कादम्बरी

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search


बाणभट्टः गद्यकाव्यस्य अप्रतिमः कविर्विद्यते । अस्य हर्षचरितम् (आख्यायिका) कादम्बरी (कथा) च अतिप्रसिध्दे वर्तेते । पदानामुचितप्रयोगः भावानाम् आर्जवम्, उपमाश्लेषपरिसंख्या –उत्प्रेक्षा- रुपकविरोधाभासः – समासोक्तिः –प्रभृतीनाम्, अलङ्काराणां स्वाभाविकसमावेशः, देशकालपात्रानुसारिभाषायाः मञ्जुलसन्निवेशः, पाञ्चालीरीतिश्च कादम्बरीं विहाय अन्यत्र नावलोक्यते ।

अत्र राज्ञः शूद्रकस्यवर्णनम्, चाण्डालकन्यावर्णनम्, जाबालिवर्णनम्, विन्ध्याटविवर्णनम्, महाश्वेतावर्णनम्, आच्छोदसरोवरवर्णनम्, चन्द्रापीडस्य दिग्विजयवर्णनमित्यादीनि मनोज्ञानि वर्णनानि, वीक्ष्य केनचित् उक्तम्- वाणी बाणो बभूव । गद्यकाव्येषु कादम्बर्याः सर्वेत्तमं स्थानमास्ते । शास्रीयपाण्डित्यदृष्ट्या विषयाणां व्यापकतायाश्च दृष्ट्या अनुपमेयकथाग्रन्थोऽयं विद्यते । भावपक्ष –कलापक्ष- लोकचरित्र –शास्त्रीयतत्त्वसन्निवेश-बाह्यजगत्-प्रभ्रुतीनां वर्णने कवेः सूक्ष्मातिसूक्ष्म दृष्टिः सर्वत्रैव राजते ।

कादम्बरी बाणस्य सर्वेत्कृष्टा रचनाऽस्ति । अस्याः कथा कौतूहलपूर्णा अस्ति । पठनसमये पाठकानां कौतूहलमुत्तरोत्तरं वर्धते एव । बाणस्य सर्वोत्कृष्टां शैलीं विलोक्यैव केचिदूचिरे बाणोच्छिष्टं जगत्सर्वम् इति । विषये अस्मिन् सर्वप्रथममत्र बाणस्य कवित्वशक्तिं, गद्यवैशिष्ट्यं वा पर्यालोचयामः । कस्याचिदपि कवेः प्रतिभासमीक्षणाय, तस्य काव्यस्य कलापक्षं, हृदयपक्षं, वर्णनशैलीं च द्रष्टव्यम् ।

कलापक्षः[सम्पादयतु]

बाणस्य प्रकृतिवर्णनं सौम्यं रुचिरञ्चास्ति । वर्णनेषु सजीवतामानेतुं बाणः उपमोत्प्रेक्षा- श्लेष- विरोधाभास परिसंख्यालङ्काराणामाश्रयं गृहीतवान् । तत्रापि परिसंख्यालङ्कारस्य तु बाणः सम्राडिति नात्र संशयः । श्लिष्टपरिसंख्यायाः ईदृशं चमत्कारपूर्णवर्णनं न कोऽपि कविः कृतवान् । आदर्श-गद्यस्य यादृशं स्वरुपं सिध्दान्तं वा बाणेन हर्षचरिते वर्णितं तादृशमेव गद्यं कादम्बर्यां प्रस्तुतम् ।

हृदयपक्षः[सम्पादयतु]

बाणस्य हृदयपक्षोऽपि सर्वोत्कृष्टः विद्यते । मानवीय नानाभावाभिव्यक्तौ विविधानां कोमलमनोभावानां मार्मिकविश्लेषणे बाणोऽद्वितीयः कविरिति निश्चप्रचम् । पात्रस्य मनोदशायाः विस्तृतं सजीवं विशदञ्च वर्णनं बाणस्य प्रतिभां विस्तारयति । बाणस्य गद्येषु रसस्याजस्रः प्रवाहः प्रवहति । महाश्वेतायाः प्रणयवर्णने, कादम्बर्याः साक्षात्कारे च मनोदशायाः यादृशं चित्रणं बाणेन प्रस्तुतं, तादृशं चित्रणां सयत्नान्वेषणेनापि संस्कृतसाहित्ये न दृश्यते । महाश्वेतायाः विलापः, कादम्बर्याः विरहवर्णनं च विप्रलम्भश्रृङ्गारस्योत्कृष्टे निदर्शने स्तः । वस्तुतस्तु बाणस्य गद्यं पञ्चानन इव सिंहगर्जनां कुर्वन् चलति । क्वचित् भयध्वनिं कुर्वती नदीव महावेगेन प्रवहति, कुत्रापि च शरत्कालीना नदीव शनैः शनैः प्रवहमाना कामपि अपूर्वां शोभां कलयति ।

शैली[सम्पादयतु]

बाणस्य शैली द्विविधा दृश्यते । वनस्य वर्णनेषु बहुधा सजीवतामानेतुं समासबहुलायाः तथौजोगुणमण्डितायाः आश्रयं गृहणाति कविः । एवंविधस्थलेषु समासगतछटा दर्शनीया भवति । विन्ध्याटव्याः वर्णने सन्ध्यायाः वर्णने च एवं विधायाः शौल्याः प्रयोगं कृत्वा सजीवनाद्यं प्रस्तौति । विरह –वर्णने वार्तालापावसरे च बाणः प्रसादगुणगुम्फितां शैलीमधिकृतवान् । एवं प्रकारेण बाणः आवश्यकतानुसारं शैलीं परिवर्त्य वर्णने प्राणास्पदं सञ्जीवनं दत्त्वा गद्यं निर्माति । श्रीराजशेखरेण पाञ्चालीरीतेः निदर्शना बाणस्य शैलीति कथिता –

शब्दार्थयोः समो गुम्फः पाञ्चाली रीतिरिष्यते ।
शिलाभट्टारिका वाचि बाणोक्तिषु च सा यदि ॥

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

"https://sa.wikipedia.org/w/index.php?title=कादम्बरी&oldid=395244" इत्यस्माद् पुनः प्राप्तिः