बडवानीमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
बडवानीमण्डलम्

Barwani District
बडवानी जिला
मध्यप्रदेश राज्यस्य मानचित्रे बडवानीमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे बडवानीमण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि बडवानी, ठीकरी, अञ्जड, पाटी, राजपुर, पांसेमल, निवाली, सेन्धवा, वारला
विस्तारः ५,४२७ च. कि. मी.
जनसङ्ख्या (२०११) १३,८५,८८१
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ४९.०८%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४७.५%
Website http://barwani.nic.in/

बडवानीमण्डलम् ( /ˈbədəvɑːnməndələm/) (हिन्दी: बड़वानी जिला, आङ्ग्ल: Barwani district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य इन्दौरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति बडवानी इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

बडवानीमण्डलस्य विस्तारः ५,४२७ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे खरगौनमण्डलं, पश्चिमे महाराष्ट्रराज्यम्, उत्तरे धारमण्डलं, दक्षिणे महाराष्ट्रराज्यम् अस्ति । अस्मिन् मण्डले नर्मदानदी प्रवहति । अस्य मण्डलस्य उत्तरभागे विन्ध्याचलपर्वतशृङ्खला तथा दक्षिणभागे सतपुडापर्वतशृङ्खला स्तः ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं बडवानीमण्डलस्य जनसङ्ख्या १३,८५,८८१ अस्ति । अत्र ६,९९,३४० पुरुषाः, ६,८६,५४१ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २५५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २५५ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २७.५७% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९८२ अस्ति । अत्र साक्षरता ४९.०८% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले नव उपमण्डलानि सन्ति । तानि- बडवानी, ठीकरी, अञ्जड, पाटी, राजपुर, पांसेमल, निवाली, सेन्धवा, वारला ।

वीक्षणीयस्थलानि[सम्पादयतु]

बावनगजा (चुलगिरि)[सम्पादयतु]

बावनगजा इति इदं स्थलं जैनानां तीर्थस्थलम् अस्ति । इदं स्थलं बडवानी-नगरात् ६ कि. मी. दूरे अस्ति । तत्र उपशैले १५ शताब्द्याः ११ मन्दिराणि सन्ति । तत्र भगवतः आदिनाथस्य बृहत्तमा प्रतिमा अस्ति । ग्वालबेडा, तीरगोला, नर्मदा पुल इत्येतानि अपि अस्य मण्डलस्य प्रमुखानि वीक्षणीयस्थलानि सन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://barwani.nic.in/
http://www.census2011.co.in/census/district/308-barwani.html
http://www.mapsofindia.com/maps/madhyapradesh/tehsil/barwani.html

"https://sa.wikipedia.org/w/index.php?title=बडवानीमण्डलम्&oldid=463949" इत्यस्माद् प्रतिप्राप्तम्