आलङ्कारिकाः
आलङ्कारिकाः काव्यस्य तत्त्वानां विवेचनं कुर्वन्ति। काव्यं कीदृशं भवेत्, तत्र किं किं भवेत्, किं किं न भवेत् इत्यादिकं चिन्तनं कर्तुम् आलङ्कारिकाः विवचनं कुर्वन्ति। भट्टिः, रुद्रभट्टः, भट्टभौतः, प्रतिहारेन्दुराजा, भट्टेन्दुराजा, महिमभट्टः, राजानतिलकः, सिङ्गभूपालः, कविकर्णपूरः च सदृशाः अनेके अलङ्काराः स्वग्रेन्थेषु विवेचनम् अकुर्वन्।
नन्दिकेश्वरः
[सम्पादयतु]'साधिकारं नन्दिकेश्वरः' इति राजशेखरेण स्मृतः, पञ्चसायकप्रणेत्रा कामशास्त्राचार्यत्वेन प्रख्यापितः, सङ्गीतरत्नाकरप्रणेत्रा शार्ङ्गदेवेन सङ्गीताचार्यत्वेन श्रद्धितः, योगतारावली-नन्दिकेश्वरतिलक-प्रभाकर-विजय-लिङ्गधारणचन्द्रिका-ताललक्षणाद्यनेकपरस्परविरुद्धसम्प्रदायसम्बद्धविविधग्रन्थानां प्रणेतृत्वेन च संम्मतो नन्दिकेश्वराख्यो विपश्चित्कः किंकालिकः इत्यादिविषये नैकवाक्ये किमपि कथयितुं न सुशकम् । विषयेऽस्मिन्नेतावदेव अनुमीयते यत्, उक्तानां सर्वेषामेव ग्रन्थानां प्रणेत्रा नैकेन नन्दिकेश्वरेण भाव्यम् । यथैव पृथक्पृष्ठभूमिकाश्चत्वारो बृहस्पतयः उपस्थाप्यन्ते दर्शनकृत्स्मृतिकृत्सूत्रकृद्राजशास्त्रकुत् रूपेण तथैव नन्दिकेश्वराः अपि अनेके सम्भवन्ति । अलङ्कारशास्त्रसम्बद्ध अभिनयदर्पणकृन्नन्दिकेश्वरस्तु तण्डुलशब्देनाऽत्यभिहितोऽपि कथ्यते । अस्य स्थितिकालविषये तु एतावदेव कथयितुं पार्यते यत्स भरतमुनिपूर्ववर्ती किन्तु कियत्कालपूर्ववर्तीति तु नैवानुमातुमपि सुशकम् । सामान्यतः पाणिनिः शिलालिकृतनटसूत्रं स्मरति । नन्दिकेश्वरो रसविषयकप्राचीनतमाचार्यत्वेन शिलालितोऽपि पूर्ववर्ती सम्भवति । तन्नाम्ना एकमुपपुराणमपि स्मर्यते । सर्वैः सम्भूय रसाधिकरणप्रवक्ता नन्दिकेश्वरः विक्रमपूर्वसहस्राब्दीमभितः स्थितिमानित्यनुमीयते । अभिनयदर्पणस्तु तस्य नन्दीश्वरसंहितायाः पात्रसम्बद्धः परिच्छेदः । भरतो हि अङ्गहार-करणरेचकादीनामभिनयो नन्दिकेश्वरादधीतवान् इत्यभिनवभारतीतो ज्ञायते । नन्दिकेश्वरविषये स्थितिकालमधिकृत्य यत्रकुत्र यत्किञ्चिदप्युक्तं तत्सर्वं शुष्कानुमानमेव।
शिलालिः
[सम्पादयतु]शिलालिनामा कश्चिद्विपश्चिद् नटसूत्रं प्रणिनायेति ‘पाराशर्यशिलालिभ्यां भिक्षुनटसूत्रयोः' इति पाणिनीयसूत्रतो ज्ञायते । न ततोऽधिकं किञ्चिदपि ज्ञातमस्ति तद्विषये । सम्भवति एतान्येव नटसूत्राणि भरतनाट्यशास्त्रस्य पृष्टभूमिः ।
भरतमुनिः
[सम्पादयतु]अलङ्कारशास्त्रे नाट्याधिकरणमधिकृत्य द्वौ भरतावुपस्थाप्येते वृद्धभरतो भरतमुनिश्च । सामान्यतस्तु मनु-याज्ञवल्क्य-हारीत-वसिष्ठ-पराशरादीनां नामस्वपि वृद्धवशेषणं संयुक्तं दृश्यते। तथैव भरतेन सहापि व्यवहृतं मन्यते । तत्र तत्र वृद्धविशेषणसंयोजनेन तस्य तस्य प्राचीनरूपं स्मृतं स्यात् । कथ्यते नाट्यशास्त्रं हि मूलतो द्वादशसाहस्री संहिता आसीत्, तस्याः प्रणेता हि वृद्धभरतशब्देन, सङ्केतितः सम्भवति । भरतनामसम्बद्धं नाट्यशास्त्रं शतसाहस्रो कृतिमन्यते । सम्प्रति यन्नाट्यशास्त्रमुपलब्धमस्ति तत्र सप्तत्रिंशदध्यायाः सन्ति क्वचित्तु षट्त्रिंशत् एव । अस्य हि त्रयो भागाः सूत्रं कारिका भाष्यञ्च । एतदपि सम्भवति यद्भरतेन सूत्राणि ग्रथितानि स्युः । अनन्तरं तदनुवर्तिभिस्तन्नाम्ना कारिकाभाष्यभागौ संयोजितौ । यतो भरतस्थितिकालः सर्वैरपि प्रमाणैः शिलालितो नातिपश्चाद्वर्ती दृश्यते किन्तु नाट्यशास्त्रवाक्यानि तु बहुपश्चात्कालसम्बद्धानि दृश्यन्ते । बहवो विद्वांसः सम्प्रति समुपलब्धनाट्यशास्त्ररचनाकालं विक्रमपूर्वद्वितीयशतकमभितं आकलयन्ति किन्तु नाट्यशास्त्रस्योपरि राहुलकृतटीका स्मरति अभिनवगुप्तः। राहुलस्तु विक्रमपूर्वचतुर्थशतकमभितः प्रणीते 'मणिमेकलये' इति ख्याते तामिलमहाकाव्ये स्मर्यते इति तत्स्थितिकालस्तस्मादपि पूर्ववर्ती भवेदेव । तेन व्याख्यातं नाट्यशास्त्रमवश्यमेव ततो न्यूनमपि द्विशताब्दीपूर्वं भवेदेव । तेन भरतस्य पूर्वसीमा तु विक्रमपूर्वषष्ठशतकादपि पूर्वमेव प्रतीयते । अपरञ्च, नाट्यशास्त्रे यादृशो भाषाविभागः कृतस्तदनुकूलकालस्तु महानन्दात्पूर्वतन एवं सम्भवति । तत्र हि 'बाह्लोकभाषोदीच्यानां खशानाञ्च स्वदेशजा' इत्याद्युक्तमस्ति । महानन्ददिग्विजयानन्तरं तत्प्रतिपक्षभूताः खशाः प्रणेशरियैतिहासिको वदन्ति । स्यादपि यद्वा तद्वा । पण्डितानां बहुमतं तु नाट्यशास्त्रपूर्णाहुतिकालस्तु विक्रमपूर्वद्वितीयशतकसन्निकट एवेत्यामन्यते । केचित् विक्रमानन्तरचतुर्थशतकसन्निकट इत्यपि।
नाट्यशास्त्रं हि नाट्यविषयस्य साङ्गोपाङ्गविवेचको ग्रन्थः । अत्र हि ५००० सव्याकाः श्लोकास्तथा कियद्भागो गद्यमयोऽपि । षष्ठसप्तमाष्टाविंशतितमाध्यायेषु केवलं गद्यभाग एव । नाट्यशास्त्रे हि त्रयोंऽशाः सूत्रं भाष्यं कारिकाश्च । एतदतिरिक्तं तत्र अनुवंश्यश्लोकाश्च यत्र तत्र दृश्यन्ते । एतावतानुमातुं शक्यते यद्ग्रन्थस्यास्य मूलभागः सूत्रात्मक आसीत् । तस्य तादृशं रूपं षष्ठसप्तमाध्याययोः सम्प्रत्यपि दृश्यते । तदनन्तरं सूत्रोपरि भाष्यं प्रणीतम् । सम्भवति कोह्लाचार्यः सूत्रोपरि भाष्यं प्रणीतवानासीत् । तदनन्तरं कारिकाः प्रणीताः सम्भवत्यासां प्रणेता शाण्डिल्यनामा भरतप्रशिष्यः । तदनन्तरञ्च वत्सधूतलेनानुवंश्यश्लोकाः संयोजिताः । नाट्शास्त्रे एवेदं स्वीकृतं यन्नाट्यशास्त्रमिदं कोहलशाण्डिल्यवत्सधूतलैः प्रचारितमासीदिति। यथोक्त -
'शेष प्रस्तारतन्त्रेण कोहलः कथयिष्यति' इति ।
शिष्यपरम्पराऽनुगताः श्लोका एव अनुवंश्यशब्देनाभिधीयन्ते । ते हि नाट्यशास्त्रात्पूर्वमेव कैश्चित्तदाचार्यैः प्रणीता आसन् । ते हि प्रमाणभूतत्वेन नाट्यशास्त्रे मतसम्पुष्ट्यर्थं यथास्थानं निवेशिताः सम्भवन्ति । तेन वर्तमानकाले समुपलब्धं नाट्यशास्त्रं नैकस्य नैककालीना च कृतिः मन्यते। भरतस्य मुनिभिः सह संवादरूपेण प्रणीतत्वादपि अस्य गुम्फकस्तु भरतानन्तरवर्ती कश्चिदेवेति स्पष्टमेव । यथा च 'मनुमेकाग्रमासीनम्' अथवा 'योगीश्वरं याज्ञवल्क्यं प्रणम्य मुनयोऽब्रवन्' इत्यतः प्रारब्धां स्मृति जनाः तत्तदुपदिष्टमतसम्पादकत्वेन मनुस्मृति-याज्ञवल्क्यस्मृतिनाम्ना व्यवहरन्ति तथैवात्रापि । एतेनैतत्पर्यवस्यति यद्भरतप्रोक्तमिदं सूत्रात्मकं शास्त्रं कोहल-शाण्डिल्य-वत्सभूतिभिः भाष्यकारिकानुवंश्यश्लोकादिभिः सङ्गृह्य संवर्ध्य सङ्गुम्फ्य च प्रचारितमिति । तदस्य साम्प्रतिकं रूपमपि विक्रमकालापूर्वमेव सुपूरितमासीत्।
इदं हि स्वविषयस्य सर्वोत्कृष्ट आकरग्रन्थः । इदञ्च भारतीयललितकलायाः काव्यशास्त्रस्य च विश्वकोश एव । अत्र हि प्राधान्येन वर्ण्यविषयो नाट्यमेव । किन्तु तत्रानुषङ्गिकरूपेण सङ्गीत-छन्दोऽलङ्कारादीनामपि प्रौढं प्रामाणिकञ्च विवेचनं कृतमस्ति । अत्र हि नाट्यप्रकरणातिरिक्तम्, अष्टौ रसास्तेषां स्वरूपस्य विभावादितत्त्वानां च निरूपणम्, उपमा-रूपक-दीपक-यमकाख्याश्चत्वारोऽलङ्काराः षट्त्रिंशत्काव्यलक्षणानि, दशगुणाः, दश काव्यदोषाः साङ्गोपाङ्गं विवेचिताः । नाट्यविषयेऽपि इतिवृत्तपात्ररसरङ्गमञ्चरङ्गशिल्पाभिनयभाषाप्रयोगप्रवृत्तिवृत्तिसङ्गीत-गीत-दृष्टिप्रभृतितत्त्वानां पूर्णं वैज्ञानिकञ्च विवेचनं कृतमस्ति । तत्र हि प्रथमेऽध्याये नाट्योत्पत्तिः द्वितीये प्रेक्षागृहनिर्माणं, तृतीये रङ्गदेवतापूजनं, चतुर्थे ताण्डवसम्बद्धकरणानाम् अङ्गहाराणाञ्च विवेचनं, पञ्चमे पूर्वरङ्गविधानं, षष्ठे रसविवेचनं, सप्तमे भावादिविवेचनम्, अष्टमेऽभिनयप्रसङ्गे उपाङ्गाभिनयः, नवमे हस्ताभिनयः, दशमे शरीराभिनयः, एकादशे चारोविधानं भौममाकाशञ्च, द्वादशे मण्डलविधानं, त्रयोदशे रसानुकूलगतिप्रचारः, चतुर्दशे प्रवृत्तधर्माभिव्यञ्जना, पञ्चदशे छन्दोविभागः, षोडशे वृत्तानां सोदाहरणलक्षणं, सप्तदशे वागभिनयो यत्र लक्षणालङ्कारकाव्यदोषगुणानां वर्णनम्, अष्टादशे भाषाभेदोऽभिनयप्रयोगश्च, एकोनविंशे काकुस्वरव्यञ्जना, विंशे दशरूपकलक्षणम्, एकविंशे नाटकसम्बद्धपञ्चसन्धिसन्ध्यङ्गानां विधानं, द्वाविंशे चतुर्विधवृत्तिविधानं, त्रयोविंशे आहार्याभिनयः, चतुर्विंशे सामान्याभिनयः, पञ्चविंशे बाह्योपचारः, षड्विंशे चित्राभिनयः, सप्तविंशे सिद्धिव्यञ्जननिर्देशः, अष्टाविंशे आतोद्यविधानम्, एकोनत्रिंशे ततातोद्यविधानं, त्रिंशे सुषिरातोद्यविधानम्, एकत्रिंशे तालविधानं, द्वात्रिंशे ध्रुवाविधानं, त्रयस्त्रिंशे वाद्यविधानं, चतुस्त्रिंशे पात्रविवेकः, शेषेषु प्रकीर्णविषया इति संक्षेपेण नाट्यशास्त्रविषयक्रमः ।
अस्य हि बहवष्टीकाकाराः । तत्र राहुलोद्भट-लोल्लट-शङ्कक-भट्टनायक-भट्टयन्त्र-अभिनवगुप्त-कीर्तिधरमातृ'गुप्ताचार्याः प्राचीनटीकाकाराः केचन प्रसिद्धाः । यथोक्तं सङ्गीतरत्नाकरे -
'व्याख्यातारो भारतीये लोल्लटोद्भटशङ्काः।
महाभिनवगुप्तश्च श्रीमत्कीर्तिधरोऽपरः॥'
तत्रापि अभिनवगुप्तस्य अभिनवभारती सर्वातिशायिनी व्याख्या । अस्योपरि हर्षनाम्ना केनचिद्विचक्षणेन वार्तिकग्रन्थोऽपि प्रणीत आसीदिति अभिनवभारतीतो ज्ञायते । अत्र च नान्यदेवस्य सरस्वतोहृदयालङ्कारटीकाऽपि प्राचीनतरा।
कोहलः
[सम्पादयतु]कोहलाचार्यः अलङ्कारशास्त्रिभिः शास्त्रप्रवक्तृत्वेन सादरं स्मर्यते । नाट्यशास्त्रेऽपि तस्य शास्त्रव्याख्यातृत्वेन समुल्लेखो दृश्यते । यथोक्तं तत्र -
“शेष प्रस्तारतन्त्रेण, कोहलः कथयिष्यति ।”
नैतावन्मात्रमपितु कोहलो नाट्याचार्यत्वेन नैकेषु अलङ्कारग्रन्थेषु स्मर्यते । कुट्टिनीमतकारो दामोदरस्तं प्राचीननाट्याचार्यत्वेन स्मरति । सङ्गीतरत्नाकरकारः शार्ङ्गदेवः कोहलं स्वस्योयजीव्यं मन्यते । काव्यानुशासनकारो हेमचन्द्रस्तं भरतमनुस्मरति । यथा -
'प्रपञ्चस्तु भरतकोहलादिशास्त्रेभ्योऽवगन्तव्यः' इति ।
रसार्णवसुधाकरः शिङ्गभूपालः कोहलं भरतशाण्डिल्यदत्तिलमतङ्गैः सह नाट्यशास्त्राचार्यत्वेन स्मरति । कोहलनाम्ना सह एकं 'तालशास्त्रम्' अपि सम्बद्धं दृश्यते । 'दत्तिलकोहलीयं' नामैकं सङ्गीतशास्त्रमपि इति श्रूयते । अभिनवगुप्ताचार्यः कोहलं नाट्यशास्त्रप्रवक्तारमेव मन्यते । यथा -
'अभिनयत्रयं गीतातोद्ये च पञ्चाङ्गं नाटयम् ।
......कोहलादिमतेन एकादशाङ्गत्वमुच्यत' इति ।
अनेन तु तस्य शास्त्रकर्तृत्वमेव व्यञ्ज्यते न तु शास्त्रव्याख्यातृत्वमात्रम् । भरतमते हि नाट्यस्य पञ्चाङ्गानि भवन्ति आङ्गिक-वाचिका-हार्येत्यभिनयत्रयं गीतमातोद्यञ्च । कोहलमते तु नाट्यस्यैकादशाङ्गानि भवन्ति चतुर्विधोऽभिनयस्त्रिविधं गीतञ्चतुर्विधमातोद्यञ्चेति । शारदातनयोऽपि भावप्रकाशने 'इत्याह कोहलः' इत्यादिवाक्यैः तं नैकवारं स्मरति समुद्धरति च तस्य मतम् । यद्यपि कालिदासः केवलं भरतमेव नाट्याचार्यत्वेन स्मरति 'मुनिना भरतेन यः प्रयोगो भवतीष्वष्टरसाश्रयः प्रयुक्तः'।[१] तथाप्येतावन्मात्रेण कोहलस्य प्राचीनत्वं नाट्याचार्यत्वञ्च नैव विलुप्यति । भरतस्य प्रधानशिष्यत्वेन कोहलो भरतसमकालिकः मन्यते।
कोहलेन सहैव दत्तिल-वत्स-धूतलप्रभृत्याचार्या अपि तत्र तत्र स्मर्यन्ते किन्तु तेषामैतिह्यं न ततोऽधिकं ज्ञातम्।
मेधाविरुद्रः
[सम्पादयतु]मेधाविरुद्रस्य अपरं नाम मेधावी इति। सः अलङ्कारशास्त्रस्य प्रथमः प्रवक्ता । तस्य ग्रन्थस्तु सुम्प्रति नैवोपलभ्यते किन्तु तस्य अलङ्कारशास्त्रसम्बद्धसिद्धान्ताः यत्र तत्र समुद्धृताः सन्ति। काव्यशास्त्रस्य प्रथमाचार्यो हि भामहः तम् उद्धरति।
भामहः
[सम्पादयतु]भामहः प्राचीनालङ्कारिकेषु अन्यतमः । यद्यपि भामहदण्डिनोः पौर्वापर्यं भामहस्य स्थितिकालश्च सर्वाधिकविवादविषयः सम्प्रत्यपि अनिर्णीतश्च तथापि विदुषां बहुमतं भामहस्य काव्यशास्त्राद्याचार्यत्वं समर्थयति । भामहो हि दण्डिनोऽसदृशमेव स्वपूर्ववर्तिनः सम्बद्धविदुषोऽसकृत्स्मरति ।
दण्डी
[सम्पादयतु]काव्यशास्त्रस्य द्वितीयाचार्यत्वेन दण्डी स्मृतः । यद्यपि दण्डिनः स्थितिकोलो नाद्यापि निर्णीतस्तथापि तस्य प्रेयोऽलङ्कारोदाहरणे -
इति साक्षात्कृते देवे राज्ञो यद्राजवर्मणः।
प्रीतिप्रकाशनं तच्च प्रेय इत्यवगम्यताम्।।[२]
इति कथनात्तस्य राजवर्मणः समकालिकत्वं मन्यते । राजवर्मा हि नरसिंहापराभिधानः काञ्चीनरेशः (७३७-७७९) मितवैक्रमाब्दानभितः सिंहासनारूढः आमिदित्येतिहासिकाः वदन्ति । दण्डी हि बाणभट्टं मयूरञ्च स्मरति अवन्तिसुन्दरीकथायां तञ्चाभिनवगुप्तो लोचने समुद्धरतीति तस्य स्थितिकालस्येयमेव पूर्वापरसीमा। अतो हि सामान्यतः ७१५-७९० मितवैक्रमाब्दानभितो दण्डिनः स्थितिकालः मन्यते। तस्य हि काव्यादर्शो, दशकुमारचरितम्, अवन्तिसुन्दरीकथा चेति त्रयो ग्रन्थाः प्रसिद्धाः । केचित् छन्दोविच्छित्तिः, कलापरिच्छेदश्च तस्यैव ग्रन्थावित्यपि मन्यन्ते द्विसन्धानाख्यकाव्यमपि।
वामनः
[सम्पादयतु]वामनस्य हि "काव्यालङ्कारसूत्राणि" विषयप्रतिपादनदृष्ट्या महर्घ्याणि । स हि रीतिसम्प्रदायस्य आचार्यः । वामनो हि काश्मीरकस्य राज्ञो जयापीडस्य मन्त्री असीदिति राजतरङ्गिणीकारस्य 'वामनाद्याश्च मन्त्रिणः'[३] इति वचनात् ज्ञायते । जयापीडस्य स्थितिकालः ८३६-८७० मितवैक्रमाब्दानभित इति राजतरङ्गिणीतो ज्ञायते । तेन स एव तस्य स्थितिकालोऽपि । अर्थात् ८१०-८८० मितवैक्रामाब्दानभितो वामनस्य स्थितिकालः । काशिकावृत्तिकारो वामनस्तु तस्माद्भिन्नः प्राचीनश्च ।
वामनस्य काव्यालङ्कारसूत्रेषु पञ्चाधिकरणानि सन्ति । तत्र शारीरकं नाम प्रथममधिकरणं यत्र प्रयोजनस्थापना, अधिकारचिन्ता, रीतिनिश्चयः, काव्याङ्गानि, काव्यविशेषाश्च चित्रिताः । दोषदर्शनं नाम द्वितीयमधिकरणं यत्र पदपदार्थदोषविभागो वाक्यवाक्यार्थदोषविभागश्च विषयौ। एवमेव गुणविवेचनाख्ये तृतीयेऽधिकरणे गुणालङ्कारविवेकः शब्दगुणविवेकोऽर्थगुणविवेचनञ्च निरूप्यविषयाः । आलङ्कारिकं नाम चतुर्थमधिकरणं यत्र शब्दालङ्कारविचारः, उपमाविचारः, उपमाप्रपञ्चाधिकारश्च विवेच्यविषयाः । पञ्चममधिकरणं प्रयोगिकं नाम यत्र काव्यसमयः शब्दशुद्धिश्च सप्रपञ्च निरूपिते । ग्रन्थस्यास्य त्रयो भागाः सूत्राणि वृत्तिरुदाहरणप्रत्युदाहरणे च । अस्य वृत्तिभागश्च सूत्रकृता स्वयमेव प्रणीतः । उदाहरणेषु कानिचित्तु स्वयमेव वृत्तिकारेण प्रणीतानि कानिचित्तु कुमारसम्भव-रघुवंश-मेघदूत-विक्रोवेशीय-अभिज्ञानशाकुन्तल-किरातार्जुनीय-मृच्छकटिक-अमरुकशतक-उत्तररामचरित-महावीरचरित-वेणीसंहार-कादम्बरी-हर्षचरित-प्रभृतिग्रन्थेभ्योऽपि गृहीतानि सन्ति । ग्रन्थस्यास्य गोपेन्द्रतिप्पभूपालप्रणीता कामधेनुसंज्ञिता, महेश्वरप्रणीता सहदेवकृता च व्याख्याः सन्ति प्राचीना यदाऽर्वाचीनासु लोकमणिदाहालप्रणीता कलाऽऽख्या व्याख्या प्रकाशिताऽस्ति ।
वामनाचार्यस्य मतानुसारेण गुणालङ्कारसंस्कृतौ शब्दार्थौ काव्यम् । रीतिरात्मा काव्यस्य । काव्यं हि ग्राह्यं भवत्यलङ्कारादेव । अलङ्कृतिरलङ्कारः इति । करणव्युत्पत्या तु पुनः अलङ्कारशब्दः अयम् उपमादिषु वर्तते । अलङ्करणञ्च दोषहानेन गुणालङ्कारादानेन च । तच्च शास्त्रादेव भवति न तु स्वेच्छया। काव्यं हि दृष्टार्थं सद्यः प्रीतिकरत्वात् । तददृष्टार्थञ्च कीर्तिहेतुत्वात् । तेनानन्दः कीर्तिश्च काव्यप्रयोजनम् । कवयो द्विधा अरोचकिनः सतृणाभ्यहारिणश्च । पूर्वे हि शिष्या भवन्ति विवेकित्वात् । नेतरे विवेकशून्यत्वात् । काव्यस्यात्मा रीतिः । सा हि विशिष्टपदरचना । विशेषस्तु गुणात्मा। रीतिस्त्रिधा वैदर्भी, गौडी, पाञ्चाली च । तत्र समग्रगुणाः वैदर्भी ओजःकान्तिमती गौडीया। माधुर्यसौकुमार्योपपन्नाः पाञ्चाली। गुणसाकल्याद्वैदर्भी गाह्येतरद्वयापेक्षया ।
लोको विद्या प्रकीर्णञ्च काव्याङ्गानि । कवित्वबीजं प्रतिभानम् । काव्यं द्विविधं गद्यं पद्यञ्च । गुणविपर्यात्मानो दोषाः । असाधु, कष्टं, ग्राम्यमप्रतीतमनर्थकञ्च पददोषाः । तत्र व्याकरणविरुद्धमसाधु । श्रुतिविरमं कष्टम् । लोकमात्रप्रयुक्तं ग्राम्यम् । शास्त्रमात्रप्रयुक्तमप्रतीतम् । पुरणार्थप्रर्युक्तमनर्थकम्। अन्यार्थनेयगूढार्थाश्लीलक्लिष्टानि पदार्थदोषाः । तत्र रूढित्यागेन यौगिकमात्रार्थोपादानमन्यार्थम् । स्वयं प्रकल्पितार्थं नेयार्थम् । अप्रसिद्धार्थप्रयुक्तं गूढार्थम् । असभ्यार्थान्तरमसभ्यस्मृतिहेतुश्चाश्लीलम् । व्यवहितार्थप्रत्ययं क्लिष्टम् । भिन्मवृत्तयतिभ्रंशविसन्धयो वाक्यदोषाः । व्यर्थेकार्थसन्दिग्धाप्रयुक्तापक्रमलोकविद्याविरुद्धानि वाक्यार्थदोषाः ।
काव्यशोभायाः कर्तारो धर्मा गुणाः । काव्यशोभातिशयहेतवोऽलङ्काराः। गुणा नित्यास्तदभावेन काव्यत्वासिद्धेः । ओजः-प्रसाद-श्लेष-समता-समाधि-माधुर्य-सौकुमार्योदारतार्थव्यक्तिकान्तयो बन्धगुणाः । ते एवार्थगुणाः । यमकोऽनुप्रासश्च शब्दालङ्कारौ । उपमादयोऽर्थालङ्कारः। उपमा द्विविधा पूर्णा लुप्ता च । हीनत्वाधिकत्वलिङ्गवचनभेदासादृश्यसम्भवा उपमादोषाः । प्रतिवस्तुप्रभृतिरुपमाप्रपञ्चः । ते च प्रतिवस्तु-समासोक्ति-अप्रस्तुतप्रशंसा अपह्नुति-रूपक-श्लेष-वक्रोक्ति-उत्प्रेक्षा-अतिशयोक्ति-सन्देह-विरोध-विभावना-अनन्वय-उपमेयोपमा-परिवृत्ति-दीपक- निदर्शना-अर्थान्तरन्यास-व्यतिरेक-विशेषोक्ति-व्याजस्तुति-व्याजोक्ति-तुल्ययोगिता-आक्षेप-सहोक्ति-विशेषोक्ति-समाहित-संसृष्टिप्रभृत्यः । नैकं पदं द्विः प्रयोज्यं प्रायेण। अतिप्रयुक्तं देशभाषा पदमपि प्रयोज्यं भवति । एवमेव लक्षणाशब्दाश्च। वामनप्रणीतं शास्त्रमिदं लुप्तप्रायं मुकुलभट्टेन पुनः समुद्धृतमिति काव्यालङ्कारटीकाकृतः सहदेवस्थ वचनाज्ज्ञायते।
उद्भटः
[सम्पादयतु]उद्भटस्य अपरं नाम भट्टोद्भटोऽपि प्रसिद्धम्। काव्यालङ्कारशास्त्रपरम्परायां भट्टोद्भट्टस्य काव्यालङ्कारसारसंग्रहः प्रसिद्धः। स हि काश्मीरकस्य जयापीडाख्यस्य राज्ञः सभापतिरासीदिति -
विद्वान् दीनारलक्षेण प्रत्यहं कृतवेतनः।
भट्टोऽभूदुद्भटस्तस्य भूमिभर्तुः सभापतिः।।[४]
इति राजतरङ्गिणीकारवचनाज्ज्ञायते । तेन हि भट्टोद्भटोऽपि वामनसमकालिको वा तस्मात्किञ्चिज्ज्येष्ठः। तस्य हि त्रयो ग्रन्थाः प्रसिद्धाः भामहविवरणं, कुमारसम्भवकाव्यं, काव्यालङ्कारसारसंग्रहश्च । भामहविवरणं हि भामहस्य काव्यालङ्कारस्य टीका । यद्यपि सा सम्प्रति नैवोपलभ्यते किन्तु यत्र तत्र सश्रद्धं स्मृता दृश्यते, विशेषतः प्रतिहारेन्दुराजप्रणीतायां काव्यालङ्कारसारसङ्ग्रहलघुवृत्तौ । तथैवोद्भटेन भरतनाट्यशास्त्रस्य व्याख्या कृताऽऽसीत् -
व्याख्यातारो भारतीये लोल्लटोद्भटशङ्कुकाः।
भट्टोऽभिनवगुप्तश्च श्रीमत्कीर्तिधरोऽपरः।।
इति सङ्गीतरत्नाकरे शार्ङ्गधरवचनाज्ज्ञायते । किन्तु साऽपि सम्प्रति लुप्तैव । तस्य हि कुमारसम्भवकाव्यमपि काव्यालङ्कारसारसङ्ग्रहे उदाहृतभागमात्रं लभ्यते । तेन सम्प्रति भट्टोद्भटस्य एक एव ग्रन्थो लभ्यते काव्यालङ्कारसारसंग्रहो नाम । ग्रन्थोऽयं षट्सु भागेष्वलङ्कारान् विभज्य पठति । तत्र ७९ कारिकाः सन्ति । प्रथमे हि वर्गे पुनरुक्तवदाभासछेकानुप्रास-अनुप्रास-लाटानुप्रास-रूपक-उपमा-दीपक-प्रतिवस्तूपमाः निरूपिताः । द्वितीये हि वर्गे आक्षेप-अर्थान्तरन्यास-व्यतिरेक-विभावना-समासेक्ति-अतिशयोक्तयो निरूपिताः। तृतीये वर्गे यथासङ्ख्य-उत्प्रेक्षा-स्वभावोक्तयः, चतुर्थे तु प्रेयोरसवदूर्जस्वि-पर्यायोक्तसमाहित-उदात्त-श्लिष्टाः, पञ्चमेतु अपह्नति-विशेषोक्ति-विरोध-तुल्ययोगिता-अप्रस्तुतप्रशंसा-व्याजस्तुति-निदर्शना-उपमेयोपमा-सहोक्तिः-परिवृत्तयः, षष्ठे तु अनन्वय-ससन्देह-संसृष्टि-भाविकानि निरूपितानि सन्ति। ग्रन्थेऽस्मिन् कोङ्कणेन प्रतिहारेन्दुराजेन लघुविवृतिनाम्नी वृत्तिः प्रणीताऽस्ति । तस्याः अयं पुष्पिकापद्यम् -
मीमांसासारमेघात्पदजलधिविधोस्तर्कमाणिक्यकोशात्।
साहित्यश्रीमुरारेर्बुधकुसुममधोः सौरिपादाब्जभृङ्गात्।।
श्रुत्वा सौजन्यसिन्धोर्द्विजवरमुकुलात् कीर्तिवल्ल्यालबालात्।
काव्यालङ्कारसारे लघुविवृतिमधात् कोङ्कणः श्रीन्दुराजः।।
प्रतिहारेन्दुराजस्य स्थितिकालो विक्रमानन्तरदशमशतकपूर्वार्द्धमितः। एतदतिरिक्तं ग्रन्थेऽस्मिन् राजानकतिलकस्यापि व्याख्याऽऽसीदिति मन्यते। उद्भटेन हि पुनरुक्तवदाभास-काव्यलिङ्ग-छेकानुप्रास-दृष्टान्त-सङ्कराः इति पञ्चालङ्काराः नवीनतयोद्भाविताः । स हि दण्डिसम्मतान् लेशसूक्ष्महेत्वलङ्कारान् नैव गृह्णाति । स हि रसवदाद्यलङ्करान् साधु व्याख्याति । इत्येतावदेव तस्य वैशिष्टयम् । तन्मते तु गुणालङ्कारौ काव्यस्य नित्यधर्मौ काव्यशोभाधायकौ।
रुद्रटः
[सम्पादयतु]रुद्रटस्य काव्यालङ्कारः काव्यशास्त्रपरम्परायामपरः प्रकाशः । रुद्रटो हि काश्मीरः शतानन्दापराख्यस्य भट्टवामुकस्य तनयः । स हि वामनमुपजीवीति वामनपरवर्ती तं च राजशेखरः ‘काकुवक्रोक्तिर्नाम शब्दालङ्कारोऽयमिति रुद्रटः' इति स्मरतीति राजशेखरपूर्ववर्ती। राजशेखरस्य समयः ९७७ मितवैक्रमाब्दानभितोऽनुमितः । तेन हि रुद्रटस्य स्थितिकाल: ९००-९७० मितवैक्रमाब्दानभितोऽनुमितः ।
केचित् श्रृङ्गारतिलकमपि रुद्रटकृतं मन्यन्ते किन्तु दुर्गाप्रसादटिप्पणानुसारेण तु तद् रुद्रभट्टकृतिर्न तु रुद्रटस्य । रुद्रटस्य काव्यालङ्कारो हि आर्यासु निबद्धः। तत्र दशमरसत्वेन प्रयोरसस्य कल्पना दृश्यते । श्रङ्गारतिलकं तु वाणिकच्छन्दसि गुम्फितम् । तत्र नवैव रसाः प्रतिपादिताः सन्ति । एवञ्च काव्यालङ्कारस्य प्रयोजनं समस्तकाव्याङ्गविवेचनमेव, किन्तु शृङ्गारतिलकस्य तु नाट्योक्तरसस्थितैः काव्येऽपि प्रतिपादनमेव।
रुद्रभट्टस्य शृङ्गारतिलकं रसपक्षपाती काव्यलक्षणग्रन्थः । अत्र हि त्रयः परिच्छेदाः । प्रथमे हि परिच्छेदे नवानां रसानां भावानां नायक-नायिकाभेदसामान्यस्य च वर्णनमस्ति । द्वितीये विशेषतो विप्रलम्भशृङ्गारः सप्रपञ्चं विवेचितोऽस्ति । तृतीये हि इतररसानां वृत्तीनाञ्च वर्णनं दृश्यते । यद्यपि रुद्रट-रुद्रभट्टौ समानव्यक्तित्वेनैव बहुशो गृहीतौ प्राचीनग्रन्थेषु तथापि काव्यालङ्कार-श्रृङ्गारतिलकयोः रचनावैषम्यान्न तथा प्रतिभाति । यथा प्रथमो हि अलङ्कारे विशेदयति, अपरो रसाय । प्रथमो हि दशरसान् विवेचयति, अपरो हि नवानेव । आद्यो हि मधुरादि पञ्च हि वृत्तीः पठति, अपरस्तु कैशिकीप्रभृतिचतस्र एव। आद्यो हि सङ्क्षेपेण नायकनायिकादि प्रस्तौति, अपरस्तु विशदरूपेण । रुद्रभट्टस्यापि स्थितिकालस्तु स एव ।
आनन्दवर्धनः
[सम्पादयतु]आनन्दवर्धनः ध्वन्यालोकस्य रचनाकारत्वेन प्रसिद्धः। ध्वनिशास्त्रस्य व्याख्याकृत्त्वेन स हि सर्वानेवाचार्यानतिशेते। स हि यद्यपि स्वपूर्ववर्तिषु भामह-भट्टोद्भटातिरिक्तं नाम्ना न कमपि गृह्णाति तथापि तस्य -
मुक्ताकणः शिवस्वामी कविरानन्दवर्धनः।
प्रथां रत्नाकरश्चागात्साम्राज्येऽवन्तिवर्मणः॥[५]
इति राजतरङ्गिणी वचनात् स्थितिकालो वैक्रमदशमशतकपूर्वार्द्धो मितः । अवन्तिवर्मा हि ९१०-९४१ मितविक्रमब्दानभितः सिंहासनासीनः आसीत् । तेनानन्दवर्धनोऽपि ८८०-९५० मितवैक्रमाब्दानभितः स्थितिमानित्यनुमीयते।
मुकुलभट्टः
[सम्पादयतु]मुकुलभट्टः भट्टकल्लटस्य पुत्रो काश्मीरकः। सः ९३०-१००० मितवैक्रमाब्दानभितः आसीत्स्थितिमान् । तस्य हि चतुर्दशश्लोकात्मिका अभिधावृत्तिमातृका सम्प्रत्युपलभ्यते । तत्र हि लक्षणाऽप्यभिधाया एव भेदत्वेन निरूपिताऽस्ति । असौ हि ग्रन्थकारः प्रतिहारेन्दुराजस्य गुरुः ।
भट्टनायकः
[सम्पादयतु]भट्टनायको हि ध्वनिमतं दूषयति तन्मतञ्चाभिनवगुप्तेन दूषितमिति आनन्दवर्धन-अभिनवगुप्तयोः अन्तरालवर्ती स आचार्यः । भट्टनायकस्य प्रसिद्धः ग्रन्थो हृदयदर्पणः । किन्तु स सम्प्रति नैवोपलभ्यते । भट्टनायको हि ध्वनिं निराकरोति किन्तु काव्यस्य रसवत्त्वं तु समर्थयति । अत एव तमुपहसन्नभिनवगुप्तः कथयति -
'वस्तुध्वनं दूषयता रसध्वनिस्तदनुग्राहकः समर्थ्यत इति सुष्ठुतरो ध्वनिध्वंसोऽयम्' इति ।
रुय्यकप्रणीतायाम् अलङ्कारसर्वस्वटीकायाम् अलङ्कारविमशिन्यां जयरथः कथयति - "भट्टनायकेन तु व्यङ्ग्यव्यापारस्य प्रौढोक्त्याभ्युपगतस्य काव्यांशत्वं ब्रुवता न्यगभावितशब्दार्थस्वरूपस्य व्यापारस्यैव प्राधान्यमुक्तम् । तत्रापि अभिधाभावकत्वलक्षणव्यापारद्वयोत्तीर्णो रसचर्वणात्मा भोगादपरपर्यायो व्यापारः प्राधान्येन विश्रान्तिस्थानतयाऽङ्गीकृतः" इति ।
भट्टनायको हि रसोत्पत्तिविषये नवीनं दृष्टिकोणमादत्ते । स हि शब्दस्य त्रिविधं व्यापारं मन्यते । अभिधा, भावकत्वं, भोजकत्वञ्च। तत्राभिधाव्यापारेण काव्यस्य सामान्योऽर्थ उपस्थितः भवति। भावकत्वाव्यापारेण सीतारामादीनां विशेषस्वरूपमपकृत्य तान् साधारणीकरोति । भोजकत्वव्यापारेण सामाजिकान् रसानुभवं कारयति । यथोक्तम् -
अभिधा भावना चान्या तद्भोगीकृतिरेव च।
अभिधाधामतां याते शब्दार्थालङ्कृती ततः॥
भावनाभाव्य एषोऽपि शृङ्गारादिगणो मतः।
तद्भोगीकृतिरूपेण व्याप्यते सिद्धिमान् नरः।। इति।
काव्यानुशासनविवेके हेमचन्द्रः स्मरति - "भट्टनायकस्त्वाह - रसो न प्रतीयते नोत्पद्यते नाभिव्यज्यते । स्वगतत्वेन हि प्रतीतौ करुणे दुःखित्वं स्यात् । न च सा प्रतीतिर्युक्ता सीतादेरविभावत्वात् स्वकान्तास्मृत्यसंवेदनात् । देवतादौ साधारणीकरणयोग्यत्वात् । समुद्रोल्लङ्घनादेरसाधारण्यात् । न च तत्त्वतो रामस्य स्मृतिरनुपलब्धत्वात्। न च शब्दानुमानादिभ्यस्तत्प्रतीतौ ताटस्थ्यमेव भवेत्तत्प्रीतिरनुभवस्मृत्यादिरूपा रसस्य युक्ता।" इति
राजशेखरः
[सम्पादयतु]राजशेखरो हि विदर्भाभिजनः कान्यकुब्जवास्तव्यो राज्ञो महेन्द्रपालस्य तत्सुनोर्महीपालस्य च सदसि प्राप्तप्रधानासनः । तस्य पिता दुर्दुकाख्यो माता शीलवती प्रपितामहश्चाकालेजलदः । बालरामायणस्य प्रस्तावनायां सः स्वयंमेव कथयति -
समूर्ती यत्रासीद् गुणगण इवाकालजलदः, सुरानन्दः सोऽपि श्रवणपुटपेयेन वचसा।
न चान्ये गण्यन्ते तरलकविराजप्रभृतयो, महाभागस्तस्मिन्नयमजनि यायावरकुले।।
स हि उपाध्यायस्तेन ब्राह्मणः । तस्य पत्नी अवन्तिसुन्दर्याख्या । सा हि चौहानवंशजेति तस्या क्षत्रियकुलोत्पन्नत्वं प्रकल्प्य केचिद्राजशेखरमपि क्षत्रियमेव मन्यन्ते । किन्तु तन्मन्दम् । क्षत्रियो न कदाऽप्यात्मानमुपाध्यायशब्देन सङ्केतयति । कामं ब्राह्मणः क्षत्रियकन्यामुपयन्तुमधिकृतः । यथोक्तं महाभारते अनुशासनपर्वणि -
भार्याश्चतस्रो विप्रस्य द्वयोरात्मा प्रजायते।
आनुपूर्व्याद् द्वयोर्हीनौ मातृजात्यौ प्रसूयतः॥[६] इति ।
तेन हि क्षत्रियकन्यापरिणयनमात्रेण न कस्यापि क्षत्रियत्वं सिध्यति। अपरञ्च, चाहु आनकुलं, न हि निर्विवादत्वेन चह्वानकुलमेव न च चह्वानत्वं क्षत्रियमात्रस्य लक्षणम्। ब्रह्मक्षत्रप्रसूते अस्मिन्नार्यवंशवृक्षे बहवः उपाधिविशेषा उभावेव ब्राह्मणक्षत्रियौ सङ्कतयन्ति । नैव च क्षत्रियकन्यापरिणयनमात्रेण ब्राह्मणस्य क्षत्रियत्वमेव सिध्यति । स हि आत्मानम् ‘उपाध्याय' इति स्पष्टमेव कथयति । तेन तस्य ब्राह्मणत्वं निर्विवादमेव मन्यते।
स हि कान्यकुब्जेश्वरस्य महेन्द्रपालस्य सभापण्डित इति तस्य स्थितिकालः ९१०-९८० मितवैक्रमाब्दान्तरवर्तीति निश्चितो यतो महेन्द्रपालः ९६० मितवैक्रमाब्दं यावन् महीपालश्च ९७४ मितवैक्रमाब्दं यावत् कान्यकुब्जभुवं शशासेति निश्चितमेव । स हि काव्यमीमांसायां वाक्पतिराजोद्भटानन्दवर्द्धनादीन् स्मरति । तेषु हि वाक्पतिराजोद्भटौ काश्मीरकस्य जयापीडस्य समकालिको यो हि ८३६-८७० मितवैक्रमाब्दानभितः स्थितिमान् । तथैवानन्दर्धनोऽवन्तिवर्मणः सभापण्डितो यस्य हि ९१४-९४१ वैक्रमाब्दानभितः स्थितिकालः । यशस्तिलकचम्पूकारः सोमदेवस्तं स्मरतीति तस्य सोमदेवपूर्ववर्तित्वं तु निश्चप्रचमेव । तेन स हि आनन्दवर्धनात् प्राक् सोमदेवाच्च प्राक् स्थितिमानिति । तस्य चाभिजनो विदर्भेषु वत्सगुल्मग्रामो यत्र स काव्यपुरुषस्य साहित्यविद्यया वध्वा सह परिणयं कथयति ।
काव्यमीमांसा हि साहित्यविद्यायाः अष्टादशस्वधिकरणेषु प्रथमेन कविरहस्याख्येन सह सम्बद्धा । तत्र हि अष्टादशैवाध्यायाः शास्त्रसंग्रह-शास्त्रनिदेश-काव्यपुरुषोत्पत्ति-शिष्यप्रतिभा-व्युत्पत्तिकविपाक-पदवाक्यविवेक-वाक्यविधिकाकुप्रकार-पाठप्रतिष्ठा-काव्यर्थयोनि-अर्थानुशासन-कविचर्या-राजचर्या-शब्दार्थहरणोपाय-कविविशेष-कविसमय-देशकालविभाग-भुवनकोशा वर्णिताः क्रमेण । अयं हि ग्रन्थः काव्यविद्यायाः विश्वकोश एव । साहित्यविद्यायाः सङ्क्षेपेण सर्वाङ्गविवेचको ग्रन्थोऽयं सर्वत्र समादृतः । केचिदिदं काव्यविद्यायाः सम्प्रदायान्तरवत् कविशिक्षासम्प्रदायप्रवर्तनं मन्यन्ते । तस्य हि एतदतिरिक्तं बालरामायण-बालभारत-विद्धशालभञ्जिका-कर्पूरमञ्जरीति चत्वारो ग्रन्थाश्च । तत्र कर्पूरमञ्जरी हि सट्टकम् । ग्रन्थस्यास्य मधुसूदनमिश्रप्रणीता मधुसूदनी विवृतिर्लभ्यते।
धनञ्जयः
[सम्पादयतु]काव्यशास्त्रपरम्परायां धनञ्जयस्य प्रवेशस्तत्र मौलिकचिन्तनपुनरावर्तनं द्योतयति । तस्य हि दशरूपकं यद्यपि नाट्यशास्त्रसम्बद्धं तथापि रसविवेचने मौलिकं चिन्तनं प्रस्तौति। धनञ्जयो हि विष्णुनाम्नः सुतो धनिकस्याग्रजः । स हि मुज्जसमकालिकः । मुज्जश्च भोजस्य धारानगरीशस्य पितृव्यः १०३१-१०५१ मितिवैक्रमाब्दानभितः स्थितिमान्। दशरूपकस्य हि धनिकस्य अवलोकाख्या वृत्तिर्लभ्यते । एतदतिरिक्तं नृसिंहभट्टस्य टीका, देवपाणेर्व्याख्या, कुरविरामस्य विवृतिः, बहुरूपमिश्रस्य टीका, वेणीधरमिश्रस्य टीका, लोकमणिदाहालस्य कलाख्या टीका समुल्लेखनीयाः । सुदर्शनस्य पाञ्चनदस्य कलाख्या विवृतिश्च प्रसिद्धा । तासु हि लोकमणिदाहालस्य कलाख्या टीका नाट्यविषये तुलनात्मकमध्ययनमपि प्रस्तुवन्ती सम्बद्धविषयस्य विश्वकोश एव मन्यते। ग्रन्थस्यास्योपजीव्यग्रन्थो भरतप्रणीतं नाट्यशास्त्रमेव किन्तु संरचनादृष्ट्याऽयं भिन्नरूपेणोपतिष्ठते । अत्र -
नानावश्यकविस्तारः प्रस्तुतिः क्रमबद्धता ।
वस्तुनेतृरसादीनां सङ्क्षेपात् पूर्णचिन्तनम् ।।
पूर्वाचार्यमतोल्लेखोऽस्वीकार्ये तस्य खण्डनम्।
स्वमतस्थापना चैव वैशिष्ट्यं दशरूपके।।
नाट्ये शमविरोधोऽथ त्रिभेदा नायिका तथा।
शृङ्गारस्य त्रयो भेदा दशरूपविशेषता।।
यथेच्छशब्दनिर्वाहच्छन्दोगौरवकारणात्।
लघुदीर्घसमासानां ब्यत्ययो नवकल्पना।।
अनेकरूपविन्यासश्शब्दानां सूत्रधृद् यथा ।
पारिभाषिकशब्दानां बाहुल्याद्विनियोजनम् ।
निद्रार्थे स्वापशब्दस्य व्याध्यर्थे अतिरूपतः।। इत्यादि।
अत्र हि त्रिशतमिताः कारिकाः सन्ति सुसन्नद्धाः । ग्रन्थोऽयं चतुर्षु प्रकाशेषु विभक्तः । प्रथमे हि प्रकाशे ग्रन्थप्रयोजनं नाट्यलक्षणं पञ्चसन्धयः अर्थोप्रक्षेपकाश्च सप्रपञ्चं निरूपिताः। द्वितीये हि नायिकानायकभेदवृत्यादीनां निरूपणम् । तृतीये नाटकलक्षणं तत्स्वरूपञ्च सप्रपञ्चं निरूपितम् । चतुर्थो हि प्रकाशो रसविवेचकः । धनञ्जयमते रसो हि सामाजिके एवोत्पद्यते । स च विभावादिभिः स्वाद्यत्वमानीयते । रामादिगतधीरोदात्ताद्यवस्था परित्यक्तविशेषाः सत्यो रसहेतवो भवन्ति । काव्यार्थभेदादात्मानन्दसमुद्भवः स्वादः । स च चेतसो विकास-विस्तर-क्षोभ-विक्षेपरूपेण चतुर्विधः । ग्रन्थस्यास्य विषये कलाटीकायाः भूमिकाभागे विस्तरेण विवरणं प्राप्यते।
कुन्तकः
[सम्पादयतु]राजानककुन्तकः काव्यशास्त्रजगति वक्रोक्तिसम्प्रदायप्रवर्तकः । तस्य हि वक्रोक्तिजीवितं काव्यालङ्कारग्रन्थेषु महनीयम् । स हि आनन्दवर्धनमतमुल्लिखतीति इयमेव तस्य स्थितिकोलस्य पूर्वसीमा। महिमभट्टो हि तं नामत एवं गृह्णाति इति तस्यावरसीमा । तेन कुन्तको हि काश्मीरो वैक्रमदशमशतकोत्तरार्द्धभवः । राजशेखरस्तं नैव स्मरतीति कुन्तकस्य तत्परवर्तित्वं स्पष्टमेव मन्यते।
कुन्तको हि वक्रोक्तिमेव काव्यसर्वस्वं मन्यते । तन्मते स्वभावोक्तिः नैव अलङ्कारः । तत्र हि चत्वारः उन्मेषाः । प्रथमे हि काव्यस्वरूपविचारो वक्रताप्रकारनिरूपणञ्च कविमार्गनिरूपणं तत्तद्गुणविश्लेषणञ्च । द्वितीये वर्णविन्यासपदवक्रतायाः भेदोपभेदेन सह विवेकः । तृतीये वाक्यवक्रतास्वरूपनिर्धारणम् । चतुर्थे तु प्रकरणप्रबन्धगतवक्रताप्रतिपादनमिति।
वैदग्ध्यभङ्गिभणितिरेव वक्रोक्तिः । सा च षड्विधा - वर्णविन्यासवक्रता-पदपूर्वार्धवक्रता-प्रत्ययाश्रयवक्रता-वाक्यवक्रता-प्रकरणवक्रताभेदात् । काव्यमार्गस्त्रिविधः सुकुमार-मध्यम-विचित्रभेदात्। ग्रन्थस्यास्य परमेश्वरदीनस्य सुधाख्या, लोकमणिदाहालस्य कलाख्या च प्रथमोन्मेषव्यापिटीकाग्रन्थौ । एतस्य विस्तृतं विवरणं कलाटीकायाः भूमिकायां प्राप्यते।
महिमभट्टः
[सम्पादयतु]भट्टनायकवद् ध्वनिविरोध्याचार्यत्वेन महिमभट्टोऽपि स्मृतः । तस्य हि व्यक्तिविवेकः प्रसिद्धः ग्रन्थः । असौ हि श्रीधैर्याख्यस्य पुत्रः श्यामलाख्यस्य शिष्यः । महिमभट्टो हि काश्मीर इति तस्य राजानकोपाधिधारित्वेन ‘प्रणम्य परां वाचम्' इति कथनेन च सिध्यति । स च कुन्तकं वक्रोक्तिकार -
काव्यकाञ्चनकषाश्ममानिना कुन्तकेन निजकाव्यलक्ष्मणि।। इति स्मरति ।
तेन कुन्तकस्थितिकाल एव तस्यापि स्थितिकालस्य पूर्वसीमा । एवं हि हेमचन्द्रः स्वप्रणीतस्य काव्यानुशासनस्य स्वोपज्ञविवृतौ पङ्क्तिशोऽक्षरश्च उद्धरति । इयमेव महिमभट्टस्य स्थितिकालस्यावरसीमा । हेमचन्द्रो हि १२०० मितवैक्रमाब्दमभितः स्थितिमान् । एवमेव श्रीहर्षः कान्यकुब्जेश्वरस्य जयचन्द्रस्य सभापण्डितो व्यक्तिविवेक नामत एवं स्मरति -
दोषं व्यक्तिविवेकेऽमु कविलोकविलोचने।
काव्यमीमांसिषु प्राप्तमहिमा महिमाऽऽदृतः।। इति कथनेन ।
ग्रन्थस्यैतस्य हि टीकाकृद् राजानको रुय्यकः । स हि श्रीकण्ठचरितप्रणेतुः मङ्खस्य गुरुः । तेन हि तस्य स्थितिकालो विक्रमान्तरद्वादशशतकपूर्वार्द्धमितः । अतो हि महिमभट्टस्य स्थितिकालो विक्रमानन्तरं ११००-११८० मिताब्दानभितः आपततीति विपश्चितां मतम्। ग्रन्थस्यास्य प्रयोजनं ध्वनेरनुमानेऽन्तभवनम् । स स्वयमेव कथयति -
अनुमानेऽन्तर्भावं सर्वस्यैव ध्वनेः प्रकाशयितुम्।
व्यक्तिविवेकं कुरुते प्रणम्य महिमां परां वाचम्।। इति ।
ध्वनिव्याख्यानानन्तरं बहवो हि ध्वनिविरोधिन आचार्या अपि अभूवन्, येषु हि मुकुलभट्ट-धनञ्जय-भट्टनायक-कुन्तक-महिमभट्टाः अप्यासन् । तेषु हि मुकुलभट्टभट्टनायकौ मीमांसकौ अभिधाप्राधान्यवादिनौ । मीमांसाशास्त्रे हि व्यञ्जनायाः ध्वनेश्च न किमपि स्थानम् । महिमभट्टो हि नैयायिको यतो हि स प्रमेयभूतं ध्वनिं तु साधारणरूपेण किन्तु प्रमाणभूतान्युदाहरणानि विशेषरूपेणानुमानेऽन्तर्भावनाय प्रयतते ।
व्यक्तिविवेके त्रयो विर्मशाः । तत्र हि प्रथमे विमर्शे ध्वनिलक्षणसन्दूषणम्, द्वितीये शब्दानौचित्यविचारस्तृतीये तु ध्यनेरनुमानेऽन्तर्भावोपदर्शनम् । ग्रन्थस्यास्य रुय्यकव्याख्यानातिरिक्तं मधुसूदनस्य विवृतिरपि लभ्यते। एतदतिरिक्तं महिमभट्टस्य तत्त्वोक्तिकोशाख्यो ग्रन्थोऽप्यासीद्यत्र प्रतिभा तत्त्वं निरूपितमासीत् किन्तु स सम्प्रति नैवोपलभ्यते ।
क्षेमेन्द्रः
[सम्पादयतु]यथा हि आनन्दवर्धनोदयेन काव्ये ध्वनिसम्प्रदाय उदितो यथा वा वामनागमनेन रीतिसम्प्रदायो यथा वा कुन्तकप्रयासेन वक्रोक्तिसम्प्रदायो राजशेखराभ्युदयेन कविशिक्षासम्प्रदायश्च तथैव क्षेमेन्द्रस्य प्रवेशेन औचित्यविचारसम्प्रदायः काव्यशास्त्रे समारब्धः । क्षेमेद्रो हि अभिनवगुप्तस्य शिष्यः इति कथ्यते । सोऽपि काश्मीरः । तस्य पिता प्रकाशेन्द्रः सिन्धुश्च माता । क्षेमेन्द्रप्रणीतत्वेन बहवो ग्रन्था निर्दिष्टाः सन्ति, येषु हि औचित्यविचारचर्चा, सुवृत्ततिलकं, कविकण्ठाभरणञ्चेति ग्रन्थत्रयी काव्यशास्त्रसम्बद्धा । स हि काश्मीरकानन्तराजसमकालिक इति तस्यैव कविकण्ठाभरणे उल्लिखितम् अस्ति। यथा -
तस्य श्रीमदनन्तराजनृपतेः काले किलायं कृतः। इति।
राज्ये श्रीमदनन्तराजनृपतेः काव्योदयोऽयं कृतः।।
इत्योचित्यविचारचर्चायां कथनाज्ज्ञायते । अनन्तराजो हि १०८५-११२० मितवैक्रमाब्देषु काश्मीरभुवं शशासेति राजतरङ्गिणीतो ज्ञायते । तस्य हि पुत्रः कलशाख्यः ११२० मितवैक्रमाब्दादेव राज्येऽधिकृत आसीद्यद्यपि अनन्तराजः ११५८ मितवैक्रमाब्दपर्यन्तं जीवित आसीत् । तेन क्षेमेन्द्रस्यापि तावानेव स्थितिकालोऽर्थात् १०६०-११५० मितवैक्रमाब्दान्तराले स हि स्थितिमान्।
औचित्यविचारचर्चायां हि औचित्यमेव काव्यस्य जीवनं मतमस्ति । तत्र पद-वाक्य-प्रबन्ध-अर्थ-गुण-अलङ्कार-रस-क्रिया-कारक-लिङ्ग-वचन-विशेषण-उपसर्ग-निपात-काल-देश-कुल-व्रत-तत्त्व-सत्त्व-अभिप्राय-स्वभाव-सारसङ्ग्रह-प्रतिभा-अवस्था-विचार-नाम-आशीःप्रभृतिकाव्याङ्गेषु औचित्यं निर्दिष्टमस्ति । अद्यापि औचित्यं तत्पूर्ववर्तिभिराचार्यैरपि सिद्धान्तितमेव, निरौचित्यस्य काव्यत्वं न कोऽपि मन्यते, तथापि तस्य काव्यजीवितत्वेन तु क्षेमेन्द्रेणैव निर्दिष्टमिति तस्यौचित्यसम्प्रदायप्रवर्तकत्वं मन्यते।
कविकण्ठाभरणे हि कवित्वप्राप्ति-कविशिक्षाकथन-चमत्कारकथन-गुणदोषविभाग-परिचयप्राप्त्याख्याः पञ्चसन्धयः। सुवृत्ततिलके हि वृत्तावचय-गुणदोषकथन-वृत्तविनियोगाख्यास्त्रयो विन्यासाः। औचित्यविचारचर्चायाः रमाख्या रमाशङ्करत्रिपाठिप्रणीता प्रतिपदव्याख्या, लोकमणिदाहालप्रणीता लीलाविवृतिश्च ज्ञाताष्टीकाः । यथोक्तं लीलाख्यविवृत्याः प्रारम्भवाक्ये -
मेधाविनं भामहदण्डिरुद्रान् क्षेमेन्द्रमादौ मनसा प्रणम्य।
मृडार्चको लोकमगिर्दहालो व्याख्याम्यथौचित्यविचारचर्चाम्।। इति।
भोजदेवः
[सम्पादयतु]भोजराजस्य सरस्वतीकण्ठाभरणं काव्यशास्त्रेतिहासे प्रसिद्धः वर्तते। भोजो हि धारानगरीशः सरस्वतीलक्ष्मीभूमीनां समान एवाश्रयः । मालवेशः स काश्मीरकानन्तराजसमकालिक इति।
स च भोजनरेन्द्रश्च दानोत्कर्षेण विश्रुतौ।
सूरी तस्मिन् क्षणे तुल्यं द्वावास्तां कविबान्धवौ।।[७]
इति राजतरङ्गिणीवचनाज्ज्ञायते । स चेति अनन्तराजः कुलशपिता । अनन्तराजश्च १०२०-११५८ मितवैक्रमाब्दानभितः स्थितिमानिति राजतरङ्गिणीतो ज्ञायते । एतदतिरिक्तं १०७८ मितवैक्रशाब्दे कृतं भोजस्य दानपत्रमपि लभ्यत इति तस्यापि स्थितिकालः १०३०-१११० मितवैक्रमाब्दान्तरालवर्तीति समनुमीयते । भोजराजस्य सरस्वतीकण्ठाभरणं, शृङ्गारप्रकाशश्च काव्यसम्बद्धग्रन्थौ ।
सरस्वतीकण्ठाभरणे ५ परिच्छेदाः सन्ति । एतस्मिन् ६४३ कारिकाः सन्ति । प्रथमे परिच्छेदे काव्यस्य गुणदोषाणां विस्तृतं विवेचनं विद्यते। द्वितीये परिच्छेदे शब्दालङ्काराणां, तृतीयपरिच्छेदे अर्थालङ्काराणां, चतुर्थपरिच्छेदे च उभयालङ्काराणां वर्णनं कृतं वर्तते। पञ्चमे परिच्छेदे भोजराजः रसानां, भावानां पञ्चसन्धीनां चतसृणां वृत्तीनां च वर्णनमकरोत्।
शृङ्गारप्रकाशे हि षट्त्रिंशत्प्रकाशाः । तत्र हि आद्याष्टप्रकाशेषु शब्दार्थविषयकवैयाकरणमतानि निरूपितानि । नवमे गुणाः, दशमे दोषाः, एकादशे महाकाव्यं, द्वादशे नाट्यञ्च सप्रपञ्च निरूपितानि । शेषेषु चतुविंशतिप्रकाशेषु साङ्गोपाङ्गं रसाः विवेचिताः । भोजमते तु शृङ्गार एव सर्वरसेश्वरः सर्वरसानां रसश्च । यथोक्तम् -
शृङ्गारवीरकरुणाद्भुतरौद्रहास्यबीभत्सवत्सलभयानकशान्तनाम्नः।
अम्नासिषुर्दश रसान् सुधियो वयं तु शृङ्गारमेव रसनाद्रसनाम नाम।। इति ।
किन्तु तन्मते यः शृङ्गारः स न केवलं युनोः परस्पराकाङ्क्षात्मापितुः । धर्मार्थकाममोक्षाख्य-चतुर्विधभेदात्मकः । काव्यशास्त्रकानने हि शृङ्गारप्रकाशः सर्वाधिकदीर्घकायं पुष्पं प्राप्यते।
मम्मटः
[सम्पादयतु]मम्मटाचार्यस्य काव्यप्रकाशः काव्यशास्त्रजगति प्रसिद्धः ग्रन्थः। स हि काव्यशास्त्रस्य सहस्राब्द्यजतानुभवं संगृह्णाति । भोजमनु मम्मट एवोदेति सर्वमान्यालङ्कारिकरूपेण । स हि दशमोल्लासे उदात्तालङ्कारोदाहरणे - 'यद्विद्वद्भुवनेषु भोजनृपतेस्तत्त्यागलीलायितम्।' इति प्रस्तौति । तेनास्य स्थितिकालस्य पूर्वसीमा तु भोजसमय एव अर्थात् १०२०-१११० मितवैक्रमाब्दमितः कालः । तेन हि सामान्यतः १०५०-११३० मितवैक्रमाब्दानभितो मम्मटस्य स्थितिकालः सिध्यति । स हि प्रायो भोजसमकालिको वा किञ्चिन्मात्रोत्तरकालवर्ती ।
मम्मटस्य पिता जैयटाख्यः उन्वटकैयटौ तु तस्य भ्रातराविति सुधासागरकारेण भीमसेनोतं किन्तु अन्वटस्तु आत्मानं वज्रटाख्यस्य पुत्रं मन्यते तेन स हि तस्य पितृव्यपुत्रः सम्भवति । जैयटवज्रटौ हि भ्रातरौ ययोः प्रथमस्य मम्मटकैयटावपरस्य उन्वटः पुत्रः। मम्मटस्य पुत्रो हि अल्लटः इति केषाञ्चिन्मतम् । अपरेषां मते तु भ्राताऽपि।
सागरनन्दी
[सम्पादयतु]सागरनन्दिनो नाटकलक्षणरत्नकोशो नाट्यविषयप्रतिपादकः । धनञ्जयस्य (१०००-१०८० वै०) दशरूपकप्रणयनस्यैकशताब्द्यनन्तरं प्रणीतोऽसौ ग्रन्थः । नन्दिवंशोद्भवः सागरो राजशेखरस्य बिद्धशालभञ्जिकामुद्धरतीति तस्य राजशेखरस्थितिकाल एव पूर्वसीमा। राजशेखरो हि वैक्रमशमशतकोत्तरार्द्धभवः । समुपलब्धप्रमाणतो हि सागरनन्दिनः स्थितिकालो वैक्रमानन्तरद्वादशशतकोत्तरार्द्ध इत्यनुमीयते । अत्र हि नाटकलक्षणं कथावस्तुनः स्वरूपं, तस्यावस्थार्थप्रकृति-सन्धि-सन्ध्यङ्ग-सन्ध्यन्तर-पताकास्थानक-वृत्ति-लक्षण-भूषण-गुण-रसभावादि-भाषाविधान-पात्रविवेक-नायकनिरूपण-नायिकाविनेक-रूपकोपभेदप्रभृतिविषयाः सप्रपञ्चं निरूपिताः सन्ति । ग्रन्थोऽयं नाट्यविद्यायाः समग्रमवयवं तु नैव प्रस्तौति तथापि यदेव निरूपितं तत्सटीकं निरूपितमस्ति ।
रुय्यकः
[सम्पादयतु]राजानकरुय्यकस्य अलङ्कारसर्वस्वस्य काव्यशास्त्रजगति प्रवेशोऽपि महत्त्वमावहति । रुय्यको हि काश्मीरः काव्यप्रकाशस्य सङ्केताख्यां टीकां प्राणैषीदिति स्पष्टमेव तस्य मम्मटान्तरवर्तित्वम् । तथैव सः १२०२ मितवैक्रमाब्दमभितः प्रणीतान्मङ्घकस्य श्रीकण्ठचरिताच्छ्लोकानुद्धरतीति तस्य मङ्खकसमकालिकत्वम् । मङ्खको हि तस्य शिष्य इत्यपि प्रसिद्धिः । तेन हि रुय्यकस्य स्थितिकालो विक्रमानन्तरद्वादशशतकपूर्वार्द्ध इति मन्यते । तस्य हि काव्यप्रकाशस्य संकेतटीका, व्यक्तिविवेकस्य टीका, सहृदयलीला, अलङ्कारसर्वस्वञ्च प्रसिद्धाः ग्रन्थाः।
अलङ्कारसर्वस्वे हि एकादश शब्दालङ्कारा अशीतिमितार्थालङ्काराश्च निरूपिताः सन्ति । अस्य हि सन्ति तिस्रः प्रकाशिता अप्रकाशितास्ततोऽव्यधिकाष्टीकाः । तासु हि श्रीविद्या चक्रवर्तिनः सञ्जीवनी, समुद्रबन्धस्य विवरणं, जयरथस्य विमर्शिनी च ज्ञाताः। श्रूयतेऽस्य अलकप्रणीता टीकाऽपि।
हेमचन्दः
[सम्पादयतु]हेमचन्द्राचार्यस्य काव्यानुशासनं स्वविषये सर्वाङ्गपूर्णग्रन्थः । सामान्यतो भोजीयं सरस्वतीकण्ठाभरणं विशेषतो मम्मटं काव्यप्रकाशमुपजीवति ग्रन्थेऽस्मिन् काव्यप्रयोजन-कारण-स्वरूप-गुण-दोष-अलङ्कार-रस-शब्दार्थ-रूपभेद-पदवाक्यार्थदोष-नायकादिकाव्यभेदाश्च सप्रपञ्चं निरूपिताः सन्ति ।
हेमचन्द्रो हि ११४५ मितवैक्रमाब्दे जनिं लब्ध्वा १२२९ मितिवैक्रमाब्दे निर्वाणं प्राप्तवान् । स हि अनहिलपट्टनस्य चालुक्यवंशस्य राज्ञः सिद्धराजस्य ( ११५०-१२०० वै०) सभापण्डितस्तत्पुत्रस्य कुमारपालस्य च गुरुः । तत्प्रणीताः सन्त्यनेके ग्रन्था येषु सिद्धहैमशब्दानुशासनं व्याकरणसम्बद्धं, काव्यानुशासनं काव्यशास्त्रीयञ्च प्रसिद्धौ । काव्यानुशासनस्य स्वोपज्ञा अलङ्कारचूडामणिसंज्ञिना वृत्तिरस्ति । अष्टास्वध्यायेषु प्रविभक्तोऽयं ग्रन्थ स्वपूर्ववर्तिमतमतान्तरं साधु संगृह्णाति । सवृत्तिकस्यैव ग्रन्थस्य काव्यानुशासनं नाम न तु मूलमात्रस्य । तस्य च विवेकाऽऽख्या स्वोपज्ञव्याख्याऽपि लभ्यते । बृहत्कलेवरेऽपि ग्रन्थेऽस्मिन् न किमपि नवीनं वस्तु ।
रामचन्द्र-गुणचन्द्रौ
[सम्पादयतु]रामचन्द्रगुणचन्द्रप्रणीतो हि नाट्यदर्पणः काव्यशास्त्रेऽपरो ग्रन्थः । ग्रन्थोऽयं नाट्यविषयसम्बद्धः प्रायेण दशरूपकानुसारी । ग्रन्थेऽस्मिन् चत्वारो विवेकाः । तत्र प्रथमे हि विवेके नाट्यनिर्णयो द्वितीये प्रकरणाचेकादशरूपकनिर्णयः, तृतीये वृत्तिरसभावाभिनयविचारः चतुर्थे तु सर्वविधरूपकसाधारणलक्षणविचारश्च विषयाः । शान्तस्य नाट्येपि नवमरसत्वसाधनं ग्रन्थस्यास्य वैशिष्ट्यम् । यथोक्तं तत्र -
संसारभयवैराग्यतत्त्वशास्त्रविमर्शनैः।
शान्तोऽभिनयनं तस्य क्षमाध्यानोपकारतः।।[८]
युग्मकर्तृकस्य ग्रन्यस्यास्य ग्रन्थकाराभ्यामेव प्रणीता वृत्तिरपि लभ्यते । गुणचन्द्रस्य तु पृथग्ग्रन्थो नैवोपलभ्यते किन्तु रामचन्द्रस्य हि १९० मिताः ग्रन्थाः आसन्निति मन्यते । तौ हि हेमचन्द्रस्य साक्षाच्छिष्यावास्तामिति मन्यते। तेन हि तयोः स्थितिकालः ११५०-१२३१ मितवैक्रमाब्दान्तरालवर्ती । कथ्यते हि रामचन्द्रोऽजयपालेन १२३१ तमे वैक्रमाब्दे मृत्युदण्डेन घातित इति।
वाग्भटः (प्रथमः)
[सम्पादयतु]काव्यशास्त्रेतिहासे वाग्भटस्य प्रवेशः स्वकीयवैशिष्टयमादधाति । अस्य हि वाग्भटालङ्कारसंज्ञको ग्रन्थः काव्यशास्त्रीयः । केचित्तु काव्यानुशासन-अष्टाङ्गहृदय-प्रभृतिग्रन्थानां प्रणेतृत्वनामुमेव गृह्णन्ति, किन्तु यथार्थता का तद्भिर्नैव । काव्यानुशासनकारो हि गुणनिरूपणप्रसङ्गे स्वयमेव 'इति दण्डिवामनवाग्भटादिप्रणीता दश काव्यगुणा वयन्तु माधुर्यौजःप्रसादलक्षणांस्त्रीनेव गुणान्मन्यामहे । शेषास्तेष्वन्तर्भवन्ति' इति कथयति । पुनश्च स तत्रैव 'यदाह-माधुर्यौजःप्रसादाख्यस्त्रयस्ते न पुनर्दश"................... इत्यादिकाव्यप्रकाशकारिकामुद्धरति । तेन स्पष्टमेवेदं यद् वाग्भटालङ्कारस्य प्रणेता वाग्भटः काव्यानुशासनकृतोऽन्य एव पूर्ववर्ती च । असौ हि सोमाख्यस्य पुत्रः । तस्य हि स्थितिकालः ११३०-१२३० मितवैक्रमाब्दानभितोऽनुमितः स हि ११५०-१२११ मितवैक्रमाब्दानभितः सिंहासनासीनस्य जयसिंहस्य मुख्यामात्यो गुरुश्च अष्टाङ्गहृदयकृद् वाग्भटस्तु सिंहगुप्तसूनुः वाग्भटालङ्कारकृतोऽन्य एव । काव्यानुशासनकृद् वाग्भटस्तु नेमिकुमारस्य सुत इति ग्रन्थकारस्यैव स्वोपज्ञवृत्तितो ज्ञायते । सिंहगुप्तस्य पिताऽपि वाग्भटाख्यः स्वाऽऽसीदिति -
भिषग्वरो वाग्भट इत्यभून्मे पितामहो मागधरोऽस्मि यस्य।
सुतोऽभवत्तस्य च सिंहगुप्तस्याऽप्यहं सिन्धुषु लब्धजन्मा।।[९] इति कथनाज्ज्ञायते ।
तेन हि चत्वारो वाग्भटनामधारिणो विचक्षणा दृश्यन्ते । एको वाग्भटालङ्कारस्य प्रणेता सोमाख्यस्य सूनुर्जयसिंहस्य गुरुः ११३०-१२३० मितवैक्रमाब्दानभितः स्थितिमान्, द्वितीयस्तु काव्यानुशासनस्य प्रणेता नेमिकुमारसूनुः महानविर्नलोटकपुरवास्तव्यः, तृतीयो हि अष्टाङ्गहृदयस्य प्रणेता अष्टाङ्गसंग्रहस्य च कर्ता सिंहगुप्तसूनुः सिन्धुवास्तव्यश्चतुर्थस्तु तस्यैव पितामहश्च ।
वाग्भटालङ्कारो हि काव्यशास्त्रसम्बद्धो ग्रन्थः। अत्र हि पञ्चपरिच्छदाः । अत्र हि काव्यशास्त्रस्य सर्वोऽपि विषयाः साररूपेण निरूपिताः । अस्य हि जिनवर्धनप्रणीता, सिंहदेवगणिप्रणीता, क्षेमहंसगणिप्रणीता, अनन्तभट्टगणेशप्रणीता, राजहंसोपाध्यायप्रणीता चेति पञ्च व्याख्याग्रन्थाः सन्ति ।
अरिसिंहामरचन्द्रौ
[सम्पादयतु]अरिसिंहामरचन्द्राभ्याञ्च प्रणीता काव्यकल्पलता काव्यशास्त्रेतिहासे प्राप्तास्पदा । उभावेव जिनदत्तसूरिणः शिष्यौ काव्यकल्पलतावृत्तौ हि चत्वारि प्रतानानि, छन्दःसिद्धिः, शब्दसिद्धिः, श्लेषसिद्धिरर्थसिद्धिश्चेति । अनयोः हि स्थितिकालो विक्रमानन्तरत्रयोदशशतकपूर्वार्द्ध इत्यनुमितः ।
देवेश्वरः
[सम्पादयतु]देवेश्वरस्य कविकल्पलताऽपि प्रसङ्गेऽस्मिन् स्मरणीया, अस्य हि स्थितिकालो वैक्रमचतुर्दशशतकमितः । असौ हि काव्यकल्पलताया एव छाया । कालश्चास्य वैक्रमत्रयोदशशतकोत्तरार्द्धमितः।
वाग्भटः ( द्वितीयः )
[सम्पादयतु]वाग्भटस्य हि नेमिकुमारसूनोः काव्यानुशासनं काव्यशास्त्रसम्बद्धं विषयं सङ्क्षेपेण वर्णयति । अस्य हि स्थितिकालो विक्रमानन्तरत्रयोदशशतकोत्तरार्द्धमितः । ग्रन्थोऽयं हेमचन्द्रानुसारी । ग्रन्थस्यास्य ग्रन्थकर्तुरेव स्वोपज्ञा वृत्तिः लभ्यते। अत्र हि पञ्चाध्यायाः । तत्र प्रथमे हि काव्यसमय-काव्यस्वरूप-भाषाभेदादिविवेचनं, द्वितीये शब्दार्थदोषनिरूपणं गुणविवेचनञ्च, तृतीये ह्यर्थाङ्कारविवेकः, चतुर्थे शब्दालङ्कारविचारः, पञ्चमे तु रसनिरूपणमिति ।
जयदेवः
[सम्पादयतु]जयदेवस्य चन्द्रालोको नितरां निरूपणीयो ग्रन्थः । यद्यपि जयदेवस्य देशकालविषये सम्प्रत्यपि विवाद एव पण्डितानां तथापि एतावन्तु निर्णीतमेव यच्चन्द्रालोकस्य प्रसन्नराघवस्य च प्रणेता एक एव जयदेवो महादेवस्य तनयः सुमित्राकुक्षिजः । गीतगोविन्दकारस्तु भोजदेवाख्यस्य सुतो राधादेवी गर्भजः । चन्द्रालोककारो हि जयदेवो रुय्यकोद्भावितविकल्पाद्यलङ्कारान् परिस्करोति इति तस्य रुय्यकपरवर्तित्वं विश्वनाथो हि प्रसन्नराघवस्य 'कदलिः केदलिः करभः करभः करिराजकरः' इत्यादिपद्यमर्थान्तरसङ्क्रमितवाच्यस्योदाहरणे समुद्धरतीति तस्य तत्पूर्ववतत्वञ्च । रूप्यकस्य स्थितिकालो द्वादशशतकपूर्वार्द्धमितो विश्वनाथस्य च पञ्चदशशतकपूर्वार्द्धमितो तयोरन्तरालवर्तिनो जयदेवस्य पीयूषवर्षस्य स्थितिकालः १२६०-१३४० मितैक्यमाब्दानभितः आपतति ।
चन्द्रालोके हि दश मयुखाः । तत्र प्रथमे ग्रन्थप्रयोजनं, काव्यकारणं, काव्यस्वरूपकथनं, शब्दत्रैविध्यकथनं, द्वितीये दोष-निरूपणं, तृतीये लक्षनिरूपणं, चतुर्थे गुणविवेकः, पञ्चमेऽलङ्कारनिरूपणं, षष्ठे रसनिरूपणं, सप्तमे व्यञ्जनीया ध्वनेश्च निरूपणम्, अष्टमे गुणीभूतव्यङ्ग्यस्य निरूपणं, नवमे लक्षणनिरूपणं, दशमेऽभिधाविवेक इति।
ग्रन्थस्यास्य प्रद्योतमस्य शरदागमः, वैद्यनाथस्य रमा, गागाभट्टस्य राका, नन्दकिशोरशर्मणः पौर्णमासी, विरूपाक्षस्य शारदाशर्वरी तथैव चन्द्रालोकदीपिका, निगूढार्थदीपिका, बालचन्द्रचन्द्रिका एवमेव कृष्णमणेः विमलाख्या, हरेकान्तमिश्रस्य इन्दुश्री-संज्ञिता, गौरीनाथपाठकस्य चन्द्रिका च ज्ञाताः केचन व्याख्याग्रन्थाः ।
विद्याधरः
[सम्पादयतु]विद्याधरस्य एकावली काव्यशास्त्रे स्तुतिसाहित्यं प्रवेशयति । स हि १३३७-१३७० मितवैक्रमाब्दानभितः स्थितिमतः उत्कलाधिपतेः नरसिंहदेवस्य सभापण्डितः आसीत् । तेन तावन्मित एवास्य स्थितिकालोऽपि । एकावल्याः मल्लिनाथप्रणीता तरला टीका लभ्यते । ग्रन्थेऽस्मिनष्टावुन्मेषाः काव्यस्वरूप-वृत्तिविचार-ध्वनिभेद-गुणीभूतव्यङ्ग्य-गुण-रीति-दोष-शब्दालङ्कारार्थालङ्काराख्याः । ग्रन्थोऽयं काव्यप्रकाशमलङ्कारसर्वस्वञ्चोपजीवति । अत्र नरसिंहदेवस्य उत्कलनरेशस्य ग्रन्थकर्ता स्वयम्प्रणीतानि स्तुतिपद्यानि उदाहृतानि सन्ति । स स्वयमेव कथयति -
"एषु विद्याधरस्तेषु कान्तासम्मितलक्षणम्।
करोमि नरसिंहस्य चाटुश्लोकानुदाहरन्।।" इति ।
विद्यानाथः
[सम्पादयतु]विद्यानाथस्य प्रतापरुद्रयशोभूषणमपि ऐकावलीमेवानुसरति । ग्रन्थोऽयम् आन्ध्रप्रदेशस्य, काकतीयदशस्य राज्ञः प्रतापरुद्रस्य प्रशंसायां ग्रन्थर्त्रेव प्रणीतानि पद्यान्युदाहरणत्वेनोपस्थापितानि सन्ति । तस्य च स्थितिकालः १३५५-१३७४ वैक्रमाब्दानभितः । तावन्मित एव विद्यानाथस्यापि स्थितिकालः । अत्र हि नायकप्रकरणं, काव्यप्रकरणं, नाटकप्रकरणं, रसप्रकरणं, दोषप्रकरणं, गुणप्रकरणम्, अलंकारप्रकरणञ्चेति सप्त प्रकरणानि । नायकप्रकरणे नायकगुणाः नायकस्वरूपं, नायकविशेषाः, शृङ्गारनायकाः पीठमर्दादयः शृङ्गारनायिका अलङ्कार्यालङ्कारभावस्य तथा रसप्राधान्यालङ्कारप्राधान्यवस्तुप्राधान्यादीनाञ्च विवेचनं, काव्यप्रकरणे काव्यस्वरूपं, शब्दत्रैविध्यं, वृत्तित्रैविध्यं, वृत्तयो रीतयः, काव्यविशेषाः, महाकाव्यादिलक्षणं, क्षुद्रबन्धनिरूपणं, नाटकप्रकरणे नाट्यस्वरूपं, पञ्चसन्धयः, आमुखं, वीथ्यङ्गानि नाटकलक्षणं, नाटकोदाहरणं सप्रपञ्चं निरूपितानि । ग्रन्थस्यास्य मल्लिनाथसुतस्य कुमारस्वामिनो रत्नापणाख्या टीका लभ्यते ।
विश्वनाथः
[सम्पादयतु]कविराजविश्वनाथस्य साहित्यदर्पणं काव्यशास्त्रस्य विश्वकोश एव । विश्वनाथो हि कलिङ्गदेश्यो महासन्धिविग्रहकः । स हि -
सन्धौ सर्वस्वहरण विग्रहे प्राणनिग्रहः।
अलावुद्दीननृपतौ न सन्धिर्न च विग्रहः।।[१०]
इति १३५३-१३७३ मितवैक्रमाब्दामभितः स्थितिमन्तं तदाख्यं देहलीशासकं स्मरति, येन हि समाक्रम्य एकशिलाऽवलण्ठिताऽऽसीत् १३६५ मिते वैक्रमाब्दे । तेन हि विश्वनाथेन तदनन्तरवर्तिना भाव्यमिति तस्य पूर्वसीमा स्थितिकालस्य । काश्मीरेषु हि जम्मूप्रदेशस्थपुस्तकालये १४४० मितवैक्रमाब्दे पुनर्लिखिता साहित्यदर्पणस्य प्रतिर्लभ्यते इति नूनमेव तेन तत्पूर्ववर्तिना भाव्यमिति तस्यावरसीमा स्थितिकालस्य । तेन हि १३६५-१४४० मितवैक्रमाब्दान्तरालवर्ती सः । तत्रापि प्रचारं पुनर्लेखननिमित्तं न्यूनमपि त्रिंशद्वर्षभितसमयं परिकल्प्य १३३०-१४१० मितवक्रमाब्दसमयो विश्वनाथस्थितिकालस्य।
विश्वनाथस्य हि कृतयः साहित्यदर्पणः, काव्यप्रकाशदर्पणः, राघवविलासमहाकाव्यं, कुवलयाश्वचरितकाव्यं, प्रभावतीपरिणयनाटिका, चन्द्रकलानाटिका, नरसिंहविजयकाव्यं, प्रशस्तिरत्नावली चेति।
साहित्यदर्पणो हि काव्यशास्त्ररत्नभूतो ग्रन्थः । अत्र हि दश परिच्छेदाः सन्ति, यत्र प्रथमे काव्यविवेकः, द्वितीये शब्दशक्तयः, तृतीये रसनिरूपणम्, चतुर्थे ध्वनिविवेकः, पञ्चमे व्यञ्जनावृत्तिनिरूपणं, षष्ठे काव्यविभागः, सप्तमे दोषप्रपञ्चः, अष्टमे गुणनिरूपणं, नवमे रीतिनिरूपणं, दशमे शब्दार्थालङ्कारविचार इति विवेच्यविषयाः ।
काव्यशास्त्रविषये वस्तुतस्तु विश्वनाथो मम्मटमेवानुसरति किन्तु मम्मटं यत्र तत्र दूषयत्यपि । विशेषतः काव्यप्रकाशसम्मत-काव्यपरिभाषां स सर्वात्मना दोषयति स्थापयति च स्वसम्मतं लक्षणं 'वाक्यं रसात्मकं काव्यम्' इति । सन्त्यनेकाष्टीका यासु ग्रन्थकारस्यैवात्मजस्य अनन्तदासस्य लोचनाख्या व्याख्या, महेश्वरराख्यस्य विज्ञप्रिया टीका, रामचरणतर्कवागीशस्य विवृतिः, जीवानन्दविद्यासागरस्य विमला, गुरुनाथदिद्यानिधिभट्टाचार्यस्य मूलविवृतिसंस्कृतिः, शिवदत्तस्य रुचिरम्, हरिदाससिद्धान्तवागीशस्य कुसुमप्रतिमा, कृष्णमोहनस्य लक्ष्मीः, शेषराजशर्मरेग्मीमहाभागस्य चन्द्रकला, लोकमणिदाहालस्य कलाख्या च ज्ञाताः ।
साहित्यदर्पणस्य परवर्तिग्रन्थेषु प्रभावः सुतरां स्पष्टः। रसविवेचनेऽलङ्कारनिरूपणे काव्यभेदविवेके च तत्पश्चाद्वर्तिनः साहित्यदर्पणमेवोपजीवन्ति इति नात्युक्तिः।
शारदातनयः
[सम्पादयतु]शारदातनयस्य भावप्रकाशनमपि समुल्लिखितं भवति । स हि दशरूपक-शृङ्गारप्रकाश-काव्यप्रकाशादिस्थकारिकां यथास्वरूपमृद्धरति तेन स मम्मटपरवर्ती । तथैव १३७७ मितवैक्रमाब्दमभितः स्थितिमान् शिङ्गभूपालस्तस्य भावप्रकाशनं स्मरतीति तस्य परसीमा स्थितिकालस्येयमेव । तेन हि शारदातनयस्य स्थितिकालो विक्रमानन्तरचतुर्दशशतकपूर्वार्द्धमतः । भावप्रकाशनं हि नाटकविषयसम्बद्धम् । अत्र हि भावाः, रसस्वरूपं, रसभेदाः, नायकनायिकाविवेकः, नायिकाभेदाः, शब्दार्थसम्बन्धः, नाट्येतिहासः, दशरूपकं, नृत्यभेदाः, नाट्यप्रयोगवर्णनञ्च क्रमेण विवेचितविषयाः ।
शिङ्गभूपालः
[सम्पादयतु]आन्ध्रमण्डलगृहीतजनुषो विक्रमानन्तरचतुर्दशशतकमितस्थितिकालवतः शिङ्गभूपालस्य रसार्णवसुधाकरो हि नाट्यविषयको ग्रन्थः । तत्र हि रञ्जकरसिक-भावाख्यास्त्रयः उल्लासाः ।
भानुदत्तः
[सम्पादयतु]मैथिलस्य,गणेश्वरपुत्रस्य वैक्रमपञ्चदशशतकस्थितिमतो भानुदत्तस्य रसमञ्जरी अप्येतद्विषयको ग्रन्थः । अत्र हि रससम्बन्धविषयो निरूपितो विशेषत आलम्बनाधृत्य । ग्रन्थस्यास्य एकादशाधिकाष्टीको लभ्यन्ते यत्र गोपालाचार्यस्य (१४८५ वै० ) विमलाख्या टीका प्रसिद्धा। शेषास्तु अनन्तपण्डितस्य व्यङ्ग्यार्थकौमुदी, नागेशभट्टस्य प्रकाशः, शेषचिन्तामणेः परमिलः, गोपालभट्टस्य रसिकरञ्जिनी, विश्वेश्वरपर्वतीयस्य समञ्जसा, रङ्गशायिनः, आमोदः, आनन्दशर्मणो व्यङ्ग्यार्थदीपिका, महादेवस्य भानुभावप्रकाशः, व्रजराजस्य रसिकरञ्जनम्, अज्ञातकर्तृकः स्थूलतात्पर्यार्थविवेकः, बदरीनाथस्य सुरभिश्च ।
रूपगोस्वामी
[सम्पादयतु]चैतन्यमहाप्रभुशिष्यस्य वृन्दावनवासिनो रूपगोस्वामिनः मितवैक्रमाब्दमभितः स्थितिमतो वङ्गाभिजनस्य नाटकचन्द्रिका उज्ज्वलनीलमणिश्च नाट्यविषयकग्रन्थौ । नाटकचन्द्रिकायां हि नाटकसम्बद्धलक्षणनायकसन्धिसन्ध्यङ्गानां सम्यग्विवेचनमस्ति, उदाहरणानि च ललितमाधवाद्गृहीतानि । अस्य हि बलदेवविद्याभूषणस्य विश्वनाथभट्टाचार्यस्य व्याख्ये स्त इति केषाञ्चन मतम्। एतदतिरिक्तं हि रूपगोस्वामिनः सन्त्यन्ये पञ्चदशग्रन्थाः।
उज्ज्वलनीलमणिस्तु रससम्बद्धो ग्रन्थः । अत्र हि नायकभेदास्तत्सहायभेदाः, हरिप्रियाप्रकरणं, राधाप्रकरणं, नायिकाभेदाः, यूथेश्वरीभेदाः, दूतीभेदाः, सखीप्रकरणं, उद्दीपनविभावाः, अनुभावाः, सात्विकभावाः, व्यभिचारिभावाः स्थायिभावाः, शृङ्गारविषयश्चेति प्रतिपादितविषयाः । अस्य हि जीवगोस्वामिनो लोचनरोचनी, विश्वनाथस्य उज्ज्वलनीलमणिकिरणश्च ज्ञातव्याख्याग्रन्थौ।
उभावेव ग्रन्थौ भरतमनुसरतो न तु विश्वनाथं विशेषतः गोपीकृष्णसम्बन्धे । विश्वनाथस्तत्र रसाभासमेव मन्यते गोपीनाथस्तु नायिकात्वेन, किन्तु रूपस्तु तन्न मन्यते । यथोक्तम् -
यत्परोढोपपत्योस्तु गौणत्वं कथितं बुधैः।
तत्तु कृष्णञ्च गोपीञ्च विनेति प्रतिपाद्यताम्।।
केशवमिश्रः
[सम्पादयतु]केशवमिश्रस्य अलङ्कारशेखरो हि अलङ्कारसम्प्रदायस्यान्यतमो ग्रन्थः । ग्रन्थोऽयं कारिकारूपेण निबद्धः । अत्र हि काव्यलक्षणं, रीतिः, शब्दशक्तिः, अष्टविधपददोषाः, अष्टादशविधवाक्यदोषाः, अष्टविधार्थदोषा, पञ्चविधशब्दगुणाः, चतुर्विधार्थगुणाः, दोषाणां गुणभावः, अलङ्काराः, रूपकाणि च विवेचितानि । ग्रन्थोऽयमष्टासु रत्नाख्येषु अध्यायेषु विभक्तः । तत्र हि ग्रन्थकारस्यैव स्वोपज्ञा वृत्तिः लभ्यते । स हि शौद्धोदनिप्रणीतमलङ्कारशास्त्रं स्मरति किन्तु तत्सम्प्रति नैवोपलभ्यते। केशवमिश्रो हि १६२० मितवैक्रमाब्दमभितः स्थितिमानिति तस्य काङ्गडामहीपालमाणिक्यचन्द्रसमकालिकत्वाज्ज्ञायते ।
कर्णपूरः
[सम्पादयतु]विक्रमानन्तरं १५८१ मितवत्सरजातस्य वङ्गाभिजनस्य अलङ्कारकौस्तुभः काव्यशास्त्रपरम्परायामन्यतमो ग्रन्थः । अत्र हि दश किरणाख्या अध्यायाः । अत्र हि काव्यलक्षण-ध्वनि-गुणीभूतव्यङ्ग्य-रस-भाव-गुणशब्दार्थालङ्कार-दोष-रीतयः सप्रपञ्चं निरूपिताः सन्ति ।
कविचन्द्रः
[सम्पादयतु]कर्णपूरात्मजस्य कविचन्द्रस्य 'काव्यचन्द्रिका' षोडशप्रकाशेषु विभक्ता ।
शोभाकरमित्रः
[सम्पादयतु]शोभाकरमित्रस्य अलङ्काररत्नाकरः सूत्रशैल्यां निबद्धः । अत्र हि भामहोक्तदिशैव षट् शब्दालङ्काराः शताधिका अर्थालङ्काराश्च निरूपिताः । अस्य ग्रन्थस्य हि ग्रन्थकारेणैव व्याख्याऽपि प्रणीता। अस्य स्थितिकालस्तु चतुर्दशशतकमितवैक्रमाब्दानभितः ।
अप्पयदीक्षितः
[सम्पादयतु]अप्पयदीक्षितस्योदयः काव्यशास्त्रेऽपि चमत्कारातिशयं पुष्णाति । तस्य हि चतुरधिकशतमिता ग्रन्थाः सन्तीति ज्ञायते । तेषु हि चित्रमीमांसा, कुवलयानन्दः, वृत्तिवार्तिकञ्च काव्यशास्त्रसम्बद्धग्रन्थाः । अप्पयदीक्षितो हि दाक्षिणात्य इति तु प्रसिद्धमेव । तस्य च स्थितिकालो वैक्रमसप्तदशशतकमभितोऽनुमितः। असौ हि द्रविडो भारद्वाजगोत्रीयो रङ्गनाथस्यात्मजः । वेङ्कटेशस्तस्य पोषकः । अस्य हि जन्म केचित् १५७७ तमे, अपरे १६०७ तमे, केचित् १५११ तमे, केचित् १६२५ तमे वैक्रमाब्दै मन्यन्ते । एतावत्तु निश्चितमेव यद् अप्पयदीक्षितो द्विसप्ततितमेऽब्दै शिवसायुज्यमाप्तवानिति । स हि ४७३८ मित-कलिगताब्दपर्यन्तं जीवित एवासीदिति नीलकण्ठविजयाज्ज्ञायते । स च कालः १६९६ वैक्रमाब्दसमः । तेन हि तस्य जनिः १६२५ मितवैक्रमाब्दमभित एव सम्भवति इति वायुनन्दनपाण्डेयस्य विवेचना साध्वी दृश्यते । कुवलयानन्दो हि तस्य प्रस्तुतविषयसम्बद्धा प्रथमा रचना, ततश्च चित्रमीमांसा, ततो हि वृत्तिवार्तिकमिति ।
कुवलयानन्दो हि अर्थालङ्कारसम्बद्धो ग्रन्थोऽर्थादर्थचित्रमीमांसेयम् । अत्र हि १२३ अलङ्काराः निरूपिताः, यत्र षण्णवतिस्तु जयदेवस्य चन्द्रालोकाद्यथावदेव गृहीताः, शेषाः सप्तदश स्वयमेवोद्भाविता वाऽन्येभ्यो गृहीताः। ते च प्रस्तुताङ्कुर-अल्पकरक-दीपक-मिथ्याध्यवसिति-ललित-अनुज्ञा-मुद्रा-रत्नावली-विशेषक-गूढोक्ति-विवृतोक्ति-युक्ति-लोकोक्ति-छेकोक्ति-निरुक्ति-प्रतिषेधविधयः । ग्रन्थस्यास्य गङ्गाधरस्य रसिकरञ्जनी (१७०५ वै०) तत्सदुपह्ववैद्यनाथस्य अलङ्कारचन्द्रिका, आशाधरस्य अलङ्कारदीपिका, नागेशभट्टस्य अलङ्कारसुधा, विषमपदव्याख्यानं षट्पदानन्दस्य, न्यायवागीशभट्टाचार्यस्य काव्यमञ्जरी, मथुरानाथस्य कुवलयानन्दटीका, सुखीरामस्य कुवलयानन्दटिप्पणं, देवीदत्तस्य लघ्वलङ्कारचन्द्रिका, बेङ्गलसूरेः बुधरञ्जनी च व्याख्याग्रन्थाः।
चित्रमीमांसा हि अप्पयदीक्षितस्य द्वितीया कृतिः। ग्रन्थोऽयमर्थालङ्कारसम्बद्धः । तत्र प्रसङ्गात्काव्यभेदोऽपि वर्णितः । अत्र हि उपमा-उपमेयोपमा-अनन्वय-स्मरण-रूपक-परिणाम-सन्देह-भ्रान्तिमद्-उल्लेख-अपह्नति–उत्प्रेक्षा-अतिशयोक्तिसंज्ञिता द्वादशैवालङ्कराः निरूपिताः । ग्रन्थस्यास्य धरानन्दस्य सुधाख्या, बालकृष्णस्य गूढार्थप्रकाशिका, अज्ञातकर्तृकश्चित्रालोकः, लोकमणिदाहालप्रणीता लीलाख्या च व्याख्याग्रन्थाः । चित्रकाव्यविवेचकोऽयं ग्रन्थः स्वप्रकृतौ उत्कृष्टः मन्यते । ग्रन्थोऽसावपूर्ण एव स्थितः । वृत्तिवार्तिकमस्य तृतीयो ग्रन्थः प्रकरणसम्बद्धः । अत्र हि द्वावेव परिच्छदौ यत्र प्रथमे मुख्यशक्तिनिर्णयो द्वितीये तु लक्षणाशक्तिनिर्णयः कृतः । ग्रन्थोऽयमपि अपूर्ण एव दृश्यते ।
इतः पूर्वमेव सम्भवतो विक्रमानन्तरकादशोत्तरार्द्ध एव स्थितिमता धर्मदाससूरिणा विदग्धमुखमण्डनं परिकल्प्य शब्दचित्रमीमांसा प्रणीताऽऽसीत् । ग्रन्थोऽसौ चतुर्षु परिच्छेदेषु विभक्तः । अत्र हि प्रहेलिकास्तथाऽनुक्रमेण व्यस्तजातिः, भेद्यभदेकजातिः, चित्रजातिः, प्रहेलिकाजातिः, कर्तृगुप्तं, कर्मगुप्तं, करणगुप्तं, सम्प्रदानगुप्तमपदिानगुप्तं, सम्बन्धगुप्तमधिकरणगुप्तं, मात्राच्युतकमित्यादयः काव्यप्रकाराः वर्णिताः सन्ति । अन्यस्यास्य सन्त्यनेकाष्टीकाः यासु जिनप्रभस्य टीका, स्वात्मारामस्य टीका, ताराचन्द्रस्य विन्मनोहरा, १९९ नरहरिभट्टस्य श्रवणभूषणं, गौरीकान्तस्य टीका, त्रिलोचनस्य सुबोधिनी, दुर्गादासस्य व्याख्या, शिवचन्द्रस्य विवृतिः, परमेश्वरानन्दस्य व्याख्या, शेषराजशर्मरेग्मीमहाभागस्य चन्द्रकलाख्या च प्रसिद्धाः कतिपयास्तु तत्रापि नामतः श्रुता एव । विश्वेश्वरपण्डितस्य कवीन्द्रवर्णाभरणं परम्परामेवेमामनुसरति ।
जगन्नाथः
[सम्पादयतु]जगन्नाथस्य पण्डितराजस्याऽभ्युदयः काव्यशास्त्रे नव्यपरम्परोद्योतकः । तस्य हि रसगङ्गाधरः काव्यसिद्धान्तान् नव्यन्यायपरम्परया व्याख्याति । पण्डितराजस्य स्थितिकालोऽपि नैव विवादबाह्यः । स हि शाहजहानस्य सभापण्डित आसीदिति तस्य शाहजहानसमकालिकत्वं, शाहजहानश्च १६८५ मितवैक्रमाब्दे राज्यमवाप च्यावितश्च राज्यात् १७१५ मितवैक्रमाब्दे इति पण्डितराजस्य वैक्रमसप्तदशशतकोद्भवत्वं प्रतीयते १६९८ मितवैक्रमाब्दे आसफअली-महाशयस्य निधनानन्तरं पण्डितराजो देहली तत्याजेति जनश्रुतिः। स स्वयमेव 'दिल्लीवल्लभपाणिपल्लवतले नीतं नवीनं वयः।' इति कथयति इति मुगलप्रासादप्रवेशकाले स न्यूनमपि त्रिंशद्वर्षवयस्कस्तु आसीदेव तत्र तेन पञ्चदशवर्षाणि व्यतीतानि । तेन यदा स देहलीं त्यक्तवांस्तदा स पञ्चचत्वारिंशद्वर्षवयस्क आसीदिति तस्य जन्म १६५५ मितवैक्रमाब्दमभितोऽनुमातुं शक्यते । १७०० मितवैक्रमाब्दमभितोऽप्पयदीक्षितस्तनु तज्याजेति तयोरपि समकालिकत्वं सिध्यति । पण्डितराजो हि १७२० मितवैक्रमाब्दपर्यन्तं जीवित एवाऽऽसीदिति तस्य आसफविलासतो ज्ञायते ।
पण्डितराजो हि तैलङ्गो ब्राह्मणः । पिताऽस्य पेरुभट्टो माता च लक्ष्मीदेवी । अस्यानेके ग्रन्थाः ज्ञाताः सन्ति, यत्र रसगङ्गाधरः काव्यशास्त्रशम्बद्धो ग्रन्थः । ग्रन्थेऽस्मिन् द्वे एव आनने दृश्येते, ग्रन्थश्चायमपूर्ण एव । अत्र हि काव्यस्वरूपं, काव्यभेदाः, रसविवेकः, शब्दगुणानां लक्षणं, अर्थगुणानां लक्षणं, भावलक्षणं, ध्वनिविवेकः, शक्तिविवेकः, अलङ्कारनिरूपणं च प्रतिपादितविषयाः । ग्रन्थस्यास्य नागेशभट्टस्य गुरुमर्मप्रकाशः, मञ्जुनाथस्य सरला, बदरीनाथस्य चन्द्रिका, केदारनाथ-ओझामहाभागस्य रसचन्द्रिका, मधुसूदनस्य मधुसुदनी च ज्ञाताष्टीकाः। ग्रन्थस्यास्य टीकाल्पत्वेऽस्य दुरूहतैव कारणम् । नागेशस्य मर्मप्रकाशटीकामादाय बहुविधानि खण्डनमण्डनान्यपि प्रवर्तितानि दृश्यन्ते । मर्मप्रकाशो दुषितो मञ्जुनाथेन । तस्यैव मर्मोद्घाटनं कृतं जग्गूवेङ्कटाचार्येण । हरिनाथेन च तस्य कण्टकोद्धारः कृत इति ।
आशाधरः
[सम्पादयतु]आशाधरभट्टस्य अलारशास्त्रसम्बद्धास्त्रयो ग्रन्थाः प्रसिद्धाः कोविदानन्दः, त्रिवेणिका, अलङ्कारदीपिका च । तत्र कोविदानन्दो हि कविशिक्षाविषयकः, त्रिवेणिका तु अभिधालक्षणाव्यञ्जनेति त्रिविधशक्तिनिरूपिका । यथोक्तं -
"शक्तिं भजन्ति सरला लक्षणां चतुरा जनाः।
व्यञ्जनां नर्ममर्मज्ञाः कवयः कमना जनाः॥"
अलारदीपिका तु त्रिविधप्रकरणात्मिका यत्र प्रथमे हि प्रकरणे कुवलयानन्दकारिकाव्याख्या, द्वितीये हि रसवदाद्यलङ्काराः सलक्षणं निरूपिताः । परिशिष्टालङ्काराः सङ्करसृष्टादयो निरूपिताः, इत्थं हि तत्र १२५ अलङ्काराः निरूपिताः । असौ हि अप्पयदीक्षितमुपजीवतीति तस्य स्थितिकालो विक्रमानन्तराष्टादशशतकमभित इत्यनुमीयते ।
नरसिंहः
[सम्पादयतु]नरिसंहस्य भञ्जराजयशोभूषणं विद्यानाथस्य प्रतापरुद्रयशोभूषणशैल्या प्रणतोऽलङ्कारग्रन्थः । भञ्जराजो हि वैक्रमाष्टादशशतकस्थितिमान् वैसुरराज्यप्रधानामात्यः । अत्र हि सप्तविलासाख्या अध्याया येषु नायक-काव्य-ध्वनि-रस-दोष-नाटक-अलङ्काराः क्रमेण विवेचिताः।
शिवरामः
[सम्पादयतु]शिवरामत्रिपाठिनो रसत्नहारः काव्यस्य रसविषषं विवेचयति, एषः हि ग्रन्थो दशरूपकमुपजीवति । अत्र हि -
रसांश्च नायिकाभेदावस्थामान सखीगुणाः
नायकास्तत्सहायाश्चालङ्काराः सत्त्वजीस्तथा॥
सञ्चारिणः सात्त्विकाश्च भावी रीती रसाश्रिते
रसदृष्टय इत्येवं स्तवका हारगुम्फने॥ इति ।
ग्रन्थस्यास्य स्वोपज्ञा लक्ष्मीविहाराख्या टीका, लोकमणिदाहालप्रणीता केलाव्याख्या च लभ्येते । ग्रन्थकारो हि त्रिलोकचन्द्रस्य पौत्रः कुष्णरामस्य पुत्रः । स हि नागेशं स्मरतीति तस्य वैक्रमाष्टादशशतकोत्पन्नत्वं सिध्यति अस्यैव नक्षत्रमालाऽऽख्योऽपरकाव्यशास्त्रसम्बद्धग्रन्थः।
विश्वेश्वरः
[सम्पादयतु]लक्ष्मीधरतनुजस्य कूर्माचलदेशीयस्य पाण्डेयकुलभूषणस्य वैक्रमाष्टादशशतकान्तिमपादे स्थितिमतः पण्डितवरस्य विश्वेश्वरस्य सन्त्यलङ्कारसम्बद्धाः पञ्च ग्रन्थाः। अलङ्कारकौस्तुभः, अलङ्कारमुक्तावली, अलङ्कारप्रदीपः, रसचन्द्रिका, कवीन्द्रकण्ठाभरणञ्च । अलङ्कारकौस्तुभे हि एकषष्ट्यर्थालङ्कारा उपमादयो नव्यशैल्या सप्रपञ्चं विवेचिताः । अस्य हि ग्रन्थकारस्यैव स्वोपज्ञा व्याख्या लभ्यते । ग्रन्थोऽयं निर्णयसागरमुद्रणालयतो मुद्रितोऽपि दुर्लभप्राय एवं पुनः मुद्रितश्चौखम्बासुरभारतीप्रकाशनात्।
अलङ्कारमुक्तावली अलङ्कारकौस्तुभस्यैव लघुरूपम् । यथोक्तं तस्यैव प्रस्तावनायम् -
"नानापक्षविभावनकुतुमलङ्कारकौस्तुभं कृत्वा।
सुखबोधार्य शिशूनां क्रियते मुक्तावली तेषाम्॥" इति।
अलङ्कारप्रदीपश्चास्यापराकृतिः । कुवलयानन्दशैल्यामस्य गुम्फनम् । अत्र हि मूलतः १३० अलङ्कारास्तद्भेदाश्च वर्णताः । रसचन्द्रिका हि रसविवेचिका । अत्र हि रससम्बद्धो विषयः सप्रपञ्चं निरूपितोऽस्ति । अस्यैव कृतिनः रसमञ्जरीटीकाऽपि समुपलभ्यते इति ज्ञायते।
कवीन्द्रकर्णाभरणं हि शब्दचित्रसम्बद्धो ग्रन्थः । अत्र हि चत्वारः परिच्छेदाः । अत्र हि अष्टपञ्चाशन्मिता वृत्तजातय उपवर्णिताः । विदग्धमुखमण्डनप्रारब्धा हि परम्परेवानेन संरक्षिता दृश्यते । अस्य हि ग्रन्थकृत एव स्वोपज्ञा व्याख्या लभ्यते । यथोक्तम् -
प्रणम्य वाचां जननीमपवर्गा कवीन्द्रकर्णाभरणं स्वकीयम्।
विना प्रयासं प्रतिपत्तिहेतोर्विश्वेश्वरेण क्रियते स्फुटार्थम् ।। इति।
शिवदत्तः
[सम्पादयतु]एकञ्च पण्डितवरशिवदत्तप्रवीतं काव्यरसायनं, पूर्णचन्द्रविद्यारत्नस्य काव्यदीपिका, जग्गूवेङ्कटाचार्यस्य अलङ्कारतत्त्वकुवलयानन्दचन्द्रिकाचकोरश्च, मलयजपण्डितस्य साहित्यसारः (१२२७ वै०), राजराजस्य राजराजीयं, विश्वनाथस्य साहित्यसुधासिन्धुः, सुखललितस्य जल्पकल्पलता, मुग्धमेधाकरस्य पुञ्जराजस्य ध्वनिप्रबोधः, कृष्णसुधियः काव्यकलानिधिः, कृष्णशर्मणो मन्दारमण्डनञ्च, प्रभाकरस्य रसप्रदीपः, बलदेवविद्याभूषणस्य साहित्यकौमुदी, काव्यकौस्तुभश्च, राजशेखरस्य (१९ श. वै.) साहित्यकल्पद्रुमः, रत्नभूषणस्य काव्यकौमुदी, नरसिंहाचार्यस्य अलङ्कारेन्द्रशेखरः, रामसुब्रह्मण्यशास्त्रिणोऽलङ्कारशास्त्रविलासः, नराचार्यस्य काव्यसूत्रवृत्तिः, काव्यप्रकाशप्रयोगविधिः, अलङ्कारमाला च धर्मसुधियः साहित्यरत्नाकरः, शठकोपाचार्यस्य अलङ्कारपरिचयः, सुधीन्द्रयोगिनः अलङ्कारविकाशः, वीरनारायणस्य साहित्यचूडामणिः, श्रीकृष्णाचार्यस्य अलङ्कारमणिहारः, मुरारिदासस्य यशवन्तयशोभूषणञ्च काव्यालङ्कारसम्बद्धाः ग्रन्थाः।