रीवामण्डलम्
रीवामण्डलम् Rewa District | |
|---|---|
|
रीवा जिला | |
![]() रीवामण्डलस्य नयनाभिरामदृश्यम् | |
|
मध्यप्रदेश राज्यस्य मानचित्रे रीवामण्डलम् | |
| देशः |
|
| राज्यम् | मध्यप्रदेशः |
| उपमण्डलानि | जावा, तेवथर, मङ्गावा, सेमरिया, नईघडी, हनुमाना, हुजूर, रायपुर-करचुलिया, मौगणी, गुढ |
| विस्तारः | ६,३१४ च. कि. मी. |
| जनसङ्ख्या (२०११) | २३,६५,१०६ |
| Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
| साक्षरता | ७१.६२% |
| भाषाः | हिन्दी, आङ्ग्लं च |
| लिङ्गानुपातः | पु.-५०%, स्त्री.-४६.५% |
| Website | http://rewa.nic.in/ |
रीवामण्डलम् ( (
शृणु) /ˈriːvɑːməndələm/) (हिन्दी: रीवा जिला, आङ्ग्ल: Rewa District) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य रीवाविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति रीवा इति नगरम् ।
भौगोलिकम्
[सम्पादयतु]रीवामण्डलस्य विस्तारः ६,३१४ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे उत्तरप्रदेशराज्यं, पश्चिमे सतनामण्डलम्, उत्तरे उत्तरप्रदेशराज्यं, दक्षिणे सीधीमण्डलम् अस्ति ।
जनसङ्ख्या
[सम्पादयतु]२०११ जनगणनानुगुणं रीवामण्डलस्य जनसङ्ख्या २३,६५,१०६ अस्ति । अत्र १२,२५,१०० पुरुषाः, ११,४०,००६ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ३७५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ३७५ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.८६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९३१ अस्ति । अत्र साक्षरता ७१.६२% अस्ति ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले दश उपमण्डलानि सन्ति । तानि- जावा, तेवथर, मङ्गावा, सेमरिया, नईघडी, हनुमाना, हुजूर, रायपुर-करचुलिया, मौगणी, गुढ ।
कृषिः वाणिज्यं च
[सम्पादयतु]अस्मिन् मण्डले चूर्णपाषाणानां, ’सिमेण्ट’ इत्यस्य च व्यापारः भवति । अस्मिन् मण्डले बहवः ’सिमेण्ट’ यन्त्रागराः सन्ति ।
वीक्षणीयस्थलानि
[सम्पादयतु]१ देवकोठार २ गोविन्दगढ ३ लक्ष्मण-उद्यानम् ४ बघेला सङ्ग्रहालयः, दुर्गश्च
|
उत्तरप्रदेशराज्यम् |
| ||
| सतनामण्डलम् | उत्तरप्रदेशराज्यम् | |||
| सीधीमण्डलम् |
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]| विकिमीडिया कॉमन्स् मध्ये रीवामण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://rewa.nic.in/
http://www.census2011.co.in/census/district/297-rewa.html

