कटनीमण्डलम्
कटनीमण्डलम् katni District | |
---|---|
कटनी जिला | |
कटनीमण्डलस्य नयनाभिरामदृश्यम् | |
मध्यप्रदेश राज्यस्य मानचित्रे कटनीमण्डलम् | |
देशः | India |
राज्यम् | मध्यप्रदेशः |
उपमण्डलानि | विजयराघवगढ, मुरवाडा, रिठी, बहोरीबन्द, धीमरखेडा, बरही, बदवाडा |
विस्तारः | ४९५० च. कि. मी. |
जनसङ्ख्या (२०११) | १२,९२,०४२ |
Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
साक्षरता | ७१.९८% |
भाषाः | हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४७.५% |
Website | http://katni.nic.in/ |
कटनीमण्डलम् ( ( शृणु) /ˈkətəniːməndələm/) (हिन्दी: कटनी जिला, आङ्ग्ल: Katni district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य जबलपुरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति कटनी इति नगरम् ।
भौगोलिकम्
[सम्पादयतु]कटनीमण्डलस्य विस्तारः ४,९५० चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे उमरियामण्डलं, पश्चिमे दमोहमण्डलम्, उत्तरे पन्नामण्डलं, दक्षिणे जबलपुरमण्डलम् अस्ति ।
जनसङ्ख्या
[सम्पादयतु]२०११ जनगणनानुगुणं कटनीमण्डलस्य जनसङ्ख्या १२,९२,०४२ अस्ति । अत्र ६,६२,०१३ पुरुषाः, ६,३०,०२९ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २६१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २६१ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २१.४१% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५२ अस्ति । अत्र साक्षरता ७१.९८% अस्ति ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले सप्त उपमण्डलानि सन्ति । तानि- विजयराघवगढ, मुरवाडा, रिठी, बहोरीबन्द, ढीमरखेडा, बिलहरी, बदवाडा ।
कृषिः वाणिज्यं च
[सम्पादयतु]इदं मण्डलं चूर्णपाषाणेभ्यः प्रख्यातम् अस्ति । तत्र चूर्णस्य व्यापारः अत्यधिकः प्रचलति । अस्मिन् मण्डले सस्योदपादनानि अत्यधिकपरिमाणे प्राप्यन्ते । तेषु गोधूमः प्रमुखः अस्ति । अन्ये अपि बहवः उद्यमाः सन्ति । यन्त्रागाराः अपि बहवः सन्ति । अत्र कृषि उपजमण्डी अस्ति यस्याः स्थानं भारते प्रथमम् आयाति ।
वीक्षणीयस्थलानि
[सम्पादयतु]विजयराघवगढदुर्गः
[सम्पादयतु]अयं कटनीमण्डलस्य सुन्दरः दुर्गः अस्ति । अयं दुर्गः कटनी-नगरात् ३२ कि. मी. दूरे अस्ति । राज्ञा प्रयागदासेन तस्य दुर्गस्य निर्माणं कारितम् । तस्मिन् दुर्गे भगवतः विजयराघवस्य मन्दिरम् अपि निर्मापितम् । अतः तस्य दुर्गस्य विजयराघवगढ इति नाम । तस्य समीपे ’रङ्गमहल’-नामकं भवनमस्ति । बहोरीबन्द, रूपनाथ, झीन्झारी एतानि अपि कटनीमण्डलस्य मुख्यानि वीक्षणीयस्थलानि सन्ति ।
पन्नामण्डलम् | ||||
दमोहमण्डलम् | उमरियामण्डलम् | |||
कटनीमण्डलम् | ||||
जबलपुरमण्डलम् |
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये कटनीमण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://katni.nic.in/
http://www.census2011.co.in/census/district/317-katni.html