काव्यप्रकाशः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

काव्यप्रकाशो हि काव्यालङ्कारग्रन्थः । सर्वाङ्गपूर्णालङ्कारशास्त्रप्रणयते हि मम्मटाचार्यः प्रथमः आचर्यः मन्यते। तत्र हि क्रमेण काव्यहेतु-काव्यलक्षण-काव्यफल-काव्यभेद-शब्दशक्ति-ध्वनिविवेक-गुणीभूतव्यङ्ग्य-काव्यदोष-काव्यगुण-शब्दार्थालङ्काराः निरूपिताः दशसूल्लासेषु। परिमितशब्दावल्या सुविस्तृतविषयप्रतिपादनमेव मम्मटस्य वैशिष्ट्यम्। अस्मिन् ग्रन्थे दश-उल्लासाः सन्ति । नाट्यशास्त्रं विहाय अन्यान् सर्वान् विषयान् प्रतिपादयति । एतस्य उपरि रुय्यकस्य, सोमेश्वरस्य , जयन्तस्य अन्येषां व्याख्यानानि सन्ति । काव्यप्रकाशे भागत्रयम् वर्तन्ते ।

  • कारिका
  • वृत्तिः
  • उदाहरणम्

असौ हि तावत्पर्यन्तानुभूतकाव्यसम्बद्धसिद्धान्तानां सारसङ्ग्रहः । अत्र हि अनेके काव्यशास्त्रसम्बद्धसिद्धान्ताः निरूपिताः । कवेनिर्मितिः काव्यम् । तच्च यशसेऽर्थकृते शिवेत रक्षतये सद्यः परनिवृत्तये च भवति । अदोषौ सगुणौ प्रायः सालङ्कारौ शब्दार्थौ काव्यम् । शक्तियुत्पत्तिरभ्यासो हि काव्यहेतुः, इदं वाच्या व्यङ्ग्येऽतिशायिनि उत्तमम्, उभयोस्तुल्यप्राधान्ये वा व्यङ्ग्यस्य वाच्यान्न्यूनप्राधाने गुणीभूतव्यङ्ग्यत्वेन मध्यममन्यत्त्ववरं शब्दचित्रं वाच्यचित्रञ्च । शब्दो हि त्रिविधो वाचकलक्षकव्यञ्जकभेदात् । तदर्थं वाच्यादयः । केषाञ्चिन्मते तात्पर्यार्थोऽपि । सङ्केतितार्थबोधको वाचकः, सा च शक्तिरभिधाख्या। सङ्केतितार्थश्चतर्विधो जातिद्रव्यगुणक्रियारूपो वा जातिरेव । मुख्यार्थबाधे सति रूढि वा प्रयोजनमाश्रित्य ययाऽर्थो बोध्यते सा लक्षणा । सा च षड्ऽविधा । यन्निमित्तं लक्षणमलम्व्यते सोऽर्थो यया बोध्यते सा व्यञ्जना। सा द्विविधा अभिधामूला लक्षणामूला च । शब्दार्थौ हि अर्थव्यञ्जकौ ।

व्यञ्जनविषयो ध्वनिः । स द्विविधोऽभिधामूलो लक्षणामूलश्च । लक्षणामूलो हि द्विविधोऽर्थान्तरसङ्क्रमितवाच्योऽत्यन्ततिरस्कृतवाच्यश्च । अभिधामूलो हि विवक्षितान्यपरवाच्यो ध्वनिः । स च अलक्ष्यक्रमलक्ष्यक्रमभेदाद् द्विविधः । आद्यो रसादिरपरो वस्त्वलङ्काररूपः । विभावानुभावव्यभिचारिभिः कार्यकारणसहकारिभूतैः व्यक्तः स्थायिभावो रसः । नाट्येऽष्टावेव रसाः शृङ्गाराद्याः । निर्वेदस्थायिभावात्मकः शान्तो नवमो रसः । अनौचित्यप्रवर्तिता रसाभासा भावाभासाश्च । संलक्ष्यक्रमव्यङ्ग्योऽनुरणनरूपध्वनिस्त्रिविधः शब्दार्थोभयशक्त्युत्थः । एवमेव गुणीभूतव्यङ्ग्यनिरूपणं, दोषविचारः, गुणविवेकः, शब्दालङ्कारविचारः, अर्थालङ्कारविवेकश्चेति ग्रन्थस्यास्य विवेचनीयविषयाः ।

टीकाः[सम्पादयतु]

ग्रन्थस्यास्य शताधिकाष्टीकाग्रन्थाः सन्ति । कथ्यते हि प्रतिदशकं काव्यप्रकाशस्य नवीना टीका प्रणीयते इति । अस्य हि माणिक्यचन्द्रेण १२१६ वैक्रमाब्दे वैशाखमासि प्रणीता सङ्केताख्या टीकाऽऽद्या । ततश्च सरस्वतीतीर्थस्य बालचित्तानुरजनी, (१२९८ वै०), भट्टसोमेश्वरस्य काव्यादर्शः, विश्वनाथस्य दर्पणः, परमानन्दभट्टाचार्यस्य विस्तारिका, श्रीवत्सलाञ्छनस्य सारबोधिनी, भीमसेनस्य सुधासागरः, गोविन्दस्य प्रदीपः, चण्डीदासस्य टीका रवेर्मधुमती टीका, वामनाचार्यकृता बालचित्तानुरञ्जनी (१८०४ वै०), भट्टगोपालस्य साहित्यचूडामणिः, गोकुलनाथस्य गोकुलनाथीया विवरणी, हरिशङ्करस्य नागेश्वरी, नेपालकशिवराजस्य हैमवती, मधुसूदनाचार्यस्य मधुसूदनी च प्रसिद्धाः केचने टीकाग्रन्थाः।

श्रीशेषराजशर्मरेग्मीमहाभागेनापि काव्यप्रकाशस्य गुणवती नाम्नी विवृतिः प्रणीताऽऽसीदिति तत्सम्बद्धे सङ्ग्रहे समुपलब्धहस्तलेखाज्ज्ञायते । विवृतिरियं विषयविमशिनी न तु प्रतिपदव्याख्या । यथोक्तं तत्र -

यः श्रीमम्मटभट्टविज्ञरचितः काव्यप्रकाशाभिधो,

ग्रन्थस्तस्य सुबोधिनी गुणवती श्रीशेषराजेन या।।

प्रारब्धा विवृतिर्बुधेन गुरुणा पूर्णेहलीलेन या,

पूषा क्रियतेऽत्र लोकमणिना तच्छिष्यसंज्ञार्थिना।।

ग्रन्थेऽस्मिन् बहवोऽर्थबोधनपराः प्राज्ञोत्तमैर्गुम्फिता-

टीकाः सन्ति परश्शता अपि तथा श्रीमद्गुरोराज्ञया।

व्याख्यैषेह वितन्यते न च मदान्न ज्ञानदर्पेण वा,

तद्विद्या निखिला स्फुरन्तु हृदये मे श्रीगुरोराशिषा।। इति ।

कारिकाकारः[सम्पादयतु]

यद्यपि ग्रन्थस्यास्य कारिकाभागस्य प्रणेतृविषये सम्प्रत्यपि विवादो विद्यत एव तथापि महत्त्वमेतस्य न तेन कदापि हीयते, अस्य कारिकाभागकारस्य विषयमवलम्ब्य त्रयः सम्प्रदायाः प्रचलिताः सन्ति । केचिदस्य कारिकाभागं भरतमुनिप्रणीत मन्यन्ते । तेषु हि प्रायो गौडीया विचक्षणाः सन्ति, येषु साहित्यकौमुदीकारो विद्याभूषणः आदर्शाख्यटीकाकारो महेश्वरश्च समुल्लेखनीयौ। ते हि मम्मटाल्लटौ वृत्तिकारावेव मन्यन्ते । अपरे तत्परिकरावधि कारिकावृत्तिभागौ मम्मटप्रणीतौ तदनन्तरभागश्चाल्लटप्रणीत इति कथयन्ति । तेषु हि काव्यप्रकाशनिदर्शनाऽऽख्यव्याख्याकृद् राजानक आनन्दो मुख्यः। इतरे तु समग्रस्यैव ग्रन्थस्य युग्मकतृत्वं मन्यन्ते । तेषु हि अमरुकशतकव्याख्याकृदर्जनवर्मदेवः, काव्यप्रकाशस्य सङ्केतटीकाकृद् रुचकश्चोल्लेखनीयौ।

विद्याभूषणो हि साहित्यकौमुदीकारः स्पष्टमेव काव्यप्रकाशस्य कारिकाभागस्य भरतप्रणीतत्वं वृत्तिभागस्य तु मम्मटाल्लटकर्तृत्वं कथयति । यथोक्तम् -

सूत्राणां भरतमुनीशवर्णितानां वृत्तीनां मितवपुषां कृतौ ममास्याम्।

लक्ष्याणां हरिगुणशालिनाञ्च सत्त्वात् कुर्वन्तु प्रगुणधियो बतावधानम्।।

स हि परिशिष्टात्मकत्वेन एकादशतमं परिच्छेदमपि पठति । एवमेव -

मम्मटाद्युक्तिमाश्रित्य मितां साहित्यौकमुदीम्।

वृत्तिं भरतसूत्राणां श्रीविद्याभूषणो व्यधात्।। इति ।

पुष्पिकावाक्यञ्च यथा -

इति श्रीभरतसूत्रवृत्तौ साहित्यकौमुद्यामर्थालङ्कारनिरूपणो नाम दशमः परिच्छेदः। इति।

साहित्यकौमुद्याः कृष्णानन्दिनी-व्याख्याकारोऽपि -

सद्भिः पद्यैः कारिका भारतीयैः शुद्धिं निन्ये तुच्छपद्यैरनच्छाः।

साहित्याम्भोजन्मसच्चञ्चरीकः सोऽयं विद्याभूषणोऽस्मान् पुनीताम्।।

काव्यरसास्वादनाय वह्निपुराणादिदृष्टां साहित्यप्रक्रियां भरतः सङ्क्षिप्ताभिः कारिकाभिः निबबन्ध । कारिकास्ता व्याचिख्यासुः वृत्तिकृन्मङ्गलमाचरति। इति।

एवमेव काव्यप्रकाशस्यादर्शटीकाकृन्महेश्वरोऽपि मन्यते । काव्यप्रकाशस्य कारिकावृत्तिभागभिन्नकर्तृत्ववादिनः स्वमतसमर्थनाय प्रायस्तिस्रो युक्तीः समुपस्थापयन्ति । कतिपया हि कारिका विशेषतो रससम्बद्धा भरतप्रणीतनाट्यशास्त्रे यथाविदुपलभ्यन्ते। यदि हि मम्मटः आसां प्रणेता तदा तेषामपि निबन्धनं स्वसम्पादितमेव स्यात्। एवमेव वृत्तिप्रारम्भवाक्ये परामृशति, इत्यत्रान्यपुरुषप्रयोगोऽपि तदेव समर्थयति । एवञ्च -

“तद्रूपकभेदो य उपमानोपमेययोः।

समस्तवस्तुविषयं श्रौता आरोपिता यदा।।”

इत्यस्य व्याख्याने 'बहुवचनमविवक्षितम्' इति वृत्तावुक्तम्। स्वप्रणीतत्वे तु तस्य कारिकासमालोचनस्य नैवावश्यकतोदेति इति च कारिकावृत्तिभागयोः भिन्नकर्तृकत्वं सिध्यतीति । तदननुमोदकास्तु तेषां मते न कमपि सारं पश्यन्ति । तदनुसारेण रसमम्बद्धानि त्रीणि सूत्राणि तु भरतमुनिरचितशास्त्रे समुपलभ्यन्ते किन्तु शेषाणां तत्रानुपलभ्यतयां न हि सर्वासामेव भरतकर्तृकत्वं सम्भवति। प्रथमपुरुषप्रयोगस्तु अनौद्धत्यप्रवर्तनाय तथा शिष्टाचार एव 'नागेशः कुरुते सुधीः' इत्यादाविव । यद्यपि 'बहुवचनमविवक्षितम्' इति कथितं तदापि न कारिकासमालोचनायापितु आरोप्यद्वयस्थलेनाव्याप्तिरिति प्रदर्शनायैवेति ।

किन्तु प्रत्यालोचनीयामपि न तथा पुष्टिदं तथ्यमुपतिष्ठते यतो भरतेन हि द्वादशसाहस्री संहिता प्रणीताऽऽसीदिति तु सर्वैः स्वीक्रियते एव । सम्प्रति षट्साहस्री एव समुपलभ्यते । तेन भरतशास्त्रे शेषसूत्राणामभाव इति तु निरर्थकमेव कथनम् । अपरतथ्येऽपि परामृशति इति तु अनौद्धत्यप्रदर्शनाय सर्वैरुपयुज्यत एव किन्तु तत्र प्रयुक्तो ‘ग्रन्थकृत्' शब्दः पूर्वपक्षमेवं पुष्णाति । अन्यत्र तथाप्रयोगादर्शनात् । ‘ग्रन्थकृत्परामृशति' इति तु व्यक्तमेव कारिकाभागस्य कर्ता पृथगेवेति सूचयति ।

अपरञ्च मम्मटाचार्यप्रणीतो हि शब्दव्यापारविचारो नाम ग्रन्थः समुपलभ्यते सम्प्रति । तत्र हि सप्त कारिकाः सन्ति यासु हि प्रथमपञ्चमषष्ठसप्तमकारिकाः काव्यप्रकाशगतसम्बद्धकारिकाभिः सह नैव संवदन्ते केवलं द्वितीयतृतीयचतुर्थ एव संवदन्ते। यदि उभयोरेव ग्रन्थयोः समानग्रन्थकारकर्तृत्वं स्यात्तदा समाने हि विषये कारिकाग्रथनवैषम्यं नैव सम्भवेत् । तेन काव्यप्रकाशकारिकायाः मम्मटकर्तृत्वं नैव निर्विवादम् । असिद्धेऽपि भरतकतृत्वेऽज्ञातकर्तृकत्वं कार्यं सम्भवेत् किन्तु मम्मटकर्तृकत्वं तु चिन्त्यमेव प्रतिभाति । यच्च 'माला तु पूर्ववत्' इत्युक्तं मालोपमा तु वृत्तावेवोक्तमिति च यदुक्तं तदपि न तथा ससारं यतो हि एतावत्य एव कारिका इति तु न कुत्रापि ज्ञाता राजाज्ञा । सम्भवति वृत्तिकर्त्रा मालोपमाविवेचककारिकोपेक्षिता वा स्वयमेव कालविपाकेन प्रणष्टाऽपि स्यात् । यदि तथा सिध्यति, तर्हि तु स्पष्टमेव कारिकाभागस्यान्यकर्तृकत्वं सिध्यति । विषयेऽस्मिन् गौडीयविचक्षणानां चिन्तनं न तथा निस्सारं यथा चिन्त्यते ।

कारिकाभागस्य मम्मटकर्तृकत्वे मतेऽपि तत्र द्वे सम्मती दृश्येते । प्रथमा च परिकरावधिग्रन्थभागो मम्मटप्रणीतस्तदनन्तरभागस्तु अल्लटप्रणीत इति। द्वितीयस्तु समग्रस्यैव ग्रन्थस्य युग्मकर्तृकत्वं मन्यते । काव्यप्रकाशनिदर्शनाकार आनन्दः कथयति -

'कृतः श्रीमम्मटाचार्यवर्यैः परिकरावधिः।

ग्रन्थसम्पूरितः शेषं विधायाल्लटसुरिणा॥' इति।

स एवदेमपि कथयति, अन्येनाप्युक्तम् -

काव्यप्रकाशदशकेऽपि निबन्धकृभ्यां द्वाभ्यां कृतेऽपि कृतिना रसवत्वलाभः । इति ।

तथ्यमिदं वृत्तिपुष्पिकावाक्येऽपि कथितमेव -

'इत्येषः मार्गों विदुषां विभिन्नोऽप्यभिन्नरूपः प्रतिभासते यत्।

न तद्विचित्रं यदमुत्र सम्यग्विनिर्मिता सङ्घटनैव हेतुः।।' इति ।

अत्र माणिक्यचन्द्रः काव्यप्रकाशस्याद्यव्याख्याता यथा - 'नानाग्रन्थगतत्वेन पार्थक्येन स्थितोऽपि यदेकरूपो भाति तत्र सङ्घटना विसंस्थुलस्य बोधायैकत्र सङ्ग्रहणं हेतुः । ग्रन्थाः सर्वेऽप्यत्रान्तर्भाविता इत्यर्थः । अथ चाऽयं ग्रन्थोऽन्येन आरब्धोऽपरेण च समर्थित इति द्विखण्डोऽपि सङ्घटनावशादखण्डायते । सुघटं ह्यलक्ष्यसन्धिः स्यादित्यर्थः । इति । अर्जनवर्मदेवस्तु अमरुकस्य ‘भवतु विदितं' ••••••• इति पद्ये 'प्रकृतितरले का न पीडा गते हतजीविते' इत्यत्र 'मम्मटाल्लटाभ्यां यथोदाहृतं दोषनिर्णये' इत्युक्त्वा काव्यप्रकाशस्य समग्रस्यैव युग्मकर्तृकत्वं मन्यते।

"https://sa.wikipedia.org/w/index.php?title=काव्यप्रकाशः&oldid=438543" इत्यस्माद् पुनः प्राप्तिः