मृच्छकटिकम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(मृच्छकटिक इत्यस्मात् पुनर्निर्दिष्टम्)
Jump to navigation Jump to search
'राजा' रविवर्मणा चित्रिता वसन्तसेना

संस्कृतवाङ्मये मृच्छकटिकम् प्राचीननाटकेषु मुख्यतमम् । शूद्रकेण लिखितम् संस्कृतनाटकम् अस्ति। नाटकेषु प्रकरणवर्गे इदंनाटकम् अन्वेति । अस्मिन् दश अङ्काः वर्तन्ते। अस्मिन् नाटके कान्यपि कपोलकल्पितानि कृतकता च न भवतः । स्वभावोक्त्यलङ्कार इव सहजसुन्दराणि दृश्यानि भवन्ति । यथा विशाखदत्तस्य मुद्राराक्षसम् वर्तते तथैव वस्तुवद्रचनया शोभते ।

मृच्छकटिकं इति नाटकस्यादौ शुद्रकस्य परिचयः यथा वर्णितोऽस्ति, तदनुसारेण शूद्रकः हस्तिशास्त्रेषु प्रवीणः आसीत् । अनेन शिवस्यानुग्रन्हेण ज्ञानं प्राप्तं, विधिना चाश्र्वमेधयज्ञं कृतवान् । राज्यसिंहासने पुत्रं प्रतिष्ठाप्य शतायुः शूद्रकोऽग्निं प्रविष्टः । अग्निप्रवेशस्य कथा केनाप्यन्येन नाटकेऽस्मिन् सन्निवेशितेति प्रतीयते, यतो हि लेखको भावीक्रियायाः प्रयोगः स्वात्मनि कर्तुं नार्हति ।

शूद्रकः[सम्पादयतु]

संस्कृतसाहित्ये शूद्रकस्य महती प्रसिध्दिरस्ति । विविधग्रन्थेषु शूद्रकस्य विषये तथैव लिखितं प्राप्यते तथा विक्रमादित्यस्य विषये । कादम्बरी, कथासारित्सागरः वेतालपञ्चविंशतिः इत्यादिग्रन्थेषु विविधमस्येतिवृत्तं वर्णितमस्ति यूरोपीयविद्वांसः शूद्रकस्य सत्ताविषयेऽपि सन्दिहानाः सन्ति, परमियं भ्रान्तिरस्ति । शूद्रकः विक्रमादित्यः इव प्रतिभासम्पन्नः ऐतिहासिकः पुरुषः आसीत् । शूद्रकस्य स्थितिकालविषयेऽपि विविधानि मतानि दरीदृश्यन्ते । भारतीयाः विद्वांसः अस्य समयं विक्रमाब्दस्य प्रथमशताब्दं मन्यन्ते । श्रीवामनाचार्यः काव्यालङ्कारसूत्रे शूद्रकस्योल्लेखं कुर्वन् द्यूतं नाम पुरुषस्य असिंहासनं राज्यम् इत्यादिपद्यमुद्धरति । अतः अष्टमशताब्दायाः पूर्वं शूद्रकस्य समयो मन्तव्यः । मनुस्मृतेरुध्दरणं मृच्छकटिके प्राप्यते । अतो मनुस्मृतेः रचनाकालादनन्तरम् अस्य रचनाकालो भवेत् । शूद्रकः मृच्छ –कटिकस्य नवमाङ्के “अङ्गारकविद्या- प्रवीणस्य बृहस्पतेः” इत्यस्मिन् पद्ये बृहस्पतिमंगल- विरोधं दर्शयति । वराहमिहिरस्य स्ध्दान्तानुसारम् अनयोः मैत्रीभावो वर्तते । अतः वराहमिहिरात् प्रागेवास्य स्थितिः प्रतीयते ।

एतेषामन्तरङ्गप्रमाणानां समालोचनेन शूद्रकः दण्डीवराहमिहिरयोः पूर्ववर्ती सिध्द्यति । अनेन अस्य समयः पञ्चमशताब्द्यां न्यायसङ्गतं प्रतिभाति । नाट्यकलादृष्ट्या मृच्छकटिकस्य समीक्षा – नाट्यकलादृष्ट्या मृच्छकटिकं सुन्दरं सफलं च नाटकं विद्यते । संस्कृतसाहित्ये सर्वप्रथममस्मिन्नेव नाटके राजवंशातिरिक्तः तथा निम्नवर्गस्य सामाजिको जनः नायकः दृश्यते । संस्क्रुतनाटकेषु नायकः विशेषतया राजा राजवंशोद्भवो वा भवति, अतः जनसामान्यः नायकः न भवति, परन्तु शूद्रकः प्राचीनपरिपाटीं परित्यज्याभिनवां नाट्यकलां गृह्णाति । मृच्छकटिकनाटके तत्कालीनसमाजस्य प्रतिबिम्बं विद्यते । “साहित्यं समाजस्यादर्शः” इत्याभाणकमस्मिन्नेव नाटके चरितार्थं दृश्यते ।


नाटकस्य कथानकं तथा नाटकस्य वातावरणं, नितान्तयथार्थं विद्यते । अत एव विदेशीयाः नाटकमेतत् बहुप्रशंसन्ति । नाटकस्य पात्रं कल्पनोपपादितमिति न लक्ष्यते, प्रतीयते यत् सर्वाणि पात्राणि सामाजिकानि तत्प्रतिनिधयश्च सन्ति । एवं नाट्यकलादृष्ट्या शूद्रकस्य रुपकमिदं परमश्लाघनीयं सफलञ्च विद्यते ।

मृच्छकटिकस्य कथाभागः[सम्पादयतु]

अत्र रुपके चारुदत्तवसन्तसेनयोः प्रणयकथायाः सरसं चित्रणं कृतं, परं तेनैव सह तत्कालिकसमाजस्य चित्रमप्यङ्कितम्, एतत्प्रकरणगतकथा भागद्वयेविभक्ता । प्रथमो भागश्चारुदत्तवसन्तसेनयोः प्रेमकथालङ्गितां निनीषति, द्वितीयश्च भाग आर्थकस्य राज्यप्राप्तिं प्रगुणयति । प्रथर्मोऽशो भासकृतस्य दरिद्रचारुदत्तनामकस्य रुपकस्य शब्दसोऽर्थशश्चानुकरणं करोति । द्वितीर्योऽशश्च कविप्रतिभासृष्टः । द्वयोरंशयोर्योजने कवेश्चातुर्यं स्फुटम् । दशाङ्कनिबध्देऽत्र रुपके कविना क्वचन गुणवति वदान्यतया दरिद्रे च विप्रे चारुदत्ते वैश्यकुलोत्पन्नाया वसन्तसेनाया वेश्याया निरुपधिः प्रेमा, शकारस्य तत्रानुरागोदयस्तस्यामनुरगमनवदधत्यां द्वेषस्तन्मूला तद्वधप्रवृत्तिः, ततश्च न्यायालये चारुदत्तस्य प्राणदण्डः, भाग्यवशात्तदुज्जीवनम्, राज्यपरिवर्त्तनेनार्यकस्य राज्यप्राप्तिश्चारुदत्तवसन्तसेनयोर्विवाहश्छेत्यादयोऽर्था निपुणं वर्णिताः ।

चरित्राणि[सम्पादयतु]

वसन्तसेना उज्जयिन्या वेश्या याऽत्र प्रधाननायिका । वेश्यापि सा प्रेम कर्तुं जानाति, मात्राऽऽगृहीताऽपि सा शकारे नानुरागं भजते । शकारे तद्वधप्रवृत्तेऽपि सा स्वगुणैरेव जीवति । तस्यां न केवलं प्रेमप्रकर्षः, परं स्त्रियामपेक्षिता दयादाक्षिण्यादयोऽपि प्रचुरमात्रायामुपलभ्यन्ते । धूता पतिपरायणा सा हि स्वपतिप्रीतये कष्टसहनोद्यता । सा हि सपतिकलङ्कप्रक्षालनाय स्वईयान्यमूल्यान्याभरणान्यपि वसन्तसेनायास्तुच्छानामाभरणानां परिवर्त्ते दातुमुद्यता । शकारो नितान्तगर्वी चारुदत्तस्याकारणशत्रुश्च । स हि वसन्तसेनायाः कण्ठं मर्दयति तद्देषं च चारुदत्तस्य शिरसि न्यस्यति, तथापि चारुदत्तस्तस्मै क्षमां ददाति ।

अन्येषामपि पात्राणां साधु चित्रणमत्र कृतमिति रुपकमिदं सजीवमिव सम्पन्नम् ।
अत्रत्यानि पात्राणि न कल्पितस्वरुपाण्यपि तु सर्वत्र सुलभानीति विशेषः ।

तत्कालिकी समाजदशा[सम्पादयतु]

शूद्रकस्यैकैवेयं मृच्छकटिकं नाम कृतिस्तत्कालिकसमाजदशायाः प्रस्फुटितं चित्रं प्रकटीकरोति । तस्मिन्समये उज्जयिनी भारतस्य समृध्दा नगरी, फलतस्तत्र चौर्यद्यूतयोः प्ररुढः प्रचारोऽवर्त्तत । वेश्यालयानां प्राचुर्यं विलासितायाः प्रमाणम् । मनुस्मृतिर्न्यायालयेष्वाद्रियमाणाऽऽसीत् । ब्राह्मणा अपि व्यापारार्जितविभवाः श्रेष्ठिनः कथ्यन्ते स्म । राज्ञां प्रभुत्वमधिकं परं ते मन्त्रिणां सहयोगमपेक्ष्यैव कार्यं चालयन्ति स्म । चैत्यानि विहाराश्च भूयसा निरमीयन्त यत्र रोगिणां शुश्रुषाऽपि व्यधीयत । क्रितदासप्रथाऽवर्त्तत । राजशक्तेर्दुर्बलतायाः प्रधानं प्रमाणं कियतैव कालेन राज्यपरिवर्त्तनं दृश्यते । बौध्दधर्मो यद्यपि सम्पन्नदशस्तथापि तत्र दोषाः समाविष्टा आसन् ।

शैली[सम्पादयतु]

शूद्रकस्य शैली सरला, प्रसाद-गुण- गुम्फिता चास्ति । लम्बायमानस्य वृत्तस्य प्रयोगोऽतिन्यून एव । नूतनो भावः, अभिनवोऽर्थः स्थले-स्थले प्राप्यते । नाटकस्य मुख्यो रसः श्रृंङ्गारः । वर्षर्तुवर्णनं शूद्रकेण कियन्मनोहरं विशदीकृतमिति न कदापि विस्मर्तव्यम् । विविधाः चमत्कृतसूक्तयः नाटके दरीदृश्यन्ते, कविना न्यायालयस्य वर्णनं कियत्सुन्दरं कृतमिति दृश्यताम् –

चिन्तासक्तनिमग्नमन्त्रिस्सलिलं, दूतोर्मिशङ्काकुलम्
पर्यन्तस्थितचारनक्रमकरं, नागाश्वसिंहाश्रयात् ।
नानावासक- कङ्क – पक्षिरुचिरं कायस्थसर्वास्पदं
नीतिक्षुण्णतटं च राजकरणं हिंस्रैः समुद्रायते ॥

अनेन प्रकारेण शूद्रकः मृच्छकटिकनाटके यत्र तत्र समाजस्य, राज्ञः, तथा राजकर्मकस्य, वेश्यायाः चौरस्य च एतादृशं चित्रं प्रतौति यत् नाटकपठनेन तत्कालीनसमाजस्य चित्रम् अस्माकं सम्मुखे आलिखित-चित्रमिवावभासते । किमधिकं मृच्छकटिकनाटकं सफलं समाजिकं नाटकमिति न केषाञ्चित् विमतिः ।

शूद्रकस्य काव्यशैली सरलतमा, दीर्घः समासो, गाढो बन्धश्च नानेनादृतः । नवानां भावानामुद्भावने जागरुकमतेरस्य काव्ये शृङ्गारस्य पुष्टं रुपं दृश्यम् । वर्षाया वर्णनं नितान्तहृद्यम् । हासप्रयोगेऽपि कवेरस्य साफल्यम । यज्ञोपवीतस्योपयोगे विचार्यमाणे- यज्ञोपवीतं हि नाम ब्राह्मणस्य महदुपकरणद्रव्यं विशेषतोऽस्मद्विधस्य, कुतः-

एतेन मापयति भित्तिषु कर्ममार्गा-
नेतेन मोचयति भूषणसम्प्रयोगान् ।
उद्घाटको भवति यन्त्रदृढे कपाटे
दष्टस्य कीटभुजगैः परिवेष्टनञ्च ॥

सर्वांशतो विचारेण नाटकमिदमतिसफलम् । आधुनिकयुगेऽप्यस्य चमत्कारित्वमक्षुण्णमत एव पाश्चात्त्या आलोचका नाटकमिदं प्रशंसन्ति ।

कथा[सम्पादयतु]

एषा चारुदत्तस्य कथा अस्ति। सः नटीम् वसन्तसेनाम् कामयति। परम् एकः राजसभास्थः अपि ताम् प्रलुभ्यति। एषा कथा हास्या बोधना चास्ति।

"https://sa.wikipedia.org/w/index.php?title=मृच्छकटिकम्&oldid=444134" इत्यस्माद् पुनः प्राप्तिः