भामहः

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
(भामह इत्यस्मात् पुनर्निर्दिष्टम्)

भामहः काव्यालङ्कारः इत्याख्यं ग्रन्थं रचितवान्। भामहस्य विषये अधिकविचाराः न उपलभ्यन्ते । परन्तु सः स्वयं तस्य ग्रन्थे कुत्रचित् अहं रक्रिलगोमिः इत्यस्य पुत्रः इति उल्लिखितवान् । रक्रिलः इति नाम बौद्धानां नाम इव विद्यते इति कारणतः एषः अपि बौद्धः स्यात् इति ऊहः क्रियते । अभिनवगुप्तस्य लोचनग्रन्थे भामहस्य प्रस्तापः कृतः । आनन्दवर्धनस्य ध्वन्यालोके अपि भामहस्य वाक्यम् उद्धृतम् । बौद्धात् धर्मकीर्तेः सकाशात् अहम् उपकृतः इति स्वयम् एकत्र उक्तवान् इत्यतः ज्ञायते यत् एषः क्रि.शक स्पतमे शतमाने आसीत् इति ।

कालः[सम्पादयतु]

भामहः प्राचीनालङ्कारिकेषु अन्यतमः । यद्यपि भामहदण्डिनोः पौर्वापर्यं भामहस्य स्थितिकालश्च सर्वाधिकविवादविषयः सम्प्रत्यपि अनिर्णीतश्च तथापि विदुषां बहुमतं भामहस्य काव्यशास्त्राद्याचार्यत्वं समर्थयति । भामहो हि दण्डिनोऽसदृशमेव स्वपूर्ववर्तिनः सम्बद्धविदुषोऽसकृत्स्मरति । स हि स्वपूर्ववर्ति-काव्यशास्त्राचार्यत्वेन मेधाविनं स्मरति काव्यकारेषु च रामशर्माणं[१] शाखवर्धनं[२] च। शाखवर्धनस्य "राजमित्रं” हि यथोदितकाव्यलक्षणसम्मतमासीत् । रामशर्मणश्च रत्नाहरणं नाम काव्यमासीत् । तस्यैव अच्युतोत्तरे प्रहेलिकाऽप्यासीत् विवेचिताऽप्यासीत् । तद्विपरीतं दण्डी न कमपि नाम्नोद्धरति । किन्तु मेधाविशाखावर्धनरामशर्मणां देशकालविषये न किमपि ज्ञातमस्ति सम्प्रत्यपि । केचिद्धि भामहीयकाव्यालङ्कार गतानि -

"अयुक्ति सद्यथा दूता, जलभृन्मारुतेन्दवः ।

तथा भ्रमरहारोतचक्रवाकशुकादयः॥

अवाचो व्यक्तवाचश्च दूरदेशविचारिणः।

कथं दूत्यं प्रपद्येन्निति युक्त्या न युज्यते॥

यदि चोकण्ठया यत्तदुन्मत्तं इव भाषते।

तथा भवतु भूम्नेदं सुमेधोभिः प्रयुज्यते॥"[३]

इत्यादीनि पद्यानि कालिदासस्य मेघदूतं सङ्केतयन्ति इति मन्यन्ते, किन्तु शाखवर्धनरामशर्मप्रभृतिकवीनां नामभिरेव स्मर्ता भामहः सर्वरससिद्धस्य कालिदासस्य नाम कथं न गृह्णातीति तेऽपि न समादधति । वस्तुतस्तु मेघादीनां दूत्यं लोकेऽनादिकालादेव किंवदन्तीरूपेण प्रचलितं दृश्यते । श्रूयते हि पुरा पारावतकाकशुकादयोऽपि प्रेमिणोर्दूत्यं कुर्वन्ति स्म । तेन नैतावन्मात्रेण भामहः कालिदासं स्मरतीति शक्यते निश्चयेन वक्तुम् । तदन्यत्र न कुत्रापि कालिदासीयग्रन्थानां छायापि दृश्यते भामहग्रन्थे केचिद्धि काव्यालङ्कारगते -

शिष्टप्रयोगमात्रेण न्यासकारमतेन वा।

तृचा समस्तषष्ठिकं न कथञ्चिदुदाहरेत्॥

सूत्रज्ञापकमात्रेण वृत्तहन्ता यथोदितः।

अङ्केन च न कुर्वीत वृत्तिं तद्गमको यथा॥[४]

इति-पद्ये समाधृत्य भामहः काशिकाविवरणपञ्जिकाकारं जिनेन्द्रबुद्धिं स्मरतीति कथयन्ति । किन्तु नैतदपि विश्वसनीयं मन्यते, यतो हि न्यासपदं तु व्याख्याग्रन्थनिमित्तं पूर्वकालादेव प्रचलितं दृश्यते । बाणभट्टो हि हर्षचरिते 'कृतगुरुपदन्यासाः' इति न्यासं स्मरति यः शङ्करेण 'कृतोऽभ्यस्तो गुरुपदे दुर्बोधशब्दे न्यासो वृत्तिविवरणं यैः' इति व्याख्यातोऽस्ति । निश्चयमेव जिनेन्द्रबुद्धेः बाणपूर्ववतत्वमनुमन्यते न कोऽपि ।

एवमेव ध्वन्यालोककार आनन्दवर्धनः शब्दशक्त्युद्भवानुरणनरूपप्रकारसमाश्रयेणार्थस्य नवत्वप्रतिपादनाय 'धरणीधारणायाधुना त्वं शेषः' इति हर्षचरितगतं वाक्यमुद्धृत्य तस्य प्राचीनोदाहरणे भामहीयकाव्यालङ्कारगतम् -

शेषो हिमगिरिस्त्वञ्च महान्तो गुरवः स्थिराः।

यदलङ्घितमर्यादा श्वतन्तीं बिभ्रते भुवम्।।[५]

इति पद्यं प्रस्तौति । अनेन हि भामहस्य बाणपूर्ववर्तत्वं मन्यते।

तथैव भामहग्रन्थे प्रतिपादितानि प्रमाणद्वैविध्यं, प्रत्यक्षस्य कल्पनापोढत्वं कल्पनायाश्च नामजात्यादियोजनारूपत्वं चैतानितथैव लिङ्गस्य त्रैरूप्यं, दुषणस्य न्यूनताद्युक्तित्वं, जातीनाञ्च दूषणायां सत्त्वं च दिङ्नागग्रन्थाद् गृहीतानि इति मत्वा केचन तं हि वैक्रमचतुर्दशतकोत्तरार्द्धभवदिङ्नागाचार्याद् वसुबन्धुशिष्यादुत्तरवर्तिनं मन्यन्ते । वस्तुतोऽस्मिन् न तथा कस्याऽपि विमतिस्तथापि न्यायशास्त्रमेव दिङ्नागायत्तमिति मतमपि तथैवाशोभनीयं यथा हि मङ्गलाचरणगतसर्वज्ञपदेन भामहस्य बौद्धत्वसमर्थनम् । न च भामहो बौद्धो न च न्यायशास्त्रं दिङ्नागायत्तम् । दिङ्नागाचार्यात्पूर्वमपि आसन्ननेके नैयायिकाः । स्वयं भामहोऽपि नैयायिक एवेति तद्ग्रन्थाध्ययनतो ज्ञायते । तने तावन्मात्रेण न शक्यते भामहस्य दिङ्नागाधमर्णतां स्वीकर्तुम् । अपरञ्च काव्यालङ्कारगतम् -

काव्यान्यपि यदीमानि व्याख्यागम्यानि शास्त्रवत्।

उत्सवः सुधियामेव हन्त दुर्मेधसो हताः ।[६]

इति कथनं भट्टिकाव्यस्य -

व्याख्यागम्यमिदं काव्यमुत्सवः सुधियामलम्।

हता दुर्मेधसश्चास्मिन् विद्वत्प्रियतया मया।।[७]

इत्यनेन पद्येन संवादी इत्यनुमीयं भामहं भट्टिपरवर्तिनं मन्यन्ते । किन्तु प्रसङ्गतस्तु तदपि नैव सिध्यति । तत्प्रसङ्गश्चेत्थम् -

नानाधात्वर्थगम्भीरा यमकव्यपदेशिनी।

प्रहेलिका सा ह्युदिता रामशेर्माच्युतोत्तरे॥

काव्यान्यपि यदीमानि व्याख्यागम्यानि शास्त्रवत्।

उत्सवः सुधियामेव हन्त दुर्मेधसो हताः॥[८] इति ।

एतद्धि भामहस्य नष्टेम् । तेनैवोक्तम् -

गूढशब्दाभिधानञ्च न प्रयोज्यं कदाचन ।

सुधियामपि नैवेदमुपकाराय कल्पते।।[९] इति ।

एवमेव काव्यालङ्कारगतो हि -

विजिगीषुमुपन्यस्य वत्सेशं वृद्धदर्शनम्।

तस्यैव कृतिनः पश्चादभ्यधाच्चरशून्यताम्।।

अन्तर्योधसमाकीर्णं सालङ्कायननेतृकम्।

तथाविधं गजच्छद्म नाज्ञासीत् स स्वभूगतम्।।

यदि वोपेक्षितं तस्य सचिवैः स्वार्थसिद्धये।

अहो नु मन्दिमा तेषां भक्तिर्वा नास्ति भर्तरि।।

शरा दृढधनुर्मुक्ता मन्युमद्भिररातिभिः।

मर्माणि परिहृत्यास्य पतिष्यन्तीति काऽनुमा।।

होतोऽनेन मम भ्राता मम पुत्रः पिता मम।

मातुलो भागिनेयश्च रुषा संरब्धचेतसः।।

अस्यन्तो विविधान्याजावायुधान्यपराधिनम्।

एकाकिनमरण्यानां न हन्युर्बहवः कथम्।।

नमोऽस्तु तेभ्यो विद्वद्भ्यो येऽभिप्रायं कवेरियम् ।

शास्त्रलोकावपास्यैव नयन्ति नयवेदिनः।।

सचेतसो वनेभस्य चर्मणा निर्मितस्य च।

विशेषं वेद बालोऽपि कष्टं किन्नु कथं नु तत्॥[१०]

इति प्रसङ्गस्तु निश्चयमेव भासस्य प्रतिज्ञायौगन्धरायणेन संवदते । तत्र हि प्रथमेऽङ्के यौगन्धरायणं प्रति हंसकवाक्ये “ततः प्रत्यागतप्राणमिदानीं भर्तारं प्रेक्ष्यानेन मम भ्राता हतोऽनेन मम पिताऽनेन मम सुतो मम वयस्य इति अन्यथा भर्तुः पराक्रमं वर्णयन्तः सर्वतोऽभिद्रुतास्ते पापाः।” इत्युक्तमस्ति । तथैव शालङ्कायनोपस्थितिरपि । अनेनः भामहस्य भासपरवर्तित्वं मन्यते। न चैषा विक्रामानन्तरप्रथमशतकभवसातवाहनसभासदो गुणाढ्यस्य बृहत्कथायाः वा अनन्तराजसभासदो विक्रमानन्तरं १०८५-११३७ मितवत्सरानभितः स्थितिमतः क्षेमेन्द्रस्य बृहत्कथामज्जर्या वा तदनन्तरवर्तिनः सोमदेवस्य कथासरित्सागरस्य वा समालोचना मन्तव्या, तत्र काव्यस्यैव समालोचनाप्रसङ्गात् । यद्यपि कथाऽपि काव्यस्यैव भेदस्तथापि प्रसङ्गस्तु नाट्यमेवापेक्षते। भासो हि कालिदासपूर्ववर्तीति तु तस्य मालविकाग्निमित्रे निम्न कथनाद् मन्यते -

"प्रथितयशसां भाससौमिल्लककविपुत्रादीनां प्रबन्धानतिक्रस्य वर्तमानकवेः कालिदासस्य क्रियायां कथं बहुमानः” इति ।

भामहो हि भासं समीक्षते, कालिदासो हि भासं स्मरति, भामहस्तु तं, नैवोद्धरतीति भामहस्य भासकालिदासयोः अन्तर्वतिकालस्थितिमत्त्वं मन्यते । सामान्यतो भासस्य स्थितिकालो विक्रमपूर्वतृतीयशतकादर्वाचीनस्तु नैव सम्भवति यतस्तत्रत्या हि भाषा भाषितरूपा दृश्यते । तदा नीन्तना भाषा पण्डितयुगे नैव प्रविष्टाऽऽसीत् । सा हि कालिदासप्रयुक्तभाषापेक्षयाऽपि सरला । संस्कृतभाषायाः स्थितिरियं विक्रमपूर्वतृतीयशतकपर्यन्तं दृश्यते ।

भामहदण्डिनोः पौर्वापर्यमादायापि पण्डिता विवदन्ते । केचिद्भामहं दण्डिपूर्ववर्तिनं मन्यन्तेऽपरे तु तद्विपरीतमेव । उभयोरेव ग्रन्थयोः परस्परसंवादिविषयस्य बहुलता तु दृश्यते किन्तु कोऽपि नापरं नामतः स्मरति । दण्डी तु न केवलं भामहमेव अपि तु न कमपि नामतः उद्धरति किन्तु भामहस्तु मेधाविरामशर्मशीखवर्धनप्रभृतीन् स्वपूर्ववतनो नामत एव स्मरति तथापि नैव दण्डिनम् । दण्डी हि काव्यादर्शो स्वभावोक्तिमप्यलङ्कारं मन्यते भामहस्तु -

"स्वभावोक्तिरलङ्कार इति केचित्प्रचक्षन्ते"[११] इति कथयित्वा तन्नैव स्वीकरोति । अनेन भामहो हि दण्डिनो मतं सङ्केतयतीति केषाञ्चिन्मतम् । किन्तु दण्डी हि अवन्तिसुन्दरीकथायां बाणभट्टं मयूरञ्च स्मरति। भामहस्तु बाणपूर्ववर्तित्वेन ध्वन्यालोके स्मर्यत इति तच्चिन्त्यमेव ।

वस्तुतस्तु भामहो हि भासकालिदासान्ततिकालस्थितिमानतः स विक्रमप्रथमशतकादनन्तरवर्ती तु कदापि न सम्भवति इति बहूनां विचारः। भामहस्य सम्प्रत्येक एव ग्रन्थो लभ्यते काव्यालङ्कारो नाम । तत्र हि षट् परिच्छेदा यत्र प्रथमे काव्यशरीरनिर्णयः, द्वितीयेऽलङकृतिविवेकः तृतीये विशिष्टालङ्कृतिविचारः, चतुर्थं दोषनिर्णयः, पञ्चमे न्यायविचारः, षष्ठे तु शब्दशुद्धिविवेकश्च विवेचितविषयाः ।

भामहो हि स प्रथमः (ज्ञातः) आचार्यो येन काव्यशास्त्रं नाट्यशास्त्रात्पृथगुद्धत्य स्वतन्त्रशास्त्रत्वेन व्याख्यातम् । स हि यत्र कुत्र स्वपर्ववर्तिनः आचार्यानप्युद्धरति परे ‘कैचित्' इत्यादिपदैः मेधाविनं तु नामत एव अपि किन्तु तेषु हि एकस्यापि ग्रन्थस्यानुपलब्धेः सर्वे तेषां विषये न किञ्चिदपि वक्तुं प्रभवन्ति। भरतेन हि उपमारूपकदीपकाख्याश्चत्वार एव नाट्यालङ्काराः विवेचिताः दृश्यन्ते, भामहस्तु यमकानुप्रासौ द्वौ शब्दालङ्कारौ रूपक-दीपक-उपमा-आक्षापान्तरन्यासव्यतिरेकविभावनासमासोक्त्यतिशयोक्तियथासङ्ख्योत्प्रेक्षाप्रोयोर-सवदोजस्विपर्यायोक्तसमाहितोदात्तश्लिष्टापह्नुति-विशेषोक्तिविरोधतुल्ययोगिताप्रस्तुतप्रशंसाव्याजस्तुतिनिदर्शनोपमारूपकोपमेयोपमासहोक्तिपरिवृत्तिससन्दैहानन्ययोत्प्रेक्षावयसंसृष्टिभाविकत्वाशीःप्रभृतयरर्थालङ्काराश्च काव्यालङ्कारत्वेन निरूपयति । तथानिरूपणे सः -

"गिरामलङ्कारविधिः सुविस्तरः स्वयं विनिश्चित्य धिया मयोदितः॥”

इति बहूनामलङ्काराणां स्वप्रख्यापितत्वमुद्घोषयति। तत्रापि भामहो हेतुसूक्ष्मलैशाख्यानलङ्कारत्वेन नैव गृह्णाति यदा हि दण्डी तानेव वाचामुत्तमभूषणत्वेन स्वीकृत्य व्याख्याति । यदि भामहो दण्डिपूर्ववर्ती तदा सः -

हेतुश्च सूक्ष्मोलेशंश्च नालङ्कारतया मतः।

समुदायभिधानस्य वक्रोक्त्यनभिधानतः।।[१२]

इति कस्य मतं दूषयति, तथैव - 'स्वभावोक्तिरलङ्कार इति केचित्प्रचक्षते।' इति कं सङ्केतयति । एवमेव यदि हि दण्डी भामहपूर्ववर्ती तदा हि सः - 'इति वाचामलङ्काराः दर्शिताः पूर्वसूरभिः।'[१३] इति कान् हि स्मरति, इति तु सम्प्रत्यपि न सम्यङ्निर्णीतम् । एतदनुमीयते यद्भरतभामहयोरन्तराले आसन्ननेके अलङ्कारशास्त्रिणो येषु मेधाविसंज्ञितोऽन्यतमो यं हि भामहः सादरं स्मरति ।

परवर्तिषु ग्रन्थेषु भामहो हि सश्रद्धं स्मृतो दृश्यते । अप्पयदीक्षित-अभिनवगुप्त-आनन्दवर्धन-केशवमिश्र-नमिसाधु-प्रतिहारेन्दु-राजप्रेमचन्द्र-भोजराज-मम्मट-मल्लिनाथ-रुद्रट-वल्लभ-वामन-विश्वेश्वर-हेमचन्द्र-प्रभृतिविदुषां ग्रन्थेषु भामहीयवाक्यान्युतानि लभ्यन्ते । कथ्यते हि दण्ड्याचार्योऽपि भामहमुद्धरति निम्नाङ्कितकथने

क्रमः श्लोकः काव्यादर्शे भामहकाव्यालङ्कारे
१. अद्य या मम गोविन्द जाता त्वयि गृहागते।

कालेनैषा भवेत्पीतिस्तवैवागमनात् पुनः।

(२/२६६) (३/५)
२. हिमापहामित्रधरैर्याप्तं व्योमाभिनन्दति । हिमा.....व्योमेत्यवाचकम् । (३।१२०) (१/४१)
३. अपार्थं व्यर्थमेकार्थं ससंशयमपक्रमम्।

शब्दहीनं यतिभ्रष्टं भिन्नवृत्तं विसन्धिकम्।।

(३/१२५) (४/१)
४. देशकालकलालोकन्यायागमविरद्धि च । (३/१२६) (४/२)
५. समुदायार्थशून्यं यत्तदपार्थमितीष्यते । (३/१२८) (४/८)

भामहो हि काश्मीरो रक्रिलगोभिसूनुरिति तस्यैव काव्यालङ्कारपुष्पिकायाः वाक्याज्ज्ञायते । यथोक्तम् -

अवलोक्य मतानि सत्कवीनामवगम्य स्वधिया च काव्यलक्ष्य।

सुजनावगमाय भामहेन ग्रथितं रक्रिलगोभिसूनुनेदम्।[१४]

काव्यालङ्कारविषये इदमुक्तमस्ति -

षष्ठ्या शरीरं निर्णीतं शतषष्ठ्या त्वलङ्कृतिः।

पञ्चाशता दोषदृष्टिः सप्तत्या दोषनिर्णयः।।

षष्ठ्या शब्दस्य सिद्धिः स्यादित्येव वस्तुपञ्चकम् ।

उक्तं षड्भिः परिच्छेदैर्भामहेन क्रमेण वा ।। इति अस्य हि उद्भटस्य भामहविवरणं व्याख्याग्रन्थः।

विशेषाः[सम्पादयतु]

भामहः शब्दार्थसहितौ काव्यम् इति काव्यस्य लक्षणं भणितवान् । भरतस्तु दशगुणाम् प्रतिपादितवान् परम् एषः गुणत्रयमेव प्रतिपादितवान् । अनुप्रासादयः शब्दालङ्काराः, उपमादि अर्थालङ्काराः मिलित्वा ३८ अर्थालङ्कारान् निरूपितवान् । हेतुः, सूक्ष्मलेशः इत्यादीनाम् अलङ्कारत्वं निषेधितवान् । अलङ्कारशास्त्रे वक्रोतिसम्प्रदायस्य प्रवर्तकः भामहः इत्युच्यते ।

सम्बद्धाः लेखाः[सम्पादयतु]

बाह्यसम्पर्कतन्तुः[सम्पादयतु]

सन्दर्भाः[सम्पादयतु]

  1. २/५८
  2. २/४७
  3. १।४२-४४
  4. ६।३६,३७
  5. ३/२८
  6. २।२०
  7. भट्टिकाव्यम् २२/३४
  8. भट्टिकाव्यम् २/१९,२०
  9. १।४५
  10. ४॥३९-४६
  11. भामहालङ्कारः १/९३
  12. २/८६
  13. २/७
  14. ६।६४
"https://sa.wikipedia.org/w/index.php?title=भामहः&oldid=481697" इत्यस्माद् प्रतिप्राप्तम्