सामग्री पर जाएँ

नाट्यशास्त्रम् (ग्रन्थः)

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(नाट्यशास्त्रम् इत्यस्मात् पुनर्निर्दिष्टम्)

नाट्यशास्त्रम् इति एकः प्राचीनग्रन्थः द्विसहस्रवर्षेभ्यः पूर्वमेव भरताचार्येण कृतः अस्ति । तस्मिन् ग्रन्थे सः नाट्यस्वरूपं नाटकलक्षणं च सम्यक् उक्तवान् । धनञ्जयः नामकः पण्डितः 'दशरूपकम्' इति ग्रन्थं विलिख्य रूपकाणां परिचयं कारितवान् ।

प्रथमं कविना गद्यपद्ययुक्तः, सम्भाषणात्मकः, अभिनययोग्यः कश्चन ग्रन्थः लिख्यते । तत्रत्या कथा रामायणादिषु प्रसिद्धा वा भवेत्, कविकल्पिता वा भवेत् । सः ग्रन्थः नटैः रङ्गे अभिनीयते । एषः अभिनयः, 'प्रयोगः' इति कथ्यते । सहृदयाः सामाजिकाः तं दृष्ट्वा आनन्दमनुभवन्ति । नाटके चतुर्विधाः अभिनयाः भवन्ति - आङ्गिकः, वाचिकः, आहार्यकः, सात्त्विकः चेति । हस्तपादनेत्रादिभिः यः अभिनयः क्रियते सः आङ्गिकः । भाषणं वाचिकः । वेषभूषणादिकम् आहार्यकः । गात्रकम्पनम्, स्वेदः इत्यादयः सात्त्विकाभिनयाः । एतादृशैः अभिनयैः नटाः प्रेक्षकेषु नव रसान् उत्पादयन्ति ।

संस्कृतनाटकेषु प्रथमम् एकं मङ्ग्लपद्यं भवति । 'नान्दी' इति तस्य नाम । तदनन्तरं सूत्रधारः प्रविशति । सः नाटके अभिनेष्यमाणायाः कथायाः सूचनां ददाति । तदनन्तरं नाटकस्य प्रारम्भः भवति । संस्कृतनाटके उत्तमजनाः संस्कृतेन, नीचजनाः स्त्रियः च प्राकृतेन भाषन्ते । रङ्गे जलपानं, भोजनं, अग्निः, युद्धम् इत्येतादृशाः विषयाः न दर्शनीयाः इति नियमः अस्ति । नाटकस्य अन्ते एकः श्लोकः भवति । प्रायः नायक एव इमं श्लोकं पठति । अस्मिन् श्लोके 'लोकाः समस्ताः सुखिनो भवन्तु' इत्येतादृशम् अर्थपूर्णं मङ्गलाशंसनं भवति । अस्य श्लोकस्य 'भरतवाक्यम्' इति नाम ।

प्रस्तावना

[सम्पादयतु]
भरतनाट्यम्
नाट्यं भिन्नरुचेर्जनस्य बहुधाऽप्येकं समाराधनम् । कालिदासः, मालविकाग्निमित्रनाटके ।

भारतदेशस्य संस्कृतवाङ्मयस्य च कीर्तिसौधस्य आधारस्तम्भा इव चत्वारः भरतनामानः कीर्तिशेषाः श्रूयन्ते । तेषु प्रथमः दुष्यन्तपुत्रः भरतः । द्वितीयः बाहुबलिसोदरः भरतः । तृतीयः श्रीरामस्य अनुजः भरतः । चतुर्थस्तु नाट्यशास्त्रम् इत्येतद्ग्रन्थस्य कर्ता भरतमुनिः । एवं चतुर्णाम् एतेषां भरतानां जन्मभूमिः, कर्मभूमिः च योऽयं देशः वर्तते भारतम् इति यथार्थाभिधानम् भजते । तथैव भरतमुनिना प्रणीतं भारतीयं नाट्यशास्त्रम् भवति । नाट्यवेदः इति नाट्यशास्त्रस्य पुरातनं नाम बभूव, यथा-

वेदोपवेदैः संबद्धो नाट्यवेदो महात्मना ।
एवं भगवता सृष्टो ब्रह्मणा सर्ववेदिना ॥ ना.शा.१.१८. ।

तथा च नाट्यं वेदैरेव उपबृंहितमिति भरतः निरूपयति, यथा -

जग्राह पाठ्यमृग्वेदात् सामभ्यो गीतमेव च ।
यजुर्वेदादभिनयान् रसानाथर्वणादपि ॥ ना.शा.१.१७ ।

भारते प्रागैतिहासिके काले " नाट्यवेदः" द्वादशसहस्रश्लोकात्मकः बृहद्गात्रः प्रसिद्धिं गतः, उपलब्धश्च आसीदिति ज्ञायते । क्रिस्तात् पूर्वस्मिन् सहस्राब्दे भरतमुनिना पुरातननाट्यवेदात् सारमुद्धृत्य षट्सहस्रैः श्लोकैः,षट्त्रिंशदध्यायैः नाट्यशास्त्रं निबद्धम् । शास्त्रमिदं न केवलं रङ्गकर्मनिर्देशने प्रवृत्तम्, नृत्य-गीत-वाद्य-साहित्यादीनां कलामूलानां सर्वशास्त्राणामपि महोपकारकं वर्तते । सङीतादिशास्त्रग्रन्थाः एतच्छास्त्रम् अनूद्य एव प्रवृत्ताः इति न सन्देहः । अपि च भारतीयेषु अन्यान्यनाट्यप्रभेदेष्वपि भरतनाट्यशास्त्रे निरूपिताः नियमाः एव प्रवर्तन्ते ।

अभिनयः

[सम्पादयतु]

दृश्यकाव्यस्य अभिनेयमिति नामान्तरमिति पूर्वमुक्तम् । अभिनया रामादीनाम् अवस्थाया अनुकरणम् । स च तावत् चतुर्विधः, तथाहि - रामादौ गमनादिक्रिया वर्तते, वाक्यम्, वेषभूषणादिकं बाह्यस्वरूपम्, क्रोधहासादिः आन्तरो धर्मः । अनुकरणं च एतावतामेव नान्येषाम् । तत्र गमनादिक्रियाया अनुकरणं नटैः हस्तपादादिभिः अङ्गैः क्रियते । तस्मात् स अभिनयः ’आङ्गिकः’ । वाक्यस्य अनुकरणं वाचा क्रियते । तस्मात् स अभिनयः ’वाचिकः’ । बाह्यस्वरूपस्य अनुकरणं वेषभूषणादिना क्रियते । तस्मात् स अभिनयः ’आहार्यः’ । हासक्रोधादेः अनुकरणं मुखविकासादिना क्रियते । तस्माच्च स अभिनयः ’सात्त्विकः’ । तदेवमभिनयस्य चतुर्विधत्वम् । तत्र रामादिः अनुकार्यः, नटः अनुकर्ता, तेन च रामादेः अनुकरणमिति अंशत्रयं स्पष्ठम् ।

रसो वै सः

[सम्पादयतु]

शृङ्गारादीनां रसानाम् अभिव्यञ्जनपराणां समेषां शास्त्रग्रन्थानाम् आधारभूतं प्रामाणिकं च शास्त्रं भारतमुनिकृतं 'नाट्यशास्त्रम्’ । अत्र आदौ पञ्चसु अध्यायेषु क्रमेण १) नाट्योत्पत्तिः २) मण्टपविधानम् ३) रङ्गदैवतपूजाविधानम् ४) ताण्डवलक्षणम् ५) पूर्वरङ्गविधानम् इति विषयान् सविस्तरं विविच्य भरतः षष्ठेऽध्याये रसान् अमूलाग्रं निरूपयति । अस्मिन्नध्याये नारदादयः भरतमुनिमुद्दिश्य रसभावसम्बद्धान् पञ्च प्रश्नान् पृच्छन्ति । ततः भरतः तान् प्रश्नान् उत्तरन् रसः, भावः, अभिनयः, धर्मी, वृत्तिः, प्रवृत्तिः, सिद्धिः, स्वरः, आतोद्यम्, गानम्, रङ्गं च व्यवृणोत् । ततः शृङ्गार-हास्य-करुण-रौद्र-वीर-भयानक-बीभत्स-अद्भुतरसान् च अष्टौ रसान् नाट्योपयुक्तान् न्यरूपयत् । नाट्ये रसनिष्पत्तिहेतून् भावादीनभीधाय ततः वदति यत्-

तत्र रसानेव तावदादौ अभिव्याख्यास्यामः॥ इति प्रतिज्ञाप्य,
न हि रसादृते कश्चिदर्थः प्रवर्तते । इति वदन् नाट्येषु रसम् ऋते अर्थ एव नास्तीति निर्वचनं करोति। तदनन्तरम् "रससूत्रम्" एवमभिधत्ते ।
विभावानुभावव्यभिचारिसंयोगात् रसनिष्पत्तिः । इति ।

एवं रससूत्रनिर्माणानन्तरं शास्त्रकारः "को द्ष्टान्तः?" इति स्वयमेव पृच्छामुद्घाट्य, अग्रे विवृणोति यथा -

यथा हि गुडादिभिः द्रव्यैः व्यञ्जनैः औषधिभिश्च षाडवादयो रसाः निर्वर्त्यन्ते, तथा नाना भावोपगता अपि स्थायिनः भावाः रसत्वम् आप्नुवन्ति ।

इति । अस्यायमाशयः, अत्र द्ष्टान्ते विभावादीनां विवेचना प्रसिद्धैः गुडादिभिः निरूप्यते । अत्र गुडादयः षट् रसपदार्थाः विभावः, अनुभावः, सञ्चारिभावश्च इति ज्ञेयम् । जलं स्थायिभाव इति कल्पनीयम् । एवं च स्थायिभावेन विभावादीनां सम्मेलनं रसोत्पत्तिकारणम् । रसोत्पत्यनन्तरं भोक्तॄणामिव प्रेक्षकाणां सामाजिकानां आनन्दानुभूतिः, रसास्वादश्च भवति । अतो भरतोऽभिदधाति -

आस्वादयोग्यः पदार्थसंयोग एव रसः इति ।

बुभुक्षितः जनः यथा मधुरादिभी रसैः मिश्रम् अन्नम् आस्वाद्य आनन्दम् अनुभवति, तथा सहृदयः नाट्येषु पात्राणाम् (रामादीनाम्) आङ्गिकैः, आहार्यैः, वाग्व्यापारैश्च सुखे दुःखे विस्मयादिषु च तादात्म्येन आनन्दमनुभवति । सामान्यतः श्रव्येषु काव्येषु स्वयम् अप्रवृत्तानां स्थायिभावरहितानाम् अरसिकानामपि हृद्येषु स्थायिभावस्य जागरणं नाट्येन कर्तुं शक्यते । अत्र नटः आख्यायिकापुरुषस्य स्वभावाभिनयेन गम्यः स्थायिभावः, (द्रष्टरि च विद्यमानः) चमत्कारेण रसत्वं प्राप्नोति । नटे (रामादौ) स्थायिभावोऽस्त्येव इति प्रेक्षकः भावयति। एवम्द्वयोः समानतया उत्पन्नः स्थायिभाव एव रसनिष्पत्तिपर्यन्तम् निरन्तरः, अविच्छिन्नधारया स्यन्दमानः रसात्मतया परिणमति । इममेव विषयम् "अभिनवगुप्तः" अभिनवभारत्यां व्याख्यायां व्याचष्टे । यथा -

"प्रतीयमानः स्थायिभावः मुख्यरामादिरूपस्थाय्यनुकरणरूपः, अनुकरणरूपत्वादेव च नामान्तरेण व्यपदिष्टो रसः" इति ।

भावानां निरुक्तिः

[सम्पादयतु]

शृङ्गारादीनां नवानामपि रसानां प्रत्येकतया "स्थायिभावान्" निर्दिशति, यथा -

रतिर्हासश्च शोकश्च क्रोधोत्साहौ भयं तथा ।
जुगुप्सा विस्मयश्चेति स्थायिभावः प्रकीर्तितः ॥ इति ।

एवं शृङ्गाररसस्य स्थायिभावः रतिः, हास्यरसस्य हासः, वीरस्य उत्साहः, करुणरसस्य शोकः रौद्ररसस्य क्रोधः भयानकस्य भयम्,बीभत्सरसस्य जुगुप्सा अद्भुतरसस्य विस्मयः, शान्तरसस्य तु नाट्ये प्रसक्त्यभावे सत्यपि शान्तस्य शमः स्थायिभावः भवति इति वदति । ततः भावाः निरुच्यन्ते । भावलक्षणम्, यथा -

वागङ्गसत्वोपेतान् काव्यार्थान् भावयन्ति इति भावाः । इति ।

यद्यपि "भाव"शब्दस्य अनेके अर्थाः शास्त्रेषु दृश्यन्ते । तथापि अत्र भावनिरूपणे भावः नाम चित्तवृत्तिः इत्यर्थं स्वीकरोति । तथा "विभावः" नाम निमित्तम् इत्यर्थे भावयति । वस्तुतः भावस्य निष्पत्तिकारणम् भावाविर्भावहेतुः "विभावः" इति कथ्यते । यथा अभिज्ञानशाकुन्तले शकुन्तलायाः तपोवनविरुद्धस्य रतिस्थायिभावस्य उद्दीपनहेतुः दुष्यन्तः आलम्बनविभावः भवति । तथैव स्वचित्तगतविषयान् भ्रूविक्षेपादिभिः प्रटनम् एव अनुभावः । आहत्य अष्टविधान् अनुभावान् सङ्ख्यापयति भरतः, यथा -

स्तम्भः स्वेदोऽथ रोमाञ्चः स्वरभङ्गोऽथ वेपथुः ।
वैवर्ण्यमश्रु प्रलय इत्यष्टौ सात्विकाः स्मृताः ॥ इति ।

तथा च प्रवर्तमाने स्थायिभावे आनुषङ्गिकतया मध्ये अन्यभावानाम् आगमनिर्गमौ सञ्चारिभावः अथवा व्यभिचरिभावः इति कथ्यते । भरतः नाट्यानुगतान् ३३ सञ्चारिभावान् उल्लिखति ।

शास्त्राणाम् 'आकरः’

[सम्पादयतु]

महाभारतस्य विषये यदुक्तम्- यदिहास्ति तदन्यत्र यन्नेहास्ति न तत् क्वचित् इति तथैव नाट्यशास्त्रविषयेऽपि भरतेन अभिहितम् यथा -

न तच्छ्रुतं न तच्छिल्पं न सा विद्या न सा कला ।
न स योगो न तत् कर्म यन्नाट्येऽस्मिन्न दृश्यते ॥ ना.शा.१/११६

एवम् सर्वाः शिक्षाः, सर्वाणि शिल्पानि, लौकिकाः कलाः, विद्याः, सकलविधं च कर्म नाट्ये दृश्यरूपेण प्रदर्शयितुं शक्यते इति भावः । नाट्यम् आबालब्रह्मपर्यन्तम् रससरस्सन्निभम् लोकान् रञ्जयति इत्यर्थः । एतस्मात् ज्ञायते यत्, भरतमुनिकृतं नाट्यशास्त्रमिदम् सर्वजनपदकलाशास्त्राणां मूलाधारमिति नात्युक्तिः । भरतादपि पूर्वस्मिन् काले कोहलः दत्तिलः नाट्यशास्त्रग्रन्थान् रचयामासतुरिति श्रूयते । तत्र दत्तिलस्य ग्रन्थनाम "दत्तिलम्" इति । ततः श्रीमता आनन्दवर्धनेन ध्वन्यालोकः इति साहित्यशास्त्रस्य यः लक्षणग्रन्थः रचितः, तत्र 'ध्वनि’लक्षणं लक्षयति यथा- "अनुरणनं ध्वनिः" इति । 'अनुरणनं नाम नाट्यम् इत्यर्थः । आचार्यः मम्मटः स्वीये काव्यलक्षणग्रन्थे काव्यप्रकाशः नाम्नि भरतमुनिकृतात् नाट्यशास्त्रादेव कारिकाः समुद्धृत्य ग्रन्थम् आरचितवान् । तथा च दण्डी निजकृतौ "काव्यादर्शे"ऽपि भरतनाट्यशास्त्रीयान् श्लोकान् उपायुनक् । भरतकृतनाट्यशास्त्रे षाष्ठतमाध्यायगतां रसनिष्पत्तिप्रक्रियां विशदयितुं प्रयतितवत्सु व्याख्यानकर्तृषु अभिनवगुप्तः प्रमुखः । अभिनवगुप्तस्य व्याख्यानग्रन्थस्य नाम "अभिनवभारती" इति । भट्टतौतः नाम कश्चन लाक्षणिकः काव्यस्य रसास्वादविषये नाट्यशास्त्रम् आधारीकृत्य काव्यकौतुकम् नामकं ग्रन्थं रचितवान् । तथा च नाट्यशास्त्राधारितेषु ग्रन्थेषु ३यशतमाने ख्यातः नन्दितः नामा अभिनयदर्पणम् नाम ग्रन्थं व्यरचयत् । एवम् सोमनार्यः नाट्यचूडामणिम्, रामचन्द्रगुणाचार्यः नाट्यसर्पणम्, अशोकमल्लः नृत्याध्यायम्, जयसेनः नृत्यरत्नावलिम्, नान्यदेवः भरतभाष्यम्, अल्लराजः रसतत्वसमुच्चयम्, श्रीकण्ठकविः रसकौमुदीम्, अन्ये च अनेके नाट्येषु, नाट्यभेदेषु, देशीसङ्गीतेषु, राग-ताल-भावादिविषयेषु नाना कलाविषयेषु च भरतस्य "नाट्यशास्त्रात्" सामग्रीः सम्पाद्य एव लिलेखुः इत्यत्र नास्ति सन्देहलेशः । इदमपि ज्ञेयम् यत् पूर्वम् नाट्यस्य शिल्पम् इति नाम आसीत् । अतः शिल्पशास्त्रम् अथवा स्थापत्यशास्त्रम् अपि भारतनाट्यशास्त्रमनुकृत्य एव समैधत इति भाव्यम् । एवं च यथा काणादं पाणिनीयं च सर्वशास्त्रोपकारकम् इति लोकोक्तिः विद्यते तथैव नाट्यशास्त्रमिदं सर्वकलाशास्त्रोपकारकम् इत्युक्ते नातिभाषितं भवेत् ।

नाट्यशास्त्रस्य रचनाकालः कः इति रचिततया न विद्मः । किन्तु पाणिनेः अष्टाध्यायीग्रन्थे पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः ।४/३/११० इति सूत्रे नटसूत्रत्वेन उपनिबद्धः कोऽपि सूत्रात्मकः प्राचीनः ग्रन्थ आसीदिति ऊहितुं शक्यते । तत्सूत्राणाम् आधारेणैव भरतमुनिना पाणिनेः अर्वाचीने काले "नाट्यशास्त्रम्" व्यरच्यतेति निश्चिनुमः । पाणिनेः कालस्तु क्रि.पू. ७मम् शतमानम् इति विदुषां मतम् । अतः भरतमुनेः कालः क्रि.पू.५मम् शतमानम् इत्यनुमीयते । परमत्र विपश्चिदपश्चिमानां मतं प्रमाणम् ।

बाह्यसम्पर्कतन्तवः

[सम्पादयतु]