वीररसः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
अत्र गम्यताम् : सञ्चरणम्, अन्वेषणम्


वीरस्योत्साहः स्थायिभावो भवति । लोकोत्तरेषु कार्येषु क्रियमाणः स्थेयान् प्रयत्नःउत्साह उच्यते । ‘पर पराक्रम दानादि स्मृति जन्मा, औन्नत्याख्य श्चित्तवृत्ति विशेष उत्साह’ इति रसगङ्गाधरः। वीर् धातोः अच् प्रत्यये कृते “वीर” शब्दस्य उत्पत्तिः। वीररसस्य स्थायीभावः उत्साहः भवति। उत्साहः उदात्तानां स्वभावः भवति। सर्वदा युद्धाभिमुखिकरणम् इति नास्ति। त्यागे, सन्मार्गे, परोपकारादिषु प्रवृत्तिः भवेत्। “वीरो नाम उत्तमप्रकृतिकः उत्साहस्थायिभावात्मकः” इति, भरतमुनिः स्व नाट्यशास्त्रे वीररसस्य निरूपणम् कुर्वन् श्लोकमेकम् अकथयत्। तद्यथा,
उत्साहोऽध्यवसायादविषादित्वादविस्मयमोहात्।
विविधादर्थविशेषाद्वीररसो नाम सम्भवति॥

विभागः[सम्पादयतु]

साहित्यदर्पणकारः वीररसः चतुर्धाविभक्तः इति निरूपयति। तद्यथा, स च दानधर्मयुद्धैः दयया च समन्वितः समन्वितः चतुर्धा

  • दानम्
  • धर्मः
  • युद्धम्
  • दया
  • दानवीरः – कस्यचित् समीपं गत्वा याचनां कुर्मः। तदा परस्मिन् क्षणे सः दानं करोति चेत् तदेव दानवीरस्य लक्षणम् इति।
  • दयावीरः – परस्य इति विनाभेदेन, समयासमयस्य विनालोचनेन सर्वदा दयान्तःकरणः यः सः दयावीरः इति।
  • युद्धवीरः – स्वजीवनमलक्षीकृत्य युद्धकरणे यदि वीरप्रवृत्तिः यस्य भवति सः युद्धवीरः इति।
  • धर्मवीरः – केवलं स्वधर्मप्रवृत्तिः यस्य भवति सः धर्मवीरः इति।

असुरवीरः, लोभवीरः, इत्यादि उपभेदाः अपि सन्ति। बिलहरि, अठाण, केदार, गुणकलि इत्यादि रागाः वीररसप्रधानरागाः भवन्ति।

"https://sa.wikipedia.org/w/index.php?title=वीररसः&oldid=372722" इत्यस्माद् पुनः प्राप्तिः