गद्यकाव्यम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्
चरकसम्हित
चरकसम्हितायः एकः सूत्रः।
चरकसम्हितायः एकः सूत्रः।


गीर्वाणवाण्यां गद्यसाहित्यं चिरन्तनं नित्यनूतनं च । यदा वेदमन्त्राः द्रष्टृणाम् ऋषीणां दृष्टिगोचरा अभवन्, तदा प्रथमतया गद्यरूपेणैव प्रादुरभूवन् । यथा-

"सह वै देवानां चासुराणां च यज्ञौ प्रततावास्तां वयं स्वर्गमेष्यामो वयमेष्याम इति इति तेऽसुराः सन्नह्य सहसैवाचरन्" (यजुर्वेदः)।

कृष्णयजुर्वेदे एतादृशाः अनेके मन्त्राः उपलभ्यन्ते, ये च प्राचीनतमां गद्यशैलीं प्रख्यापयन्ति । अतः एवं ज्ञातुं शक्यते यत् यस्याः कस्या अपि भाषाया प्रथमो विकासः गद्यरूप एव भवितुमर्हति । संस्कृते तु वेदोपनिष्दां साहित्यराशिम् अवलोकयामश्चेत् गद्यप्रकारः शनैः शनैः विकचीबभूवेति अवगन्तुं शक्यते । वेदानां काले यादृशि गद्ये साहित्ये विदुषाम् अभिरुचिः आसीत्, न खलु तदुत्तरकाले । गीतेषु, पद्येषु, छन्दस्सु च जनप्रियता यदाऽवर्धत तदा गद्यसाहित्यनिर्माणेऽपि वैरल्यं दृश्यते । किन्तु महाभारतेतिहासेऽपि तत्र तत्र गद्यप्रयोगाः अवलोक्यन्ते ।यथा-

स तथेत्युक्त्वा तमश्वमधिरुह्य प्रत्याजगामोपाध्यायकुलमुपाध्यायानी च स्नाता केशानावापयन्त्युपविष्टोत्तङ्को नागच्छतीति शापायास्य मनो दधे ।

सार्धद्विशतवर्षेभ्यः पूर्वमेव गद्यप्रकारस्य हृद्यताम् अवगत्य भगवान् यास्कः "निरुक्तम्" स्वग्रन्थं गद्ये प्रायुङ्त । ततः गच्छता कालेन शास्त्रग्रन्थाः व्याख्यानग्रन्थाः च हृद्ये गद्ये निरमीयन्त । तत्रैकम् उदाहरणं "महाभाष्ये" पश्यामः । यथा-

एवं हि श्रूयते । बृहस्पतिरिन्द्राय दिव्यं वर्षसहस्रं प्रतिपदोक्तानां शब्दानां शब्दपारायणं प्रोवाच । नान्तं जगाम । बृहस्पतिश्च प्रवक्तेन्दश्चाध्येता दिव्यं वर्षसहस्रमध्ययनकालो न चान्तं जगाम । इति ।

महर्षिः चरकः अपि चरकसंहितायां गद्यं प्रयुक्तवान् । यथा-

नारत्नपाणिर्नास्नातो नोपहतवासा नाजपित्वा नाहुत्वा देवताभ्यो नानिरूप्य पितृभ्यो नाद्त्वा गुरुभ्यो नातिथिभ्यो नोपाश्रितेभ्यो नापुण्यगन्धो नाऽप्रक्षालितपाणिवदनो नाशुद्धमुखो नोदङ्मुखो न विमना न प्रतिकूलोपहितमन्नमाददीत । इति ।

तत्वशास्त्राणां दर्शनशास्त्राणां व्याकरण-ज्योतिष-न्यायायुर्वेद-मीमांसादिशास्त्रग्रन्थाः तु विपुलतया गद्येऽतन्यन्त इति तु नाविदितं विद्वद्भिः । महामनाः कौटल्यः स्वकीये कौटलीयम् अर्थशास्त्रम् इति ग्रन्थे यथा सुन्दरं गद्यं प्रायुङ्त अवलोक्यताम् ।

"दर्शने प्रसीदति । वाक्यं प्रतिगृह्णाति । आसनं ददाति । विविक्तो दर्शयते । शङ्कास्थाने नातिशङ्कते । कथायां रमते । परिज्ञाप्येष्ववेक्षते । पथ्यमुक्तं सहते । स्मयमानो नियुङ्क्ते । हस्तेन स्पृशति । श्लाघ्ये नोपहसति ।"

कवेः कर्म काव्यम्[सम्पादयतु]

तच्च दृश्यं, श्रव्यं चेति द्विधा भिन्नम् । श्रव्यकाव्यानि तु गद्यं पद्यं चम्पू इति त्रिधा भवन्ति ।बालरामायणम् "गद्यं कवीनां निकषं वदन्ति" इति निगदति । यः गद्यं तादृशं विलिख्य कविः इति प्रशंसितः भवति सः नितरां काव्यशास्त्रदोषज्ञानां विमर्शनिकषोपले निघृष्टसुवर्णाभरणोपमः सन् सहृदयैः नित्यं कण्ठे धार्यत एव । अत एवोक्तम् यथा-

पद्यं वद्यं गद्यं हृद्यम् । इति । अपि च -
अपारे काव्यसंसारे कविरेकः प्रजापतिः ।
यथास्मै रोचते विश्वं तथेदं परिवर्तते ॥ इति वदन्ति ।

किन्तु तादृशविश्वसृष्टौ समर्थाः कवयोऽपि विरला एव । विस्मयावहायां कविपरम्परावाहिन्यां संस्कृतसाहित्यसरस्वत्यां बाणभट्टसदृ्शाः गद्यं प्रणीय़ एव कविरितिविख्याताः न बहव उपश्रूयन्ते । यतः कस्यामपि भाषायां गद्यकाव्यनिर्मितिः न सुलभा । संस्कृते तु कठिनतरा । तथापि संस्कृतभाषायां गद्यकाव्यश्रीः विपुला दृश्यते । वेदेषु, उपनिषत्सु, विविधशास्त्रग्रन्थेषु च गद्यानां प्रयोगाः तत्तद्गहनतत्वप्रतिपादननैपुणीं दर्शयन्त्यपि गद्यसाहित्यस्तोमे नान्तर्भवन्ति । यतः तादृशगद्येषु यद्यपि शास्त्रप्रौढिमा, पाण्डित्यप्रकर्षश्च गोचरति, तथापि रसस्यन्दीनि वाक्यानि तत्र न भवन्ति । आचार्यःदिङ्नागः स्वस्य किरणावलिः नाम्नि ग्रन्थे उत्तमां गद्यसरणिं प्रादर्शयत् । जयन्तभट्टः न्यायमञ्जरी इति ग्रन्थे तत्र तत्र गद्यसुषमां शैलीमभिव्यनक्ति । किन्तु एतादृशेषु शास्त्रग्रन्थेषु शास्त्रप्रतिपाद्यविषयमात्रे प्रवृत्तं गद्यं न हि खलु काव्यप्रपञ्चं संवर्धयति ।

गद्यकाव्यानां प्राचीनता[सम्पादयतु]

आचार्यः पतञ्जलिः महाभाष्ये "आख्यानकाख्यायिकेतिहासप्रकरणेभ्यश्च" इति वार्तिकस्य व्याख्यानप्रसङ्गे ’आख्यायिका वासवदत्तिका, सौमनोत्तरिका इति नामनिर्देशनपूर्वकम् उदाहृतवान् । एतेन ज्ञायते यत् क्रिस्तोः पूर्वकालादपि संस्कृते गद्यप्रकारे नैकानि काव्यानि आसन्निति । अत एव बाणेनोक्तम् यथा-

कवीनामगलद्दर्पो नित्यं वासवदत्तया ।
शक्त्येवपाण्डुपुत्राणां गतया कर्णगोचरम् ॥ इति ।

न चैषा वासवदत्ता सुबन्धुकृता भासते । काचित्ततोऽपि प्राक्तना महाभाष्योक्तैव वा भवेत् । तथैव बाणेनोक्तम् "भट्टारहरिचन्द्रस्य गद्यबन्धो नृपायते" इति यत् कोऽयं गद्यबन्ध इति न ज्ञायते । अपि च आचार्यदण्डिनोक्तौ -

तौ शूद्रककथाकारौ धन्यौ रामिलसोमिलौ ।
काव्यं ययोर्द्वयोरासीत् अर्धनारीश्वरोपमम् ॥ इत्येतौ युग्मकवी दण्डिनोऽपि प्राचीनौ गद्यकारौ भाव्येते ।

अपि च दण्डी हालराजेन पालितस्य श्रीलालिताख्यस्य "तरङ्गवती" नामानं गद्यग्रन्थम् उदाहरति ।भोजः स्वस्य शृङ्गारप्रकाशः इति ग्रन्थे "मनोवती" "सातकर्णीहरणम्" इति नामकं गद्यग्रन्थद्वयं नाम्नोद्धरति । एतानि गद्यकाव्यानि प्राचीनानि सन्ति, इदानींतनकाले नोपलभ्यन्ते । एवं च समुपलब्धेभ्योऽपि गद्यकाव्येभ्यः प्राचीनतमाः गद्यकाव्यग्रन्था आसन्निति तु विज्ञायते ।

उपलब्धानि गद्यकाव्यानि[सम्पादयतु]

समुपलब्धेषु गद्यकाव्येषु बाणकर्तृकं कादम्बरीनामकं सर्वप्रथमम् । एतत् काव्यं "प्रबन्धकल्पना कथा" इति कोशोक्तप्रकारेण कथाप्रकारे अन्तर्भवति । द्वितीयं च बाणकृतम् आख्यायिकाप्रकारे अन्तर्भूतं गद्यकाव्यं हर्षचरितम् इति । बाणकवेरपि पूर्वकालीनः गद्यकाव्यकर्ता सुबन्धुः । एतस्य कृतिः वासवदत्ता इति । महाकविः दण्डी दशकुमारचरितम् अवन्तिसुन्दरीकथा इति गद्यकाव्यद्वयं प्रणिनाय । ततः वामनभट्टबाणः नामा कविः वेमभूपालचरितम् नाम काव्यं व्यरचयत् । अष्टादश शतमानस्योत्तरार्धे आन्ध्रीयः महाविद्वान् लक्ष्मणसूरिः भारतसङ्ग्रहः नलोपाख्यानम् इति गद्यकाव्यद्वयं लिखितवान् । गते नवदशशतमाने औत्तरेयः अम्बिकादत्तव्यासः शिवराजविजयः नामानं गद्यग्रन्थं निरबध्नात् । तथा च पण्डिता क्षमा नाम्नी विदुषी "कथामुक्तावली" इति गद्यकथाग्रन्थं रमणीयगद्यग्रथनकौशलेन विरचितवतीति श्रुतम् । एवं च आसप्तमशतकादारभ्य वर्तमानकालपर्यन्तमपि महान्ति गद्यकाव्यानि गणयामश्चेत् तानि केवलम् अङ्गुलिगण्यान्येव भवन्तीति ज्ञायते । एतेन स्पष्टं भवति यत् संस्कृते हृद्यं गद्यं विरचयितुं "चापलाय प्रचोदितः" कोऽपि कविः न प्रभवति इति ।

"https://sa.wikipedia.org/w/index.php?title=गद्यकाव्यम्&oldid=392699" इत्यस्माद् पुनः प्राप्तिः