लक्ष्मणसूरिः
लक्ष्मणसूरिः | |
---|---|
जननम् | विंशतिशताब्दी |
वृत्तिः | लेखकः |
राष्ट्रीयता | भारतीयः |
प्रकारः | नाट्यकारः |
विषयाः | पौराणिक-ऐतिहासिकनाटकानि |
प्रमुखकृतयः | दिल्लीसाम्राज्यम्, पौलस्त्यवधम्, घोषयात्रा |
विषयैः प्रभावितः
भारतीयपुराणशास्त्रम्, भारतस्य इतिहासः
|
लक्ष्मणसूरिणा त्रीणि रूपकाणि प्रणीतानि । दिल्लीसाम्राज्यं, पौलस्त्यवधम् , घोषयात्रा चेति । कविरयं मद्रासस्य तिन्नेवल्लीजनपदे १८५६ ख्रीष्टाब्दे प्रादुरभवत् । अस्य पिता मुथु सुब्बाभारती सुप्रसिद्धो विद्वान् आसीत् । सुब्बादीक्षितोऽस्य गुरुरिति मन्यते ।
१९०३ ख्रीष्टाब्देऽयं मैसूरस्याधिपतिना सूरिरित्युपाधिना मण्डितः । तस्य पाण्डित्यस्य प्रशंसायां श्रुतिपथं गतायां भारतीयशासनेनापि १६१६ ख्रीष्टाब्दे स महामहोपाध्यायोपाधिना विभूषितः । अनेनान्येऽपि बहवः काव्यग्रन्थाः विरचिताः।
दिल्लीसाम्राज्यम्
[सम्पादयतु]दिल्लीसाम्राज्यं स्वकीयमित्रस्य आश्रयदातुश्च कृष्णस्वामिनः परामर्शानुसारं लक्ष्मणसूरिणा विरचितम्।पञ्चाङ्कमिदं कवेः प्रथमं नाटकम् ।
कथावस्तु
[सम्पादयतु]बाइसराय लार्ड हाडिखो भारतस्य हितैषी आसीत् । स पञ्चमः जार्जस्य दिल्लीनगरे सम्राट्पदेऽभिषेचयितुं निश्चिकाय । तेन संसदीयभवने स्वकीयप्रस्तावो विचारार्थं प्रस्तावितः । द्वितीयाङ्के संसदीयभवने तर्कवितर्काः समुपस्थापिताः । लार्ड मार्ले महोदयः प्रस्तावं समर्थितवान् । दिल्लीनगरं च स्वागतस्थानमिति निर्णयोऽभूत् ।
तृतीयाङ्के भारतीयनरेशाः लण्डनं गत्वा सम्राजं मिलितवन्तः । सम्राट् तु भारतागमनाय समुत्कण्ठित आसीत् । आर्कबिशपेन आर्शीवचांसि वितीर्णानि ।
चतुर्थेऽङ्के जार्जस्य जलयानं भारतं लक्ष्यीकृत्य प्रस्थितम् । जार्जो बम्बईप्रदेशम् आजगाम । तत्र तस्य लार्डहाडिलेन बम्बईप्रान्तस्य गवर्नरमहोदयेन, सेनापतिना च तस्य सुस्वागतं व्याहृतम् । यानादवतीयः असौ कारयानेन कार्पोरेशन कार्यालयं गत्वा विश्रमितः । तत्र सरमेहतामहोदयेन तस्याभिनन्दनं कृतम् । तेनैव प्रशस्तिपत्रमपि पठितम् । ततोऽसौ दिल्लीं प्रतस्थे ।
पञ्चमेऽङ्केऽभिषेकस्य प्रक्रिया सम्भारदृश्यं वर्तते । सङ्गीतेन नर्तकीनां नृत्येन च दशदिशं प्रससाद वायसरायेण जार्जस्य स्वागतं विहितम् । सर्वे राजानो राज्यपालाश्च परिचायिताः । मध्याह्नवेलायां जार्जमहोदयो राजसिंहासनम् आरुरोह । तत्रासौ वायसरायेन राजमुकुटेन समलङ्कृतः। मधुरसङ्गीतेन सर्वं सुप्रसन्नं सञ्जातम्।
पौलस्त्यवधम्
[सम्पादयतु]पौलस्त्यवधे विराधस्य मृत्योः अनन्तरं रामकथा निबद्धास्ति । अस्य प्रथमाभिनयश्चैत्रोत्सवे समवेतानां विदुषां समक्षमभूत् । द्वितीयाङ्के रामस्य सीतां प्रति प्रेमविषयकः स्मरणीयश्श्लोको वर्त्तते -
ये पूरिते सुकण्ठ्याः प्रथमालापेन ते मम श्रवसी।
धन्ये उभे हि शेषाण्यवयवसाकल्यसम्पदर्थानि।।
रामस्यौदार्यं प्रतिपादयन् कविर्ब्रवीति -
दानं करे पादतले न तीर्थं बाहौ जयश्रीर्वचने च सत्यम्।
लक्ष्मीः प्रसादे प्रतिधे च मृत्युरेतानि रामस्य निसर्गजानि।।
नाटकस्य वैशिष्ट्यमधिकृत्य सूत्रधारेण निगदितम् -
रसो न हीयते मुहुर्निषेवयाप्यभङ्गुरोऽसावभिवर्धतेतराम्।
मनश्च संस्कारमवाप्य शास्त्रजं न्यपेतमोहं पदवीं प्रपद्यते।।
घोषयात्रा
[सम्पादयतु]घोषयात्रायाः नामान्तरं युधिष्ठिरानृशस्यं वर्तते । इदं डिमकोटिकं रूपकम् । डिमस्य परम्परागत-परिभाषानुसारं नाटकेऽस्मिन् देव-गन्धर्व-यक्षो-राक्षस-भूत-प्रेत-पिशाचादयः षोडशोद्भटनायका विरला सन्ति । क्वचिन्मायेन्द्रजाल-चन्द्रसूर्योपरागादिदृश्यानि सन्ति । बहुसंख्याकाः अभिनेतारो मानवा एव । इन्द्रो देवता चित्रसेनचित्ररथौ गन्धर्वी च तत्र सन्ति।
कथावस्तु
[सम्पादयतु]प्रथमाङ्के वनवाससमये युधिष्ठिरः द्रौपदी-भीमादीनां वार्तालापेन प्रतीयते यद्, युधिष्ठिरो युद्धार्थं सोत्साहः कृतः ।तस्मिन्नेवावसरे दूरत एव दुर्योधनस्य वाणी श्रूयते -
धन्यास्त एव पुरुषा भुवि ये रिपूणां वक्त्रं प्रदोषकमलच्छविदुर्गतानाम्।
पश्यन्ति सस्मितमपत्रपयोपगूढं लक्ष्मीविलासललनीयमुखेन्दुबिम्बाः।।
एतच्छुत्वा सेनाधिपेन चित्ररथेन दुर्योधनो निगृहीतः किन्तु युधिष्ठिरस्य प्रयत्नेन पुनर्मोचितः । द्वितीयाङ्के रङ्गपीठे चित्रसेन-चित्ररथः दुःशासन-दुर्योधन-कर्ण-शकुनीनां संरक्षणे त्वेकत्र कौरवस्त्रियः सन्त्यपरत्र च लतागृहे भीमार्जुनौ स्तः । चित्रसेनेन शकुनिः मुर्च्छां प्रापितः । चित्ररथेन कर्णो विनिन्दितः, किन्तु दुर्योधनेन प्रशंसितः -
‘भीतोऽस्मादेव पार्थो दिवि भुवि च परिभ्राम्यति त्राणकाङ्क्षी’।
चित्ररथेन कर्णं लक्ष्यीकृत्य वायव्यास्त्रं प्रयुक्तम् । कर्णस्तस्य प्रभावेण पलायितः। दुश्शासनो गन्धर्वाक्रमणभीत्या चचाल । चित्रसेनः खड्गमादाय तमाचक्राम । दुर्योधनसहिताः सर्वेऽपि निगृहीतास्तेन । किन्त्वर्जुनस्य दयया दुर्योधनो मोचितः । भीमेन सकलापि कथा युधिष्ठिराय निवेदिता । युधिष्ठिरस्य सन्निधौ गन्धर्वराजः समाहूतः । द्रौपदी सर्वासां कुरुवधूनां मोचनार्थम् आदिष्टवती । रङ्गमञ्चे शस्त्रास्त्रप्रयोगेणाभिनयो सविशेषं प्रभावोत्पादकः।