साहित्यदर्पणम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

विश्वनाथेन रचितः ग्रन्थः साहित्यदर्पणम् इति । पाण्डित्यपूर्णग्रन्थोऽयम् अलङ्कारस्य विषये वर्तते । सूत्रवृत्त्युदाहरणारुपेणा त्रिधा विभक्तः । साहित्यदर्पणे विश्वनाथस्य काव्यलक्षण:(वाक्यं रसात्मकं काव्यं) अस्ति। अत्र च विद्यमानाः कारिकाः , वृत्तयः एतेनैव रचिताः । साहित्यदर्पणकारः कविराजो विश्वनाथः उत्कलप्रदेशे ब्राह्मणकुले जन्म लेभे । तस्य प्रपितामहो नारायणः, चण्डीदासः पितामहानुजः, चन्द्रशेखरश्च पिताऽऽसीत् ।

          श्री चन्द्रशेखरमहाकविचन्द्रसूनु
                       श्रीविश्वनाथकविराजकृतं प्रबन्धम् ।
        साहित्यदर्पणममुं सुधियो विलोक्य
                        साहित्यतत्त्वमखिलं सुखमेव वित्त ॥ (सा. दर्पण- १०-१००)

कविपरिचयः[सम्पादयतु]

कविराजोऽस्य पिता च कस्यापि नृपस्य सन्धि-विग्रहकपदे प्रतिष्ठितावास्ताम् । अयं वैष्णव- मतानुयायी महापात्र –कविसूक्ति-सुधाकरालङ्कारिकचक्रवर्तिप्रभृत्युपाधिर्विभूषितः प्रचुर- सम्मान प्राप्तः कविरासीत् । अयं युध्दे प्राणहरं सन्धौ च सर्वस्वहरमला वुद्दीनखिलजीनामानं पातशाहमप्यवर्णयत्-

सन्धौ सर्वस्वहरणं विग्रहे पाणनिग्रहः ।
अलावुद्दीननृपतौ न सन्धिर्न च विग्रहः॥ (सा.द. ४-१४ उदा.)

विश्वनाथः साहित्यदर्पणे जयदेवस्य गीतगोविन्दस्य प्रसन्न राघवस्य च (द्वादशशताब्द्याः ऊत्तरार्ध्दम्) श्रीहर्षस्य (११६७-७४ ई. ) नैषधीयचरितस्य, रुय्यकस्य (द्वादशशताब्द्याः मध्यभागः) अलङ्कारसर्वस्वस्य श्लोकान् उअदाहरणस्वरुपं दत्तवान । अत एभ्यः परवर्ती त्रयोदशशताब्द्यां समुद्भवः विश्वनायः स्यात् इत्यनुमीयते, यतः पञ्चदशशाताब्द्यां जातस्य मल्लिनाथसूनोः, कुमारस्वामिनां ‘प्रतापरुदशोभूषणम्’ इत्येतस्य टीकायां विश्वनाथस्य नालोल्लेखो वर्तते । कुमारस्वामिनः समयः पञ्चदशमशताब्दी अस्ति । इत्थं कविराजस्य कालः १३०० ईसाब्दतः १३८४ ई.पर्यन्त तर्कसङ्गतः ।

साहित्यदर्पणस्य निरुपणम्[सम्पादयतु]

अलंकारसाहित्येतिहासेन्यतमो ग्रन्थः तावत् साहित्यदर्पणम् एकः एवास्ति । दशपरिच्छेदात्मकोऽयं ग्रन्थः । प्रथमपंरिच्छेदे काव्यप्रयोजनं काव्यलक्षणं च । द्वितीये परिच्छेदे काव्यलक्षणं, एवममिधालक्षणव्यंजनायाः तित्रः शब्दशक्तयो वर्णिताः । तृतीये रसभाव एवं नायकनायकादिभेदाः परिगणीताः । चतुर्थे परिच्छेदे ध्वनेरेवं गुणीभूत व्यङ्गयस्य भेदाः । पंचमे च व्यंजनायाः स्थापना ।षष्ठे दृश्यकाव्यस्य नाटकस्य विवेचनमस्ति । सप्तमे परिच्छेदे दोषाः अष्टमे चगुणाः । नवमपरिच्छेदे रीतयः दशमे च शब्दालंकाराः, ७० अर्थालङ्काराश्च परिगणिताः ।

कविराज विश्वनाथस्य कविरुपे प्रतिभा दृश्यते । अलंकारक्षेत्रेतु एव एव ग्रन्थोऽस्य नाम्नाऽस्ति । परमेतदतिरिक्तमनेन अनेकानि काव्यानि विराचितानि साहित्यदर्पणस्तु मम्मटरुय्यककाननुसृत्यैव लिखितः । परमस्मिन्ननेके गुणा अपि सन्ति । अस्य शैली सुबोधा अस्ति । तत्र मम्मटस्य शैली समासाचिता जटिला च । अतएव विहितानेकटीकोऽयि दुरुहो ग्रन्थोऽयम् । एवमेव पण्डितराजजगन्नाथस्य शैली अपि शास्त्रीय न्यायाशास्त्राचिता जटिला चास्ति । परं तदपेक्षया साहित्यदर्पणः सुबोधः प्रसादगुणयुक्तश्च । एकस्मिन्नेव ग्रन्थे अत्र श्रव्यदृश्यकाव्ययो र्विवेचनं विद्यते । यच्चान्यत्र दुर्लभम् । अतः कविराजस्य साहित्यदर्पणोऽलंकारेतिहासे स्वकीयं प्रभुत्वं स्थापयति ।

कविराजस्य विश्वनाथस्य रचनासु साहित्यदर्पणः सर्वाधिकः प्रख्यातो वर्त्तते । अस्य ग्रन्थस्येदं वैशिष्टयमास्ते यदस्मिन् ग्रन्थे श्रव्यदृश्ययोरुभयोरेव प्रकारयोः काव्ययोः वर्णनमास्ते । अत एव सम्पूर्णस्य काव्याशास्त्रस्य प्रतिनिधिभूतोऽयं ग्रन्थो वर्त्तते । अस्मिन् ग्रन्थे दश परिच्छेदाः सन्ति । तत्र प्रथमपरिच्छेदे काव्यलक्षणस्य, कव्यप्रयोजनस्य, काव्यभेदस्य च वर्णनमास्ते अस्मिन् परिच्छेदे काव्यप्रकाशकारस्य लक्षणस्य विस्तरेण खण्डनं कृतमास्ते । द्वितीयपरिच्छेदे वाक्यपदयोर्लक्षणानन्तरं शब्दस्याभिधालक्षणाव्यञ्जनानां विवेचनमास्ते । तृतीये परिच्छेदे रसानां, भावानाम्, नायकनायिकयोर्भेदानाञ्च विस्तरेण वर्णनं कृतमास्ते । चतुर्थपरिच्छेदे ध्वनिकाव्यस्य गुणीभूतव्यङ्ग्यकाव्यस्य च विवेचनं कृतमास्ते । पञ्चमपरिच्छेदे व्यञ्जनावृत्तेः संस्थापनाया युक्तीनां खण्डनं कृतम् । षष्ठपरिच्छेदे नाटकस्य पूर्णतया विवेचनं कृतत् । सप्तमे परिच्छेदे गुणानां निरुपणं कृतम् । नवमे परिच्छेदे चतसृणां रीतीनां वर्णनमास्ते । दशमे च परिच्छेदे शब्दार्थालङ्काराणां विशादं विवेचनं कृतं वर्त्तते ।

ग्रन्थे च काव्यलक्षणं, शब्दशक्तयः, ध्वनिः, गुणाः, दोषाः, ६२ अलङ्काराः , नायक-नायिकायोः लक्षणानि, रूपकाः, अर्थप्रकृतयः , इत्यादयः विचाराः चर्चिताः ।

टीकाकाराः[सम्पादयतु]

चत्वार एव टीकाकाराः साहित्यदर्पणे टीकामकुर्बन् । यासु मथुरानाथशुक्लस्य टिप्पणम्, गोपीनाथस्य च प्रभा, इदानीं यावत् अप्रकाशिता । प्रकाशितटीकासु प्राचीनतमा कवेः पुत्रस्य अमन्तदासस्य लोचनाभिधाना चास्ति । द्वितीया च् सुप्रसिध्दा रामचन्द्रवागीशकृत विवृत्तिनाम्नी चास्ति । यस्याः रचनाकालः १७०१ ईसवी अस्ति/ टिकेयं साहित्यदर्पणविवेचने उपादेयरुपास्ति ।

मान्यसिद्धान्ताः[सम्पादयतु]

१. वाक्यं रसात्मकं काव्यम् ।
२. त्रयोगुणाः माधुर्यमोजः प्रसादश्चेति, न तु पुनर्वामनाभिमतदश शब्दगुण्य-दशार्थागुण्यः ।
३. रीतिचतुष्टयम्- वैदर्भी, गौडी, पांचाली, लाटीचेति ।

अनेन कविराजविश्वनाथस्य अलङ्कारसाहित्येतिहासे काव्यसाहित्येच वर्ततेऽ द्वितीयं स्थानमिति ।

[सम्पादयतु]

वाक्यं स्यात् योग्यताङ्काक्षा सत्ति युक्तः पदोच्चयः ‎

"https://sa.wikipedia.org/w/index.php?title=साहित्यदर्पणम्&oldid=445504" इत्यस्माद् पुनः प्राप्तिः