उमरियामण्डलम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
उमरियामण्डलम्

Umaria District
उमरिया जिला
उमरियामण्डलम्
उमरियामण्डलस्य नयनाभिरामदृश्यम्
मध्यप्रदेश राज्यस्य मानचित्रे उमरियामण्डलम्
मध्यप्रदेश राज्यस्य मानचित्रे उमरियामण्डलम्
देशः  India
राज्यम् मध्यप्रदेशः
उपमण्डलानि चन्दिया, बान्धवगढ, नौरोजाबाद, पाली, मानपुर
विस्तारः ४,०७६ च. कि. मी.
जनसङ्ख्या (२०११) ६,४४,७५८
Time zone UTC+५:३० (भारतीयमानसमयः (IST))
साक्षरता ६५.८९%
भाषाः हिन्दी, आङ्ग्लं
लिङ्गानुपातः पु.-५०%, स्त्री.-४७.५%
Website http://umaria.nic.in

उमरियामण्डलम् ( /ˈʊmərɪjɑːməndələm/) (हिन्दी: उमरिया जिला, आङ्ग्ल: Umaria district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य शहडोलविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति उमरिया इति नगरम् ।

भौगोलिकम्[सम्पादयतु]

उमरियामण्डलस्य विस्तारः ४,०७६ चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य पूर्वभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे शहडोलमण्डलं, पश्चिमे कटनीमण्डलम्, उत्तरे सतनामण्डलं, दक्षिणे डिण्डोरीमण्डलम् अस्ति ।

जनसङ्ख्या[सम्पादयतु]

२०११ जनगणनानुगुणम् उमरियामण्डलस्य जनसङ्ख्या ६,४४,७५८ अस्ति । अत्र ३,३०,६७४ पुरुषाः, ३,१४०८४ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १५८ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १५८ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २४.९६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९५० अस्ति । अत्र साक्षरता ६५.८९% अस्ति ।

उपमण्डलानि[सम्पादयतु]

अस्मिन् मण्डले पञ्च उपमण्डलानि सन्ति । तानि - चन्दिया, बान्धवगढ, नौरोजाबाद, पाली, मानपुर ।

वीक्षणीयस्थलानि[सम्पादयतु]

बान्धवगढदुर्गः[सम्पादयतु]

बान्धवगढ उमरियामण्डलस्य उपमण्डलमस्ति । प्राचीनकाले मघा-राजवंशजानां बान्धवगढसाम्राज्यस्य राजधानी आसीत् इदम् उपमण्डलम् । बान्धवगढ-उपमण्डलस्य दुर्गाः पुरातात्विकैतिहासिकानि स्थलानि सन्ति । अयमेकः प्राकृतिकः अभेद्यदुर्गः अस्ति । समुद्रतलात् २४३० मी. उपरि अस्ति अयं दुर्गः ।

चन्दिया[सम्पादयतु]

चन्दियाग्रामः उमरिया-नगरात् २१ कि. मी. दूरे अस्ति । अस्मिन् ग्रामे कालीदेव्याः एकं मन्दिरमस्ति । कालीदेव्याः मुखमुद्घाटितम् अस्ति, जिह्वा बहिरस्ति किन्तु तज्जिह्वा त्रुटिता अस्ति । भगवतोः सीतारामयोः अपि एकं मन्दिरम् अस्ति । इदं चन्दियाठाकुर इत्यस्य पीठम् आसीत् । अत्र शिवरात्रिपर्वणि त्रिदिवसीयमहोत्सवः भवति ।

पाली बीरसिंहपुर[सम्पादयतु]

पालीग्रामः उमरिया-नगरात् ३६ कि.मी. दूरे अस्ति । अस्मिन् ग्रामे बिरासिनीदेव्याः एकं मन्दिरम् अस्ति । इदानीं सा कालीदेवी इति नाम्ना प्रख्याता अस्ति किन्तु तस्याः मुखं पिनद्धम् अस्ति । वास्तविकतया इयं कङ्कालदेवी अस्ति । जनाः नवरात्रिपर्वणि, ’अक्टूबर’ एवं ’मार्च’ मासे च तत्र उत्सवम् आचरन्ति ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

http://umaria.nic.in
http://www.census2011.co.in/census/district/298-umaria.html

"https://sa.wikipedia.org/w/index.php?title=उमरियामण्डलम्&oldid=464003" इत्यस्माद् प्रतिप्राप्तम्