कालिदासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

कालिदासः संस्कृतकाव्यपरम्परायां महाकविः वर्तते। सः कविकुलगुरुः इति प्रसिद्धः। पाश्चात्याः विदुषः तं भारतीय-शेक्सपीयर इत्यपि जानन्ति। किंवदन्त्यानुसारं सः विक्रमादित्यस्य नवरत्नेषु अन्यतमः आसीत्।

कालिदासाः[सम्पादयतु]

कालिदासप्रणीतत्वेन त्रयः श्रव्यकाव्यग्रन्थाः रघुवंशं कुमारसम्भवञ्चेति द्वे महाकाव्ये मेघदूतं खण्डकाव्यम्, त्रयो दृश्यकाव्यग्रन्थाः अभिज्ञानशाकुन्तलं नाटकं, विक्रमोर्वशीयं नाटकं मालविकाग्निमित्रं नाटकंञ्चेति प्रसिद्धाः सन्ति । एतदतिरिक्तं ऋतुसंहारं नाम श्रव्यकाव्यग्रन्थः श्यामलाष्टकप्रभृतिस्फूटरचनाश्च कालिदासविरचिता इत्यपि विश्वस्यते । केचित्तु कालिदासत्रयीमप्यनुमान्ति । तदनु सूक्तिमुक्तावल्यां राजशेखरप्रणीतत्वेनोद्धृतं निम्नाङ्कितं पद्यमेवाधारः ।

एकोऽपि जीयते हन्त कालिदासो न केनचित् ।

शृङ्गारे ललितोद्गारे कालिदासत्रयी किमु ।

केचित्त्वत्रत्य ‘कालिदासत्रयी' पदस्य काव्यत्रये निरूढमर्थं गृह्णन्ति भक्त्या न तु कवीनां त्रयीति । अपरे तु मुख्यमेवार्थं समाधृत्य राजशेखरसमये एव कालिदासाभिधास्त्रयः कवयः प्रसिद्धाः आसन्निति मन्यन्ते । ग्रन्थानां कालिहासप्रणीतत्वेन प्रसिद्धानामाभ्यन्तरपरीक्षणेन तु श्लोकेनानेन कवीनां त्रय्येव सङ्केतिता सम्भवति इति मन्यते। श्रव्यकाव्येष्वपि रघुवंशकुमारसम्भवमेघदत-ऋतुसंहाराणां परस्परं रचनावैशिष्ट्यं नैकप्रणीतत्वं समर्थयति । मेघदूते हि -

वक्रः पन्था यदपि भवतः प्रस्थितस्योत्तरस्यां

सौधोत्सङ्गप्रणयविमुखो मा स्म भूरुज्जयिन्याः।

विद्युद्दामस्फुरितचकितैर्यत्र पौराङ्गनानां

लोलापाङ्गर्यदि न रमसे लोचनैर्वञ्चितोऽसि।।[१]

इति सर्वातिशायित्वेन स्मृता उज्जयिनी रघुवंश-कुमारसम्भवयोः नाम्नाऽपि न स्मर्यते । कुमारसम्भवस्य कर्ता हिमालयस्य केदारकूर्माचलखण्डयोरेव रमते । रघुवंशस्य प्रणेता तु चतुर्थषष्ठसर्गयोः भरतवर्षमेव भ्रमति । ऋतुसंहारस्य कर्ता पर्वतीयमेव ऋतुपरिवर्तनं विवृणोति । विषयप्रतिपादनदृष्ट्याऽपि तेषां सर्वेषामेवैककर्तृकत्वं नैव सिध्यति । तेषु तेषु हि भौगोलिकवर्णनमपि मिथो न संवदते । एवमेव स्थितिकालदृष्ट्याऽपि तत्र सामञ्जस्यं नैव सिध्यति । मालविकाग्निमित्रस्य प्रणेता अग्निमित्रं हि पुष्यमित्रस्य पुत्रं विदिशे नायकत्वेन गृह्णाति । विक्रमोर्वशीये तु कश्चिदपर एव विक्रमाख्यो नायकः । रघुवंशस्य कर्ता मगधं हि सर्वोत्कृष्टराज्यत्वेन स्मरति यतो हि स रघोः दिग्विजयप्रसङ्गे मगधं नाम्नाऽपि न स्मरति किन्तु षष्ठसर्गे स्वयंवरप्रसङ्गे परन्तपाख्यस्य मगधराजस्य तत्रोपस्थितिं कथयति । यथा हि तत्रोक्तम् -

कामं नृपाः सन्तु सहस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम्।

नक्षत्रताराग्रहसङ्कुलाऽपि ज्योतिष्मती चन्द्रमसैव रात्रिः।। इति ।

ऋतुसंहारस्य कर्ता हि विन्ध्योपकण्ठं साधु वर्णयति यदा कुमारसम्भवस्य प्रणेता तु गन्धमादनं साधु जानाति । तथैव रघुवंशे हि मालवसाम्राज्यसमसामयिकी भौगोलिकस्थितिः वर्णिताऽस्ति । मघदूतस्य कर्ता तु उज्जयिनीं विशेषेण स्तौति । सम्प्रति कालिदासकृतित्वेन ख्यातेषु त्रिषु रूपकेषु तावत्स्वेव श्रव्यकाव्येषु ऋतुसंहारोत्तरेषु च विषयादिदृष्ट्या अभिज्ञानशाकुन्तलकुमारसम्भवयोः, विक्रमोर्वशीयरघुवंशयोः, मालविकाग्निमित्र-ऋतुसंहारयोश्च साम्यं समर्थयन्ति पण्डिताः, किन्तु समुद्रगुप्तप्रणीतकृष्णचरितं तु दृश्यकाव्यानां कालिदासाभिधकाव्यकारकतृत्वं श्रव्यकाव्यानां तु हरिषेणस्य कालिदासविशेषणस्य कृतित्वं समर्थयति । यथोक्तं तत्र -

पुरन्दरबलो विप्रः शूद्रकः शास्त्रशस्त्रजित् ।

धनुर्वेदं चौरशास्त्रं रूपके द्वे तथाऽकरोत्।।

तत्कथां कृतवन्तौ तौ कवी रामिलसौमिलौ ।

तस्यैव सदसि स्थित्वा तौ मानं बहु चाप्तताम् ।।

सतां मतः सोऽश्वमेधं कृतवानुरुविक्रमः ।

वत्सरं स्वं शकान् जित्वा प्रावर्तयत वैक्रमम् ।।

तस्याऽभवन्नरपतेः कविसप्तवर्णः

श्रीकालिदास इति योऽप्रतिमप्रभावः ।।

दुष्यन्तभूपतिकथां प्रणयप्रतिष्ठां

रम्याभिनेयभरितां सरसाञ्चकार।।

शाकुन्तलेन स कविर्नाटकेनाप्तवान् यशः ।

वस्तुरम्यं दर्शयन्ति त्रीण्यन्यानि लघूनि च।।

भूयः स मृच्छकटिकं नवाङ्कं नाटकं व्यधात् ।

व्यधात्तस्मिन् स्वचरितं विद्यानयबलोजितम् ।।

अत्रान्येषु त्रिषु विक्रमोर्वशीयं मालविकाग्निमित्रमिति द्वे तु ज्ञाते तृतीयं सम्प्रति नैवोपलभ्यत इति युधिष्ठिरमीमांसकमतम् । एवमेव -

काव्येन सोऽद्य रघुकार इति प्रसिद्धो

यः कालिदास इति______महार्हनामा।

प्रामाण्यमाप्तवचनस्य च तस्य धर्म्ये

ब्रह्मत्वमध्वरविधौ मम सर्वदेव।।

चत्वार्यन्यानि काव्यानि व्यदधाच्च लघूनि यः।

प्राभावयच्च मां कर्तुं कृष्णस्य चरितं शुभम्।।

हरिषणकविर्वाग्मी शास्त्रशस्त्रविचक्षणः।

यशोऽलभत काव्यैः स्वैर्नानाचरितशोभनैः।। इत्यादि ।

उपर्युक्तोद्धरणेन तु रूपकाणां कालिदासकर्तृकत्वं श्रव्यकाव्यानां तु हरिषेणप्रणीतत्वं सिध्यति । समुद्रगुप्तस्य हि हरिषेणः सभापण्डित आसीदिति तु तस्य प्रयागशिलास्तम्भाभिलेखतोऽपि ज्ञायते। यथोक्तं तत्र -

३१ - पुनाति भुवनत्रयं पशुपतेर्जटान्तर्गुहानिरोधपरिमोक्षशीघ्रमिव पाण्डुगाङ्गं पयः । ९ । एतच्च काव्यमेषामेव भट्टारकपादानां दासस्य समीपपरिसर्पाणानुग्रहोन्मीलितमतेः।

३२ - खाद्यटपाकिकस्य महादण्डनायकध्रुवभूतिपुत्रस्य सन्धिविग्रहिक-कुमारामात्यमहादण्डनायकहरिषेणस्य सर्वभूतहितसुखायास्तु।

३३ - अनुष्ठितञ्च परमभट्टारकपादानुध्यातेन महादण्डनायकतिलभट्टकेन। इति।

हरिषेणो हि चन्द्रगुप्तस्य मन्त्रिणः शिखरस्वामिनः पौत्रः कुमारगुप्तस्य मन्त्रिणः पृथिवीषेणस्य पुत्र आसीदित्यपि कुमारगुप्तस्य कर्मदण्डशिलास्तम्भाभिलेखस्य षष्ठसप्तमपङ्कितो ज्ञायते।

मन्यते यत्, अभिज्ञानशाकुन्तलादिरूपकाणां प्रणेता कविः परमशैवः किन्तु रघुवंशप्रणेता तु मङ्गलाचरणे पार्वती शङ्करौ स्तुवन्नपि विष्णोः प्राधान्यसमर्थको भागवतः । राजकविवर्णनप्रसंगे समुद्रगुप्तस्य कृष्णचरिते कविवर्णनक्रमेऽपि कालिदासोऽश्वघोषात्पूर्वमेवोपस्थापितोऽस्ति । अश्वघोषस्य कनिष्कसभासत्त्वं चतुर्थसौगतमहासंसदि भागग्रहणञ्च तत्रैवोक्तम् । यथोक्तं तत्र -

सौगतानां महासंसत् तुरीयाऽभून्महोज्ज्वला ।

तस्यां सभ्यो बभूवायं विश्वविद्वच्छिरोमणिः॥ इति ।

इत्थं हि कालिदासस्य चत्वारि स्वरूपाणि चिन्त्यन्ते अभिज्ञानशाकुन्तलकुमारसम्भवयोः प्रणेतकः, विक्रमोर्वशीयरघुवंशयोः रचयिताऽपरः, मालविकाग्निमित्र-ऋतुसंहारयोः कर्ता तृतीयः, मेघदूतस्य प्रणेता चतुर्थ इति । आद्यो हि केदारखण्डीयः, द्वितीयस्तु मागधः, तृतीयो वैन्ध्यः, चतुर्थस्त्वावन्तिकः । एकतो हि यदा कुमारसम्भवकृतं हिमालयस्य यथार्थवर्णनं कवेः पर्वतीयत्वं घुष्णाति, अपरतस्तु तदैव ऋतुसंहारोपवर्णितं ग्रीष्मवर्णनं स्पष्टमेव विन्ध्यवासित्वं कवेः सूचयति । युधिष्ठिरमीमांसकस्य मते कालिदासप्रणीतत्वेन प्रसिद्धानां सर्वेषामेव ग्रन्थानामेककविप्रणीतत्वसमर्थनेनैव कालिदासस्य स्थितिकालनिर्धारणसमस्याऽसमाहिताऽस्तीति ।

पूर्वोक्तातिरिक्तमपि श्यामलादण्डकऽपि नवरत्नमालाप्रभृति, स्फुटरचना अपि कालिदासकृतित्वेन गृह्यन्ते, किन्तु ताः कतमस्य कालिदासस्येति न शक्यते स्पष्टतया वक्तुम् । नवरत्नमालायां दशपद्यानि सन्ति येषु नव मातङ्गीस्तुतिपराणि एकं तु फलनिर्देशकं, श्यामलादण्डकेऽपि तस्या एव स्तुतिः।

प्राच्यपरम्परायां हि षडधिका विक्रमादित्य यत्रैकः संज्ञीत्वरे उपाधिधारिणस्तथैव ततोऽप्यधिकाः कालिदासा यत्रैको हि संज्ञीत्वपरे उपाधिधारिणस्थैव ततोऽप्यधिकाः कालिदासा यत्रैको हि संज्ञी अपरे तूपाधिधारिणः। समुद्रगप्तस्य सभाकविर्हरिषेणो हि 'कालिदास' इत्युपाधिना ख्यात आसीत् । तथैव भोजस्य सभाकविः परिमलोऽपि । अकबरसभायामपि कश्चित् कालिदासोपाधिधारी कविरासीत् । काव्यमालायां निर्णयसागरमुद्रणालयप्रकाशितायाः प्रथमे गुच्छके श्यामलादण्डकस्य पादसूच्यां (अष्टमे पृष्ठे) दुर्गाप्रसादः कथयति -

राजशेखरात्पूर्वं त्रयः कालिदासाः समुत्पन्नाः । ते च कस्मिन् कस्मिन् देशे काले च प्रादुरभुन्निति न ज्ञायते । अकबरीयकालिदासस्तु चतुर्थोऽर्ववाचीनः । राजशेखरस्तु ख्रीस्तसंवत्सरस्य दशमे शतके समुत्पन्नः इति ।

कालिदासस्य जीवनदर्शनम्[सम्पादयतु]

कालिदासो हि परम्परासमर्थको भारतीय आसीद्,यो हि सनातने धर्मे मनागपि परिवर्तनं वोपेक्षणं नैव सहते। तेनैव सोऽभिज्ञानशाकुन्तलस्य मङ्गलाचरणपद्ये बौद्धसम्मतनिरीश्वरवादनिरासाय 'प्रत्यक्षाभिः प्रपन्नस्तनूभिः' इति कथयति । स हि त्रयीसम्मतं चातुर्वर्ण्य चातुराश्रम्यञ्चेत्थं समर्थयति -

शैशवेऽभ्यस्तविद्यानां यौवने विषयैषिणाम्।

वार्धके मुनिवृत्तीनां योगेनान्ते तनुत्यजाम्।।[२]

मुनिवनतरुच्छायां देव्या तया सह शिश्रिये।

गलितवयसामिक्ष्वाकूणामिदं हि कुलव्रतम्।।[३]

न हि सति कुलधुर्ये सूर्यवंश्या गृहाय ।[४]

तदनुसारेण पुरुषार्थचतुष्टयसिद्धिरेव जीवनस्य लक्ष्यम् । तत्रापि अर्थकामाभ्यां धर्मपरकाभ्यां भाव्यं यतो मोक्षसिद्धिः सम्पद्यते । तेनैव तस्य दुष्यन्तः प्रथमं विप्रकन्यां मत्वा शकुन्तलायां नैव बद्धस्पृहो भवति । प्रासादागताञ्च तां धर्मोल्लङ्घनभयेनैव निराद्रियते न तु कामचारेण । कुशस्तु स्पष्टमेव कथयति -

'आचक्ष्व मत्वा वशिनां रघूणां मनः परस्त्रीविमुखप्रवृत्ति।'[५]

स हि कविरात्मवादी । तस्यात्मविश्वासो हि यत्र तत्र प्रस्फुटितो दृश्यते । तस्य दुष्यन्त उद्घोषयति -

सतां हि सन्देहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ।[६]

तथैव शम्भुनोपेक्षिताऽपि पार्वती -

इयेष सा कर्तुमबन्ध्यरूपतां समाधिमास्थाय तयोभिरात्मनः।

अवाप्यते वा कथमन्यथा द्वयं तथाविधं प्रेम पतिश्च तादृशः॥[७]

उपायेनाशक्यं न किमपि सम्भवतीति तस्य प्रबलो राद्धान्तः । तस्य हि सर्वाण्यपि पात्राणि तथैवाचरन्ति । स हि मर्यादाकविः । स्वसम्मतां मर्यादां स कदापि नैवोल्लङ्घयति। तस्य हि मर्यादोल्लङ्घनमपि मर्यादास्थापनायैव भवति । यथोक्तम् -

नृपतेः प्रतिसिद्धमेव तत् कृतवान् पङ्क्तिरथो विलङ्घ्य यद् ।

अपथे पदमर्पयन्ति हि श्रुतवन्तोऽपि रजोनिमीलिताः॥[८]

स हि परमार्थतो माहेश्वरः सम्मतः । स प्रायः सर्वास्वेव कृतिषु महेश्वरभवीष्टदेवत्वेन स्तौति । किन्तु नैतावतेतच्चिन्तनीयं यत्सोऽन्यदेवेषु न तथा बद्धादर इति । स तु देवत्रयस्यैकान्तैक्यं समर्थयति । यथा मङ्गलपद्ये शिवः कुमारसम्भवे (२ सर्गे ) ब्रह्मा, रघुवंशे (१० सर्गे), विष्णुश्च स्तुताः सन्ति । प्रत्यभिज्ञावादी स साङ्ख्ययोगावपि तथैवाद्रियते । वेदेषु परमश्रद्धा, पुनर्जन्मवादः, ईश्वरस्य जगत्प्रणेतृत्वञ्च कालिदासस्य जीवनदर्शनस्य केचित्पक्षाः । स हि सन्दिशति -

'त्यागाय सम्भृतार्थानां सत्याय मितभाषिणाम्।

यशसे विजिगीषूणां प्रजायै गृहमेधिनाम्।।[९] इति।

कवेः देशः[सम्पादयतु]

कालिदासस्य जीवनवृत्तिविषये अनेकाः लोकविश्रुतयः अनेके वादाः च सन्ति । केचित् एनं विक्रमादित्यस्य सभायां कविः इति मन्यन्ते । केचित् गुप्तकालीननरेशाणाम् आश्रयं प्राप्तवानिति कथयन्ति । धारानगरे भोजराजस्य सभायां कविरत्नपदभूषितः अभूत् इति कथाकोविदाः कथयन्ति। जनश्रुत्यनुसारं बाल्यकाले सः अतीव मूर्खः आसीत् । विद्याधरया सह तस्य विवाहः अभवत् । मूर्खः पतिः इति ज्ञात्वा विद्याधरा तं कालीदेव्याः आलयं नीत्वा यावत् सा भवते विद्यां न उपदिशति तावत् भवता ततः बहिः न आगन्तव्यम् इति आदिशत् । ततः पत्न्याः कथनानुसारेण तथैव आचरितः कालिदासः कालीदेव्याः वरप्रसादेन विद्वान् अभवत् इति । इयं कथा कालिदासस्य प्रतिभया कविताचातुर्येण च जाता तथ्या तु न इति विदुषां मतिः । यतः जानकीहरणस्य कर्ता राजाकुमारदासः च सप्तमे शतके आस्ताम् इति विद्वांसः निश्चितवन्तः । अतः अयं तस्मिन् काले नासीत् इति वक्तुं शक्यते । इतोऽपि कालिदासस्य कविताचातुर्यं निर्दिश्यमानाः अनेकाः कथाः सन्ति ।
1.उत्तररामचरितस्य कर्ता भवभूतिः स्वयं नाटकं विलिख्य कालिदासस्य अभिप्रायं प्रष्टुं गतः आसीत् । समग्रं नाटकं परिशील्य पठित्वा च कालिदासः नाटकस्य प्रथमाङ्के विद्यमाने –

किमपि किमपि मन्दं मन्दमासत्तियोगा-
दविरलितकपोलं जल्पतोरक्रमेण ।
अशिथिलपरिरम्भव्यापृतेकैकदोष्णो-
रविदितगतयामा रात्रिरेवं व्यरंसीत् ॥

श्लोकेऽस्मिन् 'रात्रिरेवं' इत्यत्र रात्रिरेव इत्येव सूक्तमिति परिष्कारम् अकरोत् । भवभूतिना लिखिते श्लोके एवं रसमयार्थः यथा द्योत्येत तथा परिष्कारं कृतवानिति अत्र कालिदासस्य काव्यप्रतिभां सहृदयाः श्लाघितवन्तः चेदपि भवभूतिकालिदासौ समकालीनौ आस्ताम् इत्येतं विषयं ऐतिहासिकाः नाङ्गीकुर्वन्ति ।
२. अपरा काचित् कथा एवं श्रूयते यत् कदाचित् सरस्वती देवी कालिदासभवभूत्योः कवितागुणतारतम्यं परीक्षितुं तुलायां द्वयोः स्थाल्योः उभौ अपि स्थापितवती इति । तदा भवभूतेः स्थाल्याः भारः न्यूनः अभवदिति सरस्वती स्वस्य कर्णे धृतं कल्हारमुकुलमकरन्दं तत्र योजितवती इति । तस्मात् द्वे स्थाल्यौ अपि समाने जाते इति श्रूयते । कालिदासस्य कविताचातुर्यं परिश्लाघ्यमानानि अनेकानि उपाख्यानानि 'भोजप्रबम्ध'इत्यस्यां कृतौ परिदृश्यते । परन्तु तानि सर्वाणि प्रमाणभूतानि इति वदितुं न शक्यते ।
३. विक्रमसंवत्सरस्थापकस्य विक्रमादित्यस्य आस्थाने नवरत्नेषु अयमपि अन्यतमः इति परम्परागतः अपरः विश्वासः । यथा –

धन्वन्तरि-क्षपणकामरसिंह-शङ्कुवैतालभट्ट-घटकर्परकालिदासाः ।
ख्याती वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य ॥

श्लोकेऽस्मिन् नवरत्नानां कवीनां नामानि निर्दिष्टानि परं एते सर्वेऽपि समकालीनाः न । कालिदासः विक्रमस्य आस्थाने आसीत् इत्यंशः अङ्गीकृतः चेदपि अस्य श्लोकस्य आधारेण तत्कालं प्रमाणीकर्तुं न साध्यम् ।
इत्थं प्रचलिताभिः किंवदन्तीभिः ऐतिहासिकव्यक्तीनाम् उल्लेखितकथाभिः वा कालिदासस्य चरित्रं वेदितुं न शक्यते । ताः रम्याः कथाः सन्ति तस्याः कालिदासस्य जनप्रियतां केवलं ज्ञातुं साध्यम्।
अथ महाकविरयं कदा कं देशं स्वजन्मना अलञ्चकार इत्येतस्मिन् विषये समेषां गवेषकाणाम् एकः एव निष्कर्षः अद्यावधि समुपलभ्यते यत् पुरातनाः कवयः स्वनिर्वचनं नैव कुर्वन्ति स्म इति । पाठकानां सामाजिकानां गवेषकाणां च प्रश्नः भवति बलवान् येन प्रेरिताः ते एतादृशान् ऐतिहासिकान् विषयान् कौतूहलेन गवेषयन्ति । गवेषणायाः सिद्धान्ताः प्रकाराणि च विभिन्नानि दृश्यन्ते । अस्य जीवनविषये बह्व्यः दन्तकथाः, ऐतिहासिककथाः च सन्ति । मेघदूते अन्यासु कृतिषु सः पुनःपुनः उज्जयिन्याः सौन्दर्यं वर्णितवान् अतः सः तत्रैव बहुकालम् उषितवान् स्यात् । काश्मीरे प्रवर्धमानस्य केसरपुष्पं सः केवलं वर्णितवान् इत्यतः काश्मीरीयः स्यादिति केषाञ्चित् अभिप्रायः । तेन मेघदूते निर्दिष्टः रामगिरिः विदर्भे अस्ति । तत्रत्यानि असनवसनादिविषयान् सः वर्णयति इत्यतः विदर्भीयः स्यादिति, न समीचीनं निर्णयं लभते । मालवं विस्तरेण वर्णितवान् इत्यतः सः मालवीयः अस्तीति पुनश्च केषाञ्चित् अभिप्रायः । रघुवंशमहाकाव्ये तेन वर्णितं रघोः दिग्विजयं सूक्ष्मतया परिशीलयामश्चेत् भारते तस्य अपरिचितः प्रदेशः नास्तीति स्पष्टं ज्ञायते । यथा असमप्रदेशम् अवर्णयत् तथैव मनोहरशैल्या केरलमपि अवर्णयत् । हिमालयमिव समुद्रतीरमपि सुन्दरम् अवर्णयत् । अतः सः राष्ट्रकविः, उज्जयिनी तस्य स्थिरस्थानम्, समग्रभारतं तस्य चरस्थानम्, अतः समग्रभारतमेव तस्य प्रदेशः इत्यपि वक्तुं शक्यते । एतदीयमातापित्रोः नामनी अद्यापि नोपलभ्येते न वा अयमेव सम्यक्तया निर्णयो जातः यदयं कुत्रत्यः इति । अस्य काव्यनाटकेषु आसमुद्रं भूस्थानानि वर्णितानि सन्ति । अस्य देशः काश्मीर इति, बङ्गाल इति, गालव इति च विभिन्नाः वा वादाः मण्डिताः बुधैः । यद्यपि कालिदासत्रयीति समालोचकपरम्परया अवबुध्यते तथापि संस्कृतसाहितीपरिचितानां मनःसु सः अन्यतमः कालिदासः । यदियं काव्यत्रयं नाटकत्रयं च जगन्मोहयति । आवर्जयति च हठात् पाश्चात्त्यविदुषामपि मनांसि ।

व्यक्तित्वम्[सम्पादयतु]

नूनमयं शैवः इति हेतोः मेघदूतकृतम् उज्जयिनीस्थमहाकालवर्णनं तत्रत्याः भौगोलिकीस्थितेः तत्सम्बद्धं चित्रणं निरीक्ष्य बहवः विद्वांसः अयम् उज्जयिनी निवासी इति विश्वसन्ति । इत्थं परिचयशून्योऽपि सर्वपरिचितः महाकविरयं सर्वासु दिक्षु स्वकीयम् अवदातां कीर्तिपताकाम् उद्धृत्य पाञ्चभौतिकेन सम्प्रति अनुपलब्धः अपि काव्यवैभवेन विदुषां हृदि यावच्चन्द्रार्कौ स्थास्यति एव । आध्यात्मिकतायाः ज्ञानं यथा तस्य कृतौ आमूलाग्रं दृश्यते तथा लौकिकमपि तत्र तत्र प्रसृतम् । प्रजासु राज्ञां कर्तव्यं, यशस्विराजकीयतत्वानि, समाजिकसौहार्दतायाः आवश्यकता इत्यादीनि आकर्षकरीत्या चित्रितानि । सङ्गीतचित्रनृत्यादिकलाः जीवनं सुन्दरमयं कुर्वन्ति इति कालिदासः हृद्यशैल्या चित्रितवान् । क्रि.श. चतुर्थे पञ्चमे शतके च प्रचलितां संस्कृतिं, जीवनदृष्टिं, कलां, तत्वज्ञानं, समजव्यवस्थां च कविरयं सुन्दरसरलसुमधुरशैल्या स्वकाव्येषु अवर्णयत् । कालिदासस्य काव्येषु वयं भारतसंस्कृतिदर्शनं पश्यामः ।
तेन चित्रिताः नायकाः प्रेमपाशे संलग्नाः चेदपि सभ्यतायाः सीमां न अतिक्रामन्ते स्म । नायकाः दाक्षिण्यपराः, धर्मनिष्ठाः आसन् इति कवेः चित्रणं तस्य मनोधर्मं सूचयति । कालिदासः बालेषु नितरां स्निह्यति स्म इति बहुत्र व्यक्तः भवति । मित्राणि परिवाराः, भृत्याः, अतिथि-अभ्यागताः, तपस्विनः इत्यादिभिः नायकैः आचर्यमाणया रीत्या कवेः कुटुम्बदृष्टिं सामाजिकदृष्टिं ज्ञातुं शक्नुमः । तस्य नाटके आदौ क्रियमाणानि तेन लिखितानि सम्भाषणानि तस्य विद्वद्विनयं व्यनक्ति । अभिज्ञानशाकुन्तलस्य अन्तिमभागे परमेश्वरेण पुनर्जन्मराहित्या मुक्तिः दीयताम् इति तेन कृता प्रार्थना कालिदासः तृप्तिकरं परिपूर्णं जीवनं कृत्वा भगवति मुक्तिमपेक्ष्यमाणः अस्तीति अवगम्यते ।

कालः[सम्पादयतु]

आभारतीया भारतीया वा कविवरमिमं नवीनतमं प्राचीनतमं वा कल्पयन्तु नाम, किन्तु अस्य कृतिभिः एतस्य स्थायि यशः न मनागपि ह्रीयते । अस्य कालविषये तु प्राधान्येन । 1 तत्र प्रथमं क्रिस्ताब्दतः पूर्वं प्रथमशताब्द्याम् । 2. द्वितीयं क्रिस्ताब्दतः पश्चात् पञ्चमशताब्द्याम् । 3 तृतीयं क्रिस्ताब्दतः पश्चात् षष्ठशताब्द्याम् । प्रथममतस्य समर्थकाः प्रायः सर्वेऽपि विद्वांसः सन्ति । तेषां कथनमिदम् अस्ति यत् कालिदासः राज्ञः विक्रमादित्यस्य आस्थाने नवविद्वन्मणिषु आसीत् अन्यतमः । यथा - मालविकाग्निमित्रस्य कथांशेन परिज्ञायते यत् कालिदासः शुङ्गवंशस्य अभिज्ञः इति । कालिदासस्य काव्यरचनाप्रणाली सुतरां स्वाभाविकी सत्यपि महाभाष्यम् अनुकरोति । प्रवृत्तिरियं क्रिस्तीयशताब्दितः त्रिंशद्वर्षपूर्वतः प्रचलन्ती क्रिस्तीयवत्सरस्य प्रारम्भिकं कालं यावत् परिलक्ष्यते ।
द्वितीयमतस्य समर्थकाः पाश्चात्त्याः भारतीयाः गवेषकाः अपि सन्ति । एतेषां मतमिदं यत् गुप्तकालः भारतीयसाहित्यस्य स्वर्णयुगमासीत् । द्वितीयचन्द्रगुप्तः विक्रमादित्य इति सम्मानितोपाधिं धारयति स्म । अनेनैव शकाः पराजिताः । अश्वघोषस्य अपि पर्याप्तः प्रभावः कालिदासस्य काव्येषु वर्तते । अतोऽयं गुप्तकालिक इति ।
तृतीयस्य प्रवर्तकः फर्गुसनमहोदयः आसीत् । एतस्य कथनम् अस्ति यत् ५४४ क्रिस्ताब्दे विक्रमादित्यपदलाञ्छनेन केनापि राज्ञा हूणाः विजिता । मतमिदं मैक्समुलरः अपि स्वीकरोति । डा. हार्नलीमहोदयः कथयति यत् महाकवेः कालिदासस्य आश्रयदाता यशोधर्मानृपतिः षष्ठ शताब्द्याम् आसीत् । अनेन कविना तस्य यात्रावर्णनव्याजेन रघोः दिग्विजययात्रा वर्णिता इति ।

अथाऽत्र त्रिपथगामिनः समालोचका दृश्यन्ते । तत्र केचन कालिदास विक्रमपूर्वकालिकं मन्यन्ते । अपरे तु तं विक्रमसमकालिकम् । अन्ये हि तं विक्रमानन्तरं चतुर्थशतकभवमपि मन्यन्ते । अथापरे तु तं विक्रमानन्तरपञ्चमशतकभवमपि। सर्वोऽपि स्वाभिमतपक्षसम्पुष्ट्यै नैकांस्तर्कानुपस्थाययन्ति ।

ये हि खलु कालिदासं विक्रमपूर्ववर्तिनं मन्यन्ते, ते हि मालविकाग्निमित्रं नाटकमाश्रयन्ति । तदनुसारेण कालिदासो हि अग्निमित्रसमकालिको यतो हि स कथयति -

आशास्यनीतिविगमप्रभृति प्रजानां सम्पत्स्यते न खलु गोप्तरि माग्निमित्रे। इति ।

एष हि महापराक्रमं पुष्यमित्रं विहाय तत्कृतर्वैरमत एव पुष्यपुरं विहाय विदिशायां स्थितं तत्पुत्रमग्निमित्रं नाटके नायकीकरोतीति परं प्रमाणं तस्य तत्समकालिकत्वस्य । अग्निमित्रो हि तदा पित्रा कृतवैरो विदिशापालक आसीदिति।

सोऽहमिदानीमंशुमता सगरपुत्रेणेव प्रत्याहृताश्वो यक्ष्ये । तदिदानीमकालहीनं विगतरोषचेतसा भवता वधूजनेन सह यज्ञसेवनायागन्तव्यमिति कथनेन ज्ञायते । तत्र हि सम्राट् पुष्यमित्रस्तत्कालप्रचलितेन सेनापतिशब्देन प्रतिज्ञातोऽपि दृश्यते । यथोक्तं -

"स्वस्ति । यज्ञशरणात् सेनापतिः पुष्यमित्रो वैदिशस्थं पुत्रमायुष्यन्तमग्निमित्रं स्नेहापरिष्वज्येदमनुदर्शयति____इति ।" "अदिघोरे क्खु पुत भो सेनावदिणा णिउत्तो'' इत्यपि ।

पुष्यमित्रो हि प्रथमं मौर्यस्य देवभूतेः सेनापतिरासीत् । स हि तं हत्वा स्वयमेव राज्यं बुभुजे । तेन हि स तदा सेनापतिशब्देनैव ज्ञातो व्यवहृतश्वासीत् । स हि नीचगिरौ शिलावेश्ममात्राणि जानाति । तथैव स विदिशा दशार्णानां राजधानीत्वेन स्मरति, यद्धि शुङ्गकाले एवाऽऽसीत् । स हि शुङ्गवंशीयं त्रैपुरुषिकं जानाति । यदि नाम कालिदासः शुङ्गशासनानन्तरकालिकः स्यात्तदा स तथाविधमनतिप्रसिद्धं युवराजमग्निमित्रं नैव नायकीकुर्यात् । किन्तु पक्षस्यास्य सिद्धाववि सन्त्यनेका विप्रतिपत्तयः। कालिदासो हि रघुवंशे षष्ठसर्गे इन्दुमतीस्वयंवरप्रसङ्गे राजवर्णनक्रमे प्रथमं मगधेश्वरमेव गृह्णाति वर्णयति च तदुत्कर्षं यथा स मागध एव स्यात्, किन्तु तत्सम्मतः परन्तपो नाम मागधो राजा न कुत्रापि पुराणेष्वपि श्रुयते । रघुवंशे एवं चतुर्थसर्गे मगधं वा पुष्पपुरं पुनर्नामतोऽपि न स्मरति । स हि मालविकाग्निमित्रे विदर्भान् हि दशार्णानामधीनस्थराज्यत्वेन वर्णयति यत्र हि यज्ञसेनमाधवसेनयोः द्वैराज्यं स्थापितमस्ति । रघुवंशे तु 'सौराष्ट्ररम्यानपरो विदर्भान्' इति पृथगेव स्वतन्त्रराज्यरूपेण स विदर्भान् स्मरति । अपरञ्च, अग्निमित्रसमये साकेतप्रदेशो मगधानामन्तर्वर्तिप्रदेश आसीत् । रघुवंशे तु स साम्राज्यकेन्द्रत्वेन वर्णितोऽस्ति । तेन हि रघुवंशस्य प्रणेता कालिदासोऽग्निमित्रसमकालिक इति नैव सर्वतोभावेन सङ्गच्छते।

अपरे तु कालिदासं हि विक्रमादित्यसमकालिकं मन्यन्ते । यद्यपि कोऽसौ विक्रमादित्य इति नाधुनाऽपि निर्णीतं तथापि कालिदासो हि विक्रमादित्यस्य सभापण्डित आसीदिति तु सर्वे एवामनन्ति ।

अन्ये तु कालिदासं हि समुद्रगुप्तसभासदमपि मन्यन्ते विक्रमानन्तरचतुर्थशतकभवम् ।

इतरे तु तं विक्रमानन्तरषष्ठशतकभवस्य यशोवर्मणः सभापण्डितमपि मन्यन्ते ।

केचित्तु तं रघुवंशोपवर्णिताग्निवर्णसमकालिकमपि कथयन्ति । समुपलब्धेषु सप्तस्वेवं कृतिषु कालिदासः सप्तविधेनैव रूपेणात्मानं प्रदर्शयतीति दुष्कर एव तस्य देशस्थितिकालनिर्णयः । अतो विक्रमपूर्वद्वादशशतकमारभ्य विक्रमानन्तरषष्ठशतकपर्यतं समालोचकाः तत्स्थितिकालपूर्वपरसीमां मन्यन्ते। तेषु हि ये खलु कालिदासं विक्रमानन्तरषष्ठशतकभवं मन्यन्ते फर्युसनमहाशयोऽग्रणीः । स हि रघुवंशे[१०] हूणपराजयवर्णनमवलोक्य तद्विक्रमानन्तरैकोत्तरषट्शतवर्षघटितोज्जयिनीनरेशयशोधर्मकृतहूणपराजयेन संयोज्य कालिदासं तस्यैव राज्ञः सभापण्डितं मन्यते । इतिहासे हि घटनैषा कारूरसङ्गामनाम्ना ख्याता । फर्ग्युसनानुसारेण अनेनैव राज्ञा हि हूणाः पराजित्य विक्रमादित्योपाधिधारणं कृतमासीत् प्रवर्तितश्च तेन विक्रमशको यस्य प्राचीनत्वसिद्धये षट्शतवर्षाणि तत्र योजितानीति । किन्तु मतमिदं नैव निर्दोषं यतो हि तत्पूर्वमेव शकोऽयं मालवनाम्ना प्रचलित आसीदिति -

१९. 'मालवानां गणस्थित्या याते शतचतुष्टये।

त्रिनवत्यधिकेऽब्दानाम्रितौ सेव्यघनस्तने।।

सहस्यमासशुक्लस्य शिस्तेऽह्नि त्रयोदशे ।

मङ्गलाचारविधिना प्रासादोऽयं निवेशितः।।

इति बन्धुवर्मणो मन्दसोरशिलाभिलेखतस्तथैव

२१____________

पञ्चसु शतेषु शरदां यातेष्वेकोनवतिसहितेषु।

मालवगणस्थितिवशात्कालज्ञानाय लिखितेषु।।

इति यशोधर्मण एव मन्दसोरशिलाभिलेखतोऽपि ज्ञायते । तेन हि न च यशोधर्मा विक्रमादित्यो नैव च विक्रमशकस्तेन प्रवर्तितो न हि च कालिदासस्तस्य सभापण्डितः ।

तेषु हि ये कालिदासं विक्रमानन्तरचतुर्थशतकभवं मन्यन्ते, तेषु हि केचन पाश्चात्यसमालोचकाः उल्लेखनीयाः । तदनुसारेण हि कालिदासग्रन्थेषु समुपस्थापितः समाजो गुप्तकालिकः प्रतिभाति । स हि 'कामं नृपाः सन्तु सहस्रशोऽन्ये राजन्वतीमाहुरनेन भूमिम्'[११] इति कथनेन मगधेश्वरं प्रथमत उपस्थापनेन[१२] समुद्रगुप्तस्यैश्वर्यं वर्णयति तथैव 'कुमारकल्पं सुषुवे कुमारम्'[१३] कथनेन कुमारगुप्तस्य जन्माऽपि सङ्केतयति । किन्तु कथनमिदं नैव तर्केण सह संवदते । गुप्तकालिको हि कालिदासः षट्शतवर्षपूर्वभवमनतिख्यातयशसमग्निमित्रं नायकीकरोतीति तर्कः कुतर्क एव मन्यते। अपरञ्च रघुवंशे[१४] समुपवर्णितस्य पाण्ड्यराज्यस्य यस्योरगाख्यं पुरं राजधानी आसीत् गुप्तकाले नामाऽपि न श्रूयते स्वतन्त्रराज्यरूपेण । तदस्तित्वं तु शुङ्गकाल एवासीत्।

सङ्क्षेपतः कालिदासविषये वासुदेवमहोदयेन कतिपयानि तथ्यानि सङ्कलितानि तेषां विचारणया एतदेव सिध्यति यत्कालिदासः शुङ्गकालीन एव विशेषतोऽग्निमित्रसभासद् वैदिशः।

शुक्लकालीनत्वेन सम्मतासु 'भीट' मुद्रासु मृगमनुधावमानः कश्चिन्नृपः श्चित्रितो दृश्यते । अनेन मन्यते यदभिज्ञानशाकुन्तलस्य शुङ्गकाले एव रचना सम्मताऽऽसीत् । तादृशी घटनाऽभिज्ञानशाकुन्तले एव वर्णिताऽस्ति नान्यत्र । कालिदासस्य नैसगिकी शैली तमाचार्ययुगस्य प्रतिनिधित्वेनोपस्थापयति न तु पण्डितयुगीनत्वेन । तस्य हि रचनायां नैव कुत्रापि पाण्डित्यप्रदर्शनप्रयासः, न हि तत्र शब्दानामाडम्बरः, न चित्रता, नालङ्कारप्राचुर्यं न हि वर्णनस्यातिमात्रविस्तरः न च दुरूहत्वं कुत्रापि । उक्तमेव -

अस्पृष्टदोषा नलिनीव दृष्टा हारावलीव प्रथिता गुणौघैः।

प्रियाङ्कपालीव विमर्दहृद्या न कालिदासादपरस्य वाणी॥

स हि शिष्टभाषितभाषाया एवं प्रयोगं कृतवान्। तस्य पदेषु प्रकृतिर्नृत्यति सानुरागम् । शैलीयं पाणिनिवररुचिपतञ्जलिशैल्या सह साधु संवदते । यथा हि जाम्बवतीविजये पाणिनेः -

असौ गिरेः शीतलकन्दरस्थः पारावतो मन्मथचाटुदक्षः।

घर्मालिसाङ्गीं मधुराणि कूजन् संवीजते पक्षपुटेन कान्ताम्॥

यथा च कालिदासस्य -

मधुर्द्विरेफः कुसुमैकपात्रं पपौ प्रियां स्वामनुवर्तमानः।

शृङ्गेण च स्पर्शनिमीलिताक्षीं मृगीमकण्डूयत कृष्णसारः।।

अनेन कालिदासस्य पण्डितयुगात्प्रागेव सम्भवः मन्यते। कालिदासस्य अमरसिंहवराहमिहिरादिसमकालिकत्वं यदुच्यते तदपि सत्याद् दूरमेव मन्यते। यतो हि कालिदासः पेलवशब्दं कोमलेऽर्थे प्रयुनक्ति यथा कुम्मारसम्भवे[१५] - पदं सहेत भ्रमरस्य पेलव शिरीषपुष्पं न पुनः पतत्रिणः। इति । अमरसिंहस्तु 'पेलवं विरलं तनु'[१६] इति पठति । एवमेव कालिदासो हि परमेष्ठिपदेन विष्णुं जानाति ।[१७] 'अमरसिंहस्तु तत्पितामहपर्यायवाचकं मन्यते'।[१८] कालिदासो हि छन्दोमात्रैकगोचरानपि शब्दान् यत्र कुत्र प्रयुनक्ति यथा वेदेषु - 'आ नो भद्राः कृतवो यन्तु विश्वतः ।' कालिदासोऽपि - तं पातयां प्रथममास पपात पश्चात्[१९] संयोजयां बिधिवदास समेतबन्धुः इति।[२०]

अनन्तरकालिकेषु कविषु नेदृशी प्रवृत्तिः दृश्यते । तेन हि कालिदासेन वैदिकलौकिकसंस्कृतसन्धि-कालभवेन भाव्यम् इति मन्यते। कालश्चायं विक्रमपूर्वचतुर्थशतकादारभ्य विक्रमोदयं यावदभ्युपगतः । कालिदासो हि परशुरामं केवलं मुनिरूपेणैव जानाति । स हि अधिकांशतः साकेतनिमित्तमयोध्याशब्दमेव प्रयुनक्ति वाल्मीकिवत् । यथा -

पुरमविशदयोध्यां,[२१] आलोकयिष्यन् मुदितामयोध्यां,[२२] गृहवर्जमयोध्यया,[२३] सैन्यैरयोध्याभिमुखः प्रतस्थे,[२४] अयोध्यादेवताश्चैनं[२५]। साकेतशब्दस्य प्रयोगस्तु स्वल्प एव । यथा रघुवंशे - जनस्य साकेतनिवासिनस्तौ,[२६] साकेतोपवनमुदारमध्युवास[२७] इति । अनेनापि कालिदासस्य आचार्ययुगीनत्वं सिध्यति । पतञ्जलिरपि साकेतस्यैव बहुधा प्रयोगं करोति । 'अरुणधवनः साकेतम्' इत्यादौ । यद्यपि अभिज्ञानशाकुन्तलस्य कासुचित्प्रतिषु प्रस्तावनायां 'रसभावविशेषदीक्षागुरोर्विक्रमादित्यस्य अभिरूपभूयिष्ठा परिषद्' इत्युक्तं दृश्यते तथैव नैतावदेव पर्याप्तं प्रमाणं कालिदासस्य विक्रमादित्यसभापण्डितत्वस्य ।

प्रथमं तु विक्रमादित्यशब्दो वस्तुतः संज्ञा उत उपपदमित्यप्यद्यावधि नैव निर्णीतम् । अत्रत्यं हि 'रसभावविशेषदीक्षागुरोः' इति विशेषणमपि साभिप्रायमेव दृश्यते । किं शकारिर्हि विक्रमादित्याख्यो नृपः कालिदासस्य रसभावविशेषदीक्षागुरुः सम्भवति ? यदि तथा तर्हि का तस्य वैशिष्टयसमर्थनपरा कृतिः ? सम्भवतो नैव । तेन हि पदमिदमुपपदमेव कस्यचित्तादृशयोग्यतासम्पन्नस्य राज्ञः । तर्हि कोऽसौ नृप इत्यपेक्षायामुच्यते सम्भवतः स हि मृच्छकटिकस्य कर्तृत्वेन सम्मतः शूद्रक एव । तथ्यमेवेदं समुद्रगुप्तप्रणीते कृष्णचरिते समुद्घाटितमस्ति । यदि शुदकः कालिदाससमकालिको वा तदाश्रयस्तदा स यदा भाससौमिल्लकविपुत्रादीन् स्मरति, तदा शुद्रकं कथमुपेक्षत इत्यपेक्षायामुच्यते तत्र द्विविधा हि स्थितिः सम्भवति । प्रथमं तु यदा हि मालविकाग्निमित्रं प्रणीयमानमासीत्तदा मृच्छकटिकं नैव प्रणीतं सम्भवति। द्वितीयं तु रसभावविशेषदीक्षागुरोरिति कथनेन तस्य सम्मानं प्रकटितमपि सम्भवति । यतो हि मृच्छकटिकं हि शूद्रकस्य चरमा कृतिरिति तत्प्रस्तावनातः समुद्रगुप्तस्य कृष्णचरितादपि ज्ञायते । तेन स्थितमेतद्यत्कालिदासो हि अग्निमित्रशुदकयोरन्यतरस्य सभापण्डित असीदिति । मालविकाग्निमित्रव्याख्याता काटयवेमो हि 'अत्र प्रजानामाशास्यसिद्धिं प्रति गोप्तुरग्निमित्रस्य कथनं तत्कालराजोपलक्षणमिति मन्तव्यम्' इति सूचयति । तथैव समुद्रगुप्तस्य कृष्णचरिते राजकविवर्धनप्रसङ्गे शूद्रकस्य वर्णने -

वत्सरं स्वं शकाञ्जित्वा प्रावर्तयत वैक्रमम्।

भूयः स मृच्छकटिकं नवाङ्के नाटकं व्यधात्।।

तस्याभवन्नरपतेः कविराप्तवर्णः श्रीकालिदास इति योऽप्रतिमप्रभावः।

दुष्यन्तभूपतिकथां प्रणयप्रतिष्ठा रम्याभिनेयभरितां सरसाञ्चकार॥ इति ।

अग्निमित्रकाले एव सिन्धोः दक्षिणरोधसि यवनानां प्राबल्यमासीदिति मालविकाग्निमित्रतो ज्ञायते । सम्भवति पुष्पपुरं प्रत्यागतेऽग्निमित्रे शूद्रको हि विशालां शशासेति । शूद्रकोऽपि ब्राह्मण एव । तेनाग्निमित्रशूद्रकयोः यौनसम्बन्धोऽपि सम्भवति । शुद्रकस्य पुत्रो देवमित्रो यथाऽग्निमित्रस्य वसुमित्रः । शूदकस्य अग्निमित्रसद्योऽनन्तरकालिकत्वमैतिहासिकदृष्ट्याऽपि सम्भवति । सम्भवति अग्निमित्रे पुष्पपुरं प्रति प्रस्थिते कालिदासः शूद्रकं समाश्रितवान् । यतो हि तस्य मालविकाग्निमित्रं प्रथमा कृतिरिति तस्यैव प्रस्तावनायाः ‘पुराणमित्येव न साधु सर्वम्' इति वचनात् सिध्यति । विक्रमोवंशीयं हि त्रोटकमवान्तरचना । अभिज्ञानशाकुन्तलञ्च नाटकेषु चरमम् । शुङ्गाः सर्वेऽपि माहेश्वरी यथा कालिदासः । शूद्रकोऽपि परमशैवः ज्ञात्वा शर्वप्रसादाद् इति तत्रोक्तेः । एवमेव तस्य श्रव्यकाव्येऽपि ऋतुसंहारं प्रथमा कृतिः, कुमारसम्भवं मेघदूतं रघुवंशञ्च ततः क्रमेण प्रणितानि ।

शूद्रको हि जीवनकाले एव पुत्रं देवमित्रं राज्येऽभिषिच्य वनं प्रविष्ट आसीत्तपसे । शुङ्गा हि १३९ वर्षाणि भुवं बुभुजुर्यत्र पुष्यमित्र एक एव षष्टिवर्षाणि महीं शशास । ततश्चाग्निमित्रः केवलं सप्तवषाण्येव [कालिदासस्य हि अग्निवर्णाग्निमित्रावभावेव विलासिनावल्पायुषौ च ] ततश्च वसुमित्रो दशवषणि । वसुमित्रानन्तरं शुङ्गा हि क्षीणबला बभूवूर्यतो हि विशालेशः शूद्रकोऽश्वमेधनेष्टुं प्राभवत् प्रावर्तयच्च शकान् जित्वा विक्रमशकं कलिगतेषु २०४५ वर्षेषु ।

एतावदपि विश्वस्यते यत्क्षुद्रकगणवञ्चनया सिकन्दरपराजितो मालवगणस्तरप्रदेशमुज्झित्वा स्थायिवसतिविचयाय यत्र तत्र प्रस्थितः । स हि उज्जयिनीं प्राप्य स्वां स्थितिं प्रबलां चक्रुः । तदा तेषां हि नेता शूद्रक आसीत् । तत्रापि मालवगणः शकैः आक्रान्तस्ताञ्च विद्रावणाय स समर्थोऽभूत् । तदेवावसरमादाय मालवशकः प्रारब्धो यो पश्चाद्विक्रमनाम्ना प्रसिद्धो देशेषु । तद्विजयद्योतनाय शूद्रकेण विक्रमादित्योपाधिर्धारिता । शूद्रक एव कालिदासस्य रसभावविशेषदीक्षागुरुर्भवितुमर्हति नान्यः कश्चिदपि नृपः। तस्य हि धनुर्वेदं चौरशास्त्रं द्वे रूपके, मृच्छकटिकञ्च प्रसिद्धग्रन्थाः । कालिदासस्मृतौ हि सौमिल्लकः शूद्रकस्यैव सभापण्डित आसीद्येन मिलकेन सह सम्भूय शूद्रकस्य चरितं विरचितम् ।

रचनाशैली[सम्पादयतु]

रससिद्धस्य अस्य कवीश्वरस्य महिमा तदीयकाव्यैः एव ज्ञायते । तस्य काव्यस्य परिशीलनेन वेदशास्त्रपुराणेषु तस्य अगाधं पाण्डित्यम् आसीत् इति ज्ञायते । कल्पनाचातुर्यं पदानां माधुर्यं, पात्रसंविधाननैपुण्यं, रसोल्लासः, ललितानि मनोहराणि वचनानि इत्यादिभिः सुगुणैः अस्य कवेः काव्यानि सर्वजनादरणीयानि । कालिदासः भारतीयसंस्कृतेः प्रतिनिधिः कविरिति सुधीभिः पुरस्कृतः । अस्य रचनाः चतुर्वर्गपुरुषार्थानां प्रदानसाधनस्वरूपाः इत्यपि स्वीकृतं सरसान्तःकरणैः संख्यावद्भिः । अयं महाकविः वैदर्भीरीतेः सम्राट्, प्रसादगुणपरिपूर्णैः, अनुपमोपमाप्रयोगप्रजापतिः प्रकृतिचित्रणचित्रकारः, व्यञ्जनाव्यञ्जितशास्त्रकलेवरः, अभिनवकल्पनाकुशलः, अन्यतमः काव्यशिल्पी विराजते - सभाभास्वरो भास्करः, वाणीवरदवत्सः, भूमातुर्मौलिमुकुटहीरकः, धन्योऽयं कविमूर्धन्यः, स्वकीयकुलकेतनः, सर्वतन्त्रस्वतन्त्रः, सकलशास्त्रासारनिश्यन्दः, काव्यकोशविकासविभाकरः, वैदर्भीरीतिसभाजनसभ्यः, प्रसादगुणालम्बनः, उपमासीमन्तिनी-सीमन्तसिन्धूरदानसरसः, कविताकामिनीविलासः, काव्यरचनाविक्रमादित्यः, श्रीविक्रमादित्य कविकादम्बकदम्बसमाराधितपादपद्मः, मुकुटालङ्करणारहितोऽपि सार्वभौमः, कविकुलगुरुः, कविचक्रवर्ती, प्रकृतिनटीनिर्वचनचतुरः विद्योत्तमाद्योतितान्तःकरणः, समर्चितकालिकाचरणः, व्यासवाल्मीकिप्रभृतीनाम् अवरजः, विश्वविश्रुतकीर्तिः आसीत् महाकविः कालिदासो नाम ।

कृतयः[सम्पादयतु]

कालिदासकृतित्वेन सम्प्रति मालविकाग्निमित्रं विक्रमोर्वशीयमभिज्ञानशाकुन्तलञ्चेति त्रीणि रूपकाणि ऋतुसंहारः, कुमारसम्भवं, मेघदूतं, रघुवंशञ्चेति चत्वारि श्रव्यकाव्यानि यत्र प्रथमं खण्डकाव्यं, द्वितीयचतुर्थे महाकाव्ये तृतीयं तु गीतिकाव्यमिति प्रसिद्धानि ।

मालविकाग्निमित्रम्[सम्पादयतु]

मालविकाग्निमित्रं हि नाटकं पञ्चस्वषु विभक्तम् । अत्र हि धीरललितप्रकृतिकोऽग्निमित्रो नायकस्तत्प्रकृतिका च मालविका नायिका । नायको हि शुङ्गवंश्यो नृपो नायिका च विदर्भराजकन्या । वृत्तमैतिहासिकस्वरूपम् अग्निमित्रेण सह प्रतिश्रुतसम्बन्धो हि वैदर्भराजपितृव्यपुत्रो हि माधवसेनः सोदरया मालविकया सह विदिशां प्रस्थितो वैदर्भस्य यज्ञसेनस्यान्तपालेनावस्कन्द्य गृहीतः । ग्रहणविप्लवे विनष्टा मालविका अग्निमित्रान्तपालेन वीरसेनेने शिल्पाधिकारे योग्येति मत्वा महादेव्या धारिण्या उपायनं प्रेषिता । ताञ्च दृष्ट्वा नायकस्तदुत्सुकर्मना भवति । विदूषकस्य प्रोद्योगेन तयोरन्ते परिणयः सम्पद्यते । गृहीतस्य वैदर्भस्य राज्यमपि यज्ञसेनमाधवसेनयोऋ द्वैराज्यरूपेण व्यवस्थाप्यते । सामान्यमिदं वस्तु कालिदासलेखनीं प्राप्य तया ग्रथिता भवति येन नाटकमिदमनन्तरवर्तिनां श्रीहर्षादीनामपि उपजीव्यं भवति । अत्र हि सर्वत्र वैदर्भी रीतिः प्रसादश्च गुणः । गणदासहरदत्तयोः विवादप्रसङ्गो नाटकं रञ्जयति विशेषेण । स्त्रीप्रधानमिदं नीटकं नाटिकाप्रकृतिकम्।

विक्रमोर्वशीयम्[सम्पादयतु]

विक्रमोर्वशीयं हि पञ्चस्वङ्केषु विभक्तं त्रोटकम् । अत्र हि पुरुरवस ऊर्वश्याश्च प्राधान्येन प्रेमव्यापारो वर्णितः। केशिदैत्येन पीड्यमानोर्वशी पुरुरवसा विक्रम्य रक्ष्यते । परस्परावलोकनेन तौ हि स्नेहाद्रचित्तौ भवतः। नायके नितान्तमनुरक्तोर्वशी नाटकाभिनयानन्तरे पुरुषोत्तमेति वक्तव्ये पुरूरवा इत्युच्चरति । तेन 'भुवं गच्छ' इति भरतेन शप्ता पुरूरवसा सह परिणीता भवति । अथ च प्रणयकुपितोर्वशी निषिद्धस्त्रीप्रवेशां कार्तिकेयवनीं प्रविष्टा लतायां परिणता भवति । पुरूरवा अपि तां कथञ्चित्तत्र पूर्वभावं प्रत्यावर्तयति । पश्चाच्च यावज्जीवमेव पुरन्दरेण तयोः संयोगेऽनुमते त्रोटके समाप्नोति ।

अभिज्ञानशाकुन्तलम्[सम्पादयतु]

दुष्यन्तं पश्यन्ती शकुन्तला, राजा रविवर्मा

शकुन्तला-दुष्यन्तप्रणयकथासम्बद्धमिदं नाटकं कालिदासस्य प्रौढा कृतिः । रूपकमिदं सप्तस्वङ्केषु विस्तृतम् । मृगयाव्यसनी दुष्यन्तो हि मृगमनुधावन्महर्षेः कण्वस्य तपोवनं प्रविशति । तत्र स शकुन्तलां दृष्ट्वा तदाकृष्टचेता भवति, तथैव शकुन्तलापि । तौ हि गान्धर्वेण विधिना परिणीतौ भवतः । दुष्यन्तश्च शकुन्तलां समाश्वास्य शीघ्रमेव तन्नयनं प्रतिज्ञाय नगरीं प्रत्यागच्छति । तद्विरहदुःखिता शकुन्तला दुर्वाससं नैव शृणोति शप्ता च भवति यं विचिन्त्य सा तमुषेक्षितवती सोऽपि तं विस्मरत्विति । सखीभ्यामननीतः सः पश्चादभिज्ञानदर्शनेन स्मरिष्यतीति शापप्रतीकारमपि स्वीकरोति । तीर्थयात्रातः प्रत्यागतः कण्वः पुत्रीं तथाभूतां सगर्भाञ्च विज्ञाय तां पतिगृहं प्रेषयति मार्गे शचीतीर्थे स्नानसमये अभिज्ञाननिमित्तकांगुलिमद्रा जले पतति । शापप्रभावात्प्राप्तां प्रियां दुष्यन्तो नैव परिचिनोति । तथोपेक्षिताञ्च तां तज्जननी मेनका मारीचस्य महर्षेः आश्रमं नयति। तत्रैव सा भरतं सूते। धीवरादङ्गुलीयकलाभेन लब्धस्मृतिः नायकः प्रियानिमित्तं भृशमनुतपति । युद्धे पुरन्दरसाहाय्यं कृत्वा प्रतिनिवर्तमानो राजा मारीचाश्रमे सपुत्रां प्रेयसीं पश्यति । ततश्च मारीचेनाशिषा संवधतौ दम्पती सुखमनुभवतः । इत्यस्य कथासारः ।

नाटकमिदं सर्वोत्कृष्टकृतिषु अन्यतमम् इति सम्मतम् । उच्यते हि काव्येषु नाटकं रम्यं तत्रापि अभिज्ञानशाकुन्तलं रम्यतमम् । शाकुन्तलेऽपि चतुर्थोऽस्तत्राऽपि श्लोकचतुष्टयं तु विशिष्टतमं मतम् ।

ऋतुसंहारम्[सम्पादयतु]

काव्यमिदं षट्सर्गात्मकम्। अत्र हि ग्रीष्मादारभ्य वसन्तपर्यन्तं षडृतवः साङ्गोपाङ्गमुपवर्णिताः । अत्र १५३ मितानि नानावृत्तमयानि पद्यानि सन्ति एकैकस्मिन् सर्गे एकैकः ऋतुरूपः वर्णितोऽस्ति । इदं हि कालिदासस्य प्रथमकृतित्वेन गृह्यते समालोचकैः । कथ्यते हि काव्येऽस्मिन् यत् प्रकृत्या सह समवेदना तस्याः सूक्ष्मेक्षिका तस्या एवं वैशद्येन वर्णनञ्च तन्न कुत्राप्यन्यत्र काव्ये दृश्यते । इदं हि प्रसादगुणस्य तु मूर्तिरेव । विनोदायात्र कानिचित्पद्यान्युद्ध्रियन्ते । तत्र ग्रीष्मवर्णनं यथा -

सितेषु हर्येषु निशालु योषितां सुखप्रसुप्तानि मुखानि चन्द्रमाः।

विलोक्य नूनं भृशमुत्सुकश्चिरं निशाक्षये याति ह्रियेव पाण्डुताम्।।[२८]

वर्षावर्णनं यथा -

निपातयन्त्यः परितस्तटदुमान्प्रवृद्धवेगैः सलिलैरनिर्मलैः।

स्त्रियः सुदुष्टा इव जातिविभ्रमाः प्रयान्ति नद्यस्त्वरित पयोनिधिम्।।[२९]

पयोधरैर्भीमगभीरनिस्वनैस्तडिद्भिरुद्वेजितचेतसो भृशम्।

कृतापराधानपि योषितः प्रियान् परिष्वजन्ते शयने निरन्तरम्।।[३०]

शरद्वर्णनं यथा -

तारागणप्रवरभूषणमुद्रहन्ती मेघावरोधपरिमुक्तशशाङ्कवक्त्रा।

ज्योत्स्नादुकूलममलं रजनी दधाना वृद्धिं प्रथात्यनुदिनं प्रमदेव बाला।।[३१]

हेमन्तवर्णनं यथा -

बहुगणरमणीयो योषितां चित्तहारी, परिणतबहुशालिव्याकुलग्रामसीमा ।

विनिपतिततुषारः क्रौञ्चनादोपगीतः, प्रदिशतु हिमयुक्तः काल एषः सुखं वः ।।[३२]

शिशिरवर्णनं यथा -

प्रचुरगुडविकारः स्वादुशालीक्षुरम्यः, प्रबलसुरतकेलिर्जातकन्दर्पदर्पः।

प्रियजनरहितानां चित्तसन्तापहेतुः, शिशिरसमय एष श्रेयसे वोऽस्तु नित्यम्।।[३३]

वसन्तवर्णनं यथा -

कर्णेषु योग्यं नवकर्णिकारं चलेषु नीलेष्वलकेष्वशोभम् ।

पुष्पं च फुल्लं नवमल्लिकायाः प्रयान्ति कान्ति प्रमदोजनानाम्।।[३४]

मेघदूतम्[सम्पादयतु]

गीतिकाव्यपरस्परायां श्रेष्ठत्वेन सम्मतमिदं खण्डकाव्यं पूर्वोत्तरभागविभक्तम् । अत्र हि अष्टादशाधिकशतं पद्यानि मल्लिनाथटीकायां दृश्यन्ते । स्वामिनो वर्षभोग्येन शापेन स्वदेशं विहाय रामगिरिमधिवसन् कश्चिद्यक्षः प्रावृण्मुखे प्रत्यासन्ने नभसि दयिताजीवितावलम्बनार्थी स्वकुशलमयमुदान्तं प्रियायै प्रेषयितुमिच्छन् तन्निमित्तमुदगुच्चलितं बलाहकं प्रार्थयते निदशति च मार्गं रामगिरितः आरभ्यालकापर्यन्तम् । तदनुसारेण रामगिरितः आम्रकूटस्ततश्च नर्मदा ततो वेत्रवती ततश्च विदिशा ततश्च वामेन विशाला तदनु कुरुक्षेत्रं ततः कनखलं ततः कैलाशस्तदनु मानसं ततोऽलकेति गन्तव्यमार्गः । ततश्च अलकायां गृहपरिचयानन्तरं सन्देशकथनं ग्रथितमस्ति । सन्देशश्च नितान्त एव मार्मिकः। यथा -

त्वामालिख्य प्रणयकुपितां धातुरागैः शिलायामात्मानं ते चरणपतितं यावदिच्छामि कर्तुम्। अस्त्रैस्तावन्मुहुरुपचितैर्दृष्टिराप्यते मे क्रूरस्तस्मिन् न सहते सङ्गमं नौ कृतान्तः।।[३५]

समालोचकाः ह्यत्र वाल्मीकीयरामायणस्य वर्षावर्णनस्य हनुमतो दौत्यस्य च प्रभावं पश्यन्ति । काव्यस्याय वैदर्भी रीतिः कवेरपूर्ववर्णननिपुणता प्रस्फुटन्ती पदे पदे प्रतिभा च काव्यमिदं सर्वोत्कृष्टकोटौ स्थापयन्ति । एतच्च पश्चादनेकेषां दूतकाव्यानामुपजीव्यमप्यभूत् । यथा हि विक्रमस्य नेमिदूतं, वादिचन्द्रस्य पवनदूतं, व्रजनाथस्य मनोदूतं, अज्ञातकतृकमिन्दुदूतं, वेङ्कटनाथस्य हंससन्देशश्च दूतकाव्यपरम्परायामुल्लेख्याः ग्रन्थाः ।

कुमारसम्भवम्[सम्पादयतु]

सप्तदशसर्गेषु निबद्धमिदं महाकाव्यं कालिदासस्य कोमलकल्पनाया अपूर्वमुदाहरणम् । केचिन्मन्यन्ते यत् काव्यस्य ह्यस्यान्त्यनवसर्गाः केनचित्कालिदासोत्तरभवेन कविना प्रणीता इति । किन्तु तेषामपि कालिदासकृतित्वेन ग्रहणे न तथा काचिद्विप्रतिपत्तिर्भाषाभावादिदृष्ट्या । काव्यमिदं ऋतुसंहारमिव वस्तुनिर्देशात्प्रारब्धमस्ति । काव्येषु कमनीयतममिदं महाकाव्यं जीवनसम्बद्धाः सर्वा अपि कलाः स्वस्मिन् समायोजयति । उत्तरस्यां दिशि हिमालयो नाम नगाधिराजोऽस्ति । हिमालयाद्धि मेनकायां भगवती पार्वती जन्म गृह्णाति । बाल्यात्परे वयसि प्राप्ता सा पिनाकपाणिं पतिमाप्तुं तपोनिरतं तं सेवते । एतस्मिन्नेवान्तरे तारकासुरपीडिता देवास्तत्प्रतीकाराय परमेष्ठिनं शरणं गच्छन्ति । सोऽपि तान् तद्विनाशाय शम्भुवीर्यज एवालं तेन तदर्थं प्रयततामिति निर्दिशति ।

ततश्च पाकशासनो मधुसहायं कामं शिवसमाधिभङ्गाय चोदयति । कामश्च तथा कुर्वन् तृतीयनेत्रोत्थवह्निना भस्मावशेषः क्रियते । ततश्च ततो निराशा पार्वती स्वाभिलाषापूर्तये तपश्चरति । प्रसन्नश्च शम्भुस्तस्याः अभिलषितं स्वीकरोति । सप्तर्षिप्राथितो हिमालयः सुतां शम्भवे समर्पयति । सम्पन्ने चोद्वाहे नवदम्पती यथेच्छे विहरतः । तयोरेकान्तं शक्रचोदितो वीतिहोत्रो विघ्नयति केपोतरूपेण । स्खलितश्च शम्भोर्वीर्यं धारयितुमसमर्थोऽनलस्तगद्ङ्गायां निक्षिपति । गङ्गाऽपि तत्तेजोऽसहमाना तच्छरवणे प्रक्षिपति । ज्वलच्च तत्सेवमानाः कृत्तिका गर्भं धारयन्ति । ततश्च कुमारः स्कन्दो जनिं गृह्णाति । द्रवयाः स पुरन्दरप्रेरणया तरिकासुरं निहन्ति । सर्वतोभावेन कमनीयतमेऽस्मिन् काव्ये सर्वेऽपि श्लोका भाव-भावस्वभाव नवनवत्वनयन्ति । दिङ्मात्रमुद्धरणं यथा -

यत्रांशुकाक्षेपविलज्जितानां यदृच्छया किम्पुरुषाङ्गनानाम्।[३६]

अवचित बलिपुष्पा वेदिसम्मार्गदक्षा नियमविधिजलानां बर्हिषाञ्चोपनेत्री।

गिरिशमुपचचार प्रत्यहं सा सुकेशी नियमितपरिवेदातच्छिरश्चन्द्रपादैः।।[३७]

तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिः निक्षेपणाय पदमुद्धृतमुद्वहन्ती।

मार्गाचलव्यतिकराकुलितेव सिन्धुः, शैलाधिराजतना न येयौ न तस्थौ ।[३८]

एवंवादिनि देवर्षौ पार्श्वे पितुरधोमुखी लीलाकमलपत्राणि गणयामासे पार्वती।।[३९]

नवपरिणयलज्जाभूषणां तत्र गौरी वदनमपहरन्तीं तत्कृताक्षेपमीशः ।

अपि शयनसखीभ्यो दत्तवाचं कथञ्चित्, प्रमथमुखविकारैर्हासयामास गूढम् ।।[४०]

नीलकण्ठपरिभुक्तयौवनां तां विलोक्य जननी समाश्वसत्।

भर्तृवल्लभतया हि मानसीं मातुरस्यति शुचं वधूजनः।।[४१]

अत्र हि जगद्गुरोः सुरतवर्णनमशिष्टं मन्यमानाः केचिदालोचकास्तन्निन्दन्ति । अपरे तु काव्ये न तद्दोषायेति तत्स्वीकुर्वन्ति । कुमारसम्भवनाम्ना ख्यापितो ग्रन्थः पार्वतीपरमेश्वर-सुरतलीलावर्णनात्समाप्नोतीति न शोभनस्तर्कः मन्यते। सोऽवश्यमेव कविना पूरितः स्यात् यतः कुमारसम्भवानन्तरं रघुवंशस्यापि प्रणयनं सम्पन्नं दृश्यते ।

रघुवंशम्[सम्पादयतु]

रघुः अत्यन्तं पराक्रमी दानशूरः च आसीत् । तस्य वंशीयानां गुणवर्णनम् अस्मिन् काव्ये अस्तीति कविरयं रघुवंशम् इति नामधेयमकरोत् । प्रधानतया दिलीपः, रघुः, अजः, रामः, कुशः, अतिथिः इत्यादीनां श्रेष्ठराजानां वर्णनमस्ति । दिलीपः सत्यसन्धः धर्मनिष्ठश्च रघुः पराक्रमी दानशीलश्च, अजः कोमलहृदयी प्रेममयश्च, श्रीरामः सर्वोत्तमः इत्थम् एते चत्वारः अपि धर्मार्थकाममोक्षाणां प्रतीकाः सन्ति । काव्येऽस्मिन् रघुदिग्विजयः, अजविलापः, सीतापरित्यागः इत्यादयः भागाः चित्ताकर्षकाः सन्ति । दशसु सर्गेषु रामायणस्य सारसर्वस्वं न्यरूपयत् महाकविः । अजविलापं सर्गं यावत् अवर्णयत् । प्रत्येकं सर्गेऽपि आकर्षकः कश्चन अंशः विद्यते । कथाभागः वर्णनं च परस्परं सम्मिल्य काव्यस्यास्य अन्यादृशं सौन्दर्यम् अवर्धयत् । रसानां परिपक्वता तन्मयत्वं जनयति । नवरत्नविराजितः मुक्ताहारः इव काव्यं सर्वविधसौन्दर्ययुक्तं सत् सहृदयानां प्रीतिपात्रम् आवहति । कालिदासेन अन्यानि काव्यानि नाटकानि ग्रथितानि चेदपि संस्कृतग्रन्थकाराः तं रघुकविः इति प्राशंसन् । तस्मात् अस्य काव्यस्य उत्कृष्टता अवगम्यते । दशमसर्गादारभ्य पञ्चदशसर्गपर्यन्तं रामस्य कथा वर्णिता । तदुत्तरं रामवंश्यानां तत्तन्नृपाणां चरितानि उपन्यस्तानि । अन्तिमः सर्गो गर्भान्धस्याग्निवर्णस्य अभिषेकेण समाप्यते –

तपस्यास्तथाविधनरेन्द्रविपत्तिशोकादुष्णैर्विलोचनजलैः प्रथमाभितप्तः ।

निर्वापितः कनककुम्भमुखोज्झितेन वंशाभिषेकविधिना शिशिरेण गर्भः ॥

कालिदासः अग्निवर्णपरवर्तिनां राज्ञामपि वर्णानं चिकीर्षति स्म । परमसौ कालेन कवलीकृतः। अन्ये पुनः कालिदासेन परतोऽपि रघुवंशस्य सर्गाः लिखिताः परन्तु ते न प्राप्यन्ते इत्याहुः । बहवः तु कालिदास-अग्निवर्णसमकालिकतया ग्रन्थस्य तत्पर्यन्तां समर्थयन्ते । रघुवंशः येषां राज्ञां वर्णनानि सन्ति, येषां रामायणवर्णितनृपैः सह भेदः आपतति, परन्तु वायुपुराणवर्णितरामवंशावल्या सह रघुवंशवर्णितरामवंशावली भूयसा सामञ्जस्यं धारयति ।

रघुवंशं हि कालिदासस्य प्रौढतमं काव्यं मन्यते । अस्य हि सम्प्रति एकोनविंशतिसर्गाः प्राप्यन्ते । विश्वस्यते हि काव्येऽस्मिन् ततोऽप्यधिकाः सर्गाः सम्भवन्तीति यतस्तत्र ग्रन्थसमाप्तिसूचकं नैव पद्यं लभ्यते । काव्यमिदं वागर्थरूपपरमेश्वरयुगलवन्दनया प्रारभ्यते । सश्रीकोऽपि कोशलेन्द्रो दिलीपोऽनपत्यतया तदर्थं वसिष्ठाश्रमं गच्छति । कुलगुरुस्तदर्थं सुरभीशापं निवारकं विज्ञाय तन्निमित्तं नन्दिनीसेवनायादिशति । स्वरक्षार्थं समर्पितदेहाय तस्मै नन्दिनी पुत्रप्राप्तिरूपवरं ददाति । दिनेषु गच्छत्सु सुदक्षिणा रघुं प्रसूते। रघोरपि अजस्तस्य दशरथाख्यः सुतः क्रमेण पृथिवीं पालयतः । दशरथस्य सम्पादितपुत्रेष्टियज्ञस्य राम-भरत-लक्ष्मण-शत्रुघ्नाख्याश्चत्वारः पुत्राः भवन्ति । रामो हि धनुःषणं विजित्य जनकजां सीतामृद्वहति । स हि पितुराज्ञया चतुर्दशवर्षाणि वने तिष्ठति निहन्ति च तत्र स सीतापहारकं लोकरावणं रावणम्। रामस्य कुशलवाख्यौ सुतौ। कुशस्य हि कुमुद्वत्यामतिथिर्नाम सुतः। तदन्वये एव अग्निवर्णस्य राज्ञो जन्म । इति सङ्क्षेपण रघुवंशगता कथा।

द्वितीये सर्गे नन्दिनीपरिचर्यावर्णनं, तृतीये सदोहदायाः सुदक्षिणायाः वर्णनं, चतुर्थे रघुदिग्विजयवर्णनं, षष्ठे इन्दुमतीस्वयंवरसभावर्णनं, सप्तमे अजस्य इन्दुमत्या सह विवाहवर्णनं, अष्टमे अजविलापः, नवमे वसन्तवनं मृगयावर्णनञ्च, दशमे भगवत्स्तुतिः, त्रयोदशे भूगोलवर्णनं, चतुर्दशे सीतापरित्यागः, षोडशे अजस्य अयोध्याप्रत्यागमनं, जलाविहारवर्णनञ्च, सप्तदशे राज्याभिषेकवर्णनमतिथेः, एकोनविंशेऽग्निवर्णस्य कामकेलिवर्णनं काव्यस्यास्य समुल्लेखनीया विषयाः ।

केचिदस्य काव्यस्य सप्तदशसर्गे एवावसानं मन्यन्ते । तदवसानपद्यमपि तथासूचकमेव दृश्यते नैव च तदनन्तरवर्तिनोरध्याययोः कालिदाससम्मता चमत्कृतिरपि। एवं मन्यते यदत्र द्वौ पक्षौ सम्भवतः । प्रथमस्तु काव्यमिदं सप्तदशसर्गे एव विरचितं सम्भवति अपरश्च यदि न तथा तदाऽस्य एकोनविंशतिसर्गानन्तरमपि आसन्नन्येऽपि कतिपये सर्गाः ये खलु कालेन कवलिताः । अथवा एदन्तराले एव कवि पार्थिवं विग्रहमत्यजदिति । अथवा हि प्राच्यसंस्कृतिसमुन्नायको हि कविर्न तथाऽप्रशस्ते प्रसंगे स्वं काव्यं समापयिष्यति ।

स्तोत्राणि[सम्पादयतु]

कालीस्तोत्रं, गङ्गाष्टकं, चण्डिकादण्डकं, श्यामलादण्डकं, मकरन्दस्तवः, अम्बास्तवः, लक्ष्मीस्तवः, लघुस्तवः, कल्याणस्तवः, शृङ्गारतिलकप्रभृतीनि च ।

महाकवेः कालिदासस्य विद्वत्तायाः व्यक्तित्वस्य विषये च तस्य ग्रन्थाः एव निरूपयन्ति । तस्य त्रिषु नाटकेषु च आदौ शिवस्तुतिः विद्यते । कुमारस्कन्दस्य जननं वर्णयित्वा किञ्चित् काव्यमेव अलिखत् । रघुवंशस्य आरम्भे पार्वतीपरमेश्वरं च सम्प्रार्थितवान् । अभिज्ञानशाकुन्तलस्य अन्तिमभागे नीललोहितः मुक्तिं मे ददातु इति शिवं प्रार्थयामास । एतैः कारणैः कालिदासः शिवभक्तः इति स्पष्टं भवति । परम् अन्यत्र सः ब्रह्माणं विष्णुं च अस्तौत् । एतत् अस्य सौहार्दपूर्णव्यक्तित्वस्य निदर्शनम् । तस्य कृतिषु वैदिकयज्ञयागादिनाम् उच्चस्थानम् अस्ति । उपनिषदां तत्वानि जीवनदृष्टेः आधारभूतानि इति परिदृश्यते ।

नाटकानि[सम्पादयतु]

  • मालविकाग्निमित्रम्-एतत् राज्ञः अग्निमित्रस्य कथा अस्ति। सः मालविका नाम सेविकाम् अकामयत्। एतं विषयं ज्ञात्वा स्वराज्ञी अक्रुध्यत् | मालविकाम् आसेधयत् च। परन्तु मालविका राजपुत्री आसीत्। तस्याः जन्म ज्ञात्वा राज्ञ्याः अनुमत्या अग्निमित्रः मालविकाम् परिणीतवान्।
  • अभिज्ञानशाकुन्तल-नाटकम् विश्वप्रसिद्धम्। इदं नाटकं पठित्वा प्रसिद्ध्ः जर्मन्-कविः गोएट् अत्यन्तं विमुग्धः परमानन्दितश्च अभवत्। अस्य नाटकस्य अनुवादाः विश्वस्य अनेकासु भाषासु उपलभ्यन्ते।
  • विक्रमोर्वशीयम् अप्सरा उर्वशी महाराजः पुरुरवस् परस्परम् इष्टवन्तौ। परं तया स्वर्गे उषितव्यम्। तत्र नाटके दोषं कृत्वा इन्द्रः तां शाप्तवान् "त्वं, भूलोके मर्त्यरूपे स्वकान्तेन सह जीविष्यसि। परं यदा सः आवयोः सूनुं पश्यति तदा त्वं स्वर्गं पुनरागमिष्यसि" इति। कालानन्तरम् शापात् विमुक्तौ पुरुरवस् उर्वशी च सुखेन जीवितवन्तौ।

पद्यम्[सम्पादयतु]

कुमारसंभवम् मेघदूतम् रघुवंशम् ऋतुसंहारम् च कालिदासस्य विशेषकाव्याणि सन्ति|

  • मेघदूतं संस्कृत-साहित्ये प्रख्यातं दूतकाव्यम्‌ । तत् सन्देश-काव्यम् इत्यपि परिचितम् ।
  • कुमारसंभवम् नाम महाकाव्यमं महाकविना कालिदासेन विरचितम्। अस्मिन् प्रकृतेः शोभा सुशब्दैः वर्णिता। अस्मिन् सप्तदश सर्गाः सन्ति। अस्मिन् काव्ये स्कन्दस्य जन्म वर्णितम्।
  • रघुवंशम्-रघुवंशम्' महाकविना कालिदासेन विरचितमेकं महाकाव्यमस्ति। महाकाव्येऽस्मिन् राज्ञः रघोः वंशस्य पूर्णं वर्णनमस्ति। सूर्य-प्रभवस्यास्य वंशस्य मनु-दिलीप-अज-दशरथ-रामादीनां सर्वेषां नृपाणां विस्तृतं वर्णनमस्ति।

कालिदासस्य काव्यवैशिष्टयम्[सम्पादयतु]

कविकुलगुरुः कालिदासः संस्कृतवाङ्मये स्वप्रकृते प्रथमोऽन्तिमश्च कविः । कथितं हि -

पुरा कवीनां गणनाप्रसङ्गे कनिष्ठिकाधिष्ठितकालिदासः।

अद्यापि तत्तुल्यकवेरभावादनामिका सार्थवती बभूव॥ इति ।

स हि वैदर्भरीतेः कविः । स्वल्पसमासा स्वभावसरला च तस्य शैली सर्वानेव सद्य आकर्षयति इति तस्य कलापक्षापेक्षया हृदयपक्षस्य प्राधान्यं काव्येषु । मूलतः स अभिधायाः कविः किन्तु तस्य काव्यं ध्वनिप्रधानम् । स हि गूढमप्यर्थं सरलतया व्यनक्ति । तत्र हि रसस्य तथा प्राञ्जला सिद्धिर्यया कमनीयता तत्रैव कृतनिवासा दृश्यते । स हि न कुत्रापि पश्चाद्वर्तिकविरिव पाण्डित्यं प्रदर्शयति । तस्य हि सर्वाण्यपि पात्राणि नैव विचारवाहकान्यपि तु स्पष्टव्यक्तिकानि कथानुकूलानि च । सर्वोऽपि पात्रवगैः स्वे स्वे स्थानेऽनुकूलत्वेन निबद्धोऽस्ति । तस्य काव्ये समय-स्थानक्रियाणां समन्वितिः स्पष्टं दृश्यते । प्रसादगुणसमुज्ज्वला तस्य कृतिनतराञ्चमत्कारातिशयं बिभर्ति । यथा हि -

सरसिजमनुविद्धं शैवलेनापि रम्यं मलिनमपि हिमांशोर्लक्ष्मलक्ष्मीं तनोति ।

इयमधिकमनोज्ञावल्कलेनाऽपि तन्वी किमिव हि मधुराणां मण्डनं नाकृतीनाम्।।[४२]

शमयति गजानन्यान् गन्धद्विपः कलभोऽपि सन् भवति सुतरां वेगोदग्रं भुजङ्गशिशोर्विषम्।

भुवमधिपतिर्बालावस्योऽप्यलं परिरक्षितुं न खलु वयसा जात्यैवायं स्वकार्यसहो भरः।।[४३]

प्रतिपक्षेणाऽपि पतिं सेवन्ते भर्तृवत्सलीः साध्व्यः ।

अन्यसरितामपि जलं समुद्रगाः प्रापयन्त्युदधिम् ॥[४४]

कालिदासस्य यथायात्तमभिवर्तमाना भाषा सर्वानानन्दयति । रघुवंशे हि तापसः कौत्सो रघुं कथयति -

शरीरमात्रेण नरेन्द्र तिष्ठन्नाभासि तीर्थप्रतिपादितर्द्धिः ।

आरण्यकोपात्तफलप्रसूतिः स्तम्बेन नीवार इवावशिष्टः।।[४५]

तस्य हि उपमाचमत्कारस्तु सर्वानेवातिशेते । यद्यपि तत्कृतौ यमकोत्प्रेक्षाऽर्थान्तरन्यासादीनाम् अप्यलङ्काराणां कमनीयः प्रयोगो दृश्यते, तथापि स हि उपमानिपुणः प्रतिभाति सर्वत्र । स हि प्रायः पूर्णोपमामेव प्रयुनक्ति काव्ये चमत्कारोत्कर्षाय । यथा हि -

सञ्चारिणी दीपशिखेव रात्रौ यं यं व्यतीयाय पतिंवरा सा।

नरेन्द्रमार्गाट्ट इव प्रपेदे विवर्णभावं स स भूमिपालः।।[४६]

रघुवंशे हि नवमे सर्गे तेन हि यमकप्रयोगोऽपि तथैव विहितः । यथा हि -

परिचयं चललक्ष्यनिपातने भयरुषोश्च तदिङ्गितबोधनम्।

श्रमजयात्प्रगुणाञ्च करोत्यसौ तनुमतोऽनुमतः सचिवैर्ययौ।।[४७]

स हि अलङ्कारान् प्रयुङ्क्ते किन्तु न कदापि तेनार्थसम्पदो मनागपि वस्तु ह्रासमनुमन्यते । तस्य हि मन्दाक्रान्ताऽभीष्टं वृत्तं तथैव वंशस्थमपि । तस्य हि काव्ये विविधवृत्तयोजनाचातुरी दृश्यते । इन्द्रवज्रा हि बहुधा प्रयुक्त तत्रापि । मधुराधिपतेः निखिलं मधुरम् । स यदेव स्पृशति तदेव चारुत्वमुत्पादयति । कालिदासस्य कृतिषु प्रकृतिः नृत्यति सर्वत्र सजीवत्वेन । तत्र हि जडमपि चेतनवद् व्यवहरति । शकुन्तलायै वृक्षा अपि पतिगृहगमनायानुमन्यन्ते । सीताविलापेन समस्तमेव वनं स्तब्धं भवति । यथा -

नृत्तं मयूराः कुसुमानि वृक्षा दर्भानुपातान् विजहुर्हरिण्यः।

तस्याः प्रपन्नं समदुःखभावमत्यन्तमासीदुदितं वनेऽपि।।[४८]

तस्य हि कृतौ मनोवस्थाविश्लेषणं तु परमाधुनिकानपि दूरे स्थापयति । तेनैव कालिदासकृतौ कलाभावपक्षयो प्रशस्यः समन्वयो लभ्यते । शकुन्तलां त्यक्त्वा शिविरं प्रतिनिवर्तमानस्य दुष्यन्तस्यावस्थेत्थं वर्णिता -

गच्छति पुरः शरीरं धावति पश्चादसंस्तुतं चेतः।

चीनाशुकमिव केतोः प्रतिवातं नीयमानस्य।।[४९]

शङ्करदर्शनानन्तरं पार्वत्या अवस्थेत्थं चित्रिता -

तं वीक्ष्य वेपथुमती सरसाङ्गयष्टिर्निक्षेपणाय पदमुद्धृतमुद्वहन्ती ।

मार्गाचलव्यतिकराकुलितेव सिन्धुः शैलाधिराजतनया न ययौ न तस्थौ ॥[५०]

एभिरन्यैश्च वैशिष्ट्यैः कालिदासः कविकुलगुरुः, स्मृतोऽनुकृतश्च पश्चाद्वर्तिभिः कविभिः ।

उद्धरणानि[सम्पादयतु]

वागर्थाविव सम्पृक्तौ वागर्थः प्रतिपत्तये।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ॥

-रघुवंशम्

दत्तम्[सम्पादयतु]

उपमालङ्कार-प्रयोगे कालिदासस्य श्रेष्ठत्वं सर्वत्र विश्रुतम् । अतः कथ्यते - "उपमा कालिदासस्य" ।

कालिदासस्य भवभूतिना सह तुलना[सम्पादयतु]

कालिदास: भवभूति:
शृङ्गारसप्रधानं वर्णनम् वीरकरुणरसप्रधानं वर्णनम्
नाटके विदूषक: अस्ति विदूषक: न अस्ति
प्रयोगप्रधानं नाटकम् काव्यप्रधानं नाटकम्

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भः[सम्पादयतु]

  1. ९।२७
  2. रघु० १/८
  3. ३/७०
  4. ७/७१
  5. रघु० १६/८
  6. शाकु० १/२२
  7. ५/२
  8. रघु० ९/७४
  9. रघु० १/७
  10. ४।६८
  11. रघु० ६।२२
  12. रघु० ६।२०
  13. रघु० ५॥३६
  14. ६/५९-६५, ४।४९, ५०
  15. ५/४
  16. ३।१।६६
  17. रघु० १०१३३, ११।८६
  18. १।१।१६
  19. रघु ९/६१
  20. रघु १६/८६
  21. ११।९३
  22. १४।१९
  23. १५/९८
  24. १६।२५
  25. १७/३६
  26. ५।३१
  27. १३/७९
  28. १/९
  29. २/७
  30. २/११
  31. ३/७
  32. ४।१९
  33. ५।१६
  34. ६।६
  35. उत्तर० ४७
  36. १।१४
  37. १/६०
  38. ५/८५
  39. ६।८४
  40. ७/९५
  41. ८।१२
  42. शाकु० १.१८
  43. विक्र० ५।१८
  44. माल०५।१९
  45. ५।१५
  46. रघु०६।६७
  47. ९/४९
  48. रघु० १४।६९
  49. ९/३१
  50. कुमार० ५/८५
"https://sa.wikipedia.org/w/index.php?title=कालिदासः&oldid=438701" इत्यस्माद् पुनः प्राप्तिः