ग्वालियरमण्डलम्
ग्वालियरमण्डलम् Gwalior District | |
---|---|
ग्वालियर जिला | |
ग्वालियरमण्डलस्य नयनाभिरामदृश्यम् | |
मध्यप्रदेश राज्यस्य मानचित्रे ग्वालियरमण्डलम् | |
देशः | India |
राज्यम् | मध्यप्रदेशः |
उपमण्डलानि | ग्वालियर, भितरवार, डबरा, चिनावर |
विस्तारः | ४,५६० च. कि. मी. |
जनसङ्ख्या (२०११) | २०,३२,०३६ |
Time zone | UTC+५:३० (भारतीयमानसमयः (IST)) |
साक्षरता | ७६.६५% |
भाषाः | हिन्दी, आङ्ग्लं च |
लिङ्गानुपातः | पु.-५०%, स्त्री.-४३% |
Website | http://gwalior.nic.in/ |
ग्वालियरमण्डलम् ( ( शृणु) /ˈɡvɑːlɪjərəməndələm/) (हिन्दी: ग्वालियर जिला, आङ्ग्ल: Gwalior district) इत्येतत् भारतस्य मध्यभागे स्थितस्य मध्यप्रदेशराज्यस्य ग्वालियरविभागे अन्तर्गतं किञ्चन मण्डलम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति ग्वालियर इति नगरम् ।
भौगोलिकम्
[सम्पादयतु]ग्वालियरमण्डलस्य विस्तारः ४,५६० चतुरस्रकिलोमीटर्मितः अस्ति । मध्यप्रदेशराज्यस्य उत्तरभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे दतियामण्डलं, पश्चिमे श्योपुरमण्डलम्, उत्तरे मुरैनामण्डलं, दक्षिणे शिवपुरीमण्डलम् अस्ति ।
जनसङ्ख्या
[सम्पादयतु]२०११ जनगणनानुगुणं ग्वालियरमण्डलस्य जनसङ्ख्या २०,३२,०३६ अस्ति । अत्र १०,९०,३२७ पुरुषाः, ९,४१,७०९ महिलाः च सन्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४४६ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४४६ जनाः। २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः २४.५०% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-८६४ अस्ति । अत्र साक्षरता ७६.६५% अस्ति ।
उपमण्डलानि
[सम्पादयतु]अस्मिन् मण्डले चत्वारि उपमण्डलानि सन्ति । तानि- ग्वालियर, भितरवार, डबरा, चिनावर ।
वीक्षणीयस्थलानि
[सम्पादयतु]ग्वालियर-दुर्गः
[सम्पादयतु]ग्वालियर-नगरस्य दुर्गस्य निर्माणं ’सूरजसेन’ इत्याख्येन कारितम् । अयं दुर्गः नगरतलात् ३०० फीट औन्नत्ये स्थितः अस्ति । अस्मिन् एकं विशालमन्दिरम् अस्ति । दुर्गेऽस्मिन् अनेकाः जलाशयाः, भवनानि च सन्ति ।
जयविलास-महल एवं सङ्ग्रहालयः
[सम्पादयतु]जयविलास-महल एवं सङ्ग्रहालयः इत्येतयोः भवनयोः निर्माणम् ई. सन् १८७२-७४ तमे वर्षे कृतम् । सिन्धिया-वंशजानां निवासार्थम् इदं जयविलास-महल इत्याख्यं भवनं निर्मितम् । अस्य भवनस्य निर्माणम् ईटली, टस्कन, कोरिन्थियन शैलीषु कृतम् । अस्मिन् भवने एकं सभागृहम् अस्ति । अस्मिन् भवने भित्तिषु सुन्दराणि दर्पणानि सन्ति । अस्मिन् मण्डले मनमन्दिर पैलेस, गुजरी महल, गोपाचल, सूर्यमन्दिरम् इत्यादीनि प्रमुखानि वीक्षणीयस्थलानि सन्ति ।
मुरैनामण्डलम् | ||||
श्योपुरमण्डलम् | दतियामण्डलम् | |||
ग्वालियरमण्डलम् | ||||
शिवपुरीमण्डलम् |
बाह्यसम्पर्कतन्तुः
[सम्पादयतु]विकिमीडिया कॉमन्स् मध्ये ग्वालियरमण्डलम् सम्बन्धिताः सञ्चिकाः सन्ति। |
http://www.gwalior.nic.in/ Archived २०११-०९-२८ at the Wayback Machine
http://www.census2011.co.in/census/district/288-gwalior.html