ध्वन्यालोकः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
Jump to navigation Jump to search

ध्वन्यालोकः आनन्दवर्धनेन लिखितः ग्रन्थः। एतस्य काव्यालोकः, सहृदय-हृदयालोकः, सहृदयालोकः इत्यपि नामान्तराणि वर्तन्ते । धन्यालोको हि ध्वनिविवेचको ग्रन्थः । तत्र हि चत्वार उद्द्योताः । प्रथमे हि उद्द्योते ध्वनिप्रतिष्ठापना, द्वितीये व्यङ्ग्यमुखेन ध्वनिस्वरूपविवेकः, तृतीये तु व्यञ्जनकमुखेन तत्स्वरूपविवेकः, चतुर्थे तु ध्वनिव्युत्पादनप्रयोजनं चेति निरूपितविषयाः ।

स्वरूपम्[सम्पादयतु]

  • प्रथमे उद्योते ध्वनिविषयकं सामान्यलक्षणं, अविवक्षितवाच्य‌-विवक्षितवाच्यध्वनिप्रकारौ च विद्येते।
  • द्वितीये उद्योते व्यङ्ग्यमुखेन ध्वनिस्वरूपं, प्रभेदाश्च विवृताः।
  • तृतीये उद्योते व्यञ्जकमुखेन ध्वनिस्वरूपं, प्रभेदाश्च निरूपिताः।
  • चतुर्थे उद्योते ध्वनेः प्रयोजनान्तराणि प्रतिपादितानि ।

अस्मिन् ग्रन्थे ध्वनेः, रीतेः, गुणस्य, अलङ्काराणाञ्च सम्बन्धः प्रख्यापितः ।

अंशाः, कर्ता च[सम्पादयतु]

धन्यालोकस्य हि त्रयोंऽशाः कारिका, वृत्तिः, उदाहरणानि च । केचिद्धि त्रयाणामेवानन्दवर्धनकतृकत्वं मन्यन्तेऽपरे तु कारिकाकारं वृत्तिकाराद्भिन्नमेव मन्यन्ते । विशेषतोऽभिनवगुप्तो द्वितीयपक्षसमर्थकः । उत्तरवर्तिसाहित्येषु ध्वनिकाररूपेण आनन्दवर्धन एव गृहीतो दृश्यते । यथोक्तं जह्लणसङ्कलितायां सूक्तिमुक्तावल्यां राजशेखरनाम्ना समुद्धृते पद्ये -

ध्वनिनातिगभीरेण काव्यतत्त्वनिवेशिना।

आनन्दवर्धनः कस्य नासीदानन्दवर्धनः।। इति ।

तथैव - यत्नः कार्यः सुमतिना परिहारे विरोधिनाम्।

इत्येतत्कारिकाव्याख्याने - 'अत एव चेतिवृत्तमात्रवर्णनप्राधान्येऽङ्गाङ्गिभावरहितरसभावनिबन्धनेन च कवीनामेवंविधानि स्खलितानि भवन्तीति रसादिरूपव्यङ्ग्यतात्पर्यमेवेषां युक्तमिति यत्नोऽस्माभिरारब्धो न ध्वनिप्रतिपादनमात्राभिनिवेशेन' इति कथनेनापि कारिकावृत्तिकृतोरेक्यं मन्यते । किन्तु लोचनकारोऽभनवगुप्तस्तु - 'न चैतन्मयोक्तमपितु कारिकाकाराभिप्रायेणेत्याह' इत्यादिकथनैः कारिकाकारं वृत्तिकाराद्भिन्नमेव मन्यते । तथापि सोऽपि कारिकाकारस्य नाम तु नैव गृह्णाति । मन्यते यत्कारिकाभागस्य रचना वामनस्य काव्यालङ्कारसूत्रवृत्तेरर्वाचीना इति तत्र -

अस्फुटस्फुरितं काव्यतत्त्वमेतद्यथोदितम्।

अशक्नुवद्भिव्याकर्तुं रीतयः सम्प्रवर्तता।।[१]

इति कथनाज्ज्ञायते । अपरञ्च, 'रसाद्यनुगुणत्वेन'[२] इति कारिकाया वृत्तिभागो यावान् सुविस्तृतो यत्तत्रत्यानि बहूनि तथ्यानि कारिकारूपेणैवोपस्थाप्यान्यपि सन्ति । यदि नाम कारिकाकार एव वृत्तिकारोऽप्यभविष्यत्तदा तथाकृतमभविष्यत् । कारिकाकारस्तु ध्वनेः विभागं द्वितीये एव उद्योते करोति किन्तु वृत्तिकारस्तु तथा प्रथमे एव उद्योते करोति । समाने सति कारिकावृत्तिकृति तत्रैव ध्वनिविभागोऽपि निर्दिष्टः स्यात् । कारिकावसानवाक्यात्पृथगेव वृत्यवसानवाक्यास्तित्वमपि उभयोः पार्थक्यमेव जनयति । तत्रापि वृत्यवसानपद्ये 'तद्व्याकरोद्' इति पदं स्पष्टमेव आनन्दवर्धनस्य वृत्तिमात्रस्य कतृत्वं साधयति । समाने हि सति कारिका-वृत्तिभागयोः निबन्धके न हि कदाचिदपि पृथगवसानपद्यसम्भावना। इदं विश्वस्यते यत्कारिकाभागोऽस्य काव्यालोकसंज्ञितोऽनिर्णीतकर्तृको वृत्तिभागस्तु ध्वन्यालोकसंज्ञित आनन्दवर्धनप्रणीत इति।

कारिकाभागस्यास्य प्रणयनं वामनादर्वाचीनमिति मन्यते। वामनो हि जयापीडस्य मन्त्री भट्टोद्भटसमकालिकः ८१०-८८० मितवैक्रमाब्दस्थितिमान्; आनन्दवर्धनस्तु ८८०-९५० मितवैक्रमाब्दानभितः स्थितिमानिति स्वल्पमेव तयोः स्थितिकालान्तरम् । रुद्रटोऽपि ९००-९७० मितवैक्रमाब्दानभितः स्थितिमानेवमेव । लोचनकृद् अभिनवगुप्तोऽपि १०७१ मितवैक्रमाब्दानभितः स्थितिमान् । राजशेखरः च ९३०-१००० मितवैक्रमाब्दान्तरालवर्तीति सर्वेषामेव हि प्रत्ययः समकालिकत्वमेव मन्यते । वामनानतरवर्ती वा तत्समकालिकोऽपि ध्वन्यालोककारिकाकारतैर्नस्त्रर्यत इति नैव विश्वसनीयतामावहति । तेन हि ध्वन्यालोकस्य कारिकावृत्तिभागयोः प्रणेताऽऽनन्दवर्धन एवेति समामनन्ति विचक्षणाः ।

व्याख्याः[सम्पादयतु]

ध्वन्यालोकस्य हि अज्ञातकर्तृका चन्द्रिकानाम्नी व्याख्याऽऽसीदिति 'चन्द्रिकाकारस्तु पठितमनुपठति', 'किं लोचनं विना लोको भाति चन्द्रिकयाऽपि हि', इत्यादिलोचनवाक्याज्ज्ञायते । अभिनवगुप्तस्य लोचनं यस्योपरि रामपारकस्य बालद्रिव्याख्या टिप्पणी, मधुसूदनमिश्रस्यावधानं, बदरीनाथशर्मणो दीधितिः, चन्द्रिकाप्रसादशुक्लस्य दीपशिखा, अलखदेवस्य प्रकाशिका द्वितीयाद्योतव्यापिनी, लोकमणिदाहालस्य लीला च ध्वन्यालोकस्य व्याख्याग्रन्थाः।

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सम्बद्धाः लेखाः[सम्पादयतु]

  • ३।४७
  • ३।३३
  • "https://sa.wikipedia.org/w/index.php?title=ध्वन्यालोकः&oldid=438417" इत्यस्माद् पुनः प्राप्तिः