संस्कृतसाहित्येतिहासः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः


संस्कृतभाषा देवभाषा कथ्यते । संस्कृतभाषायां मानवसंस्कृतेरितिहासः सुरक्षितोऽस्ति । इयं संस्कृतभाषाऽन्याभ्यः सर्वाभ्योऽपि भाषाभ्यः प्रकारे विस्तारे च महती ,सौन्दर्ये विचारपवित्रतायां चान्यूना विद्यते । सत्यपि मन्दतमे विकासक्रमे क्रमोपनते च वाधासमुदये इतिहासारम्भासमयत एव संस्कृतभाषा विश्वस्यान्यासां भाषाणां समतां कुर्वती समायाति । अन्याभिर्विश्वस्य भाषाभिरस्याः प्रतिस्पर्धा गुणगणकृतैव । भारतेऽजायन्त विविधानि सामाजिकपरिवर्तनानि, धार्मिकाण्युत्यानपतनानि, वैदेशिकानामाक्रमणानि च तथाऽपि संस्कृतं सर्वदा समभावेन सर्वत्र व्यवहारवर्त्मन्यवर्त्तत ।

संस्कृतं सर्वदा जीवितभाषाभावमभजत यतोऽत्रैव पूर्वतनाः सर्वेऽपि ग्रन्था अलिख्यन्त । आस्तां पुराणी कथा संस्कृतस्य सम्प्रत्यपि जीवितभाषात्वे प्रमाणमिदं यदधुनाऽपि संस्काराः प्रायोऽधिकसंख्याकभारतीयानां संस्कृत एव सम्पाद्यन्ते, महाभारतप्रभृतयो धर्मग्रन्था अधीयन्ते ,स्वीया विचारा लोकविशेषैः संस्कृते प्रकाश्यन्ते, कविता विरच्यन्ते च ।

भाषाविज्ञानपण्डितानां मते आर्थभाषा सेमिटिकभाषा चेति द्वयोरेव भाषयोर्व्यवहर्त्तारः सभ्यतां संस्कृतिञ्च सृष्टवन्तः । आर्यभाषाऽपि पाश्चात्त्यपौरस्त्यभेदेन द्विविधा । अस्मिन्नार्थभाषायाः पाश्चात्त्यप्रभेदे यूरोपदेशस्य प्राचीना आधुनिक्यश्च ग्रीक-लैटिन्- फ्रेञ्च –जर्मन्-इङ्गलिशप्रभृतयो भाषाः समायान्ति । आर्थभाषायाः पौरस्त्यप्रभेदे ईरानीभाषा संस्कृतभाषा च समागच्छतः । ईरानीभाषा ‘जेन्दाअवेस्ता’ नाम्ना व्यवह्रियते यत्र पारसीकानां धर्मग्रन्था निबध्दाः, संस्कृतभाषायां भारतीयानां धर्मग्रन्था निबध्दा इति प्रतीतमेव । संस्कृतम् इति पदं सम्+कृ+क्त इति व्युत्पादितम् । भाषारुपार्थेऽस्य शब्दस्य प्रयोगः प्रथमतो वाल्मीकिरामायणे एव प्राप्यते –

यदि वाचं प्रदास्यामि द्विजातिरिव संस्कृताम् ।
रावणं मन्यमाना मां सीता भीता भविष्यति ॥

ततः पूर्वं तत्रार्थे भाषाशब्द एव व्यवह्रियते स्म । यास्केन पाणिनिना चापि लोकव्यवहृतभाषार्थे भाषाशब्द एव व्यवहृतः –

भाषायामन्वध्यायञ्च निरुक्ते -१/४
भाषायां सदवसश्रुवः पा.सू. ३/२/१०८
प्रथमायाश्च द्विवचने भाषायाम् पा. सू.७ /२/८८

मन्ये, यदा प्राकृतभाषायाः प्रचारो बहुलीभूतस्तदा ततो भेदं बोधयितुं लोके व्यवहृतपूर्वा तदानीं क्षियमाणप्रचारा चेयं भाषा विध्दद्भिः संस्कृतपदेन व्यवहृता जाता ।

संस्कृतभाषाया रुपद्वयं, लौकिकं वैदिकञ्च । महाभारतकालात् पूर्वतनभाषा वैदिकभाषा, ततः परस्तात् प्रचारिता च लौकिकभाषा । संस्कृतभाषायाः स्वरुपे विचार्यमाणे इदं प्रागवधार्यं यदियं लोकभाषा व्यवहारभाषा वा आसीदथवा केवलशास्त्रभाषा एव अवर्त्तत ? अत्र मतद्वयम्, केचन कथयन्ति यत् प्राकृतमेव लोकभाषाऽऽसीत्, स्ंस्कृतं शास्त्रभाषा सार्हित्येकभाषा वाऽवर्त्तत, व्यवहारभाषा नासीत् ।

अपरे पुनः संस्कृतभाषैव पुरा लोकभाषा आसीदिति समर्थयन्ते, तेषामयमाशयः –पुराकाले भारतीया अनया संस्कृतभाषायैव स्वं मनोभावं प्रकटयन्ति स्म क्रमशः शनैः शनैः प्राकृतोदये जाते संस्कृतभाषाया व्यवहारक्षेत्र्ं सङ्कोचमापत, परन्तस्यामपि दशायां शिष्टाः संस्कृतभाषामेव व्यवहरन्ति स्म । अत एव रुपकेषु शिष्टानां संस्कृतभाषा तदन्यपात्राणाञ्च प्राकृतम् ।

संस्कृतस्य व्यवहारभाषात्वे निम्नलिखिता युक्त्य उपस्थाप्यते[सम्पादयतु]

  1. वैदिकसंस्कृतभाषातो भिन्ना भाषा, तात्कालिकजनताया भाषा, ‘भाषा’ पदेन निरुक्तग्रन्थे यास्केन व्यवहृता । तेन हि वैदिककृदन्तशब्दानां सिध्दिः लोकप्रचलितधातुभ्यः प्रदर्शिता । ‘भाषिकेभ्यो धातुभ्यो नैगमाः कृतो भाष्यन्ते’ इति हि तदुक्तिः । तस्मिन् समये भिन्नभिन्नप्रान्तेषु संस्कृतशब्दानां यानि रुपान्तराणि प्राप्यन्ते स्म, ये विशिष्टप्रयोगा भवन्ति स्म, तेषां समेषामुल्लेखेऽपि यास्केन कृतः, यथा – ‘शवतिर्गतिकर्मा कम्बोजेष्वेव भाषितो भवति, विकारमेव त्वेनमार्या भाषन्ते श्व इति’ दातिर्लवनकर्मा प्राच्येषु प्रयुज्यते, दात्रमुदीच्येषु’ एभिः साक्षिभिर्यास्कसमये संस्कृतस्य भाषितभाषात्वं सिद्ध्यति । यास्कस्य समयो ६०० ई.पू.कथ्यते ।
  2. पाणिनिरपि संस्कृतस्य व्यावहारिकं स्वरुपं भाषापदेनैव व्यवहृतवान्, किञ्च दूरादधूते प्लितमनुशासता पाणिनिना संस्कृतस्य भाषित- भाषात्वं स्पष्टमुक्तम्, यदि संस्कृतं भाषितभाषा नाभविष्यत्तदा दूरात्सम्बोधनावसरस्यैवाभावात्तत्र प्लुतत्वानुशासनमनर्थकं स्यात् । अपि च पाणिनिः भाषितभाषायामेव व्यवहर्तुं योग्यान् ‘दण्डादण्डि’, ‘उदरपूरं भुङ्क्ते इत्यादीन् शब्दाननुशशास, तदप्यस्याः संस्कृतभाषाया भाषितभाषात्वं गमयति ।
  3. पाणिनेः परतो जातः कात्यायनः लोके व्यवहृतान् नवान् शब्दान् दृष्ट्वा तेषां सिध्दये नियमानुक्तवान् । अतः प्रतीयते यत्तदा संस्कृतं व्यवहारभाषासीत् ।
  4. महाभाष्यकृता पतञ्जलिना देशभेदेन क्रियाभेदमाख्याय संस्कृतस्य भाषितभाषात्वमुच्यते स्म, तथाहि हम्मतिः सुराष्ट्रेषु, प्राच्येषु रंहतिः, आर्थस्तु गच्छतिः प्रयुज्यत इति तेनोक्तम् । महाभाष्यकृता –वैयाकरणरथ वाहकयोरेको रुचिरः संवाद उक्तः –एवं हि कश्चिद्वैयाकरण आह-कोऽस्य रथस्य प्रवेता? सूत आह अहमायुष्मानस्य रथस्य प्राचिता । वैयाकरण आह-अपशब्द इति । सूत आह-प्राप्तिज्ञो देवानाप्रियो न तु इष्टिज्ञः । इष्यत् एतद्वपमिति । वैयाकरण आह- अहो खल्वनेन दूरुतेन बाध्यामहे इति । सूत आह- न् खलु वेञ्ः सूतः, सुवतेरेव सूतः, यदि सुवतेः कुत्सा प्रयोक्तव्या, दुः सूतेनेति वक्तव्यम् ॥ २/४/५६ सूत्रभाष्ये । अतो यां वाचं रथकवाहकोऽपि व्यवहरति सा भाषितभाषा मन्तव्यैव ।
  5. भोजस्य समये विक्रमादित्यस्य समये च संस्कृतस्य प्रचुरप्रचार आसीत् । एभिः प्रमाणैः संस्कृतस्य भाषितभाषात्वं सिध्दम् ।

यद्यपि सम्प्रति साहित्यशब्दो वाङ्मयमित्यर्थे प्रयुज्यते यत्रार्थे ‘लिटरेचर’ (Literature) शब्दो वैदेशिकैः प्रयुज्यते, परन्तु संस्कृतभाषायां साहित्यशब्दस्य ‘शब्दार्थै’ इत्यर्थः, सहितयोर्भावः साहित्यम् –सहितयोः कयोः ? शब्दार्थयोः, तच्च साहित्यं क्वचिदन्यत्र शास्त्रे न भवति किन्तु काव्यशास्त्र एव । तत्र हि शब्दः अर्थश्च इत्युभयं मिलितं सदेव कमप्याहलादं जनयति, न केवलः शब्दो नापि वा केवलोऽर्थः तथा चोक्तमपि – ‘न च काव्ये शास्त्रादिवत् अर्थप्रतीत्यर्थ शब्दमात्रं प्रयुज्यते, सहितयोः शब्दार्थयोस्तत्र प्रयोगात् । साहित्यं तुल्यकक्षत्वेन अन्यूनानतिरिक्तवृत्तित्वम्’ इति व्यक्तिविवेकटीका । एतेन साहित्यशब्दस्य काव्यस्वरुपमर्थ् इति सङ्कोचः कृतो वेद्यः । अपि च राजशेखरेण ‘पञ्चमी साहित्यविद्येति यायावरीयः ’ इति काव्यमीमांसायामुक्तम्, आधुनिकप्रथानुसारेण तु सर्वासामपि विद्यानां साहित्यपदाभिलप्यत्वे काव्यमात्रपरकत्वेनात्र साहित्यशब्दप्रयोगोऽयुक्तः स्यात् । किञ्च बिह्लणेन –

साहित्यपाथोनिधिमन्थनोत्थं काव्यामृतं रक्षत हे कवीन्द्राः ।
यदस्य दैत्या इव लुण्ठनाय काव्यार्थचौराः प्रगुणीभवन्ति ॥

इति स्वीये विक्रमाङ्कदेवचरितनामके महाकाव्ये प्रोक्तम्, तदपि साहित्यशब्दस्य काव्यार्थतां व्यञ्जयति । ‘साहित्यदर्पणः’ इति काव्यलक्षणस्वरूपादिबोधकग्रन्थस्य नामकरणमपि विद्यान्तरव्यावृत्तकाव्यमात्रवाचकस्य साहित्यशब्दस्य प्रयोगं प्रमाणयति ।

अतिप्राचीनमिदं संस्कृतसाहित्यम्, मा भूवन्ननादयो वेदाः, परं तेऽतिप्राचीना इत्यकामेनापि स्वीकर्त्तव्यमेव । लोकमान्यतिलकमहोदयो यद् गणिताधारेण वेदानां ६००० ई.पू. निर्मितत्वं ततोऽपि वा पूर्वकालिकत्वं निर्धारितवांस्तत्र नास्ति सन्देहस्यावकाशः । वेदकालदारभ्य प्रवहन्तीयं संस्कृतसाहित्यधाराऽबाधगत्याऽधुनावधि समागच्छति । अन्यभाषासाहित्येतिहासानां विलोकनेन प्रतीयते यत्तानि साहित्यानि परिस्थितावनुकूलायामुदयन्ते, कियन्तं कालं यावदग्रेसरन्ति, परन्तु परिस्थितिवैषम्ये प्रवाहः शिथिलीभवति, स चायं दोषः संस्कृतसाहित्यं न् स्पृशति । वेदानां रचनायां जातायां तदव्याख्यानभूता ब्राह्मणग्रन्था अरच्यन्त, ब्राह्मणग्रन्थेभ्यः पश्चादारण्यकानि, तदनन्तरमुपनिषदः, ततो रामायणं महाभारतं पुराणानि च । सेयं परम्परा कियता स्वरुपविपर्ययेण सह काव्य –नाटक-गद्य –चम्पू –कथा- स्मृति- तन्त्रादिनिर्माणविधया चिरमन्वर्त्तत । सेयं संस्कृत साहित्यस्याविच्छिन्ना परम्परा न्यूनान्न्यूनमष्टसहस्रसंवत्सरेभ्यः समायातीति नितान्तसत्यं वचः । नास्ति विश्वस्मिन्नस्मिन् किमपि साहित्यमन्यद्यदविच्छिन्नधारमियन्ति दिनानि जीवितं समर्थ्येत ।

अतिव्यापकं च संस्कृतसाहित्यम् । इदं सर्वाङ्गपूर्णं यतोऽत्र मानवजीवनोददेश्यभूताः धर्मार्थकाममोक्षाख्याश्चत्वारोऽपि पुरुषार्था विवेचिताः । धर्मशास्त्रं प्रथम एव, अर्थशास्त्रमपि कौटिल्यादिप्रणीतमत्र न कुतोऽपि हीयते । कामशास्त्रमपि परमप्रसिध्दमत्रत्यम्, मोक्षशास्त्रस्यापि परमप्रकृष्टता सर्कसम्मता । एवं संस्कृते मानवजीवनोपयोगिनः सर्वेऽपि विषयाः साधु विवेचिता इति कथनं समुचितमेव । अत्र प्रेयः शास्त्रं श्रेयः शास्त्रं चोभयं समभावेन समेधितम्, अत एव चात्र भोगमोक्षयोरुभयोः सत्तया सकलसाहित्यापेक्षया विशिष्टता विद्यते ।

अतिमहत्त्वपूर्णमपीदं संस्कृतसाहित्यम् । इदं प्राचीनतायां सर्वातिशायीति पूर्वमावेदितमेव । अस्य व्यापकत्वं परिमाणमहत्त्वञ्चापि प्रसिध्दम् । एतन्महत्त्वे प्रमाणानि यथा –

  1. संस्कृतसाहित्यं न केवलं भार्तीयजनताया अपि तु चीन-जापान्- कोरिया-प्रभृतिवासिनामपि लोकानामितिवृत्तं लङ्का –मलयद्वीपादिवासिनाञ्च इतिवृत्तं सुरक्षितरुपेण गोपायति । एतस्य प्रभावस्तुरुष्कादिदेशेतिहासेष्वपि पतित इतितिहासविदां कृतेऽत्र महत् स्वाध्यायसाधनम् ।
  2. द्रविडभाषापरिवारं विहाय सर्वा भारतीयभाषाः प्राच्यसंस्कृतभाषायाम् यथा, तथा सर्वा अपि यूरोपीयभाषाः प्रतिच्यभाषायां सम्बध्दा भवन्ति, तेनोभयविधभाषासमुदयः भारोपीयभाषावर्ग इत्याख्यायते, भारोपीयभाषावर्गे संस्कृतभाषा सर्वज्येष्ठेति सर्वसम्मतम् ।
  3. धर्मविज्ञानं तदुपचयश्च यथा संस्कृतभाषाश्रयेण परीचीयते न तथा भाषान्तराश्रयेण ।
  4. भारते वर्षे न केवलं राजनीतिः, आयुर्वेदः, गणितफलितज्यौतिषे, अङ्कगणितम् ज्यामितिः, एतान्येव अपि तु तन्त्रम् मन्त्रः कामकला चापि साहित्यरुपेण शिक्ष्यते, एदैभवं संस्कृतस्थैव् ।
  5. सूत्रसाहित्यं क्वापि परस्याः भाषायां न जातम्, इदमनन्यसाधारणं संस्कृतसाहित्यस्य महत्त्वम् ।
  6. संस्कृतं न केवलं ब्राह्मणधर्मनामकं जातीयं (National)धर्म प्रतिष्ठापितवत्, अपि तु बौध्दधर्मनामकं सार्वभौमं धर्ममपि प्रकाशयामास ।
  7. मननशक्तिसमुद्भवानि नानादर्शनानि संस्कृते महत्त्वमानयन्ति ।
  8. यावत् संस्कृतसाहित्यं प्राप्यते, तावदेव रोम- यवनोभयसाहित्यापेक्षया परिणाहेऽत्यधिकम् ।

आभिर्विशिष्टताभिः संस्कृतसाहित्यस्य महत्त्वं प्रतिष्ठितं विद्यते । नैतावदेव सांस्कृतिकद्दष्ट्यापि संस्कृतभाषाया महत्त्वपूर्णं पदं लब्धव्यम्, भूखण्डं यदधुना ‘हिन्दुचीन’ नाम्ना ख्यायते तत्पूर्व शुध्दं ‘हिन्द’ आसीत्, चतुर्दश शताब्दीपर्यन्तं तत्सुवर्णद्वीपनामकमासीत् । विक्रमादित्यसमयाच्चतुर्दशशताब्दीपर्यन्तं तत्र भारतीयं साम्राज्यमासीत्, तदा तत्र संस्कृतमेव राजभाषाऽवर्त्तत । कम्बोजदेशॆ या स्मेरभाषा, यवद्वीपे च या कविभाषा सा भाषाद्वयी पूर्वमार्यावर्त्तीज्यवर्णमालायामेवालिखत । तदा तयोर्भाषयोः संस्कृतस्य तावान् प्रभावोऽवर्त्तत् । यत् संस्कृतोपादानानि गृहीत्वैव तयो साहित्यसृष्टिः प्रारभत । नवद्वीपस्य कविभाषायां रामायणीयं महाभारतीयं चाख्यानमधुनाऽपि प्राप्यते । अधुनाऽपि यवद्वीपवासिनो भारतीया इव रामलीलादर्शनेनात्मानं विनोदयन्ति ।

बालीद्वीपस्य सभ्यता भारतीयसभ्यता, तत्रत्यो धर्मस्तन्त्रप्रधानः वैदिकमन्त्रोच्चारणं सम्प्रत्यपि विकृतरुपेणा तत्र विद्यते । मङ्गोलियादेशेऽपि संस्कृतस्य प्रसार आसीत् । तत्रानेके संस्कृतग्रन्था लब्धाः, महाभारताधाराणि तद्भाषानिबध्दानि बहूनि नाटकान्यपि तत्र लब्धानि, तेषु हिडिम्बवध प्रधानम् । तदेवं संस्कृतस्य सांस्कृतिकं महत्त्वं प्रमापितं जायते । विशुध्दकला दृष्ट्याऽपि संस्कृतसाहित्यमतिमहत्त्वशालि, अत्र कालिदाससदृशः कविः भवभूतितुल्यो नाटककारः बाणभट्टसमो गद्यलेखकः, जयदेवसदृशो गीतप्रणेता चाजायत, यदीयाभिस्तत्तत्काव्यसृष्टिभिः शुध्दकलारुपेणापि विनोदितं विनोद्यते च भुवनम् ।

तुलनात्मकभाषाविज्ञानशास्त्रिणां कृते तु संस्कृतं जीवनमेवेति नितान्तमहत्त्वशालि संस्कृतम् । संस्कृतभाषानिबध्दसाहित्यमात्रस्य विवेचनाय सौकर्यं कालविभागेन सम्पाद्यते अत्र प्रथमः श्रुतिकालः कल्यताम्, यत्र संहिताब्राह्मणारण्यकोपनिषदोऽरच्यन्त । द्वितीयोऽपि स्मृतिकालनामा स्मर्यताम्, यत्र रामायण् महाभारतपुराणवेदाङ्गानि रचितानि । तृतीयः कालः सूत्रकालनाम्ना लौकिक – काव्योदयकालनाम्ना वा व्यवह्रियताम् यत्र पाणिनिप्रणीतसूत्रसिध्दभाषाग्रन्थितानि काव्यानि जातानि । चतुर्थश्च शास्त्रकालनाम्नाऽभिधीयताम्, यत्र तानि तानि शास्त्राणि न्यायवेदान्तादीनि साहित्यशास्त्रं चाजायन्त ।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]