अभिनवगुप्तः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search
अभिनवगुप्तः
Abhinavagupta
जन्मतिथिः ई. ९५०
जन्मस्थानम् काश्मीरम्, भारतम्
पूर्वाश्रमनाम शङ्करः
मृत्युतिथिः ई. १०२०
मृत्युस्थानम् मङ्गम्, काश्मीरम्, भारतम्
गुरुः/गुरवः शम्भुनाथः, लक्ष्मश्णगुप्तः, भूतिराजः।
तत्त्वचिन्तनम् काश्मीरिशैवदर्शनम्
सम्मानाः काश्मीरिशैवदर्शनस्य वैध्यध्यपूर्णव्याख्याता
http://www.abhinavagupta.net/

अभिनवगुप्तः ( /ˈəbhɪnəvəɡʊptəh/) (हिन्दी: अभिनव गुप्त, आङ्ग्ल: Abhinavagupta) (ई. ९५० – १०२० [१][२]) काश्मीरी[३] दार्शनिकः, रहस्यवादी, सौन्दर्यवेत्ता च । तस्य गणना सङ्गीतज्ञ-कवि-नाट्यकार-पाण्डुलिपिज्ञ-वेदान्तज्ञ-तर्कवित्त्वेन अपि भवति [४][५] । तस्य बहुज्ञव्यक्तित्वधनेः प्रभावः भारतीयसंस्कृतौ प्रत्यक्षः अस्ति [६][७] । काश्मीरस्य [८] महाकवेः गृहे प्राप्तजन्मः अभिनवगुप्तः अनेकविद्यापीठेभ्यः दर्शनस्य, कलायाः च ज्ञानं प्राप्तवान् । दर्शनकलयोः ज्ञानप्राप्त्यै तेन पञ्चदश उत अधिकानां शिक्षकाणां, गुरूणां च मार्गदर्शनं प्राप्तम् [९] । तस्य रचनासु पञ्चत्रिंशद् मुख्यरचनाः प्रसिद्धाः सन्ति । तासु सर्वासु रचनासु प्रसिद्धतमा रचना तन्त्रालोकः इति । त्रिक-कौला-आचारयोः सर्वेषां दार्शनिक-व्यावहारिक-पक्षाणां तस्मिन् ग्रन्थे सङ्कलनम् अस्ति । तन्त्रालोक-ग्रन्थ एव काश्मीरिशैवदर्शनम् इति प्रसिद्धः । तन्त्रालोकग्रन्थवदेव प्रसिद्धतमा तस्य अपरा कृतिः सौन्दर्यशास्त्रसम्बद्धा । तस्याः कृतेः नाम 'अभिनवभारती' इति । अभिनवभारती इति भरतमुनेः नाट्यशास्त्रस्य व्याख्याग्रन्थः । अभिनवगुप्तस्य विचाराः बौद्धमतप्रभाविताः आसन् [१०]

माध्वाचार्यप्रणिते 'शङ्करदिग्विजयः' इत्याख्ये ग्रन्थे उल्लिखितं यत्, शाक्तभाष्यकारेण अनिभवगुप्ताख्येन विदुषा सह शङ्कराचार्यस्य शास्त्रार्थः जातः आसीत्, तस्मिन् शास्त्रार्थे आदिशङ्कराचार्याद् अभिनवगुप्तः पराजितः इति । सः शाक्तमतानुयायी अभिनवगुप्तः आचार्याभिनुगुप्ताद् भिन्नः मन्यते [११] । यतो हि सः अभिनवगुप्तः कामरूपस्य (असमराज्यस्य) निवासी आसीत् । तन्त्रालोकस्य रचयिता आचार्याभिनवगुप्तः तु काश्मीरनिवासी शैवः आसीत् ।

जन्म, परिवारश्च[सम्पादयतु]

अभिनवगुप्तस्य पितुः नाम नृसिंहगुप्तः, मातुः नाम विमला च । तयोः त्रीणि अपत्यानि आसन् । तेषु ज्येष्ठः अभिनवगुप्तः । अभिनगुप्तस्य भ्रातुः नाम मनोरथः, भगिन्याश्च नाम अम्बा इति । अभिनवगुप्तस्य माता विमला 'विमलकला' इत्यपि प्रसिद्धा । यतो हि अभिनवगुप्तः स्वरचनासु विमलकला इति नामोल्लेखम् अकरोत् । विमलकला काचित् योगिनी आसीत् । अतः तस्याः पुत्रः अभिनवगुप्तः 'योगिनीभूः' इति प्रसिद्धः । नृसिंहगुप्तस्य अपरं नाम 'चुलुलकः' इति आसीत् । अभिनवगुप्तस्य पितृव्यस्य नाम वामनगुप्तः आसीत् । अभिनवभारत्याख्ये ग्रन्थे वामनगुप्तेन रचितैः श्लोकैः सह अभिनवगुप्तः स्वपितृव्यस्य नामोल्लेखम् अकोरत् । वामनगुप्तस्य पञ्च पुत्राः आसन् । तेषां नामानि क्रमेण क्षेमः, उत्पलः, अभिनवः, चक्रकः, पद्मगुप्तश्च [१] । अभिनवगुप्तः स्वयम् अविवाहितः आसीत् ।

शिक्षणं, गुरुवश्च[सम्पादयतु]

परिवारे एव विदुषाम् उपस्थितित्वाद् अभिनवगुप्तः बाल्यकाले पाठशालां न गतवान् । सः स्वपरिवारसदस्येभ्यः एव ज्ञानार्जनम् अकरोत् । अभिनवगुप्तस्य पिता नृसिंहगुप्तः संस्कृतव्याकरणस्य, तर्कशास्त्रस्य विद्वान् आसीत् । पितृव्यः वामनगुप्तः काव्यशास्त्रस्य विद्वान् च । अतः ताभ्यामेव अभिनवगुप्तः ज्ञानार्जनम् अकरोत् । परन्तु युवावस्थायां प्राप्तातां सत्याम् अभिनवगुप्तस्य ज्ञानापिपासा प्रचण्डा अभवत् । शैवधर्मस्य दृष्टिकोणं, परम्परां च ज्ञातुं, यः गुरुः स्वयं शैवशास्त्रीयपरम्परायां प्रशिक्षितः स्यात्, तादृशस्य गुरोः सः आवश्यकताम् अन्वभवत् । अभिनवगुप्तस्य गुरुषु प्रप्रथमगुरुः लक्ष्मणगुप्तः अभवत् । सः प्रत्यभिज्ञायाः, क्रमदर्शनस्य, त्रिकदर्शनस्य च ज्ञाता आसीत् । लक्ष्मगुप्तस्य पिता उत्पलाचार्यः सोमानन्दस्य शिष्यः आसीत् । उत्पलाचार्यादेव ज्ञानार्जनं कृत्वा लक्ष्मणगुप्तः पितरमेव गुरुत्वेन प्रास्थापयत् ।

आचार्यः अभिनवगुप्तः स्वग्रन्थेषु विभिन्नगुरूणां स्मरणं श्रद्धया करोति । तस्य गुरुषु प्रसिद्धानां नामानि सन्ति, यथा –

१. नृसिंहगुप्तः (व्याकरणशास्त्रज्ञः), २. वोमनाथः (द्वैताद्वैततन्त्रज्ञः), ३. भूतिराजतनयः (द्वैतवादी शैवसम्प्रदायज्ञः), ४. लक्ष्मणगुप्तः (प्रतिभिज्ञा-क्रम-त्रिक-दर्शनज्ञः), ५. भट्टेन्दुराजः (ध्वनिसिद्धान्तज्ञः, काव्यशास्त्रज्ञः), ६. भूतिराजः (ब्रह्मविद्याज्ञः), ७. भट्टतौतः (नाट्यशास्त्रज्ञः)

अभिनुगुप्तस्य नाट्यशास्त्रस्य गुरुः भट्टतौतः "काव्यकौतकम्" इत्याख्यं ग्रन्थम् अरचयद् इति लोचनटीकायाम् अभिनवगुप्तः उल्लिखति [१२] [१३] । तस्मिन् काव्यकौतके अभिनवगुप्तः 'विवरणम्' अपि अलिखत् [१४] । अभिनवभारत्याः अन्तिमे अभिनवगुप्तः कथयति यद्

द्विजवरतोतनिरूपितसन्ध्यध्यायार्थतत्त्वघटनेयम् ।

अभिनवगुप्तेन कृता शिवचरणाम्भोजमधुपेन ।।

भट्टेन्दुराजविषये उल्लेखनीयम्[सम्पादयतु]

भट्टेन्दुराजः अभिनवगुप्तस्य काव्यशास्त्रस्य गुरुः आसीत् । सम्भवतः आचार्यम् अभिनवगुप्तं भट्टेन्दुरेव धन्वन्यालोकम् अपाठयत् । स्वस्य पुस्तकेषु अभिनवगुप्तः भट्टेन्दोः उद्धरणम् अनेकवारम् अयच्छत् । धन्वन्यालोकस्य "लोचनम्" इत्याख्यायाः टीकायाः आरम्भे अभिनवगुप्तः भट्टेन्दुं नमस्करोति [१५] । 'लोचनम्' इत्याख्यायां टीकायाम् अभिनवगुप्तः बहुत्र 'ध्वनिरत्र श्लोकऽस्मद्गुरुभिर्व्याख्यातः', 'इत्याशयोऽत्र ग्रन्थेऽस्मद्गुरुभिर्निरूपितः', 'अस्मद्गुरवस्त्वाहुः' इत्यादीनां वाक्यानाम् उपयोगम् अकरोत् । एतादृशैः वाक्यैः विद्वांसः अनुमन्यन्ते यद्, अभिनवगुप्तस्य गुरुणा भट्टेन्दुनाऽपि ध्वन्यालोकस्योपरि काचित् टीका लिखिता स्यादिति । बूह्लर् (Georg Bühler) इत्याख्यस्य काश्मीराभिलेखे उल्लेखः अस्ति यद्, भट्टेन्दोः विषये अभिनवगुप्तेन स्वग्रन्थे (श्रीमद्भगवद्गीतायाः टीकायां) उल्लेखः कृतः अस्ति [१६] इति । श्रीमद्भगवद्गीतायाः टीकायाम् उल्लेखः अस्ति यत्, भट्टेन्दुः कात्यायनगोत्रोत्पन्नः आसीत् । सः सौचुकस्य प्रपौत्रः, भूतिराजस्य च पुत्रः आसीदिति [१७] [१८]

केचन विद्वांसः उद्भटस्य व्याख्यातुः प्रतीहारेन्दुराजस्य, अभिनुगुप्तगुरोः भट्टेन्दुराजस्य च एकत्वं पश्यन्ति । परन्तु महामहोपाध्यायः काणे-महोदयः उक्तम् एकत्वम् खण्डयति । सः स्वग्रन्थे उपस्थापयति यत्, प्रतीहारेन्दुराजः ध्वनिसिद्धान्तं न स्वीकरोति । प्रत्युत भट्टेन्दुराजः ध्वनिसिद्धान्तस्य व्याख्यातृत्वेन अभिनवगुप्तस्य "लोचनम्" इत्याख्यायां टीकायाम् उल्लिखितः । अभिनवगुप्तः कुत्रापि स्वगुरोः कृते 'प्रतीहार' इत्यस्य शब्दस्य उपाधित्वेन उपयोगं नाकरोत् । प्रतीहारेन्दुराजस्य गुरुः मुकूलः (अभिधावृत्तिमातृकायाः रचयिता) आसीत् । अभिनवगुप्तः प्रगुरुत्वेन उत्पलदेवस्य उल्लेखम् अकरोत्, न तु मुकूलस्य । 'अभिनवभारत्याम्' अभिनवगुप्तः भट्टेन्दुराजं वाल्मीकिः, व्यासः, कालिदासः इत्यादीनां समकक्षं परिगणयति [१९]

प्रतीहारेन्दुराजः स्वटीकायाम् एकं श्लोकम् अपि न लिखित्वान् । लोचनटीकायां तु बहुत्र भट्टेन्दुराजस्य उल्लेखं करोति । अनने काणे-महोदयः वदति यत्, प्रतीहारेन्दुराजः केवलम् आलोचकः आसीत्, न तु कविः इति [२०]

गुरुपरम्परा[सम्पादयतु]

अभिनवगुप्तः न केवलं वसुगुप्तस्य विषये जानाति स्म, अपि तु तेन लिखितानां ग्रन्थानां गूढाध्ययनम् अपि करोति स्म । वास्तव्येन अभिनवगुप्तः वसुगुप्तस्य एव शिष्यपरम्परायाम् आसीत् । वसुगुप्तस्य शिष्येषु द्वे प्रमुखे धारे स्तः । प्रथमा तु प्रद्युम्नाद् आरभते । अपरा च सोमानन्दाद् प्रारभते । प्रद्युम्नस्य पुत्रः प्रज्ञाराजः स्वपितरं गुरुत्वेन अस्थापयत् । तस्यां शिष्य-परम्परायां प्रमुखेषु शिष्येषु भास्करस्य, अभिनवगुप्तस्य च गणना भवति । सोमानन्दाद् आरब्धायां शिष्यपरम्परायां सोमानन्दस्य प्रसिद्धः शिष्यः उत्पलाचार्यः मन्यते । तस्य उत्पलाचार्यस्य पुत्रः लक्ष्मणगुप्त एव अभिनवगुप्तस्य प्रप्रथमः गुरुः अभवत् । एवं वसुगुप्तस्य उभयोः परम्परयोः सङ्गमः अभिनवगुप्ते भवति स्म ।

जीवनम्[सम्पादयतु]

अभिनवगुप्त इत्यस्य शब्दस्य अर्थः क्षमता, आधिकारिकता च । एतद् तस्य न वास्तविकनाम । एतद् तु तस्य गुरुणा प्रदत्तं नामाभिधानम् [२१] [२२][२३] [२४] । जयरथः (११५०-१२०० ई.) अपि स्वस्य संशोधने 'अभिनव' इत्यस्य शब्दस्य त्रीन् अर्थान् उदलिखद् यद्, अभिनवः अर्थात् 'यः सर्वदा संशोधनशीलः भवति', 'यः सर्वत्र विद्यमानो भवति', 'यः प्रसंशाभ्यः सुरक्षितश्च भवति' इति [२५] । रन्येरो नोली-(Raniero Gnoli)नामकः इटली-देशीयः संस्कृतविद्वान्, येन अभिनवगुप्तरचितस्य तन्त्रालोकग्रन्थस्य युरोपीयन्-भाषायाम् अनुवादं कृतं, तेन अभिनव-शब्दस्य अर्थः 'नवीनः' इति उल्लिखितः । तस्य सन्दर्भः आसीद् यत्, सर्वदा स्वरहस्यात्मकानुभवैः नवीनरचनाशक्तियुक्तः इति अभिनवः [२६] इति ।

जयरथस्य शक्तिपातः इत्याख्ये ग्रन्थे उल्लेखः प्राप्यते यत्, यः शक्तिपाताय योग्यः भवति, स एव अभिनवः इति ।

शैवदर्शनपुनरोदयस्य लोककथा[सम्पादयतु]

काश्मीरे शैवदर्शनस्य पुनरोदयसम्बद्धा काचित् कथा प्रचलिता वर्तते । कलियुगे शैवदर्शनस्य लोपे जाते सति आगमग्रन्थज्ञां सर्वथा अभावः अभवत् । ज्ञानविज्ञानधर्मदर्शनदृष्ट्या अन्धकारयुगस्य आरम्भः अभवत् । तस्मिन् समये सदाशिवः लोकोपयोगिदर्शनस्य पुनराम्भाय उचितं समयं दृष्ट्वा कैलासे श्रीकण्ठस्य रूपे प्राकटयत् । तस्मिन् स्वरूपे सदाशिवः दुर्वासर्षये शिवसन्देशस्य प्रचाराय दायित्वम् अयच्छत् । दुर्वासर्षिः स्वतपोबलेन त्रीन् मानसपुत्रान् उदपादयत् । दुर्वासर्षिः स्वयं तेभ्यः शिवसूत्राणां ज्ञानं दत्त्वा भारतवर्षे शैवदर्शनस्य पुनर्स्थापनायै आदिशत् । दुर्वासर्षिणा ते मानसपुत्राः त्र्यायामिनः शिवदर्शनस्य प्राचाराय आदिष्टाः आसन् । ते आयामाः क्रमेण भेदः, अभेदः, भेदाभेदः इति । दुर्वासर्षेः त्रयाणां मानसपुत्राणां नामानि त्र्यम्बकः, अमर्दकः, श्रीनाथश्च । दुर्वासर्षिः त्र्यम्बकाय भेदम्, अमर्दकाय अभेदं, श्रीनाथाय च भेदाभेदम् अपाठयत् ।

भेदः अर्थाद्, शिवः, जीवश्च भिन्नौ स्तः इति । स एव भेदः 'द्वैतवादः' इत्यपि प्रसिद्धः । अभेदस्य अर्थः भवति यद्, शिवः, ब्रह्म, जीवः च एकतत्त्वमेवास्ति । जीवः शिवस्वरूपी एवास्ति, सः शिवः सर्वदा जीवे विद्यमानः भवति इति । भेदाभेदः इत्युक्ते यस्मिन् ब्रह्म, जीवश्च कदाचित् भिन्नौ, कदाचित् एकतत्त्वं मन्येते । अभेदस्य कालान्तरे 'त्रिकदर्शनम्' इति प्रसिद्धिः अभवत् । दुर्वासर्षेः ते त्रयः शिष्याः अपि स्वमानसपुत्राणां माध्यमेन शिवदर्शनस्य ज्ञानं वंशानुक्रमेण अग्रिमाय वंशाय अयच्छन् । एवं पञ्चदशमं वंशानुक्रममं यावद् एषा मानसपुत्रेभ्यः शिवदर्शनदानस्य परम्परा अनवरुद्धा अचलद् । परन्तु पञ्चदशमे क्रमे समुत्पन्नः कश्चन मानसपुत्रः एतां परम्पराम् अभङ्गयत् । सः नियममोल्लङ्घ्य कयाचिद् ब्राह्मणकन्यया सह विवाहम् अकरोत् । तयोः सङ्गमेन सङ्गमादित्याख्यः पुत्रः समुत्पन्नः । यद्यपि सङ्गमादित्यः स्वपरम्पराभङ्गोत्तरं ब्राह्मणकन्यायाः गर्भाद् समुत्पन्नः, तथापि तेन शैवदर्शनस्य मूलदायित्वस्य त्यागः न कृतः । परन्तु यस्याः परम्परायाः आरम्भः दुर्वासर्षिणा कृतः आसीत्, तस्यां परम्परायां तस्य जन्म न जातम् । अतः सः सङ्गमादित्यः शैवदर्शनस्य शिक्षायाः केन्द्रेषु ज्ञानार्जनाय परिव्राजकवद् इतस्ततः अटन् आसीत् । तस्यां यायावर्यां शैवदर्शनजिज्ञासायां सः शारदाक्षेत्रं (काश्मीरं) सम्प्राप्तः । ज्ञानार्जनाय अनुकूलं स्थलं मत्वा सङ्गमादित्यः तत्रैव न्यवसत् । सङ्गमादित्यस्य पुत्रः अरुणादित्यः, अरुणादित्यस्य पुत्रः सोमानन्दः । सोमानन्दः प्रतिभावान् आसीत् । शैवदर्शनं प्रति तस्य जिज्ञासायां सत्यां वसुगुप्तेन सह सङ्गमादित्यस्य सम्पर्कः अभवत् ।

शिवसूत्रस्य अवतरणम्[सम्पादयतु]

काश्मीरे शैवदर्शनस्य पुनःस्थापनायाः श्रेयसः अधिकारी वसुगुप्तः मन्यते । तस्य विषयेऽपि किंवदन्ती अस्ति यद्, वसुगुप्तस्य असाधारणप्रतिभां दृष्ट्वा साक्षाच्छिवः शिवसूत्रस्य ज्ञानं तस्मै अयच्छदिति । कस्याञ्चित् रात्रौ यदा वसुगुप्तः प्रघाढनिद्रायाम् आसीद्, तदा सदाशिवः तस्य स्वप्नं गत्वा अकथयद् यद्, त्वं वास्तविकज्ञानस्य पुनर्प्रकाशं कुरु । प्रातःकाले महादेवपर्वतस्य तलं गत्वा काञ्चन विशेषशिलां स्थानन्तरितां कृत्वा तस्याः शिलायाः अधः स्थितं दैवीयज्ञानं लभस्व इति । शिवादेशानुसारं वसुगुप्तः तं स्थानं गत्वा अपश्यत् । तत्र नद्याः तीरे तां शिलां सः प्राप्नोत् । तां शिलां यदा वसुगुप्तः अस्पृशत्, तदा स्पर्शस्य समनन्तरमेव शिला स्वस्थानाद् स्वतः अचलत् । तस्याः शिलायाः अधः वसुगुप्तः शिवरचितां दिव्यां रचनाम् अपश्यत् । सा रचना एव शिवसूत्रम् । वसुगुप्तः तस्य ज्ञानस्य साधनां कृत्वा तज्ज्ञानम् आत्मसादकरोत् । ततः सः तज्ज्ञानं स्वशिष्येभ्यः अपि अयच्छत् । तज्ज्ञानम् एतावद् गूढम् आसीद् यद्, केवलं प्राप्ततावन्तेभ्यः शिष्येभ्यः एव दातुं शिवाज्ञा आसीत् । ततः एव काश्मीरप्रदेशे शिवदर्शनस्य पुनरोद्धारः अभवद् इति मन्यते ।

वसुगुप्तः एव शैवदर्शनस्य महत्त्वपूर्णसिद्धान्तस्य "स्पन्दशास्त्रस्य" जनकत्वेन अङ्गीक्रियते । परन्तु तस्य शिष्यः सोमानन्दः अपि तस्य सिद्धान्तस्य सम्बन्धे मुख्यभूमिकां वहति । सोमानन्देनापि शिवदृष्टिः, ईश्वरप्रत्यभिज्ञासूत्रम् इत्यादिग्रन्थाः लिखाताः । ईश्वरप्रत्यभिज्ञासूत्रस्य अभिनवगुप्तेन विशदव्याख्या कृता अस्ति । वसुगुप्तस्य स्पन्दशास्त्रे तस्य अनेकैः छात्रैः विस्तृता व्याख्या लिखिता अस्ति । तेषु सोमानन्दः, कल्लटभट्टः, उत्पलदेवः इत्यादयः प्रसिद्धाः सन्ति ।

लिलितादित्यः, अत्रिगुप्तश्च[सम्पादयतु]

सङ्गमानन्दः यदा काश्मीरं न प्रविष्टः आसीत्, तस्मापद् पूर्वं काश्मीरे काचित् महत्त्वपूर्णा घटना अभवत् । अष्टमशताब्द्यां काश्मीरे ललितादित्याख्यः (७२५-७६१) (ललितादित्यमुक्तापीडः) मेधावी राजा दिग्विजयार्थं निर्गतः आसीत् । स्वदिग्विजयाभियाने तेन कन्नौज-प्रदेशः स्वाधीनः कृतः । तस्य युद्धवर्णनं राजतरङ्गिण्यां प्राप्यते । कन्नौजप्रदेशस्य पराजितः राजा यशोवर्मा (७३०-७४०) [२७] ललितादित्यस्य सम्मुखं सुवर्णमुद्राः, धनवैभवं च उपहारत्वेन अस्थापयत् । तदा विक्रमादित्यः कन्नौराजस्य सम्मुखं विचित्रं प्रस्तावम् उदघोषत् । सः कन्नौजस्थान् विदुषः अयाचत् [२८][२९]। विक्रमादित्यस्य याचनानुसारं कन्नौजप्रदेशस्य राज्ञः राजसभायाः सर्वेऽपि विद्वांसः काश्मीरस्थाः अभूवन् । तेषु विद्वत्सु कश्चन शैवाचार्यः अपि आसीत् । तस्य नाम अत्रिगुप्तः इति । अत्रगुप्तः मूलतः गङ्गायमुनयोः मध्ये स्थितस्य "अन्तर्वेदि"-नामकस्य क्षेत्रस्य निवासी आसीत् [३०] । परन्तु स्वज्ञानौत्कृष्टतायाः कारणने कन्नौजराजस्य राजसभायाम् आसीत् । ललितादित्यः आगतेभ्यः विद्वद्भ्यः कुबेरस्य अल्कानगरीवत् सुन्दर्यां श्रीनगर्यां शीतांशुमौलिमन्दिरस्य समीपे भव्यभवनस्य स्थापनाम् अकरोत् । तस्मिन् भवने आश्रमं स्थापयितुम् अत्रिगुप्ताय न्यवेदयच्च ।

यद्यपि लिलितादित्यः स्वयं भागवतः आसीत्, अर्थात् वैष्णवः आसीत्, तथापि तेन कन्नौजप्रदेशाद् शैवदर्शनाचार्यस्य याचना कृता इति विचित्रः संयोगः प्रतीयते । सः संयोगः एव अमुकदशकोत्तरं क्रान्तेः स्वरूपम् अधरत । श्रीनगरस्थे शीतांशुमौलिमन्दिरस्य समीपस्थे आश्रमे अत्रिगुप्तस्य, सङ्गमानन्दस्य च अनेके वंशजाः न केवलं शैवसिद्धान्तस्य अध्यन्ते रताः आसन्, अपि तु तेषु बहवः कला-व्याकरण-नाट्य-रसशास्त्र-सङ्गीतादिषु विषयेषु अपि लब्धकीर्तयः आसन् । अत्रिगुप्तसङ्गमानन्दयोः अनेके असाधारणाः शिष्याः, मर्मज्ञाः, विद्वासश्च अभूवन् । कालान्तरे सङ्गमानन्दस्य प्रपौत्रः सोमानन्दः, अत्रगुप्तस्य वंशे समुत्पन्नः अभिनवगुप्तश्च काश्मीरे शैवदर्शनस्य कृते नवीनं कीर्तिस्तम्भम् अस्थापयेताम् ।

'लोचनम्' टीका[सम्पादयतु]

धन्वन्यालोकग्रन्थस्य उपरि कृता अभिनवगुप्तस्य टीका 'लोचनम्' इति प्रसिद्धा । परन्तु विभन्नासु पाण्डुलिपिषु 'सहृदयालोकलोचनम्', 'काव्यालोकलोचनम्' इत्यपि प्राप्यते । परवर्तिनः ग्रन्थकाराः आचार्यस्य अभिनवगुप्तस्य स्मरणकाले 'लोचनकारः' इति सम्बोधयन्ति । ध्वन्यालोकग्रन्थे कृता 'लोचनम्' इत्याख्यायाः स्वटीकायाः नामसार्थक्यविषये अभिनवगुप्तः वदति यद्,

किं लोचनं विनाऽऽलोको भाति चन्द्रिकयोऽपि हि ।

तेनाभिनवगुप्तोऽत्र लोचनोन्मीलनं व्यघात् ।। [३१] [३२]

ध्वन्यालोकग्रन्थस्योपरि लोचनटीकायाः प्राक् 'चन्द्रिका' इत्याख्या टीका अपि अस्ति । चन्द्रिकाकारः लोचनटीकायां बहुत्र सन्दर्भितः अभिनवगुप्तेन [३३] । उक्ते श्लोकेऽपि सन्दर्भः दरीदृश्यते । चन्द्रिकाकारः अभिनवगुप्तस्य कश्चन सम्बन्धी एव आसीत् इति आममन्ते विद्वासः । किञ्च अभिनवगुप्तः अनेकेषु स्थलेषु "इत्यलं पूर्ववंश्यैः सह विवादेन" इति चन्द्रिकाकारस्य आचोलनाम् अकरोत् ।

'व्यक्तिविवेकस्य' रचयिता महिमभट्टः 'चन्द्रिका'कारस्य व्याख्याम् अकरोत् [३४] । एवं चन्द्रिकाटीकायाः रचना ९००-९५० कैस्ताब्दे अभवद् इति अनुमीयन्ते [३५]

मृत्युः[सम्पादयतु]

अभिनगुप्तस्य जन्म उत मृत्योः विषये सन्दर्भानां न्यूनता अस्ति । किंवदन्त्यनुसारम् उत ग्रन्थान्तरोल्लेखेन एव तस्य मृत्योः विषये अनुमानं भवति । अभिनवगुप्तस्य मृत्योः विषये कथा प्रचलिता अस्ति यद्, अभिनवगुप्तः सशिष्यः भैरवस्तोत्रस्य पाठं कुर्वन् काञ्चन कन्दरां प्रविष्टः । यदा सः कन्दरां प्रविष्टः, तदा या तिथिः आसीत्, सा उपलभ्यते । 'वसु-रसपौषे कृष्णदशम्याम्' अर्थात् अष्टषष्टितमस्य संवत्सरस्य (विक्रमसंवत्सरः न अपि सप्तर्षिसंवत्सरः मन्यते), पौष-मासस्य, कृष्णपक्षस्य, दशमी तिथिः इति । एनां तिथिं क्रैस्ताब्दानुगुणं परिवर्तयामः चेत्, १०१६ वर्षः भवति । भैरवस्तोत्रस्य रचनायाः काले अभिनवगुप्तः गुहां प्रविष्टः ततः तस्य निर्वाणं मन्यते । अतः ई. १०१६ एव तस्य निर्वाणवर्षः मन्यते ।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

उद्धरणम्[सम्पादयतु]

  1. Triadic Heart of Shiva, Paul E. Muller-Ortega, page 12
  2. Introduction to the Tantrāloka, Navjivan Rastogi, page 27
  3. "Abhinavagupta – the Philosopher". 
  4. Re-accessing Abhinavagupta, Navjivan Rastogi, page 4
  5. Key to the Vedas, Nathalia Mikhailova, page 169
  6. The Pratyabhijñā Philosophy, Ganesh Vasudeo Tagare, page 12
  7. Companion to Tantra, S.C. Banerji, page 89
  8. Doctrine of Divine Recognition, K. C. Pandey, page V
  9. Introduction to the Tantrāloka, Navjivan Rastogi, page 35
  10. Andre Padoux. Vac: The Concept of the Word In Selected Hindu Tantras. SUNY Press, 1990. page 180 "One knows that the thought of such authors as Abhinavagupta was strongly influenced by Buddhist logic."
  11. तदनन्तरेष कामरूपानधिगत्वाभिनवोपशब्दगुप्तम् ।
    अजयत् किल शाक्तभाष्यकारं स च भग्नो मनसेदमाललोचे ।। शङ्करदिग्विजयः, १५, १५८
  12. ध्वन्यालोकस्य लोचनटीका, उद्योतः ३, श्लो. २६
  13. नायकस्य कवेः कर्तुः समानोऽनुभस्ततः, ध्वन्यालोकः, आचार्यजगन्नाथपाठकः, पृ. ९२
  14. स चायमस्मदुपाध्यायभट्टतौतेन काव्यकौतुके, अस्माभिश्च तद्वविवरणे बहुतरकृतनिर्णयपूर्वपत्रसिद्धान्त इत्यलं बहुना । ध्वन्यालोकः, आचार्यजगन्नाथपाठकः, पृ. ४३४
  15. भट्टेन्दुराजचरणाब्जकृताधिवासहृद्यश्रुतोऽभिनवगुप्तपदाभिधोऽहम् ।
    यत्किञ्चिदप्यनुरणन्स्फुटयामि काव्यालोकं स्वलोचननियोजनया जनस्य ।।
  16. http://history.world-citizenship.org/baharistan-i-shahi
  17. आचार्यप्रशस्तिः श्रीमान् कात्यायनोऽभूद्वररुचिसदृशः प्रस्फुरद्बोधतृप्तस्तद्वंशालंकृतो यः स्थिरमतिरभवत् सौशुकाख्योऽतिविद्वान्। विप्रः श्रीभूतिराजस्तदनु समभवत् तस्य सूनुर्महात्मा येनामी सर्वलोकास्तमसि निपतिताः प्रोद्धृतता भानुनेव।।१।।
  18. http://www.gitasupersite.iitk.ac.in/dv/bhagavadgita/18.76
  19. अभिनवभारती, भागः २, पृ. २९३
  20. ध्वन्यालोकः, आचार्यजगन्नाथपाठकः, चौखम्बा विद्याभवन
  21. अभिनवगुप्तस्य कृतिः सेयं यस्योदिता गुरुभिराख्या, तन्त्रालोकः, १,१५०
  22. Introduction to the Tantrāloka, Navjivan Rastogi, page 20
  23. The Krama Tantricism of Kashmir; Navjivan Rastogi, page 157
  24. लोचनम् इत्यस्याः टीकायाः प्रारम्भे उक्तम् अभिनवगुप्तेन यत्, "अभिनवगुप्तपदाभिधोऽहम्" इति
  25. The Kula Ritual, As Elaborated in Chapter 29 of the Tantrāloka, Abhinavagupta; John R. Dupuche, page 4
  26. Luce dei Tantra, Tantrāloka, Abhinavagupta, Raniero Gnoli, 1999, page 3
  27. Triadic Mysticism, Paul E. Murphy, page 12
  28. Introduction to the Tantrāloka, Navjivan Rastogi, page 28
  29. The Kula Ritual, As Elaborated in Chapter 29 of the Tantrāloka, Abhinavagupta; John R. Dupuche, page 3
  30. अन्तर्वेद्यामत्रिगुप्ताभिधानः प्राप्योत्पत्तिं प्राविशत् प्राग्र्यजन्मा ।
    श्रीकाश्मीरंश्चन्द्रचूडावतारैर्निःसङ्ख्याकैः पाविकोपान्तभागान् ।। परात्रिंशिकाविवरणम्, २८०
  31. ध्वन्यालोकस्य लोचनटीका, उद्योतः - १, श्लो. १९
  32. ध्वन्यालोकः, आचार्यजगन्नाथपाठकः, पृ. १७१
  33. ध्वन्यालोकः, आचार्यजगन्नाथपाठकः, पृ. ४३४, ४५१
  34. ध्वनिवर्त्मन्यतिगहने स्खलितं वाण्याः पदे पदे सुलभम् ।
    रभसेन यत्प्रवृत्ता प्रकाशकं चन्द्रिकाद्यदृष्ट्वैव ।।
  35. ध्वन्यालोकः, आचार्यजगन्नाथपाठकः, प्रस्तावना, पृ. २४

अधिकवाचनाय[सम्पादयतु]

  • Abhinabgupta by Dr. Kantichandra Panday, Publisher – Chauchambe Prakashn
"https://sa.wikipedia.org/w/index.php?title=अभिनवगुप्तः&oldid=438475" इत्यस्माद् पुनः प्राप्तिः