विक्रमादित्यः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
विक्रमादित्यस्य भावचित्रम्

विक्रमादित्यः भारतवर्षस्य कश्चन धर्मपरायणः सत्यव्रती न्यायप्रियः सम्म्राट् आसीत् । तस्य कार्यकालः ६३ ई०पू० अस्ति । तस्य नाम्ना एव विक्रमसंवत्सरस्य आरम्भः जातः । अधुना इयं पद्धतिः भारतीयपञ्चाङ्गेषु सर्वत्र अनुस्रीयते । विक्रम-बेताल पंचविशतिका कथा द्वाविंशति पुत्तलिकाः कथाः लोके अति प्रसिद्धाः सन्ति । अस्यैव सभायां कालिदासादयः विख्याताः नवरत्नानि आसन् ।

नवरत्नानि[सम्पादयतु]

विक्रमार्कस्य आस्थाने नवरत्नानि

धन्वन्तरिः क्षपणकोऽमरसिंहः शंकूवेताळभट्टघटकर्परकालिदासाः।
ख्यातो वराहमिहिरो नृपतेस्सभायां रत्नानि वै वररुचिर्नव विक्रमस्य॥

नवरत्नानां चित्राणि[सम्पादयतु]

मध्यप्रदेशस्थितस्य उज्जैन-महानगरस्य महाकालमन्दिरस्य समीपे विक्रमादित्य-टिला-नामक स्थानम् अस्ति। तत्र विक्रमादित्यस्य सङ्ग्रहालये नवरत्नानां मूर्तयः स्थापिताः सन्ति।

सम्बद्धाः लेखाः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=विक्रमादित्यः&oldid=436381" इत्यस्माद् प्रतिप्राप्तम्