद् प्रतिप्राप्तम्