झाबुआमण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
झाबुआमण्डलम्

jhabua District
झाबुआ जिला
झाबुआमण्डलम्
झाबुआमण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे झाबुआमण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे झाबुआमण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि झाबुआ, राणापुर, थान्दला, पेटलावद, मेघनगर
विस्तारः ३,६०० च. कि. मी.
जनसङ्ख्या (२०११) १०,२५,०४८
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ६२.७०%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४९.५%
Website http://jhabua.nic.in/

झाबुआमण्डलम् ( /ˈzɑːbʊɑːməndələm/) (हिन्दी: झाबुआ जिला, आङ्ग्ल: Jhabua district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य इन्दौरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति झाबुआ इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

झाबुआमण्डलस्य विस्तारः ३,६०० चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पश्चिमभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे धारमण्डलं, पश्चिमे रतलाममण्डलम्, उत्तरे गुजरातराज्यं, दक्षिणे अलीराजपुरमण्डलम् अस्ति । अस्मिन् मण्डले माहीनदी प्रवहति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणं झाबुआमण्डलस्य जनसङ्ख्या १०,२५,०४८ अस्ति । अत्र ५,१५,०२३ पुरुषाः, ५,१०,०२५ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते २८५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् २८५ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः ३०.७०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९९० अस्ति । अत्र साक्षरता ४३.३०% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि- झाबुआ, राणापुर, थान्दला, पेटलावद, मेघनगर ।

वीक्षणीयस्थलानि[सम्पादयतु]

रङ्गपुरा[सम्पादयतु]

रङ्गपुरा-ग्रामः झाबुआ-नगरस्य समीपे अस्ति । अस्मिन् ग्रामे रामपञ्चायत-मन्दिरं, जैन-मन्दिरं च अस्ति । अस्य नगरस्य समीपे एकं प्राचीनं शिवमन्दिरम् अपि अस्ति ।

देवझिरी[सम्पादयतु]

इदं स्थलं झाबुआ-नगरात् ८ कि. मी. दूरे स्थितमस्ति । अस्य स्थलस्य समीपे सुनारनदी प्रवहति । अस्मिन् स्थले भगवतः शिवस्य अनेकानि प्राचीनानि मन्दिराणि सन्ति । देवझिरी इत्यत्र एकः कुण्डः अपि अस्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://jhabua.nic.in/
http://www.census2011.co.in/census/district/331-jhabua.html
http://www.bharatbrand.com/english/mp/districts/Jhabua/Jhabua.html

"https://sa.wikipedia.org/w/index.php?title=झाबुआमण्डलम्&oldid=463974" इत्यस्माद् प्रतिप्राप्तम्